मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय ८

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 8

दीपमाहात्म्यवर्णनम्

ब्रह्मोवाच

श्रीमत्तुलसिमाहात्म्यं यथावद्वर्णय प्रभो ॥

यस्याः सन्निधिमात्रेण प्रीतिर्भवति तेऽधिका

॥१॥

श्रीभगवानुवाच

मणिकांचनपुष्पाणि तथा मुक्तामयानि च ॥

तुलसीपत्रदानस्य कलां नार्हंति षोडशीम्

॥२॥

तुलसीमंजरीभिर्यः कुर्याद्वै मम पूजनम् ॥

न स गर्भगृहं यायान्मुक्तिभागी भवेन्नरः

॥३॥

आरोप्य तुलसीं वत्स पूजयेत्तद्दलैश्च माम् ॥

दिवि संमोदमानः स श्वेतद्वीपे च मे गृहे

॥४॥

श्रीमत्तुलस्यार्चयते सकृद्धि मां पत्रैः सुगन्धैर्विमलैरखंडितैः ॥

यस्तस्य पापं पटसंस्थितं तदा निरीक्षयित्वा परिमार्जयेद्यमः

॥५॥

तुलसी न येषां मम पूजनार्थं संपादितैकादशिपुण्यवासरे ॥

धिग्यौवनं जीवितमर्थसन्ततिस्तेषां सुखं नेह च दृश्यते परे

॥६॥

लिंगमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम् ॥

तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया

॥७॥

नित्यमभ्यर्चयेद्यो वै तुलस्या मां रमेश्वरम् ॥

महापापानि नश्यंति किं पुनश्चोपपातकम्

॥८॥

वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम् ॥

न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम्

॥९॥

तावद्गर्जंति पुष्पाणि मालत्यादीनि भोः सुत ॥

यावन्न प्राप्यते पुण्या तुलसी मम वल्लभा

॥१०॥

सकृदभ्यर्चयेद्यो मां बिल्वपत्रेण मानवः ॥

मुक्तिभागी निरातंको मम पार्श्वगतो भवेत्

॥११॥

बिल्वपत्राच्छमीपत्राज्जातीपत्रात्सरोरुहात् ॥

वल्लभं तुलसीपत्रं कौस्तुभादधिकं मम

॥१२॥

अभिन्नपत्रा तुलसी हृद्या मंजरिसंयुता ॥

क्षीरोदार्णवसंभूता पद्मेवेयं सदा मम

॥१३॥

अकृष्णाऽप्यथवा कृष्णा तुलसी मम वल्लभा ॥

सिता वाऽप्यसिता वापि द्वादशी वल्लभा यथा

॥१४॥

गृहीत्वा तुलसीपत्रं भक्त्या यो मां समर्चयेत् ॥

अर्चितं तेन सकलं सदेवासुरमानुषम्

॥१५॥

तावद्गर्जंति रत्नानि कौस्तुभादीन्यनन्तशः ॥

यावन्न प्राप्यते कृष्ण तुलसीकृष्णमंजरी

॥१६॥

कृष्णं कृष्णतुलस्या हि यो भक्त्या पूजयेन्नरः ॥

स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह

॥१७॥

ममाऽर्चनार्थं भिक्षूणां यच्छंति तुलसीदलम् ॥

अन्येषामपि भक्तानां यांति ते पदमव्ययम्

॥१८॥

तुलसी कृष्णगौरा या तया यो मां समर्चयेत् ॥

नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम्

॥१९॥

ब्रह्मोवाच

धूपदानस्य माहात्म्यं दीपस्याऽपि च केशव ॥

यत्फलं लभते मर्त्यस्तन्मे ब्रूहि यथार्थतः

॥२०॥

श्रीभगवानुवाच

शृणु पुत्र प्रवक्ष्यामि धूपदानस्य यत्फलम् ॥

दीपदानस्य माहात्म्यं मम प्रीतिकरं परम्

॥२१॥

अगुरुं च सकर्पूरं दिव्यचंदनसौरभम् ॥

दत्त्वा मां वै सहोमासे कुलानां तारयेच्छतम्

॥२२॥

कृष्णागुरुसमुत्थेन धूपेन च ममाऽलयम् ॥

धूपयेद्वैष्णवो यस्तु स मुक्तो नरकाऽर्णवात्

॥२३॥

माहिषं गुग्गुलं यस्तु आज्ययुक्तं सशर्करम् ॥

धूपं ददाति यो वै मां तस्येच्छां प्रददाम्यहम्

॥२४॥

गुग्गुलो हंत्यशेषाणि अरिष्टानि च धूपितः ॥

कामान्नानाविधांश्चैव अगुरुः संप्रयच्छति

॥२५॥

देहं गेहं पुनात्येव धूपस्त्वगुरुसंभवः ॥

नाशयेद्यक्षरक्षांसि धूपः सर्जरसोद्भवः

॥२६॥

जातिपुष्पमथैला च गुग्गुलश्च हरीतकी ॥

कूटः सर्जरसश्चैव गुडःसैलाच्छडस्तथा ॥

नखयुक्तानि चैतानि दशांगो धूप उच्यते

॥२७॥

धूपं दशांगं यदि चेत्करोति मासे सहे मे अतिवल्लभे च ॥

ददामि कामानतिदुर्लभानपि बलं च पुष्टिं सुतदारभक्तिम्

॥२८॥

मुस्ताधूपे मानुषाणां प्रियत्वं मांगल्यकं वश्यकरं गुडस्य ॥

कुर्यात्सहोमासि ममाग्रतो यो विहाय पापानि स मां समाप्नुयात्

॥२९॥

न भयं विद्यते तस्य दिव्यभौमांतरिक्षजम् ॥

मम धूपावशेषेण यस्यांऽगं परिमार्जितम्

॥३०॥

न चापद्विद्यते तस्य भवंति संपदोऽखिलाः ॥

धूपे कृते सहोमासे ममाग्रे श्रद्धयाऽनिशम्

॥३१॥

धूपः सुरूपतां धत्ते धूपः पावनमुत्तमम् ॥

वनस्पतिरसो दिव्यः परमः पावनः शुचिः

॥३२॥

अतः परं प्रवक्ष्यामि दीपमाहात्म्यमुत्तमम् ॥

यस्मिन्कृते नरो याति वैकुण्ठं नात्र संशयः

॥३३॥

बहुवर्तिसमायुक्तं घृतपूरसमन्वितम् ॥

कुर्यादारार्तिकं यो वै कल्पकोटिं दिवं वसेत्

॥३४॥

नीराजनं तु यः पश्येत्सहोमासे ममाऽग्रतः ॥

सप्तजन्म भवेद्विप्रो ह्यंते च परमं पदम्

॥३५॥

कर्पूरेण तु यः कुर्याद्भक्त्या चैव ममाग्रतः ॥

आरार्तिकं द्विजश्रेष्ठ प्रविशेन्मामनंतकम्

॥३६॥

मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं मम ॥

सर्वं संपूर्णतामेति कृते नीराजने सुत

॥३७॥

यः करोति सहोमासे कर्पूरेण च दीपकम् ॥

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्

॥३८॥

ममाऽग्रे वै द्विजानां च दीपं दद्याच्चतुष्पथे ॥

मेधावी ज्ञानसंपन्नश्चक्षुष्माञ्जायते नरः

॥३९॥

घृतेन वाऽथ तैलेन दीपं प्रज्वालयेन्नरः ॥

सहोमासे ममाऽग्रे च तस्य पुण्यफलं शृणु

॥४०॥

विहाय सकलं पापं सहस्रादित्यसन्निभः ॥

ज्योतिष्मता विमानेन मम लोके महीयते

॥४१॥

तस्मात्सर्वप्रयत्नेन दीपं दद्याद्विचक्षणः ॥

तं च दत्त्वा विहिंसेद्यः स पतेन्नरके धुवम्

॥४२॥

दीपं यो वै हरेत्पापी लोभाद्द्वेषाद्द्विजोत्तम ॥

तद्दीपहरणात्सोऽपि मूकोंऽधश्च प्रजायते

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये दीपमाहात्म्यवर्णनंनाम अष्टमोऽध्यायः ॥ ८ ॥