मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय २

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 2

त्रिपुंड्रधारणविधिकथनम्

ब्रह्मोवाच

त्वयोक्तो विधिसंयुक्तो मार्गशीर्षो मदापनः ॥

को विधिस्तस्य देवेश सर्वं मे ब्रूहि केशव

॥१॥

श्रीभगवानुवाच

रात्रावन्ते समुत्थाय उपस्पृश्य यथाविधि ॥

नमस्कृत्या गुरुं स्वीयं संस्मरेन्मामतंद्रितः

॥२॥

सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ॥

बहिर्ग्रामात्समुत्सृज्य मलमूत्रं यथाविधि

॥३॥

शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ॥

दंतधावनपूर्वं च स्नानं कृत्वा यथाविधि

॥४॥

आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ॥

मूलमंत्रेणाऽभिमंत्र्य गायत्र्या वा महामते

॥५॥

मंत्रेणैवाऽनुलिप्तांगः स्नायादप्स्वघमर्षणम् ॥

अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं विधीयते

॥६॥

तीर्थं प्रकल्पयेद्विद्वान्मन्त्रेणाऽनेन मन्त्रवित् ॥

ॐनमो नारायणायेति मूलमन्त्र उदाहृतः

॥७॥

दर्भपाणिस्तु विधिना आचांतः पुरतः शुचिः ॥

चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ॥

प्रकल्प्याऽऽवाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः

॥८॥

विष्णुपादप्रसूताऽसि वैष्णवी विष्णुदेवता ॥

त्राहि नस्त्वमघादस्मादाजन्ममरणांतिकात्

॥९॥

तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् ॥

दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि

॥१०॥

नंदिनीत्येव ते नाम देवेषु नलिनीति च ॥

दक्षपुत्री च विहगा विश्वगा योगिनां मता

॥११॥

विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ॥

क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी

॥१२॥

एतानि पुण्यनामानि स्नानकाले सदा पठेत् ॥

सदा संनिहिता तत्र गंगा त्रिपथगामिनी

॥१३॥

सप्तवाराभिजप्तेन करसंपुटयोजितम् ॥

मूर्ध्ना कृतांजलिर्भूयस्त्रिचतुः पंच सप्त वा ॥

स्नानं कुर्यान्मृदा तद्वदामंत्र्याऽनुविधानतः

॥१४॥

अश्वक्रांते रथक्रांते विष्णुक्रांते वसुन्धरे ॥

मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्

॥१५॥

उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ॥

नमस्ते सर्वभूतानां प्रभवाऽरणि सुव्रते

॥१६॥

एवं स्नात्वा ततः पश्चादाचम्य च विधानतः ॥

उत्थाय वाससी शुक्ले कूले वै परिधाय च

॥१७॥

आचम्य तर्पयेद्देवान्पितॄंश्चैव ऋषींस्तथा ॥

निष्पीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः

॥१८॥

विमलां मृत्तिकां रम्यामादाय द्विजसत्तम ॥

मन्त्रेणैवाऽभिमंत्र्याऽथ ललाटादिषु वैष्णवः ॥

धारयेदूर्ध्वपुण्ड्राणि यथासंख्यमतंद्रितः

॥१९॥

ब्रह्मन्द्वादशपुण्ड्राणि ब्राह्मणः सततं वहेत् ॥

चत्वारि भूभृतां पुत्र पुण्ड्राणि द्वे विशां स्मृते ॥

एकं पुंड्रं च नारीणां शूद्राणां च विधीयते

॥२०॥

ललाट उदरे चैव वक्षो वै कण्ठकूबरे ॥

कुक्ष्योर्बाह्वोः कर्णयोश्च पृष्ठे त्रिके च वै शिरः ॥

तिलका द्वादश प्रोक्ता ब्राह्मणस्य सदाऽनघ

॥२१॥

ललाटे हृदि बाह्वोश्च क्षात्रः पुंड्राणि धारयेत् ॥

ललाटे हृदये वैश्यो भाले वै शूद्रयोषिताम्

॥२२॥

ललाटे केशवं ध्यायेन्नारायणमथोदरे ॥

वक्षःस्थले माधवं च गोविंदं कण्ठकूबरे

॥२३॥

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ॥

त्रिविक्रमं कर्णमूले वामनं वामपार्श्वके

॥२४॥

श्रीधरं वामबाहौ च हृषीकेशं च कर्णके ॥

पृष्ठे तु पद्मनाभः स्यात्त्रिके दामोदरं न्यसेत्

॥२५॥

तत्प्रक्षालनतोयेन वासुदेवं तु मूर्धनि ॥

एवं कार्यं ब्राह्मणस्य क्षत्रियस्योपधारयेत्

॥२६॥

ललाटे केशवं ध्यायेद्धृदये माधवं तथा ॥

बाह्वोश्च उभयोर्वत्स स्मरेद्वै मधुसूदनम्

॥२७॥

क्षत्रियस्य विधिः प्रोक्तो वैश्यकृत्यं निशामय ॥

ललाटे केशवं ध्यायेद्धृदये माधवं तथा

॥२८॥

योषिच्छूद्रौ स्मरेतां च केशवं भालदेशके ॥

अनेन विधिना कुर्यात्पुंड्राणि मम तुष्टये

॥२९॥

श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं तथा ॥

श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम्

॥३०॥

एकांतिनो महाभागाः सर्वलोकहिते रताः ॥

सांऽतरालं प्रकुर्वंति पुण्ड्रं हरिपदाकृतिम्

॥३१॥

मध्ये छिद्रेण संयुक्तमेतद्धि हरिमंदिरम् ॥

ऊर्ध्वं सौम्यमृजुं सूक्ष्मं सुपार्श्वं सुमनोहरम्

॥३२॥

निरंतरालं यः कुर्यादूर्ध्वपुंड्रं द्विजाऽधमः ॥

स हि तत्र स्थितं लक्ष्म्या सह मां च व्यपोहति

॥३३॥

अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति द्विजाधमाः ॥

तैर्ललाटे शुनः पादं निक्षिप्तं वै न संशयः

॥३४॥

तस्माच्छिद्रान्वितं पुंड्रं महच्छिद्रं शुभान्वितम् ॥

धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये त्रिपुंड्रधारणविधिकथनंनाम द्वितीयोऽध्यायः ॥ २ ॥