एकादशीव्रतजागरणफलकथनम्
श्रीभगवानुवाच
शृणु पुत्र प्रवक्ष्यामि जागरस्य च लक्षणम् ॥
येन विज्ञातमात्रेण सुलभोऽहं सदा कलौ
॥१॥गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ॥
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम्
॥२॥फलार्पणं च श्रद्धां च दानमिंद्रियसंयमम् ॥
सत्यान्वितं विनिद्रं च मुदा मद्यजनान्वितम्
॥३॥साश्चर्यं चैव सोत्साहं पापालस्यादिवर्जनम् ॥
प्रदक्षिणासमायुक्तं नमस्कारपुरःसरम्
॥४॥नीराजनसमायुक्तमतिहृष्टेन चेतसा ॥
यामेयामे महाभाग कुर्यादारार्तिकं मम
॥५॥षड्विंशद्गुणसंयुक्तमेकादश्यां च जागरम् ॥
यः करोति नरो भक्त्या न पुनर्जायते भुवि
॥६॥य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥
जागरं परया भक्त्या स लीनो जायते मयि
॥७॥दष्टाः कलिभुजंगेन स्वपन्ते ये दिने मम ॥
कुर्वंति जागरं नैव मायापाशविमोहिताः
॥८॥प्राप्ताप्येकादशी येषां कलौ जागरणं विना ॥
ते विनष्टा न संदेहो यस्माज्जीवितमध्रुवम्
॥९॥उद्धृतं नेत्रयुग्मं च दत्त्वा वै हृदये पदम् ॥
कृतं ये नैव पश्यंति पापिनो मम जागरम्
॥१०॥अभावे वाचकस्याऽथ गीतं नृत्यं च कारयेत् ॥
वाचके सति देवेश पुराणं प्रथमं पठेत्
॥११॥अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
पुण्यं कोटिगुणं पुत्र मम जागरणे कृते
॥१२॥पितृपक्षे मातृपक्षे भार्यापक्षे च मानद ॥
कुलान्युद्धरते चैतन्मम जागरणे कृते
॥१३॥उपोषणदिने विघ्ने प्रारब्धे जागरे सति ॥
विहाय स्थानं तत्राहं शापं दत्त्वा व्रजाम्यहम्
॥१४॥अविद्धवासरे ये मे प्रकुर्वंति हि जागरम् ॥
तेषां मध्ये प्रहृष्टः सन्नृत्यं वै प्रकरोम्यहम्
॥१५॥यावद्दिनानि कुरुते जागरं मम सन्निधौ ॥
युगाऽयुतानि तावंति वसते मम वेश्मनि
॥१६॥न गयापिंडदानेन न तीर्थैर्बहुभिर्मखैः ॥
पूर्वजा मुक्तिमायांति विनैकादशिजागरात्
॥१७॥यः कुर्याज्जागरे पूजां कुसुमैर्मम वासरे ।
पुष्पेपुष्पेऽश्वमेधस्य फलमाप्नोति मानवः ॥
यः कुर्याद्दीपदानं च रात्रौ जागरणे मम ॥
निमिषे निमिषे पुत्र लभते गोऽयुतं फलम्
॥१९॥यो दद्याज्जागरे पुत्र हविष्यान्नसमुद्भवम् ॥
नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम्
॥२०॥पक्वान्नानि च यो दद्यात्फलानि विविधनि च ॥
जागरे मे चतुर्वक्त्र लभते गोशतं फलम्
॥२१॥कर्पूरेण च तांबूलं ददाति मम जागरे ॥
मद्भक्तो मत्प्रसादेन सप्तद्वीपाऽधिपो भवेत्
॥२२॥जागरे मम देवेश यः कुर्यात्पुष्पमण्डपम् ॥
स पुष्पकविमानेन क्रीडते मम सद्मनि
॥२३॥जागरे मे तु यो धूपं सकर्पूरं सगुग्गुलम् ॥
ददाति दहते पापं जन्मलक्षसमुद्भवम्
॥२४॥स्नापयेज्जागरे यो मां दधिक्षीरघृतांबुकैः ॥
भोगानिह लभेद्वै स ह्यन्ते च परमां गतिम्
॥२५॥दिव्यांऽबराणि यो दद्यात्फलानि विविधानि च ॥
स चिरं वसते स्वर्गे तं तु संख्यासमानि वै
॥२६॥दद्यादाभरणं यो मे हेमजं रत्नसंभवम् ॥
सप्तकल्पानि वसते सोत्संगे मत्प्रियो मम
॥२७॥घृतेन दीपकं यो मे गव्येन च विशेषतः ॥
ज्वालयेज्जागरे रात्रौ निमिषे गोयुतं फलम्
॥२८॥जागरे मे चतुर्वक्त्र कर्पूरेण च दीपकम् ॥
यो ज्वालयेत नीराजं कपिलादानजं फलम्
॥२९॥यः पुनः कुरुते दीपं गीतं नृत्यं च पूजनम् ॥
शतक्रतुसमं पुण्यं व्रतैर्दानशतैरपि
॥३०॥स्वयं यः कुरुते गीतं विलज्जो नृत्यते यदि ॥
स लभेन्निमिषार्धेन कोटियज्ञकृतं फलम्
॥३१॥निवारयति यो गीतं नृत्यं जागरणे मम ॥
षष्टियुगसहस्राणि पच्यते रौरवादिषु
॥३२॥नृत्यमानस्य मर्त्यस्य ये केचिन्निकटे गताः ॥
विमुक्ता धर्मराजेन मुक्ता यांति च मत्पदम्
॥३३॥नृत्यमानस्य मर्त्यस्य उपहासं करोति यः ॥
जागरे यांति निरयं यावदिंद्राश्चतुर्दश
॥३४॥जागरे मम यः कुर्याद्भक्त्या पुस्तकवाचनम् ॥
श्लोकसंख्यायुगान्येव स वसेन्मम सन्निधौ
॥३५॥प्रदक्षिणाप्रदानेन यत्फलं कथितं बुधैः ॥
न तत्कोटिमखैः पुण्यं युगसंख्यैरवाप्यते
॥३६॥दीपमाला ममाग्रे वै यः कुर्याज्जागरे सुत ॥
विमानकोटिसंयुक्त आकल्पं वसते दिवि
॥३७॥मम बालचरित्राणि जागरे पठते हि यः ॥
युगकोटिसहस्राणि श्वेतद्वीपे वसेन्नरः
॥३८॥तस्माज्जागरणं कार्यं पक्षयोः शुक्लकृष्णयोः
॥३९॥यो गीतां पठते रात्रौ मम नामसहस्रकम् ॥
वेदोक्तानां पुराणानां जागरात्पुण्यमाप्नुयात्
॥४०॥धेनुदानं तु यः कुर्याज्जागरे मम पु्त्रक ॥
लभते नात्र संदेहः सप्तद्वीपवतीफलम्
॥४१॥सर्वेषामेव पुण्यानां महत्पुण्यं महीतले ॥
द्वादशीजागरं पुत्र प्रसिद्धं भुवनत्रये
॥४२॥जागरं ये च कुर्वंति कर्मणा मनसा गिरा ॥
न तेषां पुनरावृत्तिर्मम लोकात्कथंचन
॥४३॥प्रोत्साहयित्वा लोकान्यः कुरुते जागरं निशि ॥
प्राप्नोति चक्रवर्तित्वं सत्यं मे व्याहृतं सुत
॥४४॥संमानिताः ककुत्स्थेन रात्रौ जागरकारिणः ॥
स्वशक्त्या चैव दानेन प्राप्तं राज्यं सुदुर्लभम्
॥४५॥ये केचिद्गायका विप्रा वादका नर्तकाश्च ये ॥
नर्तकीसहिता यांति मम लोके सनातने
॥४६॥दुर्योनिषु गतैः सर्वैः कृत्वा जागरणं मम ॥
संप्राप्तं पृथिवीशत्वं कामुकैर्मुनिसत्तम
॥४७॥निष्कामा मुक्तिमापन्नाः श्वपचाद्याश्च जागरात् ॥
विवेको नास्ति वर्णानां मम जागरकारिणाम्
॥४८॥न कलौ पावनं ध्यानं न कलौ जाह्नवीजलम् ॥
न कलौ पावनं जाप्यं मुक्त्वैकं जागरं मम
॥४९॥द्वादशीदिवसे प्राप्ते ये कुर्वंति हि जागरम् ॥
ते धन्यास्ते कृतार्था वै कलिकाले न संशयः
॥५०॥न भूयान्मानुषे लोके द्वादशीविमुखो नरः ॥
अतीतानागतान्वाऽपि पातयेन्नरके हि सः
॥५१॥वरमेको गुणैर्युक्तः किं जातैर्बहुभिः सुतैः ॥
द्वादशीजागरात्सर्वांस्तारयेद्यो हि पूर्वजान्
॥५२॥माहात्म्यं पठते भक्त्या मयोक्तं जागरोद्भवम् ॥
द्वादशीसंभवः पुत्रः कुलानां तारयेच्छतम्
॥५३॥अगम्यागमने पापमभक्ष्यस्यापि भक्षणे ॥
पापं विलयमायाति कृते जागरणे सुत
॥५४॥अज्ञानाद्यत्कृतं पापं ज्ञात्वा यत्पातकं कृतम् ॥
पूर्वजन्मार्जितं पापमिह जन्मनि यत्कृतम्
॥५५॥सिद्ध्यंति सर्वकार्याणि मनसा चिंतितान्यपि ॥
द्वादश्यां वै चतुर्वक्त्र रात्रौ जागरणे कृते
॥५६॥द्वादशीजागरेणैव मुक्तिं गच्छंति मानवाः
॥५७॥न तत्पुण्यं कुरुक्षेत्रे प्रयागे वसतां कलौ ॥
माहात्म्यं वसतां पुंसां यत्फलं द्वादशीषु च
॥५८॥नाऽश्वमेधसहस्रैस्तु तीर्थकोट्यवगाहनात् ॥
तत्फलं प्राप्यते पुत्र द्वादशीजागरे कृते
॥५९॥पठेद्वा शृणुयाद्वाऽपि माहात्म्यं द्वादशीभवम् ॥
सर्वपापविशुद्धात्मा स लभेच्छाश्वतीं गतिम्
॥६०॥सर्वे दुष्टाः समस्ताश्च सौम्यास्तस्य सदा ग्रहाः ॥
संततेर्न वियोगस्तु द्वादशी यस्य कारणम्
॥६१॥मम कीर्तिरुचिर्नित्यं न विपद्येत कर्हिचित् ॥
रणे राजकुले चैव सर्वदा विजयी भवेत्
॥६२॥धर्मोपरि मतिर्नित्यं भक्तिर्मयि सुनिर्मला ॥
पातकं नैव लिप्येत द्वादशीभक्तितो नरम्
॥६३॥प्रेतत्वं नैव तस्याऽस्ति कृते जागरणे मम ॥
एकादश्या विहीनस्य परलोकगतिर्नहि ॥
तस्मात्सर्वप्रयत्नेन कलौ कार्यं हि तद्दिनम्
॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णु संवादे मार्गशीर्षमासमाहात्म्य एकादशीव्रतजागरणफलकथनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥