मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय १०

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 10

तत्फलकथनयोगः

ब्रह्मोवाच

नैवेद्यानंतरं तात किं कर्तव्यं नृभिः प्रभो ॥

यत्कर्तव्यं सहोमासे तत्सर्वं ब्रूहि तत्त्वतः

॥१॥

श्रीभगवानुवाच

अथ भुक्तवते दत्त्वा जलैः कर्पूरवासितैः ॥

आचमनं च तांबूलं चंदनं करमार्जनम्

॥२॥

पुष्पांजलिं ततः कुर्याद्भक्त्याऽऽदर्शं प्रदर्शयेत् ॥

नीराजनं ततः कार्यं कार्पूरं विभवे सति

॥३॥

समर्प्य मुकुटादीनि भूषणानि विचक्षणः ॥

ततः पश्चान्महाभाग प्रकल्प्य च्छत्रचामरे

॥४॥

प्रसादसुमुखं ध्यात्वा श्यामसुंदरविग्रहम् ॥

जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम्

॥५॥

शंखरौप्यमयी माला कांचनी च विशेषतः ॥

पद्माक्षैश्चैव सुभगैर्विद्रुमैर्मणिमौक्तिकैः

॥६॥

रचितेंद्राक्षकैर्माला तथैवांगुलिपर्वभिः ॥

पुत्रजीवमयी माला शस्ता वै जपकर्मणि

॥७॥

न च क्रमन्न च हसन्न पार्श्वमवलोकयन् ॥

न पदा पदमाक्राम्य करप्राप्तशिरास्तथा

॥८॥

नोत्तिष्ठन्मन्मनुं विद्वान्न जपेद्व्यग्रमानसः ॥

जपकाले न भाषेत व्रतहोमार्चनादिषु

॥९॥

गृहेष्वेकगुणंजाप्यं गोष्ठे दशगुणं भवेत् ॥

नदीतीरे शतं विद्यादग्न्यगारे दशाऽधिकम्

॥१०॥

तीर्थादिषु सहस्रं स्यादनंतं मम सन्निधौ ॥

एवं कृत्वा सहोमासे यः कुर्याच्च प्रदक्षिणाम्

॥११॥

सप्तद्वीपवतीपुण्यं लभते स पदेपदे ॥

पठन्नामसहस्रं तु अथवा नाम केवलम्

॥१२॥

एका प्रदक्षिणा भक्त्या दहेत्पापं सदाऽऽह्निकम् ॥

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा

॥१३॥

दिनसप्तोद्भवं पापं मम तिस्रः प्रदक्षिणाः ॥

तत्क्षणान्नाशयंत्येव पापं देहे दशाऽऽह्निकम्

॥१४॥

कृताः प्रदक्षिणा येन एकविंशति भक्तितः ॥

भ्रूणहत्यादिपापानि नाशमायांति तत्क्षणात्

॥१५॥

अष्टोत्तरशतं येन कृता भक्त्या प्रदक्षिणाः ॥

तेनेष्टं क्रतुभिः सर्वैः समाप्तवरदक्षिणैः

॥१६॥

प्रदक्षिणीकृता तेन तावद्वारं वसुन्धरा ॥

मातुः प्रदक्षिणास्तद्वद्भूतधात्रीप्रदक्षिणाः

॥१७॥

शालिग्रामशिलायाश्च सममेतत्त्रयं स्मृतम् ॥

एको दंडप्रपातश्च सहे सप्तप्रदक्षिणाः

॥१८॥

सममेतद्द्वयं नो वा दंडपातो विशिष्यते ॥

प्रदक्षिणे दंडपातं यः करोति सदा मम

॥१९॥

सहोमासे विशेषेण आकल्पं स वसेद्दिवि ॥

कल्पादनंतरं तात चक्रवर्ती प्रजायते

॥२०॥

चिरायुर्धनवान्भोगी दानवान्धर्मवत्सलः ॥

सहस्रनामपठनात्पापं नश्येत्त्रिधा कृतम्

॥२१॥

अथ किं बहुनोक्तेन शृणु गुह्यं च मे सुत ॥

दामोदरेति नाम्ना वै भवेत्प्रीतिर्ममाऽतुला

॥२२॥

गुणसंबंधि मन्नाम कृतं मात्रा यशोदया ॥

यदा मे दधिभांडस्य स्फोटनं गोकुले कृतम्

॥२३॥

तदा यशोदया गाढं बद्धो दाम्ना ह्युलूखले ॥

ततः प्रभृति मे नाम ख्यातं दामोदरेति च

॥२४॥

नमो दामोदरायेति जपेद्यः सुसमाहितः ॥

सूर्योदये शुचिर्भूत्वा त्रिसहस्रं दिनेदिने

॥२५॥

सार्द्धलक्षत्रयं यावत्तत उद्यापयेद्बुधः ॥

तर्पणं हवनं चैव ब्रह्मभोज्यं दशांशतः

॥२६॥

एवं यः कुरुते भक्त्या तस्य यच्छामि वांछितम् ॥

धनं धान्यं तथा दारान्पुत्रांश्चान्यच्च वांछितम्

॥२७॥

त्रिसत्येन मया चोक्तं श्रद्धत्स्व त्वं महामते ॥

मंत्रराजमिमं पुत्र कृपया मे प्रकाशितम्

॥२८॥

दामोदरायेति पठन्नित्यं कुर्यात्प्रदक्षिणम् ॥

दंडपातं तथा पुत्र अष्टांगेन समन्वितम्

॥२९॥

पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा तथा ॥

मनसा वचसा दृष्टवा प्रणामोष्टांग उच्यते

॥३०॥

शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ॥

प्रपन्नं पाहि मामीश भीतं मृत्युग्रहाऽर्णवात्

॥३१॥

पश्चाच्छेषां मया दत्तां शिरस्याधाय सादरम् ॥

एवं ब्रूयात्ततो वत्स मम पूजाप्रपूर्त्तये

॥३२॥

मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ॥

यत्पूजितं मया देव परिपूर्णं तदस्तु मे

॥३३॥

मृदंगवाद्येन समं प्रणवेन सुसंयुतम् ॥

एवं कार्यं सहोमासे नृत्यं पुण्यप्रदं नृणाम्

॥३४॥

गीतं वाद्यं च नृत्यं च तथा पुस्तकवाचनम् ॥

पूजाकाले चतुर्वक्त्र सर्वदा मम च प्रियम्

॥३५॥

गीतवाद्याद्यभावे च मम नामसहस्रकम् ॥

स्तवराजं तथा पुत्र गजेंद्रस्य च मोक्षणम्

॥३६॥

अनुस्मृतिश्च गीता च स्तवनं पंचधा मतम् ॥

पंचस्तवं महाभाग मम प्रीतिकरं परम्

॥३७॥

पादोदकं पिबेद्यो वै शालिग्रामसमुद्भवम् ॥

पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्

॥३८॥

शालिग्रामशिलातोयं यः पिबेद्बिंदुना समम् ॥

मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्नरः

॥३९॥

आशौचं नैव विद्येत सूतके मृतकेऽपि च ॥

येषां पादोदकं मूर्ध्नि प्राशनं ये प्रकुर्वते

॥४०॥

अंतकालेऽपि यस्येदं दीयते पादयोर्जलम् ॥

सोऽपि सद्गतिमाप्नोति सदाचारबहिष्कृतः

॥४१॥

अपेयं पिबते यस्तु भुंक्ते यद्यप्यभोजनम् ॥

अगम्यागमनो यो वै पापाचारश्च यो नरः

॥४२॥

सोऽपि पूतो भवत्याशु सद्यः पादांबुधारणात् ॥

चांद्रायणात्पादकृच्छ्रादधिकं पादयोर्जलम्

॥४३॥

अगुरुं कुंकुमं वाऽपि कर्पूरं चाऽनुलेपनम् ॥

मम पादांबुसंस्पृष्टं तद्वै पावनपावनम्

॥४४॥

दृष्टिपूतं तु यत्तोयं भवेद्वै विप्रसत्तम ॥

तद्वै पापहरं नृणां किं पुनः पादयोर्जलम्

॥४५॥

प्रियस्त्वं मेऽग्रजः पुत्रो विशेषेण च मत्प्रियः ॥

तदर्थं कथितं सर्वं रहस्यं यच्च मे स्थितम्

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये पूजाविधिसमापनं तदुद्यापनं तत्फलकथनयोगोनाम दशमोऽध्यायः ॥ १० ॥