भागवतश्रैष्ठ्यमाहात्म्यवर्णनम्
श्रीभगवानुवाच
शृणु ध्यानं चतुर्वक्त्र वक्ष्यामि प्रीतमानसः ॥
श्रुतेनैव च सौभाग्यं लभते मानवो भुवि
॥१॥अथ श्रीमदुद्यानसंवीतहैमस्थलोद्भासिरत्नस्फुरन्मंडपांतः ॥
लसत्कल्पवृक्षोदितोद्दीप्तरत्नस्थलाधिष्ठितांभोजपीठाऽधिरूढम्
॥२॥महानीलनीलाभमत्यंतबालं गुडस्निग्धवक्त्रांतविस्रस्तकेशम् ॥
अलिव्रातपर्याकुलोत्फुल्लपद्मप्रमुग्धाननं श्रीमदिंदीवराक्षम्
॥३॥चलत्कुंडलोल्लासितोत्फुल्लगल्लं सुघोणं सुशोणाधरं सुस्मितास्यम् ॥
अनेकोल्लसत्कंठभूषालसंतं वहंतं नखं पौंडरीकं सुनेत्रम्
॥४॥समुद्धूसरोरःस्थलं धेनुधूल्या सुपुष्टांगमष्टापदाकल्पदीप्तम् ॥
कटीरस्थले चारुजंघोरुयुग्मे पिनद्धं क्वणत्किंकिणीजालदाम्ना
॥५॥हसंतं लसद्बंधुजीवप्रसूनप्रभापाणिपादांबुजोदारकांत्या ॥
करे दक्षिणे पायसं वामहस्ते दधानं नवं शुद्धहैयंगवीनम्
॥६॥महीभारभूताऽमरारातियूथाऽनलं पूतनादीन्निहंतुं प्रवृत्तम् ॥
प्रभुं गोपिकागोपवृंदेन वीतं सुरेन्द्रादिभिर्वंदितं देवदेवम्
॥७॥प्रगे पूजयित्वा त्वनुस्मृत्य कृष्णं भुजंगेंद्रवज्रादिभिर्भक्तिनम्रः ॥
सितांभोजहैयंगवीनैश्च दध्ना विमिश्रेण दुग्धेन संप्रीणयेत्तम्
॥८॥इति प्रातरेवाऽर्चयेदत्युतं यो नरः प्रत्यहं शश्वदास्तिक्ययुक्तः ॥
लभेत्सोऽचिरेणैव लक्ष्मीं समग्रामिह प्रेत्य शुद्धं परं धाम भूयात्
॥९॥मन्त्रश्चोक्तः पुरा पुत्र आदौ लोकमनोहरः ॥
श्रीमद्दामोदराख्यो हि शृणु तस्याधिकारिणः
॥१०॥अयोग्याय न दातव्यो मंत्रराजस्त्वया सुत ॥
यत्नेन गोपनीयं च रहस्यं शीघ्रसिद्धिदम्
॥११॥अलसं मलिनं क्लिष्टं दंभमोहसमन्वितम् ॥
दरिद्रं रोगिणं क्रुद्धं रागिणं भोगलालसम्
॥१२॥असूयामत्सरग्रस्तं शठं परुषवादिनम् ॥
अन्यायेनाऽर्जितधनं परदाररतं सदा
॥१३॥विदुषां वैरिणं नित्यमज्ञं पंडितमानिनम् ॥
भ्रष्टव्रतं क्लिष्टवृत्तिं पिशुनं दुष्टमानसम्
॥१४॥बह्वाशिनं क्रूरचेष्टमग्रगण्यं दुरात्मनाम् ॥
कृपणं पापिनं रौद्रमाश्रितानां भयंकरम्
॥१५॥एवमादिगुणैर्युक्तं शिष्यं नैव परिग्रहेत् ॥
गृह्णीयाद्यदि तद्दोषः प्रायो गुरुमुपस्पृशेत्
॥१६॥अमात्यदोषो राजानं जायादोषः पतिं यथा ॥
तथा शिष्यकृतो दोषो गुरुं प्राप्नोत्यसंशयम्
॥१७॥तस्माच्छिष्यं गुरुर्नित्यं परीक्ष्यैव परिग्रहेत् ॥
कायेन मनसा वाचा गुरुशुश्रूषणे रतम्
॥१८॥अस्तेयवृत्तिमास्तिक्ययुक्तं मोक्षकृतोद्यमम् ॥
ब्रह्मचर्यरतं नित्यं दृढव्रतमकल्मषम्
॥१९॥प्रसन्नहृदयं शुद्धमशठं विमलाशयम् ॥
परोपकारनिरतं स्वार्थे च विगतस्पृहम्
॥२०॥स्वचित्तवित्तदेहैस्तु परितोषकरं गुरोः ॥
आश्रितानां तथा पुत्र परितोषकरं शुचिम्
॥२१॥ईदृग्विधाय शिष्याय मंत्रं दद्याच्च नान्यथा ॥
यद्यन्यथा वदेत्तस्मिन्देवताशाप आपतेत्
॥२२॥शृणु पुत्र प्रवक्ष्यामि गुरोरपि च लक्षणम् ॥
एभिस्तु लक्षणैर्युक्तो गुरुरेव भवेन्नृणाम्
॥२३॥समचेताः प्रशांतात्मा विमन्युश्च सुहृन्नृणाम् ॥
साधुर्महान्समो लोके स गुरुः परिकीर्तितः
॥२४॥मम व्रतधरो नित्यं वैष्णवानां सुसंमतः ॥
मदाश्रयकथासक्तो ममोत्सवरतः सदा
॥२५॥कृपासिन्धुः सुपूर्णार्थः सर्वसत्त्वोपकारकः ॥
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः
॥२६॥सर्वसंशयसंछेत्ताऽनलसो गुरुरादृतः ॥
ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम्
॥२७॥पूर्वोक्तलक्षणैर्युक्तः शिष्य ईदृग्विधाद्गुरोः ॥
गृह्णीयात्पुत्र तन्मंत्रं मार्गशीर्षे मदायने
॥२८॥वैष्णवानां व्रतानां च कुर्यात्स्वीकरणं बुधः ॥
मत्प्रियं शृणुयाच्छश्वच्छ्रीमद्भागवतं परम्
॥२९॥श्रीमद्भागवतंनाम पुराणं लोकविश्रुतम् ॥
शृणुयाच्छ्रद्धया युक्तो मम सन्तोषकारणम्
॥३०॥नित्यं भागवतं यस्तु पुराणं पठते नरः ॥
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम्
॥३१॥श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ॥
पठते शृणुयाद्यस्तु गोसहस्रफलं लभेत्
॥३२॥यः पठेत्प्रयतो नित्यं श्लोकं भागवतं सुत ॥
अष्टादशपुराणानां फलमाप्नोति मानवः
॥३३॥नित्यं मम कथा यत्र तत्र तिष्ठन्ति वैष्णवाः ॥
कलिबाह्या नरास्ते वै येऽर्चयन्ति सदा मम
॥३४॥वैष्णवानां तु शास्त्राणि येऽर्चयन्ति गृहे नराः ॥
सर्वपापविनिर्मुक्ता भवंति सुरवन्दिताः
॥३५॥येऽर्चयन्ति गृहे नित्यं शास्त्रं भागवतं कलौ ॥
आस्फोटयंति वल्गन्ति तेषां प्रीतो भवाम्यहम्
॥३६॥यावद्दिनानि हे पुत्र शास्त्रं भागवतं गृहे ॥
तावत्पिबंति पितरः क्षीरं सर्पिर्मधूदकम्
॥३७॥यच्छंति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये ॥
कल्पकोटिसहस्राणि मम लोके वसंति ते
॥३८॥येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः ॥
प्रीणितास्तैश्च विबुधा यावदाऽऽभूतसंप्लवम्
॥३९॥श्लोकार्धं श्लोकपादं वा वरं भागवतं गृहे ॥
शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसंग्रहैः
॥४०॥न यस्य तिष्ठते शास्त्रं गृहे भागवतं कलौ ॥
न तस्य पुनरावृत्तिर्याम्यपाशात्कदाचन
॥४१॥कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ॥
गृहे न तिष्ठते यस्य श्वपचादधिको हि सः
॥४२॥सर्वस्वेनाऽपि लोकेश कर्तव्यः शास्त्रसंग्रहः ॥
वैष्णवस्तु सदा भक्त्या तुष्ट्यर्थं मम पुत्रक
॥४३॥यत्र यत्र भवेत्पुण्यं शास्त्रं भागवतं कलौ ॥
तत्र तत्र सदैवाऽहं भवामि त्रिदशैः सह
॥४४॥तत्र सर्वाणि तीर्थानि नदीनदसरांसि च ॥
यज्ञाः सप्तपुरी नित्यं पुण्याः सर्वे शिलोच्चयाः
॥४५॥श्रोतव्यं मम शास्त्रं हि यशोधर्मजयार्थिना ॥
पापक्षयार्थं लोकेश मोक्षार्थं धर्मबुद्धिना
॥४६॥श्रीमद्भागवतं पुण्यमायुरारोग्यपुष्टिदम् ॥
पठनाच्छ्रवणाद्वाऽपि सर्वपापैः प्रमुच्यते
॥४७॥न शृण्वंति न हृष्यंति श्रीमद्भागवतं परम् ॥
सत्यंसत्यं हि लोकेश तेषां स्वामी सदा यमः
॥४८॥न गच्छति यदा मर्त्यः श्रोतुं भागवतं सुत ॥
एकादश्यां विशेषेण नाऽस्ति पापरतस्ततः
॥४९॥श्लोकं भागवतं चाऽपि श्लोकार्धं पादमेव वा ॥
लिखितं तिष्ठते यस्य गृहे तस्य वसाम्यहम्
॥५०॥सर्वाऽऽश्रमाऽभिगमनं सर्वतीर्थाऽवगाहनम् ॥
न तथा पावनं नॄणां श्रीमद्भागवतं यथा
॥५१॥यत्र यत्र चतुर्वक्त्र श्रीमद्भागवतं भवेत् ॥
गच्छामि तत्रतत्राऽहं गौर्यथा सुतवत्सला
॥५२॥मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् ॥
मत्कथाप्रीतमनसं नाऽहं त्यक्ष्यामि तं नरम्
॥५३॥श्रीमद्भागवतं पुण्यं दृष्ट्वा नोत्तिष्ठते हि यः ॥
सांवत्सरं तस्य पुण्यं विलयं याति पुत्रक
॥५४॥श्रीमद्भागवतं दृष्ट्वा प्रत्युत्थानाभिवादनैः ॥
सन्मानयेत तं दृष्ट्वा भवेत्प्रीतिर्ममाऽतुला
॥५५॥दृष्ट्वा भागवतं दूरात्प्रक्रमेत्संमुखं हि यः ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम्
॥५६॥उत्थाय प्रणमेद्यो वै श्रीमद्भागवतं नरः ॥
धनं पुत्रांस्तथा दारान्भक्तिं च प्रददाम्यहम्
॥५७॥महाराजोपचारैस्तु श्रीमद्भागवतं सुत ॥
शृण्वंति ये नरा भक्त्या तेषां वश्यो भवाम्यहम्
॥५८॥ममोत्सवेषु सर्वेपु श्रीमद्भागवतं परम् ॥
शृण्वंति ये नरा भक्त्या मम प्रीत्यै च सुव्रत
॥५९॥वस्त्रालंकरणैः पुष्पैर्धूपदीपोपहारकैः ॥
वशीकृतो ह्यहं तैश्च सत्स्त्रिया सत्पतिर्यथा
॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये भागवतश्रैष्ठ्यमाहात्म्यवर्णनंनाम पोडशोऽध्यायः ॥ १६ ॥