मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय ४

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 4

शंखपूजाविधिकथनम्

ब्रह्मोवाच

तप्तचकांकितं कृत्वा ह्यात्मानमथ दीक्षितम् ॥

पद्माक्षतुलसीमालं किं फलं ब्रूहि केशव

॥१॥

श्रीभगवानुवाच

तुलसीकाष्ठसंभूतां यो मालां वहते द्विजः ॥

अप्यऽशौचोऽप्यनाचारो मामेवैति न संशयः

॥२॥

धात्रीफलकृता माला तुलसीकाष्ठसंभवा ॥

दृश्यते यस्य देहे तु स वै भागवतो नरः

॥३॥

तुलसीदलजां मालां कण्ठस्थां वहते तु यः ॥

ममोत्तीर्णां विशेषेण स नमस्यो दिवौकसाम्

॥४॥

तुलसीदलजां मालां धात्रीफलकृतामपि ॥

ददाति पापिनां मुक्तिं किं पुनर्मम सेविनाम्

॥५॥

तुलसीदलजां मालां ममोत्तीर्णां वहेत्तु यः ॥

पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम्

॥६॥

तुलसीकाष्ठसंभूतां यो मालां वहते नरः ॥

फलं यच्छाम्यहं वत्स प्रत्यहं द्वारकोद्भवम्

॥७॥

निवेद्य भक्त्या मां मालां तुलसीकाष्ठसंभवाम् ॥

वहते यो नरो भक्त्या तस्य वै नास्ति पातकम्

॥८॥

सदा प्रीतमनास्तस्य अहं प्राणवरो हि सः ॥

तुलसीकाष्ठसंभूतां यो मालां वहते नरः ॥

प्रायश्चित्तं न तस्याऽस्ति नाऽशौचं तस्य विग्रहे

॥९॥

तुलसीकाष्ठसंभूतं शिरसः काष्ठभूषणम् ॥

बाहौ करे च मर्त्यस्य देहे यस्य स मे प्रियः

॥१०॥

तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ॥

पितॄणां देवतानां च पुण्यं कोटिगुणं भवेत्

॥११॥

तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥

दृष्ट्वा नश्यंति दूरेण वातोद्धूतं यथा दलम्

॥१२॥

यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथाऽऽर्द्रकम् ॥

भवंति तद्गृहे नैव पापं संक्रमते कलौ

॥१३॥

तुलसी काष्ठमालाभिर्भूषितो र्भ्रमते भुवि ॥

दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित्

॥१४॥

धारयंति न ये मालां हैतुकाः पापबुद्धयः ॥

नरकान्न निवर्तंते दग्धाः कोपाग्निना मम

॥१५॥

तस्माद्धार्या प्रयत्नेन माला तुलसिसंभवा ॥

पद्माक्षनिर्मिता भक्त्या फलैर्धात्र्या सुपुण्यदा

॥१६॥

तदूर्ध्वपुंड्रशंखाद्यैर्युक्तस्तुलसिमूलके ॥

सन्ध्योपास्त्यादिकं कुर्यात्कुशपाणिर्हिं मां स्मरन्

॥१७॥

कृतसन्ध्यादिको भक्तस्ततः संपूजयेच्च माम् ॥

गुरुश्चेत्तत्र वर्तेत आदौ गत्वा नमेद्गुरुम्

॥१८॥

किंचिद्दत्त्वोपायनं च दण्डवत्प्रणमेन्मुदा ॥

आचम्यैकाग्रमनसा पूजामण्डपमाविशेत्

॥१९॥

उपविश्याऽऽसने रम्ये कृष्णाजिनकुशोत्तरे ॥

सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत्

॥२०॥

प्राणायामत्रयं कृत्वा मन्त्रेण च जितेंद्रियः ॥

उदङ्मुखस्ततः कृत्वा हृत्पंकजमनुत्तमम् ॥

विकासं तस्य कुर्वीत विज्ञानरविणा हृदि

॥२१॥

कर्णिकायां न्यसेच्चार्कं शशिनं चाग्निमेव च ॥

त्रयं त्रयात्मके तस्मिश्चिंतयेद्वैष्णवो नरः ॥

नानारत्नमयं पीठं तेषामुपरि विन्यसेत्

॥२२॥

तस्मिन्मृदुश्लक्ष्णतरं बालार्कसदृशद्युति ॥

अष्टैश्वर्यदलं पद्मं मन्त्राक्षरमयं न्यसेत्

॥२३॥

तस्मिन्देवं समासीनं कोटिशीतांशुसन्निभम् ॥

चतुर्भुजं महापद्मशंखचक्रगदाधरम्

॥२४॥

पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् ॥

श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रान्वितं च माम्

॥२५॥

विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम् ॥

दिव्यचन्दनलिप्तांगं दिव्यपुष्पोपशोभितम्

॥२६॥

तुलसीकोमलदलवनमालाविभूषितम् ॥

कोटिबालार्कसदृशं कान्तं दिव्यश्रिया सह

॥२७॥

सर्वलक्षणलक्षिण्या समाश्लिष्टतनुं शिवम् ॥

एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः

॥२८॥

सहस्रं शतवारं वा यथाशक्ति जपेन्मनुम् ॥

मनसैवाऽर्चनं कृत्वा ततो विधिवदाचरेत्

॥२९॥

संप्रदायाऽनुरोधेन शंखं स्थाप्य ममाग्रतः ॥

दूर्वांकुरैश्च पुष्पैश्च गंधोदेन च पूरितम्

॥३०॥

दक्षिणे गंधपुष्पाणां पात्रं स्थाप्य च देशिकैः ॥

वामभागे न्यसेत्कुंभं वस्त्रपूतं सुवासितम्

॥३१॥

पुरतो मम घंटां च दिक्षु दीपान्नियोजयेत् ॥

अन्यत्सर्वं साधनं च यथास्थानेषु विन्यसेत्

॥३२॥

अर्घ्यपाद्याऽऽचमनीयमधुपर्कस्य कारणात् ॥

विन्यसेत्पुरतो मह्यं चत्वार्यमत्रकाणि वै

॥३३॥

सिद्धार्थाऽक्षतपुष्पाणि कुशाग्रं तिलचंदनम् ॥

फलं यवाश्चतुर्वक्त्र अर्घ्यपात्रे विनिःक्षिपेत्

॥३४॥

दूर्वा विष्णुपदी श्यामा पद्मं चैव चतुर्थकम् ॥

पाद्यपात्रे न्यसेत्पुत्र देशिको मम तुष्टये

॥३५॥

कंकोलं च लवंगं च फलं मालतिसंभवम् ॥

कुर्याद्वै श्रद्धया पुत्र पात्र आचमनीयके

॥३६॥

गव्यं पयो दधि मधु घृतं खंड समन्वितम् ॥

मधुपर्कस्य पात्रे वै दद्याद्वै श्रद्धयाऽर्चकः

॥३७॥

उक्तानां द्रव्यजातीनामलाभे पत्रपुष्पयोः ॥

तत्तद्भावनया कुर्यात्सर्वदा विधिकोविदः

॥३८॥

करन्यासं ततः कुर्यादंगन्यासं तथैव च ॥

पंचांगं वा षडंगं वा विन्यसेत्संप्रदायतः

॥३९॥

ममाऽनुस्मरणं कार्यमात्मानं मत्समं स्मरेत् ॥

पूजारंभे चतुर्वक्त्रं मंगलं तु पठेन्नरः

॥४०॥

अथ संपूजयेच्छंखं पांचजन्यं मम प्रियम् ॥

यस्य संपूजनाद्वत्स आनंदः परमो मम ॥

शंखस्य पूजने वत्स मंत्रानेतानुदीरयेत्

॥४१॥

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥

निर्मितः सर्वदेवैश्च पांचजन्य नमोऽस्तु ते

॥४२॥

तव नादेन जीमूता वित्रसंति सुराऽसुराः ॥

शशांकाऽयुतदीप्ताभ पांचजन्य नमोऽस्तु ते

॥४३॥

गर्भा देवारिनारीणां विलीयंते सहस्रधा ॥

तव नादेन पाताले पांचजन्य नमोऽस्तु ते

॥४४॥

दर्शनेनैव शंखस्य किं पुनः स्पर्शने कृते ॥

विलयं यांति पापानि हिमवद्भास्करोदये

॥४५॥

नत्वा शंखं करे धृत्वा मंत्रैरेभिस्तु वैष्णवः ॥

यः स्नापयति मां भक्त्या तस्य पुण्यमनंतकम्

॥४६॥

सुवासितेन तैलेन कुर्यादभ्यंजनं ततः ॥

कस्तूर्या चंदनेनैव कुर्यादुद्वर्तनादिकम्

॥४७॥

सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ॥

अर्घ्यं दत्त्वा ततो वत्स पाद्यमाचमनीयकम् ॥

मधुपर्कं ततो दद्यादथ सर्वोपचारकान्

॥४८॥

वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि ॥

पुष्पैः संपूजयेत्पीठं तत्र देवं निधाय च

॥४९॥

वस्त्राऽलंकारगंधादीनर्पयेच्छ्रद्धया मम ॥

नैवेद्यं विविधं दद्यात्पायसाऽपूपमिश्रितम् ॥

सकर्पूरं च तांबूलं भक्त्या चैव निवेदयेत्

॥५०॥

सुरभीणि च पुष्पाणि भक्त्या सम्यङ्निवेदयेत् ॥

धूपं दशांगमष्टांगं दीपं च सुमनोहरम्

॥५१॥

परिणीय प्रणम्याथ स्तुत्वा स्तुतिभिरादरात् ॥

शाययित्वा तु पर्यंके मगलार्घ्यं निवेदयेत्

॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शंखपूजाविधिकथनंनाम चतुर्थोऽध्यायः ॥ ४ ॥