गोपीकृतमार्गशीर्षस्नानफलकथनम्
श्रीगणेशाय नमः
अथ मार्गशीर्षमासमाहात्म्यप्रारम्भः
सूत उवाच
देवकीनन्दनं कृष्णं जगदानन्दकारकम् ॥
भु्क्तिमुक्तिप्रदं वन्दे माधवं भक्तवत्सलम्
॥१॥श्वेतद्वीपे सुखासीनं देवदेवं रमापतिम् ॥
चतुर्वक्त्रो नमस्कृत्य पप्रच्छ पितरं तदा
॥२॥ब्रह्मोवाच
हृषीकेश जगद्धातः पुण्यश्रवणकीर्तन ॥
पृष्टं यद्ब्रूहि देवेश सर्वज्ञ सकलेश्वर
॥३॥मासानां मार्गशीर्षोऽहमित्युक्तं भवता पुरा ॥
तस्य मासस्य माहात्म्यं ज्ञातुमिच्छामि तत्त्वतः
॥४॥को देवस्तस्य किं दानं कथं स्नानं विधिश्च कः ॥
पुरुषैस्तत्र किं कार्यं भोक्तव्यं किं रमापते
॥५॥वक्तव्यं किं तथा पूजाध्यानमंत्रादिकं च यत् ॥
तत्र यत्क्रियते कर्म तत्सर्वं ब्रूहि मेऽच्युत
॥६॥श्रीभगवानुवाच
साधु पृष्टं त्वया ब्रह्मन्सर्वलोकोपकारिणा ॥
यस्मिन्कृते कृतं सर्वमिष्टापूर्तादिकं भवेत
॥७॥सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥
तत्फलं समवाप्नोति मार्गशीर्षे कृते सुत
॥८॥तुलापुरुषदानाद्यैर्यत्फलं लभते नरः ॥
तत्फलं प्राप्यते पुत्र माहात्म्यश्रवणात्किल
॥९॥यज्ञाध्ययनदानाद्यैः सर्वतीर्थावगाहनैः ॥
संन्यासेन च योगेन नाऽहं वश्योऽभवं नृणाम्
॥१०॥स्नानेन दानेन च पूजनेन ध्यानेन मौनेन जपादिभिश्च ॥
वश्यो यथा मार्गशिरे च मासि तथा न चान्येषु च गुह्यमुक्तम्
॥११॥अन्यैर्धर्मादिभिः कृत्वा गोपितं मार्गशीर्षकम् ॥
मत्प्राप्तेः कारणं मत्वा देवैः स्वर्गनिवासिभिः
॥१२॥ये केचित्पुण्यकर्माणो मम भक्तिपरायणाः ॥
तेषामवश्यं कर्तव्यो मार्गशीर्षो मदापनः
॥१३॥मार्गशीर्षं न कुर्वंति ये नरा भारताऽजिरे ॥
पापरूपाश्च ते ज्ञेयाः कलिकालविमोहिताः
॥१४॥अष्टस्वपि च मासेषु यत्फलं लभते नरः ॥
तत्फलं प्राप्यते वत्स माघे मकरगे रवौ
॥१५॥माघाच्छतगुणं पुण्यं वैशाखे मासि लभ्यते ॥
तस्मात्सहस्रगुणितं तुलासंस्थे दिवाकरे
॥१६॥तस्मात्कोटिगुणं पुण्यं वृश्चिकस्थे दिवाकरे ॥
मार्गशीर्षोऽधिकस्तस्मात्सर्वदा च मम प्रियः
॥१७॥उषस्युत्थाय यो मर्त्यः स्नानं विधिवदाचरेत् ॥
तुष्टोऽहं तस्य यच्छामि स्वात्मानमपि पुत्रक
॥१८॥अत्राप्युदाहरन्तीदं शृणु पुत्र कथानकम् ॥
नन्दगोपो महात्मा वै ख्यातो यो भूतलेऽभवत्
॥१९॥तस्य वै गोकुले रम्ये गोपकन्याः सहस्रशः ॥
तासां चित्तं च मद्रूपे लग्नमासीत्पुराऽनघ
॥२०॥तासां बुद्धिर्मया दत्ता मागशीर्षाऽवगाहने ॥
ततस्ताभिः कृतं स्नानं प्रातःकाले यथाविधि
॥२१॥पूजा कृता हविष्यान्नं भुक्तं ताभिः कृता नतिः ॥
एवं कृतेन विधिना प्रसन्नोऽहं ततोऽनघ
॥२२॥वरो दत्तो मयाऽऽत्मा हि तासां तुष्टेन वै किल ॥
तस्मान्नरैस्तु कर्तव्यो मार्गशीर्षो यथाविधि
॥२३॥इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये गोपीकृतमार्गशीर्षस्नानफलकथनंनाम प्रथमोऽध्यायः ॥ १ ॥