मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय ११

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 11

एकादश्याश्च माहात्म्यं मूर्तीनां च विधानकम्

ब्रह्मोवाच

एकादश्याश्च माहात्म्यं मूर्तीनां च विधानकम् ॥

सर्वं ब्रूहि मम स्वामिन्कृपया भूतभावन

॥१॥

श्रीभगवानुवाच

शृणुष्व द्विजशार्दूल कथां पापप्रणाशिनीम् ॥

यां श्रुत्वा याति विलयं पापं ब्रह्मवधादिकम्

॥२॥

कांपिल्ये नगरे राजा वीरबाहुरिति स्मृतः ॥

सत्यवादी जितक्रोधो ब्रह्मज्ञो मम तत्परः

॥३॥

भाववान्स दयाशीलोरूपवान्बलवान्नरः ॥

भक्तो भागवतानां च सदा मम कथारुचिः

॥४॥

सदा मम कथाऽऽसक्तः सदा जागरणप्रियः ॥

दाता विद्वान्क्षमाशीलो विक्रमी विजितेंद्रियः

॥५॥

विजयी रणशीलश्च ऋद्ध्या च धनदोपमः ॥

पुत्रवान्पशुमांश्चैव स्वदारनिरतस्तथा

॥६॥

तस्य भार्या कांतिमती रूपेणाऽप्रतिमा भुवि ॥

पतिव्रता महासाध्वी मम भक्तिरता सदा

॥७॥

तया सह विशालाक्षो बुभुजे मेदिनीं युवा ॥

मुक्त्वैकं मां महाबाहो नान्यज्जानाति दैवतम्

॥८॥

एकस्मिन्दिवसे पुत्र भारद्वाजो महामुनिः ॥

समागतो गृहे तस्य वीरबाहोर्महात्मनः

॥९॥

दृष्ट्वा समागतं दूराद्भारद्वाजं महामुनिम् ॥

स्वागतं कारयामास दत्त्वार्घ्यं विधिवत्तदा

॥१०॥

आसनं कल्पयामास स्वयमेव महीपतिः ॥

प्रणम्य परया भक्त्या तस्थौ मुनिवराग्रतः

॥११॥

राजोवाच

अद्य मे सफलं जन्म अद्य मे सफलं दिनम् ॥

अद्य मे सफलं राज्यमद्य मे सफलं गृहम्

॥१२॥

प्रसन्नो मम विप्रर्षे परमात्मा जनार्दनः ॥

यत्त्वं समागतो ह्यद्य गृहे योगिवरस्तथा

॥१३॥

मुक्तोऽहं पापकोट्याद्य यत्त्वयाऽहं निरीक्षितः ॥

राज्यं लक्ष्मीर्गजाऽश्वाश्च मया तुभ्यं निवेदिताः

॥१४॥

वैष्णवोऽसि मुनिश्रेष्ठ नास्त्यदेयं मया तव ॥

मेरुतुल्यं भवेत्सर्वं वैष्णवस्य वराटिका

॥१५॥

नाऽऽयाति हि गृहे यस्य वैष्णवो वै द्विजोत्तमः ॥

तद्दिनं विफलं तस्य कथितं ब्राह्मणैर्मम

॥१६॥

विष्णुभक्ताश्च ये केचित्सर्वे वर्णा द्विजातयः ॥

कथितं मम गार्ग्येण गौतमेन सुमंतुना

॥१७॥

ये त्वभक्ता हृषीकेशे पिशाचास्ते हि मानवाः ॥

महापातकलिप्तास्ते ये भुंजंति हरेर्दिने

॥१८॥

शिवव्रतसहस्रैस्तु सौरैर्ब्राह्मैश्च कोटिभिः ॥

यत्फलं कविभिः प्रोक्तं वासरैकेन तद्धरेः

॥१९॥

गर्वमुद्वहते तावत्तिथिर्ब्राह्मी च शांकरी ॥

यावन्नायाति विप्रेंद्र द्वादशी च मम प्रिया

॥२०॥

तावत्प्रभावस्ताराणां यावन्नोदयते शशी ॥

तिथिस्तथा च विप्रेंद्र यावन्नायाति द्वादशी

॥२१॥

नारदेन पुरा प्रोक्तं वसिष्ठेन ममाग्रतः ॥

त्वं वेत्ता सर्वधर्माणां वैष्णवानां महामुने

॥२२॥

भारद्वाज उवाच

साधु पृष्टं महाभाग यत्त्वं भक्तोऽसि वैष्णवः ॥

सा सुप्रजा मही धन्या यत्त्वं रक्षसि भूमिप

॥२३॥

तस्मिन्राष्ट्रे न वस्तव्यं यत्र राजा न वैष्णवः ॥

वरं वासो वने तीर्थे न तु राष्ट्रे त्ववैष्णवे

॥२४॥

यत्र भागवतो राजा संप्रशास्ति च मेदिनीम् ॥

वैकुण्ठमिति मंतव्यं तद्राष्ट्रं पापवर्जितम्

॥२५॥

चक्षुर्हीनं यथा देहं पतिहीना यथा स्त्रियः ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥२६॥

यथा पुत्रो महीपाल मातापित्रोरपोषकः ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥२७॥

दानहीनो यथा राजा ब्राह्मणो रसविक्रयी ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥२८॥

दंतहीनो यथा हस्ती पक्षहीनो यथा खगः ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥२९॥

प्रतिग्रहार्थं वेदादि द्रव्यार्थं सुकृतं यथा ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥३०॥

दर्भहीना यथा संध्या यथा श्राद्धमदक्षिणम् ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥३१॥

सशिखश्च यथा शूद्रा कपिलाक्षीरपायकः ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥३२॥

शूद्रश्च ब्राह्मणीगामी हेमघ्नो धर्मदूषकः ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥३३॥

हरिसूर्यादिवृक्षाणां यथा छेदो नरोत्तम ॥

द्वादशी दशमी युक्ता तथा राष्ट्रमवैष्णवम्

॥३४॥

यथाऽऽहुतिर्मंत्रहीना मृतवत्सापयो यथा ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥३५॥

सकेशा विधवा यद्वद्व्रतं स्नानविवर्जितम् ॥

द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम्

॥३६॥

स राजा प्रोच्यते सद्भिर्यो भक्तो मधुसूदने ॥

तद्राष्ट्रं वर्धते नित्यं सुखी भवति सप्रजः

॥३७॥

दृष्टिर्मे सफला राजन्यन्मया त्वं निरीक्षितः ॥

अद्य मे सफला वाणी जल्पते या त्वया सह

॥३८॥

दूरमेव हि गंतव्यं श्रूयते यत्र वैष्णवः ॥

दर्शनात्तु भवेत्पुण्यं तीर्थस्नानसमुद्भवम्

॥३९॥

स त्वं राजन्मया दृष्टो विष्णुभक्तिरतः शुचिः ॥

स्वस्ति तेऽस्तु गमिष्यामि सुखी भव नराधिप

॥४०॥

एतस्मिन्नंतरे राज्ञ्या कांतिमत्या नमस्कृतः ॥

भारद्वाजो मुनिश्रेष्ठः प्रवरः सर्वयोगिनाम्

॥४१॥

अवैधव्यं वरारोहे भक्ता भव स्वभर्त्तरि ॥

निश्चला केशवे भक्तिः सदा भवतु ते शुभे

॥४२॥

एतस्मिन्नंतरे राजा भारद्वाजं महामुनिम् ॥

उवाच प्रीणयन्वाचा मेघनादगभीरया

॥४३॥

राजोवाच

विपुला मे कथं लक्ष्मीः किं कृतं पूर्वजन्मनि ॥

सर्वं ब्रूहि मुनिश्रेष्ठ कृपा यदि ममोपरि

॥४४॥

एतन्मया कथं प्राप्तं राज्यं निहतकण्टकम् ॥

पुत्रो वै गुणवाञ्च्छ्रेष्ठः प्रिया च सुमनोहरा

॥४५॥

मच्चित्ता मद्गतप्राणा चिंतयन्ती जनार्दनम् ॥

कोऽहं मुने कथं चैषा कश्च धर्मो मया कृतः

॥४६॥

किं चाऽनयाऽपि चार्वंग्या मम पत्न्या कृतं मुने ॥

केन पुण्येन मे लक्ष्मीर्मृत्युलोके सुदुर्लभा

॥४७॥

अशेषा भूमिपाला वै वर्तंते यस्य मे वशे ॥

विक्रमं चाऽप्रतिहतं शरीरारोग्यता तथा

॥४८॥

ममाऽपि विपुलं तेजो न कश्चित्सहते मुने ॥

इच्छाम्यद्य प्रतिज्ञातुं यथा चेयमनिंदिता

॥४९॥

मयाऽपि सुकृतं विप्र किं कृतं पूर्वजन्मनि ॥

इति पृष्टो नरेंद्रेण पूर्वजन्मविचेष्टितम्

॥५०॥

स्वपत्न्याश्चेष्टितं चैव संपदां चैव कारणम् ॥

योगोत्थं सुचिरं कालं तथाविंदत मानसे

॥५१॥

विज्ञातमेतन्नृपते पूर्वजन्मविचेष्टितम् ॥

तव पत्न्याश्च राजर्षे शृणुष्व कथयाम्यहम्

॥५२॥

भारद्वाज उवाच

शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ॥

त्वमासीः शूद्रजातीयो जीवहिंसापरायणः

॥५३॥

नास्तिको दुष्टचारित्रः परदारप्रधर्षकः ॥

कृतघ्नो दुर्विनीतश्च सुष्ठ्वाचारविवर्जितः

॥५४॥

इयं या भवतो भार्या पूर्वमप्यायतेक्षणा ॥

कर्मणा मनसा वाचा नान्यदस्यास्त्वया विना

॥५५॥

पतिव्रता महाभागा भजमाना निरन्तरम् ॥

भावं न कुरुते दुष्टं तवोपरि तथा सति

॥५६॥

सखिभिस्त्वं परित्यक्तो बन्धुभिः पापकर्मकृत् ॥

क्षयं जगाम चाऽर्थो यः सञ्चितस्तव पूर्वजैः

॥५७॥

नष्टे द्रव्ये फलाऽऽकांक्षी त्वमासीर्जगतीपते ॥

पूर्वकर्मविपाकेन कृषिश्च विफला गता

॥५८॥

ततो वित्ते परिक्षीणे परित्यक्तश्च बांधवैः ॥

क्षीयमाणाऽपि साध्वीयमत्यजत्त्वां न भामिनी

॥५९॥

त्वं भग्नः सर्वकामेभ्यो गतवान्निर्जने वने ॥

हत्वा जीवाननेकांश्च चकारात्मविपोषणम्

॥६०॥

एवं प्रवृत्तस्य तव सह पत्न्या तदा नृप ॥

गतानि बहुवर्षाणि पापवृत्त्या महीतले

॥६१॥

अन्यस्मिन्वासरे राजन्मार्गभ्रष्टो महामुनिः ॥

न दिशं विदिशं वेत्ति देवशर्मा द्विजोत्तमः

॥६२॥

क्षुत्तृषापीडितोऽत्यर्थं मध्याह्नगदिवाकरे ॥

पतितो वनमध्ये तु मार्गभ्रष्टो महीपते

॥६३॥

दया जाता च ते भूप दृष्ट्वा दुःखेन पीडितम् ॥

ब्राह्मणं वृद्धमज्ञातं गृहीत्वा तु करेण वै

॥६४॥

उत्थाप्य पतितं भूमौ त्वयोक्तं हि तदा नृप ॥

प्रसादं कुरु विप्रर्ष आगच्छ त्वं ममाऽऽश्रमम्

॥६५॥

जलपूर्णं तडागं च पद्मिनीखण्डमण्डितम् ॥

वृक्षैर्मनोहरैर्युक्तं फलैः पुष्पैर्मनोरमैः

॥६६॥

स्नात्वा सुशीतले तोये कृत्वा कर्म च नैत्यकम् ॥

कुरु विप्र फलाहारं पिब वारि सुशीतलम्

॥६७॥

सुखेन कुरु विश्रामं मया संरक्षितः स्वयम् ॥

विप्रेन्द्र तृप्तिपर्यंतं वस त्वं च ममाश्रमे

॥६८॥

उत्तिष्ठ त्वं द्विजश्रेष्ठ प्रसादं कर्तुमर्हसि ॥

लब्धसंज्ञस्तदा विप्रः श्रुत्वा शूद्रस्य भाषितम्

॥६९॥

करे जग्राह तं शूद्रं गतो यत्र जलाशयः ॥

उपविष्टो महाबाहो छायामाश्रित्य तत्तटे

॥७०॥

स्नानं चकार विधिवत्पूजयामास केशवम् ॥

तर्पयित्वा पितॄन्देवान्पपौ नीरं सुशीतलम्

॥७१॥

विश्रांतो वृक्षूमूलेऽभूद्देवशर्मा द्विजोत्तमः ॥

साष्टांगं मुनये कृत्वा नमस्कारं सह स्त्रिया

॥७२॥

शूद्रस्तु परया भक्त्या प्रोवाच मुनिसन्निधौ ॥

आवयोस्तरणार्थाय अतिथिस्त्वं समागतः

॥७३॥

दर्शनात्तव विप्रर्षे जातः पापस्य संक्षयः ॥

प्रिये फलानि स्वादूनि प्रयच्छास्मै द्विजातये ॥

मृदूनि रसयुक्तानि सुपक्वानि प्रियाणि च

॥७४॥

ब्राह्मण उवाच

त्वामहं नैव जानामि स्वज्ञातिं कथयस्व मे ॥

नाज्ञातस्य हि भोक्तव्यं ब्राह्मणस्याऽपि पुत्रक

॥७५॥

शूद्र उवाच

शूद्रोऽहं द्विजशार्दूल न कार्यः संशयस्त्वया ॥

आत्मजैर्दुर्जनैर्विप्र परित्यक्तः स्वबन्धुभिः

॥७६॥

तयोः संवदतोरेवं शूद्रपत्न्या फलानि च ॥

दत्तानि तस्मै विप्राय तेन भुक्तानि तानि वै

॥७७॥

अभूत्प्रीतमना विप्रः पीत्वा नीरं सुशीतलम् ॥

सुखं संप्राप्य स मुनिर्विश्रांतस्तरुमूलके

॥७८॥

स च शूद्रः सपत्नीको भुक्त्वा च पुनरागतः ॥

स्वागतं ते मुनिश्रेष्ठ कुतस्त्वमिह चाऽऽगतः

॥७९॥

शून्याटवीं द्विजश्रेष्ठ दुष्टसत्त्वभयाकुलाम् ॥

निर्मनुष्यां दुःखयुक्तां दिवारात्रं भयानकाम्

॥८०॥

ब्राह्मण उवाच

ब्राह्मणोऽहं महाभाग प्रयागगमनं प्रति ॥

अहमज्ञातमार्गेण प्रविष्टो दारुणे वने

॥८१॥

मम पुण्यप्रभावेण जातोसि वरबांधवः ॥

जीवितं मे त्वया दत्तं ब्रूहि किं करवाणि ते

॥६२॥

भवानपि कुतः प्राप्तो निर्मनुष्ये वने खलु ॥

को भवान्कारणं किंस्वित्कथयस्व ममाऽग्रतः

॥८३॥

शूद्र उवाच

विदर्भनगरी राज्ञा भीमसेनेन रक्षिता ॥

वासो मम महाराष्ट्रे शूद्रोऽहं पापलंपटः

॥८४॥

स्वकर्मविहितो धर्मो मया त्यक्तो द्विजोत्तम ॥

त्यक्तोऽहं बन्धुवर्गेण ततोऽहं वनमागतः

॥८५॥

कृत्वा जीववधं नित्यं जीवेऽहं भार्यया सह ॥

सांप्रतं पातकात्सम्यङ् निर्विण्णोस्मि महामुने

॥८६॥

कुरुष्वाऽनुग्रहं किञ्चित्पापयुक्तस्य मे प्रभो ॥

मम पुण्यप्रभावेण आगतस्त्वं द्विजोत्तम

॥८७॥

न पश्यामि यथा सौरिं पत्न्या सह महामुने ॥

उपदेशप्रभावेण प्रसादं कर्तुमर्हसि

॥८८॥

नान्यदिच्छाम्यहं किञ्चिन्मुक्त्वा देवं जनार्दनम् ॥

कुरुष्वाऽनुग्रहं मेऽद्य प्रसादमृषिसत्तम

॥८९॥

भारद्वाज उवाच

इति तेन समापृष्टो देवशर्मा द्विजाग्रणीः ॥

शूद्रेण परया भक्त्या प्रहसन्वाक्यमब्रवीत्

॥९०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्य एकादश्याख्यानंनामैकादशोऽध्यायः ॥ ११ ॥