मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — भागवतमाहात्म्यम्, अध्याय १

3
वैष्णवखण्डः · भागवतमाहात्म्यम् · 1

शाडिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनम्

अथ श्रीमद्भागवतमाहात्म्यं प्रारभ्यते

व्यास उवाच

श्रीसच्चिदानन्दघनस्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे ॥

विश्वोद्भवस्थाननिरोधहेतवे नुमो वयं भक्तिरसाप्तयेऽनिशम्

॥१॥

नैमिषे सूतमासीनमभिवाद्य महामतिम् ॥

कथामृतरसास्वादकुशला ऋषयोऽब्रुवन्

॥२॥

ऋषय ऊचुः

वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ॥

अभिषिच्य गते राज्ञि तौ कथं किं च चक्रतुः

॥३॥

सूत उवाच

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

॥४॥

महापथं गते राज्ञि परीक्षित्पृथिवीपतिः ॥

जगाम मथुरां विप्रा वज्रनाभदिदृक्षया

॥५॥

पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ॥

अभिगम्याभिवाद्याथ निनाय निजमन्दिरम्

॥६॥

परिष्वज्य स तं वीरः कृष्णैकगतमानसः ॥

रोहिण्याद्या हरेः पत्नीर्ववन्दायतनागतः

॥७॥

ताभिः सम्मानितोऽत्यर्थं परीक्षित्पृथिवीपतिः ॥

विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह

॥८॥

श्रीपरीक्षिदुवाच

तात त्वत्पितृभिर्नूनमस्मत्पितृपितामहाः ॥

उद्धृता भूरिदुःखौघादहं च परिरक्षितः

॥९॥

न पारयाम्यहं तात साधु कृत्वोपकारतः ॥

त्वामतः प्रार्थयाम्यङ्ग सुखं राज्येऽनुयुज्यताम्

॥१०॥

कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ॥

मनागपि न कार्या ते सुसेव्याः किन्तु मातरः

॥११॥

निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्ज्जनम् ॥

श्रुत्वैतत्परमप्रीतो वज्रस्तं प्रत्युवाच ह

॥१२॥

श्रीवज्रनाभ उवाच

राजन्नुचितमेतत्ते यदस्मासु प्रभाषते ॥

त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः

॥१३॥

तस्मान्नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ॥

किन्त्वेका परमा चिन्ता तत्र किञ्चिद्विचार्य्यताम्

॥१४॥

माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ॥

क्व गता वै प्रजाऽत्रत्या यत्र राज्यं प्ररोचते

॥१५॥

इत्युक्तो विष्णुरातस्तु नन्दादीनां पुरोहितम् ॥

शांडिल्यमाजुहावाशु वज्रसंदेहनुत्तये

॥१६॥

अथोटजं विहायाशु शांडिल्यः समुपागतः ॥

पूजितो वज्रनाभेन निषसादासनोत्तमे

॥१७॥

उपोद्घातं विष्णुरातश्चकाराशु ततस्त्वसौ ॥

उवाच परमप्रीतस्तावुभौ परिसान्त्वयन्

॥१८॥

श्रीशांडिल्य उवाच

शृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ॥

व्रजनं व्याप्तिरित्युक्त्या व्यापनाद्व्रज उच्यते

॥१९॥

गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ॥

सदानन्दं परं ज्योतिर्मुक्तानां पदमव्ययम्

॥२०॥

तस्मिन्नन्दात्मजः कृष्णः सदानन्दांगविग्रहः ॥

आत्मारामश्चाप्तकामः प्रेमाक्तैरनुभूयते

॥२१॥

आत्मा तु राधिका तस्य तयैव रमणादसौ ॥

आत्मारामतया प्राज्ञैः प्रोच्यते गूढवेदिभिः

॥२२॥

कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ॥

नित्याः सर्वे विहाराद्या आप्तकामस्ततस्त्वयम्

॥२३॥

रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ॥

प्रकृत्या खेलतस्तस्य लीलाऽन्यैरनुभूयते

॥२४॥

213b सर्गस्थित्यप्यया यत्र रजःसत्त्वतमोगुणैः ॥

लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी

॥२५॥

वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ॥

आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित्

॥२६॥

आवयोर्गोचरेयं तु तल्लीला व्यावहारिकी ॥

यत्र भूरादयो लोका भुवि माथुरमण्डलम्

॥२७॥

अत्रैव व्रजभूमिः सा यत्र तत्त्वं सुगोपितम् ॥

भासते प्रेमपूर्णानां कदाचिदपि सर्वतः

॥२८॥

कदाचिद्द्वापरस्यान्ते रहोलीलाधिकारिणः ॥

समवेता यदाऽत्र स्युर्यथेदानीं तदा हरिः

॥२९॥

स्वैः सहावतरेत्स्वेषु समावेशार्थमीप्सिताः ॥

तदा देवादयोऽप्यन्येऽवतरन्ति समन्ततः

॥३०॥

सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ॥

तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः

॥३१॥

नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ॥

देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा

॥३२॥

पुनर्मौशलमार्गेण स्वाधिकारेषु चापिताः ॥

तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः

॥३३॥

विधाय स्वीयनित्येषु समावेशितवांस्तदा ॥

नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः

॥३४॥

व्यावहारिकलीलास्थास्तत्र यन्नाधिकारिणः ॥

पश्यन्त्यत्रागतास्तस्मान्निर्ज्जनत्वं समन्ततः

॥३५॥

तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ॥

वासयात्र बहून्ग्रामान्संसिद्धिस्ते भविष्यति

॥३६॥

कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ॥

त्वया वासय ता ग्रामान्संसेव्या भूरियं परा

॥३७॥

गोवर्द्धने दीर्घपुरे मथुरायां महावने ॥

नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया

॥३८॥

नद्यद्रिद्रोणिकुण्डादिकुञ्जान्संसेवतस्तव ॥

राज्ये प्रजाः सुसंपन्नास्त्वं च प्रीतो भविष्यसि

॥३९॥

सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्नतः ॥

तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात्

॥४०॥

वज्र संसेवनादस्या उद्धवस्त्वां मिलिष्यति ॥

ततो रहस्यमेतस्मात्प्राप्स्यसि त्वं समातृकः

॥४१॥

एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ॥

विष्णुरातोऽथ वज्रश्च परां प्रीतिमवापतुः

॥४२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये शाडिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥