चक्राद्यायुधधारणतत्तन्मुद्राधारणप्रकारकथनम्
ब्रह्मोवाच
पुंड्रं कतिविधं कार्यं प्रब्रूहि मम केशव ॥
पुंड्राणां श्रवणेऽतीव कौतुकं मम जायते
॥१॥श्रीभगवानुवाच
शृणु पुत्र प्रवक्ष्यामि पुंड्रं च त्रिविधं स्मृतम् ॥
तुलसीमृत्स्नया सार्धं श्रीगोपीचंदनेन च
॥२॥हरिचंदनतः कार्यं पुंड्रं तत्र विचक्षणैः ॥
श्रीकृष्णतुलसीमूलमृदमादाय भक्तिमान् ॥
धारयेदूर्ध्वपुंड्राणि हरिस्तत्र प्रसीदति
॥३॥गोपीचंदन माहात्म्यं निबोध गदतो मम
॥४॥यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टके ॥
करोति नित्यं नर ऊर्ध्वपुंड्रं क्रियाफलं कोटिगुणं तदा भवेत्
॥५॥क्रियाविहीनं यदि मन्त्रहीनं श्रद्धाविहीनं यदि कालवर्जितम् ॥
कृत्वा ललाटे यदि गोपिचंदनं प्राप्नोति तत्कर्मफलं सदाऽव्ययम्
॥६॥गोपीचंदनसंभवं सुरुचिरं पुंड्रं ललाटे द्विजो नित्यं धारयते यदि प्रतिदिनं रात्रौ दिवा सर्वदा ॥
यत्पुण्यं कुरुजांगले रविग्रहे माघ प्रयागे तथा तत्प्राप्नोति ततोऽधिकं मम गृहे संतिष्ठते देववत्
॥७॥यस्मिन्गृहे तिष्ठति गोपिचंदनं भक्त्या ललाटे मनुजो बिभर्ति चेत् ॥
तस्मिन्गृहेऽहं निवसामि सर्वदा श्रियान्वितः कंसनिहा चतुर्मुख
॥८॥यो धारयेद्द्द्वारवतीसमुद्भवां मृत्स्नां पवित्रां कलिकल्मषापहाम् ॥
नित्यं ललाटे मम मन्त्रसंयुतां यमं न पश्येदपि पापसंयुतः
॥९॥यस्यांऽतकाले सुत गोपिचंदनं बाह्वोर्ललाटे हृदि मस्तके च ॥
प्रयाति लोके कमलापतेर्मम गोबालघाती यदि ब्रह्महा स्यात्
॥१०॥ग्रहा न पीड्यंति न रक्षसां गणा यक्षाः पिशाचोरगभूतनायकाः ॥
ललाटपट्टे सुत गोपिचंदनं संतिष्ठते यस्य मम प्रभावात्
॥११॥ऊर्ध्वपुंड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ॥
स चंडालोऽपि शुद्धात्मा पूज्य एव न संशयः
॥१२॥अस्नातो यः क्रियाः कुर्यादशुचिः पापसंयुतः ॥
गोपीचंदनसंपर्कात्पूतो भवति तत्क्षणात्
॥१३॥अशुचिर्वाप्यनाचारो महापापं समाचरेत् ॥
शुचिरेव भवेन्नित्यमूर्ध्वपुंड्रांऽकितो नरः
॥१४॥मत्प्रियार्थं शुभार्थं वा रक्षार्थं चतुरानन ॥
मत्पूजाहोमके चैव सायं प्रातः समाहितः ॥
मद्भक्तो धारयेन्नित्यमूर्ध्वपुंड्रं भवापहम्
॥१५॥ऊर्ध्वपुंड्रधरो मर्त्यो म्रियते यदि कुत्रचित् ॥
श्वपाकोऽपि विमानस्थो मम लोके महीयते
॥१६॥ऊर्ध्वपुंड्रधरो मर्त्यो यदा यस्यान्नमश्नुते ॥
तदा विंशत्कुलं तस्य नरकादुद्धराम्यहम्
॥१७॥वीक्ष्याऽऽदर्शे जले वाऽपि यो विदध्यात्प्रयत्नतः ॥
ऊर्ध्वपुण्ड्रं महाभाग स याति परमां गतिम्
॥१८॥अनामिका शांतिदोक्ता मध्यमाऽऽयुष्करी भवेत् ॥
अंगुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षदायिनी
॥१९॥गोपीचंदनखंडं तु यो ददाति च वैष्णवे ॥
कुलमष्टोत्तरं तेन तारितं वै भवेच्छतम्
॥२०॥यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रविनाकृतम्
॥२१॥यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रविनाकृतम् ॥
तन्मुखं नैव पश्यामि श्मशानसदृशं हि तत्
॥२२॥ऊर्ध्वपुण्ड्रं प्रकुर्वीत मत्स्यकूर्मादिधारणम् ॥
कुर्याद्विष्णुप्रसादार्थं महाविष्णोरतिप्रियम्
॥२३॥यत्पुनः कलिकाले तु मत्पुरीसंभवां मृदम् ॥
मत्स्यकूर्मांऽकितं चिह्नं गृहीत्वा कुरुते नरः
॥२४॥देहे तस्य प्रविष्टं मां जानीहि त्रिदशोत्तम ॥
तस्य मे नांतरं किंचित्कर्तव्यं श्रेय इच्छता
॥२५॥ममावतारचिह्नानि दृश्यंते यस्य विग्रहे ॥
मर्त्यो मर्त्यो न विज्ञेयः स नूनं मामकी तनुः
॥२६॥पापं सुकृतरूपं तु जायते तस्य देहिनः ॥
ममाऽऽयुधानि दृश्यंते लिखितानि कलौ युगे
॥२७॥उभाभ्यामपि चिह्नाभ्यां योंऽकितो मत्स्यमुद्रया ॥
कूर्मया मामकं तेजो विक्षिप्तं तस्य विग्रहे
॥२८॥शंख च पद्मं च गदां रथांगं मत्स्यं च कूर्मं रचितं स्वदेहे ॥
करोति नित्यं सुकृतस्य वृद्धिं पापक्षयं जन्मशतार्जितस्य
॥२९॥नारायणायुधैर्नित्यं चिह्नितो यस्य विग्रहः ॥
पापकोटिप्रयुक्तस्य तस्य किं कुरुते यमः
॥३०॥शंखोद्धारे च यत्प्रोक्तं वसता कोटिजन्मभिः ॥
तत्फलं लभते शंखे प्रत्यहं दक्षिणे भुजे
॥३१॥यत्फलं पुष्करे प्रोक्तं पुण्डरीकाक्षदर्शनात् ॥
शंखोपरि कृते पद्मे तत्फलं कोटिसंमितम्
॥३२॥वामे भुजे गदा यस्य लिखिता दृश्यते कलौ ॥
गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति
॥३३॥यच्चानंदपुरे प्रोक्तं चक्रस्वामिसमीपतः ॥
गदाचक्रे च लिखिते तत्फलं लिंगदर्शने
॥३४॥ममायुधांऽकितं देहं गोपीचन्दनमृत्स्नया ॥
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति
॥३५॥यदायदा प्रपश्येत देहं शंखादिचिह्नितम् ॥
तदातदा प्रसन्नोहं पापं तस्य दहामि वै
॥३६॥तिष्ठते यस्य देहे तु अहोरात्रं दिने दिने ॥
शंखचक्रगदापद्मलिखितं स मदात्मकः
॥३७॥नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे ॥
यत्पुण्यं कर्म कुरुते मेरुतुल्यं न संशयः
॥३८॥शंखायुधांऽकितो भक्त्या यः श्राद्धं कुरुते सुत ॥
विधिहीनं तु संपूर्णं पितॄणां दत्तमक्षयम्
॥३९॥यथाऽग्निर्दहते काष्ठं वायुना प्रेषितो भृशम् ॥
तथा दह्यंति पापानि दृष्ट्वा म आयुधानि वै
॥४०॥मम नामांकितां मुद्रामष्टाक्षरसमन्विताम् ॥
शंखादिस्वायुधैर्युक्तां स्वर्णरौप्यमयीमपि
॥४१॥धत्ते भगवतो यस्तु कलिकाले विशेषतः ॥
प्रह्रादस्य समो ज्ञेयो नान्यथा मम वल्लभः
॥४२॥यस्य नारायणी मुद्रा देहं शंखादिचिह्नितम् ॥
धात्रीफलैः कृता माला तुलसीकाष्ठसंभवा
॥४३॥द्वादशाक्षरमंत्रस्तु नियुक्तानि कलेवरे ॥
आयुधानि च विप्रस्य मत्समः स च वैष्णवः
॥४४॥शंखांकिततनुर्विप्रो भुंक्ते वै यस्य वेश्मनि ॥
तदन्नं स्वयमश्नामि पितृभिः सह पुत्रक
॥४५॥कृष्णायुधांऽकितं दृष्ट्वा सन्मानं न करोति यः ॥
द्वादशाब्दार्जितं पुण्यं बाष्कलेयाय गच्छति
॥४६॥कृष्णायुधांऽकितो यस्तु श्मशाने म्रियते यदि ॥
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य मानद
॥४७॥ममाऽऽयुधैः कलौ नित्यं मंडितो यस्य विग्रहः ॥
तत्राऽऽश्रमं प्रकुर्वंति विबुधा वासवादयः
॥४८॥यः करोति च मे पूजां मम शस्त्रांकितो नरः ॥
अपराधसहस्राणि नित्यं तस्य हराम्यहम्
॥४९॥कृत्वा काष्ठमयं बिंबं मम शस्त्रैः सुचिह्नितम् ॥
यो वा अंकयते देहं तत्समो नास्ति वैष्णवः
॥५०॥अष्टाक्षरांऽकिता मुद्रा यस्य धातुमयी करे ॥
शंखपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः
॥५१॥धृता नारायणी मुद्रा प्रह्रादेन पुरा करे ॥
विभीषणेन बलिना ध्रुवेण च शुकेन च ॥
मांधात्रा ह्यंबरीषेण मार्कंडेयमुखैर्द्विजैः
॥५२॥शंखादिचिह्नितैः शस्त्रैर्देहं कृत्वा च मानद ॥
एवमाराध्य मां प्राप्तं समीहितफलं महत्
॥५३॥गोपीचंदनमृत्स्नया लिखितो यस्य विग्रहः ॥
शंखचक्रादिपद्मांऽको देहे तस्य वसाम्यहम्
॥५४॥सौवर्णं राजतं ताम्रं कांस्यमायसमेव च ॥
चक्रं कृत्वा तु मेधावी धारयीत विचक्षणः ॥
द्वादशारं तु षट्कोणं वलित्रयविभूषितम्
॥५५॥एवं सुदर्शनं चक्रं कारयीत विचक्षणः ॥
उपवीतादिवद्धार्याः शंखचक्रगदाः सदा
॥५६॥ब्राह्मणैश्च विशेषेण वैष्णवैश्च विशेषतः ॥
उपवीतं शिखा यद्वच्चक्रं लांछन संयुतम्
॥५७॥चक्रलांछनहीनस्य विप्रस्य विफलं भवेत् ॥
मम चक्रांऽकितो देहः पवित्र इति वै श्रुतिः
॥५८॥चक्रांऽकिताय दातव्यं हव्यं कव्यं विचक्षणैः ॥
मम चक्रांऽककवचमभेद्यं देवदानवैः ॥
अजेयः सर्वभूतानां शत्रूणां रक्षसामपि
॥५९॥मम चक्रांऽककवचं शरीरे यस्य तिष्ठति ॥
नाऽशुभं विद्यते तस्य गृहपुत्रादिकस्य हि
॥६०॥दक्षिणे च भुजे विप्रो बिभृयाद्वै सुदर्शनम् ॥
सव्ये च शंखं बिभृयादिति वेदविदो विदुः
॥६१॥तत्तन्मंत्रेण मंत्रज्ञः प्रतिष्ठाप्य पृथक्पृथक्
॥६२॥ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ॥
नंदकं चैव हृन्मध्ये शंखचक्रे भुजद्वये
॥६३॥तस्मात्सर्वप्रयत्नेन चक्रादीन्धारयेत्सदा ॥
धारणानन्तरं ब्रूयात्तत्र चैवं द्विजोत्तमः
॥६४॥पुत्रमित्रकलत्रादिर्यः कश्चिन्मत्परिग्रहः ॥
सह देहेन सर्वोऽसौ विष्णुप्रीत्यै मयाऽर्पितः
॥६५॥पश्चात्स्वधर्ममास्थाय तिष्ठेदाजीवनं मम ॥
भक्त्या चाव्यभिचारिण्या सर्वदाऽऽप्तमनोरथः
॥६६॥शंखचक्रांकितं दृष्ट्वा ये निंदंति नराधमाः ॥
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥
श्रीकृष्णनाम चोच्चार्य शुद्धो भवति नान्यथा
॥६७॥इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे गोपीचन्दनादिशंख चक्राद्यायुधधारणतत्तन्मुद्राधारणप्रकारकथनंनाम तृतीयोऽध्यायः ॥ ३ ॥