मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — भागवतमाहात्म्यम्, अध्याय ३

3
वैष्णवखण्डः · भागवतमाहात्म्यम् · 3

अथोद्धवस्तु तान्दृष्ट्वा कृष्णकीर्तनतत्परान्

श्रीसूत उवाच

अथोद्धवस्तु तान्दृष्ट्वा कृष्णकीर्तनतत्परान् ॥

सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह

॥१॥

उद्धव उवाच

धन्योऽसि राजन्कृष्णैकभक्त्या पूर्णोऽसि नित्यदा ॥

यस्त्वं निमग्नचित्तोऽसि कृष्णसंकीर्तनोत्सवे

॥२॥

कृष्णपत्नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता ॥

तवोचितमिदं तात कृष्णदत्तांग वैभव

॥३॥

द्वारकास्थेषु सर्वेषु धन्या एते न संशयः ॥

येषां व्रजनिवासाय पार्थमादिष्टवान्प्रभुः

॥४॥

श्रीकृष्णस्य मनश्चंद्रो राधास्यप्रभयान्वितः ॥

तद्विहारवनं गोभिर्मण्डयन्रोचते सदा

॥५॥

कृष्णचन्द्रः सदा पूर्णस्तस्य षोडश याः कलाः ॥

चित्सहस्रप्रभाभिन्ना अत्रास्ते तत्स्वरूपता

॥६॥

एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः ॥

श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते

॥७॥

अवतारेऽत्र कृष्णेन योगमायाऽति भाविता ॥

तद्बलेनात्मविस्मृत्या सीदन्त्येते न संशयः

॥८॥

ऋते कृष्णप्रकाशं तु स्वात्मबोधो न कस्यचित् ॥

तत्प्रकाशस्तु जीवानां मायया पिहितः सदा

॥९॥

अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः ॥

उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा

॥१०॥

स तु कालो व्यतिक्रांतस्तेनेदमपरं शृणु ॥

अन्यदा तत्प्रकाशस्तु श्रीमद्भागवताद्भवेत्

॥११॥

श्रीमद्भागवतं शास्त्रं यत्र भागवतैर्यदा ॥

कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम्

॥१२॥

श्रीमद्भागवतं यत्र श्लोकं श्लोकार्द्धमेव च ॥

तत्रापि भगवान्कृष्णो बल्लवीभिर्विराजते

॥१३॥

भारते मानवं जन्म प्राप्य भागवतं न यैः ॥

श्रुतं पापपराधीनैरात्मघातस्तु तैः कृतः

॥१४॥

श्रीमद्भागवतं शास्त्रं नित्यं यैः परिसेवितम् ॥

पितुर्मातुश्च भार्यायाः कुलपंक्तिः सुतारिता

॥१५॥

विद्याप्रकाशो विप्राणां राजां शत्रुजयो विशाम् ॥

धनं स्वास्थ्यं च शूद्राणां श्रीमद्भागवताद्भवेत्

॥१६॥

योषितामपरेषां च सर्ववांछितपूरणम् ॥

अतो भागवतं नित्यं को न सेवेत भाग्यवान्

॥१७॥

अनेकजन्मसंसिद्धः श्रीमद्भागवतं लभेत् ॥

प्रकाशो भगवद्भक्तेरुद्भवस्तत्र जायते

॥१८॥

सांख्यायनप्रसादाप्तं श्रीमद्भागवतं पुरा ॥

बृहस्पतिर्दत्तवान्मे तेनाहं कृष्णवल्लभः

॥१९॥

आख्यायिका च तेनोक्ता विष्णुरात निबोध ताम् ॥

ज्ञायते संप्रदायोऽपि यत्र भागवतश्रुतेः

॥२०॥

श्रीबृहस्पतिरुवाच

ईक्षांचक्रे यदा कृष्णो मायापुरुषरूपधृक् ॥

ब्रह्मा विष्णुः शिवश्चापि रजःसत्त्वतमोगुणैः

॥२१॥

पुरुषास्त्रय उत्तस्थुरधिकारांस्तदादिशत् ॥

उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान्

॥२२॥

ब्रह्मा तु नाभिकमलादुत्पन्नस्तं व्यजिज्ञपत् ॥

श्रीब्रह्मोवाच ॥

नारायणादिपुरुष परमात्मन्नमोऽस्तु ते

॥२३॥

त्वया सर्गे नियुक्तोऽस्मि पापीयान्मां रजोगुणः ॥

त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो

॥२४॥

श्रीबृहस्पतिरुवाच

यदा तु भगवांस्तस्मै श्रीमद्भागवतं पुरा ॥

उपदिश्याब्रवीद्ब्रह्मन्सेवस्वैनत्स्वसिद्धये

॥२५॥

ब्रह्मा तु परमप्रीतस्तेन कृष्णाप्तयेऽनिशम् ॥

सप्तावरणभंगाय सप्ताहं समवर्तयत्

॥२६॥

श्रीभागवतसप्ताहसेवनाप्तमनोरथः ॥

सृष्टिं वितनुते नित्यं ससप्ताहः पुनःपुनः

॥२७॥

विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये ॥

प्रजानां पालने पुंसा यदनेनापि कल्पितः

॥२८॥

श्रीविष्णुरुवाच

प्रजानां पालनं देव करिष्यामि यथोचितम् ॥

प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात्

॥२९॥

यदायदैव कालेन धर्मग्लानिर्भविष्यति ॥

धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा

॥३०॥

भोगार्थिभ्यस्तु यज्ञादिफलं दास्यामि निश्चितम् ॥

मोक्षार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा

॥३१॥

येऽपि मोक्षं न वाञ्छन्ति तान्कथं पालयाम्यहम् ॥

आत्मानं च श्रियं चापि पालयामि कथं वद

॥३२॥

तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् ॥

उवाच च पठस्वैनत्तव सर्वार्थसिद्धये

॥३३॥

ततो विष्णुः प्रसन्नात्मा परमार्थकपालने ॥

समर्थोऽभूच्छ्रिया मासिमासि भागवतं स्मरन्

॥३४॥

यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रता ॥

तदा भागवतश्रावो मासेनैव पुनःपुनः

॥३५॥

यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवणे रतः ॥

मासद्वयं रसास्वादस्तदातीव सुशोभते

॥३६॥

अधिकारे स्थितो विष्णुर्लक्ष्मीर्निश्चिन्तमानसा ॥

तेन भागवतास्वादस्तस्या भूरि प्रकाशते

॥३७॥

अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा ॥

पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये

॥३८॥

श्रीरुद्र उवाच

नित्ये नैमित्तिके चैव संहारे प्राकृते तथा ॥

शक्तयो मम विद्यन्ते देवदेव मम प्रभो

॥३९॥

आत्यंतिके तु संहारे मम शक्तिर्न विद्यते ॥

महद्दुःखं ममैतत्तु तेन त्वां प्रार्थयाम्यहम्

॥४०॥

श्रीबृहस्पतिरुवाच

श्रीमद्भागवतं तस्मा अपि नारायणो ददौ ॥

स तु संसेवनादस्य जिग्ये चापि तमोगुणम्

॥४१॥

कथा भागवती तेन सेविता वर्षमात्रतः ॥

लये त्वात्यंतिके तेनावाप शक्तिं सदाशिवः

॥४२॥

उद्धव उवाच

श्रीभागवतमाहात्म्य इमामाख्यायिकां गुरोः ॥

श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम्

॥४३॥

ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः ॥

श्रीमद्भागवतास्वादो मया सम्यङ्निषेवितः

॥४४॥

तावतैव बभूवाहं कृष्णस्य दयितः सखा ॥

कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे

॥४५॥

विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा ॥

श्रीभागवतसंदेशो मन्मुखेन प्रयोजितः

॥४६॥

तं यथामति लब्ध्वा ता आसन्विरहवर्ज्जिताः ॥

नाज्ञासिषं रहस्यं तच्चमत्कारस्तु लोकितः

॥४७॥

स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे ॥

श्रीमद्भागवते कृष्णस्तद्रहस्यं स्वयं ददौ

॥४८॥

पुरतोऽश्वत्थमूलस्य चकार मयि तद्दृढम् ॥

तेनात्र व्रजवल्लीषु वसामि बदरीं गतः

॥४९॥

तस्मान्नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा ॥

कृष्णप्रकाशो भक्तानां श्रीमद्भागवताद्भवेत्

॥५०॥

तदेषामपि कार्य्यार्थं श्रीमद्भागवतं त्वहम् ॥

प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत्

॥५१॥

श्रीसूत उवाच

विष्णुरातस्तु श्रुत्वा तदुद्धवं प्रणतोऽब्रवीत् ॥

श्रीपरीक्षिदुवाच ॥

हरिदास त्वया कार्य्यं श्रीभागवतकीर्तनम्

॥५२॥

आज्ञाप्योऽहं यथाकार्य्यं सहायोऽत्र मया तथा ॥

श्रीसूत उवाच ॥

श्रुत्वैतदुद्धवो वाक्यमुवाच प्रीतमानसः

॥५३॥

उद्धव उवाच

श्रीकृष्णेन परित्यक्ते भूतले बलवान्कलिः ॥

करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते

॥५४॥

तस्माद्दिग्विजयं याहि कलिनिग्रहमाचर ॥

अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः

॥५५॥

श्रीमद्भागवतास्वादं प्रचार्य त्वत्सहायतः ॥

एतान्सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः

॥५६॥

श्रीसूत उवाच

श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयातुरः ॥

तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम्

॥५७॥

श्रीपरीक्षिदुवाच

कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः ॥

श्रीभागवतसंप्राप्तिः कथं मम भविष्यति

॥५८॥

अहं तु समनुग्राह्यस्तव पादतले श्रितः ॥

श्रीसूत उवाच ॥

श्रुत्वैतद्वचनं भूयोऽप्युद्धवस्तमुवाच ह

॥५९॥

उद्धव उवाच

राजंश्चिन्ता तु ते काऽपि नैव कार्य्या कथंचन ॥

तवैव भगवच्छास्त्रे यतो मुख्याधिकारिता

॥६०॥

एतावत्कालपर्य्यन्तं प्रायो भागवतश्रुतेः ॥

वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः

॥६१॥

त्वत्प्रसादेन बहवो मनुष्या भारताजिरे ॥

श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम्

॥६२॥

नन्दनन्दनरूपस्तु श्रीशुको भगवानृषिः ॥

श्रीमद्भागवतं तुभ्यं श्रावयिष्यत्यसंशयः

॥६३॥

तेन प्राप्स्यसि राजंस्त्वं नित्यं धाम व्रजेशितुः ॥

श्रीभागवतसंचारस्ततो भुवि भविष्यति

॥६४॥

तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर ॥

श्रीसूत उवाच ॥

इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये

॥६५॥

वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च ॥

तत्रैव मातृभिः साकं तस्थौ भागवताशया

॥६६॥

अथ वृन्दावने मासं गोवर्द्धनसमीपतः ॥

श्रीमद्भागवतास्वादस्तूद्धवेन प्रवर्तितः

॥६७॥

तस्मिन्नास्वाद्यमाने तु सच्चिदानन्दरूपिणी ॥

प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च

॥६८॥

आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा ॥

वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोरुहे

॥६९॥

स्वात्मानं कृष्णवैधुर्य्यान्मुक्तस्तद्भुव्यशोभत ॥

ताश्च तन्मातरः कृष्णे रासरात्रिप्रकाशिनि

॥७०॥

चंद्रे कलाप्रभारूपमात्मानं वीक्ष्य विस्मिताः ॥

स्वप्रेष्ठ विरहव्याधिविमुक्ताः स्वपदं ययुः

॥७१॥

येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः ॥

व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः

॥७२॥

गोवर्द्धननिकुञ्जेषु गोषु वृन्दावनादिषु ॥

नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः

॥७३॥

श्रीसूत उवाच

य एतां भगवत्प्राप्तिं शृणुयाच्चापि कीर्तयेत् ॥

तस्य वै भगवत्प्राप्तिर्दुःखहानिश्च जायते

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे परीक्षिदुद्धवसंवादे श्रीभागवतमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥