मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय ९

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 9

नैवेद्यविधिकथनम्

ब्रह्मोवाच

नैवेद्यस्य विधिं ब्रूहि देव मे तत्त्वतः प्रभो ॥

अन्नं कतिविधं चेष्टं व्यंजनादीन्यशेषतः

॥१॥

श्रीभगवानुवाच

साधु पृष्टं त्वया वत्स मम प्रीतिकरं परम् ॥

वक्ष्यामि तेऽन्नपानादिव्यंजनादीन्यशेषतः

॥२॥

आदौ हिरण्मयं पात्रं तदभावे च राजतम् ॥

तदभावे च पालाशं विस्तीर्णं बहुसुन्दरम्

॥३॥

कचोलाः शतशः कार्याः पात्रे वै परितोऽनघ ॥

तन्मध्ये व्यंजना देया नानाफलमयाः शुभाः

॥४॥

पायसं चन्द्रसंकाशं पात्रे वै शर्करायुतम् ॥

भक्तं कुमुदसंकाशं मुद्गान्काचप्रभाञ्छुभान्

॥५॥

नानाव्यंजनसंरुद्धं त्रिभिः पंक्तिभिरेव च ॥

निंबूरसेन चंद्रेण फलमूलयुतेन च

॥६॥

वैकृताश्च तदा कार्याः शतशो भोजने मम ॥

द्राक्षास्तु मिश्रिताश्चूतकरमर्द कृताः शुभाः

॥७॥

मरीचपिप्पलीसार्द्रकैलाचंद्रकसंयुताः ॥

क्वाथिताः कथिकाः कार्याः शतशो भोजने मम

॥८॥

प्रलेहनास्तथा कार्याः कचोलशतसंकुलाः ॥

नानाकुसुमसंमोदयुक्ताः सहसि मे प्रियाः

॥९॥

मंडका वर्तुला रम्याः समाः सर्वत्र बिंदुवत् ॥

सितया सहितेनाऽथ दुग्धेन क्वथितेन च

॥१०॥

मधुवर्णेन गव्येन युक्ते तस्मिन्सुभोजने ॥

कचोले सुप्रभे वत्स स्थितं कांचनसुप्रभम्

॥११॥

घृतं सुवासितं प्रीत्या देयं हि मम भोजने ॥

तत्र गोधूमपात्रेण चंद्रकेण हि चोज्ज्वलम्

॥१२॥

सौवाह्लिकाः पूरिकास्तु शतच्छिद्राः सवेष्टिकाः ॥

अपूपाश्च तथा क्षीरं प्रकारांस्तु प्रकारयेत्

॥१३॥

मणयः सूत्रसंज्ञाश्च मालतीकुसुमादयः ॥

पर्पटा वर्पटा रम्या माषकूष्मांडसंभवाः

॥१४॥

वटकान्नवधा रम्यान्कुर्यान्मासे सहे मम ॥

द्विधा जातीमरीचैश्च पूरिता द्रोणके शुभाः

॥१५॥

युक्तेन लवणेनाऽतिशुद्धतैलेन पूरिताः ॥

कुंकुमाभाः स्नेहहीनाः सक्षता इव दुर्जनाः

॥१६॥

दधिदुग्धयुताः केचिच्चिंचिणीचूतसंभवाः ॥

द्राक्षारसयुताः केचित्तथैवेक्षुरसैर्युताः

॥१७॥

राजिका जलमध्यस्थास्तथाऽन्ये सितया सह ॥

रसैश्चतुर्विधैश्चान्यैर्वटका नवधा मताः

॥१८॥

वज्रप्रभाऽनुकणिकाचारबीजसुखारिकैः ॥

शकलैर्नारिकेलस्य लवंगशतसंयुताः

॥१९॥

घृतक्षीरसिताद्यास्ताः कटाहे सुप्रलोडिताः ॥

लब्धासितादिकृसररम्याः स्निग्धाश्च फेणिकाः

॥२०॥

पराकिकासु वै पक्वाः कृताश्चंद्रेण पोलिकाः ॥

मोदकास्तत्र वै कार्याश्चारबीजभवाः परे

॥२१॥

सितया सहिताः कार्या अन्ये दुग्धेन निर्मिताः ॥

नारिकेलफलैश्चाऽन्ये वृक्षनिर्यासनिर्मिताः

॥२२॥

बदामैश्च शुभाश्चाऽन्ये तिलैश्च कणबीजकैः ॥

ईदृशान्मोदकांश्चान्यांस्तुष्ट्यर्थं मम कारयेत्

॥२३॥

अर्शोघ्नं मोचनीकंदं तथाऽऽर्द्रं करमर्दकम् ॥

नारिंगं चिंचिणीकं च कंकोलफलमेव च

॥२४॥

दशारं त्रिपुरीजातं शुभं निंबफलं बिसम् ॥

तिंदूफलं लवंगं च श्रीफलं तिलकं लुति

॥२५॥

वल्कलं वंशकारीरं तथा कायफलं बलम् ॥

द्राक्षाफलं चूतफलं रम्यं कंटकिनीफलम्

॥२६॥

धात्रीफलं शुक्तिभवं फलमंबाडवं तथा ॥

रंभाफलं पिप्पली च मरीचाश्च मनोहराः

॥२७॥

शुद्धसर्षपतैलेन लवणेन सुवेधितम् ॥

तथा राजिकया विद्धं त्रिभिर्वर्षैर्घटे स्थितम्

॥२८॥

एवंविधानि जातानि व्यंजनानि च मानद ॥

कर्तव्यानि सहोमासे मम प्रीतिकराणि वै

॥२९॥

एतादृशे भोजने चेदसामर्थ्यं भवेद्यदि ॥

एवं कार्यं तदा तेन संक्षेपेण शृणुष्व मे

॥३०॥

लड्डूकमेकं घृतपूरमेकं फेनद्वयं कोकरसत्रयं च ॥

घृतप्लुतं मंडकषोडशानां वटाष्टदायी नरकं न पश्येत्

॥३१॥

आढकं सुचिरपर्युषितं च दुग्धं खंडस्य षोडशपलानि शशिप्रभस्य ॥

सर्पिष्पलं मधुपलं मरिचं द्विकर्षं शुंठ्याः पलार्धमथवाऽर्धपलं चतुर्णाम्

॥३२॥

श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टां कर्पूरधूलिधवलीकृतभांडसंस्थाम् ॥

एतां शुभां रसवतीं प्रकरोति यो वै कामान्ददामि सकलान्मनुजस्य तस्य

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये नैवेद्यविधिकथनंनाम नवमोऽध्यायः ॥ ९ ॥