मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय १७

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 17

कस्मिन्क्षेत्रे हि देवेश मार्गशीर्षोऽधिकः स्मृतः

ब्रह्मोवाच

कस्मिन्क्षेत्रे हि देवेश मार्गशीर्षोऽधिकः स्मृतः ॥

किं फलं च भवेत्तस्मिन्नेतत्सर्वं वद प्रभो

॥१॥

श्रीभगवानुवाच

मधुरेति सुविख्यातमस्ति क्षेत्रं परं मम ॥

सुरम्या च प्रशस्ता च जन्मभूमिः प्रिया मम

॥२॥

पदेपदे तीर्थफलं मधुरायां चतुर्मुख ॥

यत्रयत्र नरः स्नातो मुच्यते घोरकिल्बिषात्

॥३॥

सर्वधर्मविहीनानां पुरुषाणां दुरात्मनाम् ॥

नरकार्तिहरा पुत्र मधुरा पापनाशिनी

॥४॥

कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ॥

मधुरां प्राप्य मनुजो मुच्यते घोरपातकात्

॥५॥

सूर्यौदये तमो नश्येद्यथा वज्रभयान्नगाः ॥

तार्क्ष्यं दृष्ट्वा यथा सर्पा मेघा वातहता यथा

॥६॥

तत्त्वज्ञानाद्यथा दुःखं हरिं दृष्ट्वा यथा गजाः ॥

तथा पापानि नश्यंति मथुरादर्शनात्सुत

॥७॥

श्रद्धया भक्तियुक्तस्तु दृष्ट्वा मधुपुरीं नरः ॥

ब्रह्महाऽपि विशुध्येत किं पुनस्त्वन्यपातकी

॥८॥

मथुरां स्नातुकामस्य गच्छतस्तु पदेपदे ॥

निराशानि व्रजंत्येव पापानि च शरीरतः

॥९॥

अनुषंगेण गच्छंति वाणिज्येनाऽपि सेवया ॥

मधुरास्नानमात्रेण दिवं यांति गतांहसः

॥१०॥

नामाऽपि गृह्णतामस्याः सदा मुक्तिर्न संशयः ॥

सदा कृतयुगं तत्र सदा चैवोत्तरायणम्

॥११॥

यः शृणोति चतुर्वक्त्र माधुरं मम मंदिरम् ॥

अन्येनोच्चारिते सद्यः सोऽपि पापात्प्रमुच्यते

॥१२॥

त्रिरात्रमपि ये तत्र वसंति मनुजाः सुत ॥

तेषां पुनंति सहृष्टाः स्पृष्टाश्चरणरेणवः

॥१३॥

यथा तृणसमूहं तु ज्वलयंति स्फुलिंगकाः ॥

तथा महांति पापानि दहते मथुरा पुरी

॥१४॥

स्नानेन सर्वतीर्थानां यः स्यात्सुकृतसंचयः ॥

ततोऽधिकतरं प्रोक्ता मथुरा सर्वमंडले

॥१५॥

चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ॥

तत्पुण्यं जायते तत्र मथुरां स्मरतां नृणाम्

॥१६॥

अन्यत्र हि कृतं पापं तीर्थमासाद्य नश्यति ॥

तीर्थेषु यत्कृतं पापं वज्रलेपो भविष्यति

॥१७॥

मथुरायां कृतं पापं मथुरायां प्रणश्यति ॥

धर्मार्थकाममोक्षाख्यं स्थित्वा तत्र लभेन्नरः

॥१८॥

अन्यत्र दशभिर्वर्षैः प्रारब्धं भुज्यते हि यत् ॥

किल्विषं च चतुर्वक्त्र माथुरे दशभिर्दिनैः

॥१९॥

दिवि नैव न पाताले नांतरिक्षे न मानुषे ॥

समं तु मथुरायां हि प्रियं मम सदैव हि

॥२०॥

सर्वेषामेव तीर्थानां माथुरं परमं महत् ॥

बालक्रीडनरूपाणि कृतानि सह गोपकैः

॥२१॥

त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ॥

यत्फलं भारते वर्षे तत्फलं मथुरां स्मरन्

॥२२॥

सन्निहत्यां तु यत्पुण्यं राहुग्रस्ते दिवाकरे ॥

ततोधिकं लभेत्पुत्र मथुरायां दिनेदिने

॥२३॥

पूर्णे वर्षसहस्रे तु तीर्थराजे तु यत्फलम् ॥

तत्फलं लभते पुत्र सहोमासे मधोः पुरे

॥२४॥

पूर्णे वर्षसहस्रे तु वाराणस्यां च यत्फलम् ॥

तत्फलं लभते पुत्र मथुरायां सहो दिने

॥२५॥

गोदावरीद्वारकयोर्नरो यः क्षेत्रे कुरूणां क्षितिदायको यः ॥

षण्मासकात्साधयते गयायां समं भवेन्नो दिनमेकमाथुरम्

॥२६॥

न द्वारका काशिकांची न माया गदाधरो यस्य समं न तीर्थम् ॥

संतर्पिता यद्यमुनाजलेन वांछंति नो वै पितरः पिंडदानम्

॥२७॥

मथुरायां प्रकुर्वंति पुरीसाधारणीदृशम् ॥

ये नरास्तेऽपि विज्ञेयाः पापराशिभिरन्विताः

॥२८॥

न दृष्टा मथुरा येन दिदृक्षा यस्य जायते ॥

यत्र तत्र मृतस्याऽपि माथुरे जन्म जायते

॥२९॥

भूमे रजांसि गणयेत्कालेनाऽपि चतुर्मुख ॥

माथुरे यानि तीर्थानि तेषां संख्या न विद्यते

॥३०॥

कुरु भोः कुरु भो वासं मथुराख्यां पुरीं प्रति ॥

वसामि सततं तस्यां गोपकन्याभिरावृतः

॥३१॥

रेरे संसारमग्नाश्च शिष्या मे शृणुताऽपरे ॥

यदीच्छथ सुखं सांद्रं वासं कुरुत मत्पुरीम्

॥३२॥

अहो लोको महानंदो नेत्रयुक्तो न पश्यति ॥

माथुरे विद्यमानेऽपि संसृतिं भजते सदा

॥३३॥

मानुषीं योनिमतुलां लब्ध्वा भाग्यस्य योगतः ॥

वृथैवायुर्गतं तेषां न दृष्टा मथुरापुरी

॥३४॥

अहो मतेः सुदौर्बल्यमहो भाग्यस्य दुर्विधिः ॥

अहो मोहस्य महिमा मथुरा नैव सेव्यते

॥३५॥

मथुरां तु परित्यज्य योऽन्यत्र कुरुते मतिम् ॥

मूढो भ्रमति संसारे मोहितो मम मायया

॥३६॥

मथुरामपि संप्राप्य योऽन्यत्र कुरुते स्पृहाम् ॥

दुर्बुद्धेस्तस्य किं ज्ञानं सोऽज्ञानेन विजृंभितः

॥३७॥

मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ॥

येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः

॥३८॥

पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ॥

येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः

॥३९॥

सारात्सारतरं स्थानं गुह्याद्गुह्यतरं परम् ॥

गतिमन्वेषमाणानां मथुरा परमा गतिः

॥४०॥

न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तु स्तवैः ॥

न लभ्यं विविधैर्योगैर्लभ्यं मदनुभावतः

॥४१॥

मयि येषां स्थिरा भक्तिर्भूयसी येषु मत्कृपा ॥

तेषामेव हि धन्यानां मथुरायां भवेद्गतिः

॥४२॥

या गतिर्योगयुक्तस्य ब्रह्मज्ञस्य मनीषिणः ॥

सा गतिस्त्यजतः प्राणान्मथुरायां नरस्य च

॥४३॥

काश्यादिपुर्यो यदि संति लोके तासां तु मध्ये मथुरैव धन्या ॥

या जन्ममौंजीव्रतमुक्तिदानैर्नृणां चतुर्धा विदधाति मुक्तिम्

॥४४॥

न योगैर्या गतिर्लभ्या मन्वंतरशतैरपि ॥

अन्यत्र हेलया साऽत्र लभ्यते मत्प्रसादतः

॥४५॥

न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ॥

न गर्भवासभीर्यत्र तत्क्षेत्रं को न संश्रयेत्

॥४६॥

मथुरायां च यत्पुण्यं तत्पुण्यस्य फलं शृणु ॥

मथुरायां समासाद्य मथुरायां मृता हि ये

॥४७॥

अपि कीटपतंगाद्या जायंते ते चतुर्भुजाः ॥

कूलात्पतंति ये वृक्षास्तेऽपि यांति परां गतिम्

॥४८॥

मूका जडांधबधिरास्तपोनियमवर्जिताः ॥

कालेनैव मृता ये च मम लोकं व्रजंति ते

॥४९॥

सर्पदष्टाः पशुहताः पावकांबुविनाशिताः ॥

लब्धाऽपमृत्यवो ये च माथुरे मम लोकगाः

॥५०॥

सत्यं सत्यं मुनिश्रेष्ठ ब्रुवे शपथपूर्वकम् ॥

सर्वाऽभीष्टप्रदं नान्यन्मथुरायाः समं क्वचित्

॥६१॥

त्रिवर्गदा कामिनां या मुमुक्षूणां च मुक्तिदा ॥

भक्तीच्छोर्भक्तिदा कस्तां मथुरां नाऽऽश्रयेद्बुधः

॥५२॥

एतादृशी मधुपुरी कर्त्तव्या मार्गशीर्षके ॥

तदभावे पुष्करं हि कर्तव्यं विधिपूर्वकम्

॥५३॥

ज्येष्ठं हि ब्रह्मणः कुण्डं मध्यं कुण्डं च वैष्णवम् ॥

कनिष्ठं रुद्रदैवत्यमिति जानीहि बुद्धिमन्

॥५४॥

एषु स्नानं च दानं च श्राद्धं च विधिपूर्वकम् ॥

पूजा च महती कार्या मम प्रीतिकरा सुत

॥५५॥

पूर्णा या तु भवेत्पुत्र सहोमासे मम प्रिया ॥

तस्यां यत्क्रियते पुण्यं मम प्रीतिकरं भवेत्

॥५६॥

गोदानमन्नदानं च हेमदानं च पुत्रक ॥

धरादानं च कर्तव्यं पूर्णायां विधिपूर्वकम्

॥५७॥

सहोमासे हि पूर्णायां सद्मदानं च कारयेत् ॥

यत्किंचित्क्रियते पूर्णं तदक्षय्यफलं भवेत्

॥५८॥

ब्रह्मभोज्यं हि कर्तव्यं यथाविभवसारतः ॥

पूर्णायामेव कर्तव्य उत्सवो व्रतपूर्त्तये

॥५९॥

यादृशी मथुरा पुत्र सहोमासे मम प्रिया ॥

न तथा तीर्थराजाद्यास्तदभावे च पुष्करम्

॥६०॥

पुष्करे मथुरायां वै पूर्णा कार्या विचक्षणैः ॥

यत्र कुत्रापि वा कार्या विधियुक्ता च पूर्णिमा

॥६१॥

स्नानं दानं तथा पूजां पूर्णायां न करोति यः ॥

षष्टिवर्षसहस्राणि पच्यते रौरवादिषु

॥६२॥

तस्मात्सर्वप्रयत्नेन मान्या पूर्णा विचक्षणैः ॥

मार्गशीर्षेण संयुक्ता अनंतफलदायिनी

॥६३॥

यथा ते कथितं वत्स मार्गशीर्षं मम प्रियम् ॥

करोति यो नरो भक्त्या तस्य पुण्यफलं शृणु

॥६४॥

तीर्थायुतेषु यत्पुण्यं यत्पुण्यं व्रतकोटिभिः ॥

सर्वयज्ञेषु यत्पुण्यं तत्पुण्यं समवाप्नुयात्

॥६५॥

अपुत्रो लभते पुत्रं निर्धनो धनमेव च ॥

विद्यार्थी च तथा विद्यां रूपार्थी रूपमाप्नुयात्

॥६६॥

ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥

वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात्

॥६७॥

यद्दुर्लभं च दुष्प्राप्यं त्रिषु लोकेषु मानद ॥

तत्सर्वं प्राप्नुयान्मर्त्यः सहोमासे न संशयः

॥६८॥

यद्यप्येतेषु कामेषु सक्ता ये मानवाः सुत ॥

तुष्टा ह्यंते चतुर्वक्त्र न कामार्हा महाभुज

॥६९॥

सुदुर्लभा हि सद्भक्तिर्मम वश्यकरी शुभा ॥

सा वै संप्राप्यते पुत्र सहोमासे श्रुते तथा

॥७०॥

मम प्रीतिकरं मासं सर्वदा मम वल्लभम् ॥

सर्वं संप्राप्यतेऽमुष्मान्मत्प्रसादाच्चतुर्मुख

॥७१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मथुरामाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥

इति श्रीस्कांदे महापुराणे द्वितीये वैष्णवखण्डे पंचमं श्रीमार्गशीर्षमासमाहात्म्यं संपूर्णम् ॥ ( २-५) ॥ श्रीकृष्णार्पणमस्तु