मार्गशीर्षमासमाहात्म्येऽखण्डैकादशीव्रतकथनम्
देवशर्मोवाच
तवेदृशी मतिर्जाता सहसा केशवोपरि ॥
एतस्मान्मे गतं पापं पूर्वजन्मशतोद्भवम्
॥१॥विना व्रतैर्विना तीर्थैर्मुक्तस्त्वं पापकोटिभिः ॥
ममातिथ्येन भक्त्या च जातं तव हरेः पदम्
॥२॥तेन पुण्यप्रभावेण मतिर्जाता तवेदृशी ॥
ध्यात्वा संचिंत्य मनसा ज्ञातं पूर्वविचेष्टितम्
॥३॥पूर्वजन्मनि विप्रस्त्वमवंत्यां धर्मतत्परः ॥
सदाऽध्ययनशीलश्च सुशीलश्च सदा व्रती
॥४॥एका तु द्वादशी विष्णोः कृता च दशमीयुता ॥
तत्पापस्य प्रभावेण समस्तं सुकृतं गतम्
॥५॥सर्वं तद्विफलं जातं यथा शूद्रापतिर्द्विजः ॥
बहुवर्षसहस्राणि प्राप्ता नरकयातनाः
॥६॥तस्मादेवं त्वया पूर्वं कृतं दुष्टं चिरं बहु ॥
कृता तु दशमीमिश्रा तिथिर्विष्णोर्महात्मनः
॥७॥तेन शूद्रो भवाञ्जातः पापे तव मतिस्तथा ॥
धर्मे न रमते चित्तं दशमीवेधदूषितम्
॥८॥विदर्भनगरे वत्स अस्ति ते पुत्रिकासुतः ॥
कृतं तेन विधानोक्तं हरेरेकादशीव्रतम्
॥९॥प्रदत्तं तेन तत्पुण्यमखण्डैकाशीव्रतम् ॥
धर्मोपरि मतिर्जाता जातः पापस्य संक्षयः
॥१०॥तेन पुण्यप्रभावेण एकादश्या व्रतेन च ॥
दशमीवेधजं पापं यमेन परिमार्जितम्
॥११॥इह जन्मनि यत्पापं जन्मायुतकृतानि च ॥
मार्जितानि यमेनैव पापानि तव सांप्रतम्
॥१२॥तयोर्विवदतोरेवं विष्वक्सेनः समागतः ॥
वर्णावर स्वागतं ते तुष्टस्तेहं जनार्दनः
॥१३॥विप्रस्याऽऽतिथ्यहेतुत्वाज्जातः पापस्य संक्षयः ॥
परदत्तेन पुण्येन एकादश्या व्रतेन च
॥१४॥दशमीवेधजं पापं तव शूद्र लयं गतम् ॥
व्रतं कृत्वा ददौ पुण्यं दौहित्रस्तेन तारितः
॥१५॥पत्न्या सह महाभाग वैनतेयं समारुह ॥
इत्युक्त्वा देवदेवेन विमाने स्थापितस्तदा
॥१६॥स्वर्गं ततः सपत्नीकः शूद्रत्वेन नृपोत्तम ॥
देवशर्मा तु विप्रो वै तीर्थराजं ययौ पुनः
॥१७॥एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥
अखण्डैकादशीपुण्यात्प्राप्तस्याऽऽतिथ्यकारणात् ॥
विष्णुभक्तिमती भार्या राज्यं निहतकण्टकम्
॥१८॥राजोवाच
ब्रह्मन्नखण्डैकादश्या विधिं सम्यक्समादिश ॥
विष्णोः सम्प्रीणनार्थाय प्रसादं कर्तुमर्हसि
॥१९॥ऋषिरुवाच
शृणुष्व नृपशार्दूल एकादश्या विधिं शुभम् ॥
पुराऽऽसीद्भगवान्विष्णुर्नारदाय यदुक्तवान्
॥२०॥तत्तेऽहं संप्रवक्ष्यामि उद्यापनविधिं शुभम् ॥
मार्गशीर्षादिमासेषु द्वादशीषु नरोत्तम
॥२१॥व्रतं शुभमिदं कार्यमखण्डैकादशीव्रतम् ॥
दशम्यां चैव नक्तं च एकादश्यामुपोषणम्
॥२२॥द्वादश्यामेकभुक्तं च अखंडा इति कथ्यते ॥
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे
॥२३॥तद्धि नक्तं विजानीयान्न नक्तं निशि भोजनम् ॥
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा
॥२४॥शाकं मधु परान्नं च पुनर्भोजनमैथुने ॥
विष्णुभक्तो नरो वाऽपि दशम्यां दश वर्जयेत्
॥२५॥दशम्या विधिरुक्तोऽयमेकादश्यास्तथा शृणु ॥
असकृज्जलपानं च हिंसा शौचमसत्यता
॥२६॥तांबूलं दन्तकाष्ठं च दिवाशयनमैथुने ॥
द्यूतं क्रीडा निशि स्वापः पतितैः सह भाषणम् ॥
एकादश्यां दशैतानि विष्णुभक्तस्तु वर्जयेत्
॥२७॥अद्य मे स्त्रीसुखं नास्ति भोजनं नास्ति केशव ॥
प्रीत्यर्थं तव देवेश नियमस्तु दिवानिशि
॥२८॥सुप्तेन्द्रियैस्तु वैक्लव्यं भोजनं यच्च मैथुनम् ॥
दन्तांतरविलग्नान्नं क्षमस्व पुरुषोत्तम
॥२९॥उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह ॥
उपवासः स विज्ञेयो न शरीरस्य शोषणम्
॥३०॥पूर्वोक्तानि दशैतानि परान्नं च तथा मधु ॥
द्वादश्यां विष्णुभक्तो वै वर्जयेन्मर्दनादिकम्
॥३१॥अद्य मे द्वादशी पुण्या पवित्रा पापनाशिनी ॥
पारणं च करिष्यामि प्रसीद गरुडध्वज
॥३२॥विष्णोः संतोषणार्थाय यो मया नियमः कृतः ॥
अद्याहं भोजयिष्यामि त्वत्प्रसादाद्द्विजोत्तमम्
॥३३॥अनेन विधिना कुर्याद्यावद्वर्षं समाप्यते ॥
संपूर्णे तु ततो वर्षे कुर्यादुद्यापनं बुधः
॥३४॥आदौ मध्ये तथा चांते व्रतस्योद्यापनं स्मृतम् ॥
उद्यापनं न कुर्याद्यः कुष्ठी चांधश्च जायते
॥३५॥तस्मादुद्यापनं कुर्याद्यथाविभवसारतः ॥
क्रियते शुक्लपक्षे च मासे मार्गशिरे शुभे
॥३६॥आमंत्र्य द्वादशमितान्ब्राह्मणान्विधिकोविदान् ॥
त्रयोदशं सपत्नीकमाचार्यं विधिकोविदम्
॥३७॥यजमानः शुचिः स्नात्वा श्रद्धायुक्तो जितेन्द्रियः ॥
पादशौचार्धवस्त्राद्यैराचार्यादींस्ततोऽर्चयेत्
॥३८॥आचार्यस्तु ततः कृत्वा मण्डलं वर्णकैः शुभैः ॥
चक्राब्जं सर्वतोभद्रं श्वेतवस्त्रेण वेष्टितम्
॥३९॥जलपूर्णं च कुम्भं तु पञ्चरत्नसमन्वितम् ॥
पञ्चपल्लवसंयुक्तं कर्पूरागुरुवासितम्
॥४०॥वेष्टितं रक्तवस्त्रेण ताम्रपात्रेण संयुतम् ॥
वेष्टितं पुष्पमालाभिर्मंडलोपरि विन्यसेत्
॥४१॥तस्योपरि न्यसेद्देवं लक्ष्मीनारायणं नृप ॥
सौवर्णी प्रतिमा कार्या एककर्षप्रमाणतः
॥४२॥वाहनाऽऽयुधसंयुक्ता प्रमाणं चतुरंगुलम् ॥
किंवा शक्त्या प्रकुर्वीत वित्तशाठ्यं विवर्जयेत्
॥४३॥ततः संस्थापयेन्मूर्तिं मंडले द्वादशैव हि ॥
मासानामधिपः पूज्यश्चाखंडव्रतहेतवे
॥४४॥मंडलात्पूर्वदिग्भागे शंखं संस्थापयेच्छुभम् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥
निर्मितः सर्वदेवैस्त्वं पांचजन्य नमोऽस्तु ते
॥४५॥ततस्तु स्थंडिलं कार्यं मंडलादुत्तरां दिशम् ॥
संकल्प्य हवनं कार्यं मन्त्रैर्वेदोक्तवैष्णवैः
॥४६॥स्वस्थाने स्थापयेद्विष्णुं स्थापयेच्च हरिं प्रति ॥
पूजयेत्पुरुषसूक्तेन मन्त्रैः पौराणिकैः शुभैः
॥४७॥नैवेद्यार्थं च वै कार्या मोदका बहवोऽपि च ॥
धूपदीपोपहाराणि कृत्वा नीराजनं ततः
॥४८॥यक्षकर्दमेन संपूज्य ततः कुर्यात्प्रदक्षिणाम् ॥
स्वस्तिवाचनकैर्विप्रैर्नमस्कारं ततो नृप
॥४९॥ततस्तु ब्राह्मणैः कार्य आचार्यक्रमशो जपः ॥
जपश्च पावमानीयो मंडलब्राह्मणं मधु
॥५०॥तेजोऽसि शुक्रजं वाचं ब्रह्मसामादनंतरम् ॥
पवित्रवंतं सूर्यस्य विष्णोर्महसि संहिताम्
॥५१॥जपांते कलशे विष्णुं सोपांगमुपरि न्यसेत् ॥
दिवसस्योदये चैव होमं कुर्यादनुक्रमम्
॥५२॥संस्थाप्य प्रथमं पात्रं पूजयित्वा विधानतः ॥
स्तवनं च ततो होमः कर्तव्यश्चरुपूर्वकः
॥५३॥स्वगृह्योक्तविधानेन यजनाग्निक्रियापरः ॥
चरुद्वयं च कुर्वीत पायसं वैष्णवं चरुम्
॥५४॥जुहुयात्पुरुषसूक्तेन चरोः षोडश चाहुतीः ॥
तथा चतुर्गृहीतेन घृतयुक्तावराहुतिम्
॥५५॥प्रादेशमात्राः पालाशसमिधश्च घृतप्लुताः ॥
इदं विष्ण्विति मंत्रेण होतव्याः कर्मसिद्धये
॥५६॥शतमेकं तु जुहुयाद्द्विगुणाश्च तिलाऽऽहुतीः ॥
कृते च वैष्णवे होमे ग्रहयज्ञं समारभेत्
॥५७॥समिद्भिश्चरुहोमं च तिलहोमं क्रमेण तु ॥
उभयोः स्वस्तिकं वाच्यं ततः पूजां समाचरेत्
॥५८॥ऋत्विजां च ततो दद्याद्धेन्वादिग्रहदक्षिणाः ॥
देवस्य तृप्त्यै दद्याच्च ब्राह्मणाय यथाविधि
॥५९॥गां वै पयस्विनीं दद्याद्वृषभं च सुशोभनम् ॥
ब्राह्मणानां ततो दद्यात्त्रयोदश पदानि च
॥६०॥आचार्यं तु सपत्नीकं वस्त्रैश्च परितोषयेत् ॥
तोषयित्वा महादानैस्तं सार्थं च समर्पयेत्
॥६१॥पञ्चविंशतिकुम्भांश्च सोदकान्वस्त्रवेष्टितान् ॥
ब्राह्मणांश्च ततो दद्यात्कृते पारणके निशि
॥६२॥भूरिदानं च दातव्यं बंधूनामिष्टभोजनम् ॥
पूर्णपात्रं ततो दद्यादाचार्याय सदक्षिणम्
॥६३॥पूर्णपात्रप्रदानेन कार्यं संपूरितं भवेत् ॥
उपवासव्रतं चैव स्नानं तीर्थफलं भवेत्
॥६४॥विप्रैः संभाषितं तस्य संपूर्णं तद्भवेत्फलम् ॥
वित्त शक्तिर्गृहे नास्ति कृतं चैकादशीव्रतम्
॥६५॥स्वशक्त्या चैव कर्तव्यं तथा चोद्यापनादिकम् ॥
एतत्ते सर्वमाख्यातमखण्डैकादशीव्रतम्
॥६६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्येऽखण्डैकादशीव्रतकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥