शंखपूजनफलकथनम्
ब्रह्मोवाच
पंचामृतस्य स्नपनाद्यत्फलं लभते हरेः ॥
शंखोदकेन यत्किंचित्तन्मे ब्रूह्यजिताऽच्युत
॥१॥श्रीभगवानुवाच
क्षीरस्नानं प्रकुर्वंति ये नरा मम मूर्द्धनि ॥
शताश्वमेधजं पुण्यं बिंदुना बिंदुना स्मृतम्
॥२॥क्षीराद्दशगुणं दध्ना घृतेनैव दशोत्तरम् ॥
मधुना तद्दशगुणं सितया तु ततोऽधिकम् ॥
गंधपुष्पोदके मंत्रं सर्वोत्कृष्टं प्रशस्यते
॥३॥द्वादश्यां पंचदश्यां वा गव्येन पयसा मम ॥
स्नापनं देवशार्दूल महापातकनाशनम्
॥४॥दध्यादीनां विकाराणां क्षीरतः संभवो यथा ॥
तथैव शेषकामानां क्षीरस्नपनतो मम
॥५॥क्षीरस्नानेन सौभाग्यं दध्ना मिष्टान्नभोजनम् ॥
घृतेन स्नापयेद्यो मां नरो मम पुरं व्रजेत्
॥६॥मधुना सितया यस्तु कारयेन्मार्गशीर्षके ॥
स राजा जायते लोके पुनः स्वर्गादिहागतः
॥७॥गजाश्वरथसंपूर्णं स राज्यं लभते भुवि ॥
कारयेन्मार्गशीर्षे वै यः क्षीरस्नापनं मम
॥८॥स्वर्गे लोके स जयति चंद्रेंद्ररुद्रमारुतान् ॥
क्षीरस्नानं परं श्रेष्ठं मार्गशीर्षे च पुत्रक
॥९॥क्षीरस्नपनमाहात्म्यं वर्चस्कं पुष्टिवर्धनम् ॥
दौर्भाग्यं विलयं याति क्षीरस्नानेन मे सुत
॥१०॥स्नापयेन्मार्गशीर्षे मां यो वै पंचाऽमृतेन तु ॥
स न शोच्यो भवेज्जंतुर्बंधुना भुवि मानद
॥११॥कपिलाक्षीरमादाय यः स्नापयति मां सुत ॥
कपिलाशतदानस्य फलं प्राप्नोति मानवः
॥१२॥शंखे तीर्थोदकं कृत्वा यः स्नापयति देशिकः ॥
बिंदुनाऽपि सहोमासे स्वकुलं तारयेद्धि सः
॥१३॥कापिलं क्षीरमादाय शंखे कृत्वा च मानवः ॥
यः स्नापयति मां भक्त्या सर्वतीर्थफलं लभेत्
॥१४॥शंखे कृत्वा तु पानीयं साक्षतं कुशसंयुतम् ॥
यः स्नापयेत्सहोमासे सर्वतीर्थफलं लभेत्
॥१५॥शंखाष्टकेन यः स्नानं कारयेन्मार्गशीर्षके ॥
भक्त्या भगवतः श्रेष्ठो मम लोके महीयते
॥१६॥शंखषोडशकेनाथ यः स्नापयति मे सुत ॥
स पापमुक्तः सुचिरं स्वर्गलोके महीयते
॥१७॥चतुर्विंशतिसंख्याकैः शंखैर्यः स्नापयेच्च माम् ॥
इंद्रलोके चिरं स्थित्वा स राजा भुवि जायते
॥१८॥शंखाऽष्टोत्तरशतेनैव स्नापयेन्मार्गशीर्षके ॥
शंखेशंखे सुवर्णस्य फलं प्राप्नोति मानवः
॥१९॥मार्गशीर्षे भक्तिमान्यः कृत्वा शंखध्वनिं हि माम् ॥
स्नापयेत्पितरस्तस्य स्वर्गं तावत्प्रतिष्ठिताः
॥२०॥अष्टोत्तरसहस्रं तु शंख स्नानं तु यश्चरेत् ॥
स गणो मुक्तिमाप्नोति यावदाभूतसंप्लवम्
॥२१॥नित्यं संस्नापयेद्यो मां शंखेन सुरसत्तम ॥
गंगास्नानफलं प्राप्य नित्यं नंदति देववत्
॥२२॥शंखेतोयं समादाय यः स्नापयति मां सुत ॥
नमो नारायणेत्युक्त्वा मुच्यते सर्वकिल्बिषैः
॥२३॥कृत्वा पादोदकं शंखे वैष्णवानां महात्मनाम् ॥
यो ददाति तिलोन्मिश्रं चांद्रायणफलं लभेत्
॥२४॥नाद्यं तडागजं वाऽपि वापीकूपादिकं च यत् ॥
गांगेयं जायते सर्वं जलं शंखकृतं च यत्
॥२५॥गृहीत्वा मम पादांबु शंखे कृत्वा तु वैष्णवः ॥
यो वहेच्छिरसा नित्यं स मुनिस्तपतां वरः
॥२६॥त्रैलोक्ये यानि तीर्थानि मम चैवाज्ञया सुत ॥
शंखे तानि वसंतीह तस्माच्छंखो वरः स्मृतः
॥२७॥सांबुं शंखं करे धृत्वा मंत्रैरेतैस्तु वैष्णवः ॥
यः स्नापयेन्मार्गशीर्षे तुष्टस्तस्य भवाम्यहम्
॥२८॥शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ॥
पृष्ठे प्रजापतिश्चैव अग्रे गंगा सरस्वती
॥२९॥तेषामुच्चारपूर्वं तु स्नापयेन्मामतंद्रितः ॥
तस्य पुण्यस्य संख्यां वै कर्तुं नैव सुराः क्षमाः
॥३०॥पुरतो मम देवेश सपुष्पः सजलाक्षतः ॥
शंखस्त्वभ्यर्चितस्तिष्ठेत्तस्य श्रीः सर्वतोमुखी
॥३१॥विलेपनेन संपूर्णं शंखं कृत्वा तु मां भजेत् ॥
तदा मे परमा प्रीतिर्भवेद्वै शतवार्षिकी
॥३२॥शंखे कृत्वा तु पानीयं सपुष्पं सजलाक्षतम् ॥
अर्घ्यं ददाति यो मां वै तस्य पुण्यमनंतकम्
॥३३॥अर्घ्यं कृत्वा स्वयं शंखे यः करोति प्रदक्षिणाम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
॥३४॥भ्रामयित्वा च मे मूर्ध्नि मंदिरं शंखवारिणा ॥
प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्ग्रहे भवेत्
॥३५॥नाधयो न क्लमस्तस्य नारकं न भयं क्वचित् ॥
यस्य पादोदकं शंखे कृतं मूर्धानमालभेत्
॥३६॥ग्रहा रक्षांसि कूष्मांडपिशाचोरगदानवाः ॥
दृष्ट्वा शंखोदकं मूर्ध्नि विद्रवंति दिशो दश
॥३७॥वादित्रनिनदैरुच्चैर्गीतमंगलनिःस्वनैः ॥
यः स्नापयति मां भक्त्या जीवन्मुक्तो भवेद्धि सः
॥३८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शंखपूजनफलकथनंनाम पंचमोऽध्यायः ॥ ५ ॥