मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय ७

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 7

तत्सहस्रपुष्पांकितमालास्थापनफलयोवर्णनम्

ब्रह्मोवाच

माहात्म्यं वद देवेश पुष्पजातिसमुद्भवम् ॥

येनयेन च पुष्पेण यत्फलं लभते नरः

॥१॥

श्रीभगवानुवाच

शृणु पुत्र प्रवक्ष्यामि माहात्म्यं पुष्पसंभवम् ॥

येन पुष्पेण मे प्रीतिर्भवेत्सम्यङ्न संशयः

॥२॥

मल्लिका मालती चैव यूथिका चातिमुक्तका ॥

पाटला करवीरं च जयन्ती विजया तथा

॥३॥

कुब्जकस्तबकश्चैव कर्णिकारं कुरंटकः ॥

चंपकश्चातकः कुन्दो बाणः कर्चूरमल्लिका

॥४॥

अशोकस्तिलकश्चैव तथैवाऽपरयूथिकः ॥

अमी पुष्पप्रकारास्तु शस्ता मे पूजने सुत

॥५॥

केतकीपत्रपुष्पं च भृंगराजस्तथैव च ॥

तुलसीपत्रपुष्पं च सद्यः प्रीतिकरं मम

॥६॥

पद्मान्यंबुसमुत्थानि रक्तनीलोत्पले तथा ॥

सितोत्पलं सहोमासे ममाऽत्यन्तं हि वल्लभम्

॥७॥

तान्येव च प्रशस्तानि कुसुमानि च मे सुत ॥

यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च

॥८॥

निर्गंधान्यपि शस्तानि कुसुमानि मतानि मे ॥

सुरभीणि तथाऽन्यानि वर्जयित्वा तु केतकीम्

॥९॥

बाणं च चंपकाऽशोकं करवीरं च यूथिका ॥

पारिभद्रं पाटला च बकुलं गिरिशालिनी

॥१०॥

बिल्वपत्रं शमीपत्रं पत्रं भृंगिरजस्य च ॥

तमालामलकीपत्रं शस्तं मे पूजने सुत

॥११॥

पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसंभवैः ॥

अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जंतुवर्जितैः

॥१२॥

अथारामोद्भवैर्वापि पुष्पैः संपूजयेच्च माम् ॥

पुष्पजातिविशेषेण भवेत्पुण्यं विशेषतः

॥१३॥

तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥

दश दत्त्वा सुवर्णानि यत्फलं लभते नरः ॥

तत्फलं लभते मर्त्यः सहे कुसुमदानतः

॥१४॥

द्रोणपुष्पे तथैकस्मिन्मह्यं च विनिवेदिते ॥

दश दत्त्वा सुवर्णानि फलं तदधिकं सुत

॥१५॥

पुष्पात्पुष्पांतरे भेदो यथाऽऽसीत्तन्निबोध मे

॥१६॥

द्रोणपुष्पसहस्रेभ्यः खादिरं तु विशिष्यते ॥

खादिरात्पुष्पसाहस्राच्छमीपुष्पं विशिष्यते

॥१७॥

शमीपुष्पसहस्रेभ्यो बिल्वपुष्पं विशिष्यते ॥

बिल्वपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते

॥१८॥

बकपुष्पसहस्रेभ्यो नंद्यावर्तं विशिष्यते ॥

नंद्यावर्तसहस्राद्धि करवीरं विशिष्यते

॥१९॥

करवीरसहस्रस्य कुसुमं श्वेतमुत्तमम् ॥

करवीरश्वेतपुष्पात्पालाशं पुष्पमुत्तमम्

॥२०॥

पालाशपुष्पसाहस्रात्कुशपुष्पं विशिष्यते ॥

कुशपुष्पसहस्राद्धि वनमाला विशिष्यते

॥२१॥

वनमाला सहस्राद्धि चंपकं च विशिष्यते ॥

चंपकस्य पुष्पशतादशोकं पुष्पमुत्तमम्

॥२२॥

अशोकपुष्पसाहस्राच्छेवन्तीपुष्पमुत्तमम् ॥

शेवन्तीपुष्पसाहस्रात्कुजकं पुष्पमुत्तमम्

॥२३॥

कुजपुष्पसहस्राद्धि मालतीपुष्पमुत्तमम् ॥

मालतीपुष्पसाहस्रात्सन्ध्यापुष्पं विशिष्यते

॥२४॥

सन्ध्या पुष्पसहस्राद्धि त्रिसंध्यापुष्पमुत्तमम्

॥२५॥

त्रिसंध्यारक्तसाहस्रात्त्रिसंध्याश्वेतमुत्तमम् ॥

त्रिसन्ध्याश्वेतसाहस्रात्कुन्दपुष्पं विशिष्यते

॥२६॥

कुन्दपुष्पसहस्राद्धि जातीपुष्पं विशिष्यते ॥

सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम्

॥२७॥

जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् ॥

मह्यं यो विधिवद्दद्यात्तस्य पुण्यफलं शृणु

॥२८॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥

मत्पुरे वसते नित्यं ममतुल्य पराक्रमः

॥२९॥

येषां संति च पुष्पाणि प्रशस्तानि ममाऽर्चने ॥

तेषां पत्राणि शस्तानि तदभावे फलानि च

॥३०॥

एतैः पत्रैश्च पुष्पैश्च फलैश्चाऽपि तथाहि माम् ॥

अर्चन्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात्

॥३१॥

एताभिः पुष्पजातीभिः सहोमासेऽर्चयंति ये ॥

भक्तिं ददामि तेषां वै तुष्टः सन्नात्र संशयः

॥३२॥

धनं पुत्रांस्तथा दारान्यत्किंचिद्वांछते हि सः ॥

तत्तद्ददामि देवेश पुष्पैरेभिः प्रतोषितः

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये जातीपुष्पश्रैष्ठ्यकथनपूर्वकं विष्णुकण्ठे तत्सहस्रपुष्पांकितमालास्थापनफलयोवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥