परीक्षिदादीनामुद्धवदर्शनवर्णनः
श्रीऋषय ऊचुः
शांडिल्ये तौ समादिश्य परावृत्ते स्वमाश्रमम् ॥
कि कथं चक्रतुस्तौ तु राजानौ सूत तद्वद
॥१॥श्रीसूत उवाच
ततस्तु विष्णुरातेन श्रेणीमुख्वाः सहस्रशः ॥
इन्द्रप्रस्थात्समानाय्य मथुरास्थानमापिताः
॥२॥माथुरान्ब्राह्मणांस्तत्र वानरांश्च पुरातनान् ॥
विज्ञाय माननीयत्वं तेषु स्थापितवान्स्वरादट्
॥३॥वज्रस्तु तत्सहायेन शाण्डिल्यस्याऽप्यनुग्रहात् ॥
गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात्
॥४॥विज्ञायाऽभिधयाऽऽस्थाप्य ग्रामानावासयद्बहून् ॥
कुण्डकूपादिपूर्तेन शिवादिस्थापनेन च
॥५॥गोविन्दहरिदेवादिस्वरूपाऽऽरोपणेन च ॥
कृष्णैकभक्तिं स्वे राज्यं ततान च मुमोद ह
॥६॥प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः ॥
परमानन्दसम्पन्ना राज्यं तस्यैव तुष्टुवुः
॥७॥एकदा कृष्णपत्न्यस्तु श्रीकृष्णविरहातुराः ॥
कालिन्दीं मुदिता वीक्ष्य पप्रच्छुर्गतमत्सराः
॥८॥श्रीकृष्णपत्न्य ऊचुः
यथा वयं कृष्णपत्न्यस्तथा त्वमपि शोभने ॥
वयं विरहदुःखार्तास्त्वं न कालिन्दि तद्वद
॥९॥तच्छ्रुत्वा स्मयमाना सा कालिन्दी वाक्यमब्रवीत् ॥
सापत्न्यं वीक्ष्य तत्तासां करुणापरमानसा
॥१०॥श्रीकालिन्द्युवाच
आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ॥
तस्या दास्यप्रभावेण विरहोऽस्मान्न संस्पृशेत्
॥११॥तस्या एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः ॥
नित्यसंभोग एवास्ति तस्याः साम्मुख्ययोगतः
॥१२॥स एव सा स सैवास्ति वंशी तत्प्रेमरूपिका ॥
श्रीकृष्णनखचन्द्रालिसंगाच्चन्द्रावली स्मृता
॥१३॥रूपान्तरं च गृह्णाना तयोः सेवातिलालसा ॥
रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः
॥१४॥युष्माकमपि कृष्णेन विरहो नैव सर्वतः ॥
किन्तु एवं न जानीथ तस्माद्व्याकुलतामिताः
॥१५॥एवमेवात्र गोपीनामक्रूरावसरे पुरा ॥
विरहाभास एवासीदुद्धवेन समाहितः
॥१६॥तेनैव भवतीनां चेद्भवेदत्र समागमः ॥
तर्हि नित्यं स्वकान्तेन विहारमपि लप्स्यथ
॥१७॥श्रीसूत उवाच
एवमुक्तास्तु ताः पत्न्यः प्रसन्नां पुनरब्रुवन् ॥
उद्धवालोकनेनात्मप्रेष्ठसंगमलालसाः
॥१८॥श्रीकृष्णपत्न्य ऊचुः
धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः ॥
यतस्ते स्वार्थसंसिद्धिस्तस्या दास्यो बभूविम
॥१९॥परन्तूद्धवलाभे स्यादस्मत्सर्वार्थसाधनम् ॥
तथा वदस्व कालिन्दि तल्लाभोऽपि यथा भवेत्
॥२०॥श्रीसूत उवाच
एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा ॥
स्मरन्ती कृष्णचन्द्रस्य कलाषोडशरूपिणी
॥२१॥साधनभूमिर्बदरी व्रजता कृष्णेन मंत्रिणे प्रोक्ता ॥
तत्रास्ते स तु साक्षात्तद्वयुनं ग्राहयँल्लोकान्
॥२२॥फलभूमिर्व्रजभूमिर्दत्ता तस्मै पुरैव सरहस्यम् ॥
फलमिह तिरोहितं सत्तदिहेदानीं स उद्धवोऽलक्ष्यः
॥२३॥गोवर्द्धनगिरिनिकटे सखीस्थले तद्रजःकामः ॥
तत्रत्याङ्कुरवल्लीरूपेणास्ते स उद्धवो नूनम्
॥२४॥आत्मोत्सवरूपत्वं हरिणा तस्मै समर्पितं नियतम् ॥
तस्मात्तत्र स्थित्वा कुसुमसरःपरिसरे सवज्राभिः
॥२५॥वीणावेणुमृदंगैः कीर्तनकाव्यादिसरससंगीतैः ॥
उत्सव आरब्धव्यो हरिरतलोकान्समानाय्य
॥२६॥तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते ॥
यौष्माकीणामभिमतसिद्धिं सविता स एव सवितानाम्
॥२७॥श्रीसूत उवाच
इति श्रुत्वा प्रसन्नास्ताः कालिन्दीमभिवन्द्य तत् ॥
कथयामासुरागत्य वज्रं प्रति परीक्षितम्
॥२८॥विष्णुरातस्तु तच्छ्रुत्वा प्रसन्नस्तद्युतस्तदा ॥
तत्रैवागत्य तत्सर्वं कारयामास सत्वरम्
॥२९॥गोवर्धनाददूरेण वृन्दारण्ये सखीस्थले ॥
प्रवृत्तः कुसुमाम्भोधौ कृष्णसंकीर्तनोत्सवः
॥३०॥वृषभानुसुताकान्तविहारे कीर्तनश्रिया ॥
साक्षादिव समावृत्ते सर्वेऽनन्यदृशोऽभवन्
॥३१॥ततः पश्यत्सु सर्वेषु तृणगुल्मलताचयात् ॥
आजगामोद्धवः स्रग्वी श्यामः पीताम्बरावृतः
॥३२॥गुञ्जामालाधरो गायन्बल्लवीवल्लभं मुहुः ॥
तदागमनतो रेजे भृशं संकीर्तनोत्सवः
॥३३॥चन्द्रिकागमतो यद्वत्स्फाटिकाट्टालभूमणिः ॥
अथ सर्वे सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः
॥३४॥क्षणेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् ॥
उद्धवं पूजयांचक्रुः प्रतिलब्धमनोरथाः
॥३५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये गोवर्द्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनोनाम द्वितीयोऽध्यायः ॥ २ ॥