मत्स्योत्सवकथनम्
श्रीभगवानुवाच
ततः प्रभाते द्वादश्यां कार्यो मत्स्योत्सवो बुधैः ॥
मार्गशीर्षे शुक्लपक्षे यथाविध्युपचारतः
॥१॥अथ मार्गशिरे मासे दशम्यां नियतात्मवान् ॥
कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि
॥२॥शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् ॥
पक्त्वा पंचपदे गत्वा पुनः शौचं तु पादयोः
॥३॥कृत्वाऽष्टांगुलमानं तु क्षीरवृक्षे समुद्भवम् ॥
भक्षयेद्दंतकाष्ठं तु ततश्चाचम्य यत्नतः
॥४॥दृष्ट्वाऽऽकाशानि सर्वाणि ध्यात्वा वै मां गदाधरम् ॥
शंखचक्रगदापाणिकिरीटं पीतवाससम्
॥५॥प्रसन्नवदनांऽभोजं सर्वलक्षणलक्षितम् ॥
ध्यात्वा पुनर्जलं हस्ते गृहीत्वा भानुमध्यगम्
॥६॥ध्यात्वाऽर्घ्यं दापयेत्तत्र करतोयेन मानवः ॥
एवमुच्चारयेद्वाचं तस्मिन्काले चतुर्मुख
॥७॥एकादश्यां निराहारः स्थित्वाऽहनि परे ह्यहम् ॥
भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाऽच्युत
॥८॥एवमुक्त्वा ततो रात्रौ मम मूर्तेश्च सन्निधौ ॥
जपेन्नारायणायेति स्वयं तत्र विधानतः
॥९॥ततः प्रभाते विमलां नदीं गत्वा समुद्रगाम् ॥
इतरां वा तडागं वा गृहे वा नियतात्मवान्
॥१०॥आनीय मृत्तिकां शुद्धां मंत्रेणाऽनेन मानवः ॥
वंदयेद्देवदेवेशं तदा शुद्धो भवेन्नरः
॥११॥धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ॥
तेन सत्येन मे पापं यावन्मोचय सुव्रते
॥१२॥ब्रह्मांडोदरतीर्थानि करैः स्पृष्टानि दैवतैः ॥
तेनेमां मृत्तिकां स्पृष्टा माऽऽलभामि त्वयोद्धृताम्
॥१३॥त्वयि नित्यं रसाः सर्वे स्थिता वरुण सर्वदा ॥
तेनेमां मृत्तिकां प्लाव्य पूतां कुरुष्व माचिरम्
॥१४॥एवं मृदं तथा तोयं प्रसाद्याऽऽत्मानमालभेत् ॥
त्रिःकृत्वाऽशेषमृदया पिंडमालिप्य वै जले
॥१५॥तस्मिन्नरः सदा सम्यङ्नक्रकच्छपदूरतः ॥
स्नात्वा चावश्यकं कृत्वा पुनर्मम गृहं व्रजेत्
॥१६॥तत्राऽऽराध्य महायोगिन्देवं नारायणं हरिम् ॥
केशवाय नमः पादौ कटिं दामोदराय च
॥१७॥जानुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ॥
कंठे कौस्तुभनाभाय वक्षः श्रीपतये तथा
॥१८॥त्रैलोक्यविजयायेति बाहुं सर्वात्मने शिरः ॥
रथांगधारिणे वक्त्रं श्रीकरायेति वारिजम्
॥१९॥गंभीरायेति च गदामंभोजं शांतमूर्तये ॥
एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम्
॥२०॥पुनस्तस्याऽग्रतः कुंभांश्चतुरः स्थापयेद्बुधः ॥
जलपूर्णान्समाल्यांश्च सितचंदनलेपितान्
॥२१॥चूतपल्लवसंयुक्तान्सितवस्त्रावगुंठितान् ॥
छादितांस्ताम्रपात्रैश्च तिलपूर्णैः सकांचनैः
॥२२॥चत्वारस्तु समुद्राश्च कलशाः संप्रकीर्तिताः ॥
तेषां मध्ये शुभं पीठं स्थापयेद्वस्त्रगर्भितम्
॥२३॥तस्मिन्सुवर्णं रौप्यं वा ताम्रं वा दारवं तथा ॥
अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते
॥२४॥तोयपूर्णं च तत्कृत्वा तस्मिन्पात्रे ततो न्यसेत् ॥
सौवर्णं मत्स्यरूपं च कृत्वा देवं जनार्दनम्
॥२५॥देवदेवांगसंयुक्तं श्रुतिस्मृतिविभूषितम् ॥
तत्राऽनेकविधैर्भक्ष्यैः फलैः पुष्पैश्च शोभितम्
॥२६॥गन्धैर्धूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि ॥
रसातलगता वेदा यथादेव त्वयोद्धृताः
॥२७॥मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव ॥
एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत्
॥२८॥यथाविभवसारेण प्रभाते विमले तथा ॥
चतुर्णां ब्राह्मणानां च चतुरो दापयेद्घटान्
॥२९॥पूर्वं च बह्वृचे दद्याच्छांदोग्ये दक्षिणं तथा ॥
यजुःशाखान्विते दद्यात्पश्चिमं घटमुत्तमम्
॥३०॥उत्तरं कामतो दद्यादेष एव विधिः स्मृतः ॥
ऋग्वेदः प्रीयतां पूर्वं सामवेदस्तुदक्षिणे
॥३१॥यजुर्वेदः पश्चिमतो ह्यथर्वश्चोत्तरेण तु ॥
अनेन क्रमयोगेन प्रीयतामिति वाचयेत्
॥३२॥मत्स्यरूपं तु सौवर्णमाचार्याय निवेदयेत् ॥
गन्धधूपादि वस्त्रैस्तु संपूज्य विधिवत्क्रमात्
॥३३॥यस्त्विमं सरहस्यं च मन्त्रेणैवोपपादयेत् ॥
विधानं विधिवद्दत्त्वा दाता कोटिगुणोत्तरम्
॥३४॥प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते ॥
स जन्मकोटिं नरके पच्यते पुरुषाधमः
॥३५॥विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः ॥
एवं दत्वा विधानेन द्वादश्यां मां समर्चयेत्
॥३६॥विप्राणां भोजनं दद्याद्यथाशक्त्या च दक्षिणाम् ॥
भूरिणा परमान्नेन ततः पश्चात्स्वयं नरः
॥३७॥भुञ्जीत सहितो विप्रैर्वाग्यतः संयतेन्द्रियः ॥
अनेन विधिना यस्तु कुर्यान्मत्स्योत्सवं नरः
॥३८॥तस्य पुण्यफलं चाग्रे शृणु सत्यवतां वर ॥
यदि वक्त्र सहस्राणां सहस्राणि भवंति हि
॥३९॥आयुश्च ब्रह्मणा तुल्यं लभेद्यदि महाव्रत ॥
तदा वै ह्यस्य धर्मस्य फलं कथयितुं भवेत्
॥४०॥य इमं श्रावयेद्भक्त्या द्वादशीकल्पमुत्तमम् ॥
शृणोति वा स पापैस्तु सर्वैरेव विमुच्यते
॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मत्स्योत्सवकथनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥