मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय १५

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 15

श्रीकृष्णनाममाहात्म्यवर्णनम्

श्रीभगवानुवाच

ये त्वया वै कृताः प्रश्नाः पूर्वं प्रश्नविदां वर ॥

तान्वर्णयिष्ये क्रमशो निशामय सुनिश्चितम्

॥१॥

सहोमासे च देवो वै कीर्तियुक्तो हि केशवः ॥

तस्य पूजा प्रकर्तव्या यथापूर्वं प्रभाषितम्

॥२॥

ब्राह्मणं केशवं स्मृत्वा तत्पत्नीं कीर्तिमेव च ॥

दंपती विधिवत्पूज्यौ वस्त्राभरणधेनुभिः

॥३॥

दम्पती पूजितौ वत्स पूजितोऽहं न संशयः ॥

तस्मादवश्यं संपूज्यौ दंपती मम तुष्टिदौ

॥४॥

दानं च विविधं कार्यं मम तुष्टिकरं परम् ॥

गोदानं भूमिदानं च स्वर्णदानं विशेषतः

॥५॥

वस्त्रदानं तथा शय्या तथाऽलंकरणानि च ॥

सद्मदानं प्रकर्तव्यं मम सन्तोषकारकम्

॥६॥

सर्वेषामेव दानानां विशेषं च त्रिकं स्मृतम् ॥

वसुन्धरा तथा धेनुर्विद्यादानं तथैव च

॥७॥

दत्ते दानत्रिके वत्स भवेत्प्रीतिर्ममाऽतुला ॥

तस्मान्नरैस्तु कर्तव्यं सहोमासे त्रिकं शुभम्

॥८॥

स्नानस्य च विधिः सम्यक्पुरैवोक्तो मयाऽनघ ॥

पूजास्नानं च दानं च विधिरेष न संशयः

॥९॥

मार्गशीर्षं समग्रं तु एकभक्तेन यः क्षिपेत् ॥

भोजयेद्यो द्विजान्भक्त्या स मुच्येद्व्याधिकिल्विषैः

॥१०॥

कृषिभागी बहुधनो बहुधान्यश्च जायते ॥

किमत्र बहुनोक्तेन शृणु गुह्यं पर मम

॥११॥

हुतभुग्ब्राह्मणश्चैव वदनं मम मानद ॥

ब्राह्मणाख्यं मुखं श्रेष्ठं न तथा हव्यवाहनः

॥१२॥

ब्राह्मणाख्ये मुखे पुत्र हुतं कोटिगुणं भवेत् ॥

अग्न्याख्यं ब्राह्मणाधीनं स्वतंत्रा ब्राह्मणाः किल

॥१३॥

सशर्करं घृतयुतं पायसं शशिसन्निभम् ॥

होतव्यं ब्राह्मणमुखे मम तुष्टिकरं सुत

॥१४॥

शुभमंडलमोदककोकरसं सुत फेनिकया घृतपूरयुतम् ॥

यज विप्रमुखे मम तुष्टिकरं यदि चेच्छसि दारसुतादिसुखम्

॥१५॥

कुमुदेन समप्रभसौरभदं शुभभक्तयुतं त्वथ मुद्गयुतम् ॥

सुरभीकृतपुष्कलसर्पिसमं कुरु विप्रमुखे हवनं हि सहे

॥१६॥

पयसा सह सर्पिषि च क्वथितं बहुखारिकचारफलैः सितया ॥

सह कर्पुरनारिफलेन समं युतसीकरकं सुत शुभ्रकरम्

॥१७॥

व्यंजनानि च शुभ्राणि मनोज्ञानि प्रियाणि च ॥

कर्त्तव्यानि सहोमासे ब्राह्मणार्थे चतुर्मुख

॥१८॥

प्रिया शिखरिणी कार्या चान्यत्तेषां प्रियं च यत् ॥

कृत्वैवं भोजयेद्विप्राञ्छ्रद्धया परया सुत

॥१९॥

रसास्वादनपूर्वं हि भुञ्जते वै यथायथा ॥

तथातथा मम प्रीतिर्जायते भुवि दुर्लभा

॥२०॥

तस्मात्तत्तत्तथा कार्यं यथा तुष्यंति ब्राह्मणाः ॥

तुष्टैस्तैश्चाप्यहं तुष्टो भवामीह न संशयः

॥२१॥

श्रद्धत्स्व त्वं चतुर्वक्त्र न ते मिथ्या ब्रवीम्यहम् ॥

एतद्गुह्यं मया प्रोक्तं श्रेयोर्थं तव मानद

॥२२॥

आक्रोशयंति यदि ते अथवा प्रहरंति चेत् ॥

तथापि ते नमस्या वै मम प्रीत्या हि मानद

॥२३॥

एवं कार्यं सदा पुत्र मार्गशीर्षे विशेषतः ॥

यदुक्तं भवता ब्रह्मन्भोक्तव्यं किं शृणुष्व तत्

॥२४॥

भोक्तव्यं मम चोच्छिष्टं मम भक्तिपरायणैः ॥

पवित्रकरणं पुत्र पापिनामपि मुक्तिदम्

॥२५॥

ममाशनस्य शेषं च यो भुनक्ति दिनेदिने ॥

सिक्थेसिक्थे भवेत्पुण्यं चांद्रायणशतोद्भवम्

॥२६॥

अवशिष्टं तथोच्छिष्टं भक्तानां भोजनद्वयम् ॥

नाऽन्यद्वै भोजनं तेषां भुक्त्वा चांद्रायणं चरेत्

॥२७॥

अनर्पयित्वा यो भुंक्ते अन्नपानादिकं च यत् ॥

श्वानविष्ठासमं चान्नं पानं च मदिरासमम्

॥२८॥

तस्मान्मामर्पयेत्पुत्र अन्नपानादि चौषधम् ॥

भक्षयेत्परया भक्त्या अशुचेः शुचिकारकम्

॥२९॥

तीर्थयज्ञादिकफलं कलिदोषविनाशनम् ॥

ममोच्छिष्टं सुगतिदमपि दुष्कृतकर्मणाम्

॥३०॥

अन्येषां दैवतानां च न गृह्णीयाच्च भक्षितम् ॥

अभक्तानां च पक्वान्नं भुक्त्वा च नरकं व्रजेत्

॥३१॥

वक्तव्यमेव यत्प्रोक्तं तच्छृणुष्व समाहितः ॥

कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम

॥३२॥

मम नाम प्रवक्तव्यं सहे चैव विशेषतः ॥

कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम्

॥३३॥

प्रतिज्ञैषा च मे पुत्र न जानंति सुरासुराः ॥

मनसा कर्मणा वाचा यो मे शरणमागतः

॥३४॥

स हि सर्वामवाप्नोति कामनामिह लौकिकीम् ॥

सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि

॥३५॥

कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥

जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्

॥३६॥

विनोदेनाऽपि दंभेन मौढ्याल्लोभाच्छलादपि ॥

यो मां भजत्यसौ वत्स मद्भक्तो नाऽवसीदति

॥३७॥

ये वै पठंति कृष्णेति मरणे पर्युपस्थिते ॥

यदि पापयुताः पुत्र न पश्यंति यमं क्वचित्

॥३८॥

पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः ॥

अंतकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम्

॥३९॥

नमः कृष्णाय महते विवशोऽपि वदेद्यदि ॥

ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते

॥४०॥

श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते ॥

दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः

॥४१॥

श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति ॥

म्रियते यदि चेत्पुत्र मामेवैति न संशयः

॥४२॥

दर्शनात्मम भक्तानां मृत्युमाप्नोति यः क्वचित् ॥

विना मत्स्मरणात्पुत्र मुक्तिमेति स मानवः

॥४३॥

पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक ॥

श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिंदुभिः

॥४४॥

कलिकालभुजंगस्य तीक्ष्णदंष्ट्रस्य किं भयम् ॥

श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति

॥४८॥

पापपावकदग्धानां कर्मचेष्टावियोगिनाम् ॥

भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना

॥४६॥

प्रयागे वै यथा गंगा शुक्लतीर्थे च नर्मदा ॥

सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम्

॥४७॥

भवांभोधिनिमग्नानां महापापोर्मिपातिनाम् ॥

न गतिर्मानवानां च श्रीकृष्णस्मरणं विना

॥४८॥

मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम् ॥

गच्छतां नाऽस्ति पाथेयं श्रीकृष्णस्मरणं विना

॥४९॥

तत्र पुत्र गया काशी पुष्करं कुरुजांगलम् ॥

प्रत्यहं मंदिरे यस्य कृष्णकृष्णेति कीर्तनम्

॥५०॥

जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम् ॥

सततं रसना यस्य कृष्णकृष्णेति जल्पति

॥५१॥

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति

॥५२॥

नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम ॥

तावत्कर्तुं न शक्नोति पातकं पातकी जनः

॥५३॥

नाऽपविद्धं भवेत्तस्य शरीरं नैव मानसम् ॥

न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात्

॥५४॥

श्रीकृष्णेति वचः पथ्यं न त्यजेद्यः कलौ नरः ॥

पापामयो वै न भवेत्कलौ तस्यैव मानसे

॥५५॥

श्रीकृष्णेति प्रजल्पंतं दक्षिणाशापतिर्नरम् ॥

श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम्

॥५६॥

चांद्रायणशतैः पापं पराकाणां सहस्रकैः ॥

यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात्

॥५७॥

नान्याभिर्नामकोटीभिस्तोषो मम भवेत्क्वचित् ॥

श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाऽधिकाधिका

॥५८॥

चंद्रसूर्योपरागैस्तु कोटीभिर्यत्फलं स्मृतम् ॥

तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात्

॥५९॥

गुरुदाराभिगमनं हेमस्तेयादि पातकम् ॥

श्रीकृष्णकीर्तनाद्याति घर्मतप्तं हिमं यथा

॥६०॥

युक्तो यदि महापापैरगम्यागमनादिभिः ॥

मुच्यते चांतकालेऽपि सकृच्छ्रीकृष्णकीर्तनात्

॥६१॥

अविशुद्धमना यस्तु विनाप्याचारवर्तनात् ॥

प्रेतत्वं सोऽपि नाप्नोति अन्ते श्रीकृष्णकीर्तनात्

॥६२॥

मुखे भवतु मा जिह्वाऽसती यातु रसातलम् ॥

न सा चेत्कलिकाले या श्रीकृष्णगुणवादिनी

॥६३॥

स्ववक्त्रे परवक्त्रे च वंद्या जिह्वा प्रयत्नतः ॥

कुरुते या कलौ पुत्र श्रीकृष्ण गुणकीर्तनम्

॥६४॥

पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते ॥

या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम्

॥६५॥

पततां शतखण्डा तु सा जिह्वा रोगरूपिणी ॥

श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति

॥६६॥

श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत् ॥

तस्याऽहं श्रेयसां दाता भवाम्येव न संशयः

॥६७॥

श्रीकृष्णनाममाहात्म्यं त्रिसंध्यं हि पठेत्तु यः ॥

सर्वान्कामानवाप्नोति स मृतः परमां गतिम्

॥६८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥