मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय २२

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 22

एवं शिवतमः पंथाः शिवेनैव प्रदर्शितः

सूत उवाच

एवं शिवतमः पंथाः शिवेनैव प्रदर्शितः ॥

नृणां संसृतिबद्धानां सद्योमुक्तिकरः परः

॥१॥

अथ दुर्मेधसां पुंसां वेदेष्वनधिकारिणाम् ॥

स्त्रीणां द्विजातिबंधूनां सर्वेषां च शरीरिणाम्

॥२॥

एष साधारणः पंथाः साक्षात्कैवल्यसाधनः ॥

महामुनिजनैः सेव्यो देवैरपि सुपूजितः

॥३॥

यत्कथाश्रवणं शंभोः संसारभयनाशनम् ॥

सद्योमुक्तिकरं श्लाघ्यं पवित्रं सर्वदेहिनाम्

॥४॥

अज्ञानतिमिरांधानां दीपोऽयं ज्ञानसिद्धिदः ॥

भवरोगनिबद्धानां सुसेव्यं परमौषधम्

॥५॥

महापातकशैलानां वज्रघातसुदारुणम् ॥

भर्जनं कर्मबीजानां साधनं सर्व संपदाम्

॥६॥

ये शृण्वंति सदा शम्भोः कथां भुवनपावनीम् ॥

ते वै मनुष्या लोकेस्मिन्रुद्रा एव न संशयः

॥७॥

शृण्वतां शूलिनो गाथां तथा कीर्तयतां सताम् ॥

तेषां पादरजांस्येव तीर्थानि मुनयो जगुः

॥८॥

तस्मान्निश्रेयसं गन्तुं येभिवांछंति देहिनः ॥

ते शृण्वंतु सदा भक्त्या शैवीं पौराणिकीं कथाम्

॥९॥

यद्यशक्तः सदा श्रोतुं कथां पौराणिकीं नरः ॥

मुहूर्तं वापि शृणुयान्नियतात्मा दिनेदिने

॥१०॥

अथ प्रतिदिनं श्रोतुमशक्तो यदि मानवः ॥

पुण्यमासेषु वा पुण्ये दिने पुण्यतिथिष्वपि

॥११॥

यः शृणोति कथां रम्यां पुराणैः समुदीरिताम् ॥

स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम्

॥१२॥

मुहूर्त्तं वा तदर्द्धं वा क्षणं वा पावनीं कथाम् ॥

ये शृण्वंति सदा भक्त्या न तेषामस्ति दुर्गतिः

॥१३॥

यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥

सकृत्पुराणश्रवणात्तत्फलं विंदते नरः

॥१४॥

कलौ युगे विशेषेण पुराणश्रवणादृते ॥

नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः

॥१५॥

पुराणश्रवणाच्छंभोर्नास्ति संकीर्तनं परम् ॥

अत एव मनुष्याणां कल्पद्रुममहाफलम्

॥१६॥

कलौ हीनायुषो मर्त्या दुर्बलाः श्रमपीडिताः ॥

दुर्मेधसो दुःखभाजो धर्माचारविवर्जिताः

॥१७॥

इति संचिंत्य कृपया भगवान्बादरायणः ॥

हिताय तेषां विदधे पुराणाख्यं सुधारसम्

॥१८॥

पिबन्नेवामृतं यत्नादेतत्स्यादजरामरः ॥

शम्भोः कथामृतं कुर्यात्कुलमेवाजरामरम्

॥१९॥

बालो युवा दरिद्रो वा वृद्धो वा दुर्बलोऽपि वा ॥

पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः

॥२०॥

नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ॥

यस्य वक्त्रांबुजाद्वाणी कामधेनुः शरीरिणाम्

॥२१॥

गुरवः संति लोकेषु जन्मतो गुणतस्तथा ॥

तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः

॥२२॥

भवकोटिसहस्रेषु भूत्वाभूत्वावसीदति ॥

यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः

॥२३॥

पुराणज्ञः शुचिर्दांतः शांतो विजितमत्सरः ॥

साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधी

॥२४॥

व्यासासनं समारूढो यदा पौराणिको द्विजः ॥

असमाप्तप्रसंगश्च नमस्कुर्यान्न कस्य चित्

॥२५॥

ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ॥

तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम्

॥२६॥

न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥

देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः

॥२७॥

सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ॥

पुण्ये नदनदीतीरे वदेत्पुण्यकथां सुधीः

॥२८॥

शिवभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥

वाग्यताः सुश्रवोऽव्यग्राः श्रोतारः पुण्यभागिनः

॥२९॥

अभक्ता ये कथां पुण्यां शृण्वंति मनुजाधमाः ॥

तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि

॥३०॥

पुराणं ये त्वसंपूज्य तांबूलाद्यैरुपायनैः ॥

शृण्वंति च कथां भक्त्या दरिद्राः स्युर्न पापिनः

॥३१॥

कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ॥

भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः

॥३२॥

सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ॥

ते बलाकाः प्रजायन्ते पापिनो मनुजाधमाः

॥३३॥

तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ॥

स्वविष्ठां खादयंत्येतान्नरके यमकिंकराः

॥३४॥

ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः ॥

अक्षयान्नरकान्भुक्त्वा ते भवंत्येव वायसाः

॥३५॥

ये च वीरासनारूढा ये च मंचकसंस्थिताः ॥

शृण्वंति सत्कथां ते वै भवंत्यनृजुपादपाः

॥३६॥

असंप्रणम्य शृण्वंतो विषवृक्षा भवंति ते ॥

कथां शयानाः शृण्वन्तो भवंत्यजगरा नराः

॥३७॥

यः शृणोति कथां वक्तुः समानासनमाश्रितः ॥

गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत्

॥३८॥

ये निंदंति पुराणज्ञं कथां वा पापहारिणीम् ॥

ते वै जन्मशतं मर्त्याः शुनका संभवंति च

॥३९॥

कथायां वर्तमानायां ये वदंति नराधमाः ॥

ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम्

॥४०॥

कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ॥

ते भुक्त्वा नरकान्घोरान्भ वंति वनसूकराः

॥४१॥

ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ॥

अशृण्वंतोऽपि ते यांति शाश्वतं परमं पदम्

॥४२॥

कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये शठाः ॥

कोट्यब्दान्नरकान्भुक्त्वा भवंति ग्रामसूकराः

॥४३॥

ये श्रावयंति मनुजान्पुण्यां पौराणिकीं कथाम् ॥

कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदम्

॥४४॥

आसनार्थं प्रयच्छंति पुराणज्ञस्य ये नराः ॥

कम्बलाजिनवासांसि मञ्चं फलकमेव च

॥४५॥

स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥

स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम्

॥४६॥

पुराणज्ञस्य यच्छंति ये सूत्रवसनं नवम् ॥

भोगिनो ज्ञानसंपन्नास्ते भवंति भवेभवे

॥४७॥

ये महापातकैर्युक्ता उपपातकिनश्च ये ॥

पुराणश्रवणादेव ते यांति परमं पदम्

॥४८॥

अत्र वक्ष्ये महापुण्यमितिहासं द्विजोत्तमाः ॥

शृण्वतां सर्वपापघ्नं विचित्रं सुमनोहरम्

॥४९॥

दक्षिणापथमध्ये वै ग्रामो बाष्कलसंज्ञितः ॥

तत्र संति जनाः सर्वे मूढाः कर्मविवर्जिताः

॥५०॥

न तत्र ब्राह्मणाचाराः श्रुतिस्मृतिपराङ्मुखाः ॥

जपस्वाध्यायरहिताः परस्त्री विषयातुराः

॥५१॥

कृषीवलाः शस्त्रधरा निर्देवा जिह्मवृत्तयः ॥

न जानंति परं धर्मं ज्ञानवैराग्यलक्षणम्

॥५२॥

स्त्रियश्च पापनिरताः स्वैरि ण्यः कामलालसाः ॥

दुर्बुद्धयः कुटिलगाः सद्गताचारवर्जिताः

॥५३॥

तत्रैको विदुरो नाम दुरात्मा ब्राह्मणाधमः ॥

आसीद्वेश्यापतिर्योऽसौ सदारोऽपि कुमार्गगः

॥५४॥

स्वपत्नीं बंदुलां नाम हित्वा प्रतिनिशं तथा ॥

वेश्याभवनमासाद्य रमते स्मरपीडितः

॥५५॥

सापि तस्यांगना रात्रौ वियुक्ता नवयौवना ॥

असहंती स्मरावेशं रेमे जारेण संगता

॥५६॥

तां कदाचिद्दुराचारां जारेण सह संगताम् ॥

दृष्ट्वा तस्याः पतिः क्रोधादभि दुद्राव सत्वरः

॥५७॥

जारे पलायिते पत्नीं गृहीत्वा स दुराशयः ॥

संताड्य मुष्टिबंधेन मुहुर्मुहुरताडयत्

॥५८॥

सा नारी पीडिता भर्त्रा कुपिता प्राह निर्भया ॥

भवान्प्रतिनिशं वेश्यां रमते का गतिर्मम

॥५९॥

अहं रूपवती योषा नवयौवनशालिनी ॥

कथं सहिष्ये कामार्ता तव संगतिवर्जिता

॥६०॥

इत्युक्तः स तया तन्व्या प्रोवाच ब्राह्मणाधमः ॥

युक्तमेव त्वयोक्तं हि तस्माद्वक्ष्यामि ते हितम्

॥६१॥

जारेभ्यो धनमाकृष्य तेभ्यो देहि परां रतिम् ॥

तद्धनं देहि मे सर्वं पण्यस्त्रीणां ददामि तत्

॥६२॥

एवं संपूर्यते कामो ममापि च वरानने ॥

तथेति भर्तृवचनं प्रतिजग्राह सा वधूः

॥६३॥

एवं तयोस्तु दंपत्योर्दुराचारप्रवृत्तयोः ॥

कालेन निधनंप्राप्तः स विप्रो वृषलीपतिः

॥६४॥

मृते भर्तरि सा नारी पुत्रैः सह निजालये ॥

उवास सुचिरं कालं किंचिदुत्क्रांतयौवना

॥६५॥

एकदा दैवयोगेन संप्राप्ते पुण्यपर्वणि ॥

सा नारी बंधुभिः सार्धं गोकर्णं क्षेत्र माययौ

॥६६॥

तत्र तीर्थजले स्नात्वा कस्मिंश्चिद्देवतालये ॥

शुश्राव देवमुख्यानां पुण्यां पौराणिकीं कथाम्

॥६७॥

योषितां जारसक्तानां नरके यमकिंकराः ॥

संतप्तलोहपरिघं क्षिपंति स्मरमंदिरे

॥६८॥

इति पौराणिकेनोक्तां सा श्रुत्वा धर्मसंहिताम् ॥

तमुवाच रहस्येषा भीता ब्राह्मणपुंगवम्

॥६९॥

ब्रह्मन्पापमजानंत्या मयाचरितमुल्बणम् ॥

यौवने कामचारेण कौटिल्येन प्रवर्तितम्

॥७०॥

इदं त्वद्वचनं श्रुत्वापुराणार्थविजृंभि तम् ॥

भीतिर्मे महती जाता शरीरं वेपते मुहुः

॥७१॥

धिङ्मां दुरिंद्रियासक्तां पापां स्मरविमोहिताम् ॥

अल्पस्य यत्सुखस्यार्थे घोरां यास्यामि दुर्गतिम्

॥७२॥

कथं पश्यामि मरणे यमदूतान्भयंकरान् ॥

कथं पाशैर्बलात्कंठे बध्यमाना धृतिं लभे

॥७३॥

कथं सहिष्ये नरके खंडशो देहकृंतनम ॥

पुनः कथं पतिष्यामि संतप्ता क्षारकर्दमे

॥७४॥

कथं च योनिलक्षेषु क्रिमिकीटखगादिषु ॥

परिभ्रमामि दुःखौघात्पीड्यमाना निरंतरम्

॥७५॥

कथं च रोचते मह्यमद्यप्रभृति भोजनम् ॥

रात्रौ कथं च सेविष्ये निद्रां दुःखपरिप्लुता

॥७६॥

हाहा हतास्मि दग्धास्मि विदीर्णहृदयास्मि च ॥

हा विधे मां महापापे दत्त्वा बुद्धिमपातयः

॥७७॥

पततस्तुंगशैलाग्राच्छूलाक्रांतस्य देहिनः ॥

यद्दुःखं जायते घोरं तस्मात्कोटिगुणं मम

॥७८॥

अश्वमेधायुतं कृत्वा गंगां स्नात्वा शतं समाः ॥

न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः

॥७९॥

किं करोमि क्व गच्छामि कं वा शरणमाश्रये ॥

को वा मां त्रायते लोके पतंती नरकार्णवे

॥८०॥

त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पितासि च ॥

उद्धरोद्धर मां दीनां त्वामेव शरणं गताम्

॥८१॥

इति तां जातनिर्वेदां पतितां चरणद्वये ॥

उत्थाप्य कृपया धीमान्बभाषे द्विजपुंगवः

॥८२॥

ब्राह्मण उवाच

दिष्ट्या काले प्रबुद्धासि श्रुत्वेमां महतीं कथाम् ॥

मा भैषीस्तव वक्ष्यामि गतिं चैव सुखावहाम्

॥८३॥

सत्कथाश्रवणादेव जाता ते मतिरीदृशी ॥

इंद्रियार्थेषु वैराग्यं पश्चात्तापो महानभूत्

॥८४॥

पश्चात्तापो हि सर्वेषामघानां निष्कृतिः परा ॥

तेनैव कुरुते सद्यः प्रायश्चित्तं सुधीर्नरः

॥८५॥

प्रायश्चित्तानि सर्वाणि कृत्वा च विधिवत्पुनः ॥

अपश्चात्तापिनो नार्या न यांति गतिमुत्तमाम्

॥८६॥

सत्कथाश्रवणान्नित्यं संयाति परमां गतिम् ॥

पुण्यक्षेत्रनिवासाच्च चित्तशुद्धिः प्रजायते

॥८७॥

यथा सत्कथया नित्यं संयाति परमां गतिम् ॥

तथान्यैः सद्व्रतैर्जंतोर्नभवेन्मतिरुत्तमा

॥८८॥

यथा मुहुः शोध्यमानो दर्पणो निर्मलो भवेत् ॥

तथा सत्कथया चेतो विशुद्धिं परमां व्रजेत्

॥८९॥

विशुद्धे चेतसि नृणां ध्यानं सिध्यत्युमापतेः ॥

ध्यानेन सर्वं मलिनं मनोवाक्कायसंभृतम्

॥९०॥

सद्यो विधूय कृतिनो यांति शम्भोः परं पदम् ॥

अतः संन्यस्तपुण्यानां सत्कथा साधनं परम्

॥९१॥

कथया सिध्यति ध्यानं ध्यानात्कैवल्यमुत्तमम् ॥

असिद्धपरमध्यानः कथामेतां शृणोति यः ॥

सोऽन्यजन्मनि संप्राप्य ध्यानं याति परां गतिम्

॥९२॥

नामोच्चारणमात्रेण जप्त्वा मंत्रमजामिलः ॥

पश्चात्तापसमायुक्तस्त्ववाप परमां गतिम्

॥९३॥

सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् ॥

यस्तद्विहीनः स पशुः कथं मुच्येत बन्धनात्

॥९४॥

अतस्त्वमपि सर्वेभ्यो विषयेभ्यो निवृत्तधीः ॥

भक्तिं परां समाधाय सत्कथां शृणु सर्वदा ॥

शृण्वंत्याः सत्कथां नित्यं चेतस्ते शुद्धिमेष्यति

॥९५॥

तेन ध्यायसि विश्वेशं ततो मुक्तिमवाप्स्यसि ॥

ध्यायतः शिवपादाब्जं मुक्तिरेकेन जन्मना

॥९६॥

भविष्यति न सन्देहः सत्यं सत्यं वदाम्यहम् ॥

इत्युक्ता तेन विप्रेण सा नारी बाष्पसंकुला

॥९७॥

पतित्वा पादयोस्तस्य कृतार्थास्मीत्यभाषत ॥

तस्मिन्नेव महाक्षेत्रे तस्मादेव द्विजोत्तमात्

॥९८॥

शुश्राव सत्कथां साध्वीं कैवल्यफल दायिनी ॥

स उवाच द्विजस्तस्यै कथां वैराग्यबृंहिताम्

॥९९॥

यां श्रुत्वा मनुजः सद्यस्त्यजेद्विषयवासनाम् ॥

तस्याश्चित्तं यथा शुद्धं वैराग्यरसगं यथा

॥१००॥

तथोवाच द्विजः शैवीं कथां भक्तिसमन्विताम् ॥

यथायथा मनस्तस्याः प्रसादमभिगच्छति ॥

तथातथा शनैः शंभोर्ध्यानयोगमुपादिशत्

॥१॥

शनैः शनैर्ध्वस्तरजस्तमोमलं विमुक्तसर्वेन्द्रियभोगविग्रहम् ॥

विशुद्धतत्त्वं हृदयं द्विजस्त्रिया विवेश विश्वेश्वर रूपचिंतनम्

॥२॥

इत्थं सद्गुरुमाश्रित्य सा नारी प्राप्तसन्मतिः ॥

दध्यौ मुहुर्मुहुः शंभोश्चिदानंदमयं वपुः

॥३॥

नित्यं तीर्थजले स्नात्वा जटावल्कलधारिणी ॥

भस्मोद्धूलितसर्वांगी रुद्राक्षकृतभूषणा

॥४॥

शिवनामजपासक्ता वाग्यता मितभोजना ॥

बद्धपद्मासनाऽव्यग्रा सत्कथा श्रवणोत्सुका

॥५॥

गुरुशुश्रूषणरता त्यक्तापत्यसुहृजना ॥

गुरूपदिष्टयोगेन शिवमेवमतोषयत्

॥६॥

विश्वेश विश्वविलयस्थितिजन्महेतो विश्वैकवंद्य शिव शाश्वत विश्वरूप ॥

विध्वस्तकालविपरीतगुणावभास श्रीमन्महेश मयि धेहि कृपाकटाक्षम्

॥७॥

शंभो शशांककृतशेखर शांतमूर्ते गंगाधरामरवरार्चितपादपद्म ॥

नागेंद्रभूषण नगेंद्रनिकेतनेश भक्तार्तिहन्मयि निधेहि कृपाकटाक्षम्

॥८॥

श्रीविश्वनाथ करुणाकर शूलपाणे भूतेश भर्ग भुवनत्रयगीतकीर्ते ॥

श्रीनीलकण्ठ मदनान्तक विश्वमूर्ते गौरीपते मयि निधेहि कृपाकटाक्षम्

॥९॥

इत्थं प्रतिदिनं भक्त्या प्रार्थयंती महेश्वरम् ॥

शृण्वंती सत्कथां सम्यक्कर्मबंधं समाच्छिनत्

॥११०॥

अथ कालेन सा नारी समुत्सृज्य कलेवरम् ॥

महेशानुचरैर्नीता संप्राप्ता शिव मंदिरम्

॥११॥

तत्र देवैर्महादेवं सेव्यमानं सहोमया ॥

गणेशनंदिभृंग्याद्यैर्वीरभद्रेश्वरादिभिः

॥१२॥

उपास्यमानं गौरीशं कोटिसूर्यसमप्रभम् ॥

त्रिलोचनं पंचमुखं नीलग्रीवं सदाशिवम्

॥१३॥

वामांके बिभ्रतं गौरीं विद्युच्चंद्रसमप्रभाम् ॥

दृष्ट्वा ससंभ्रमं नारी सा प्रणम्य पुनःपुनः

॥१४॥

आनन्दाश्रुजलोत्सिक्ता रोमहर्षसमाकुला ॥

संमानिता करुणया पार्वत्या शंकरेण च

॥१५॥

तस्मिँल्लोके परानन्दघनज्योतिषि शाश्वते ॥

लब्ध्वा निवासमचलं लेभे सुखमनाहतम्

॥१६॥

सा कदाचिदुमां देवीमुपसृत्य प्रणम्य च ॥

पर्यपृच्छत मे भर्त्ता कां गतिं गतवानिति

॥१७॥

तामुवाच महादेवी स ते भर्त्ता दुराशयः ॥

भुक्त्वा नरकदुःखानि विंध्ये जातः पिशाचकः

॥१८॥

पुनः प्रपच्छ सा नारी देवीं त्रिभुवनेश्वरीम् ॥

केनोपायेन मे भर्त्ता सद्गतिं प्राप्नुयादिति

॥१९॥

देव्युवाच

सोऽस्मत्कथां महापुण्यां कदाचिच्छृणुयाद्यदि ॥

निस्तीर्य दुर्गतिं सर्वामिमं लोकं प्रयास्यति

॥१२०॥

इति गौर्या वचः श्रुत्वा सा नारी विहितांजलिः ॥

प्रार्थयामास तां देवीं भर्तुः पापविशोधने

॥२१॥

तया मुहुः प्रार्थ्यमाना पार्वतीकरुणायुता ॥

तुंबुरुं नाम गंधर्वमाहूयेदमथाब्रवीत्

॥२२॥

तुंबुरो गच्छ भद्रं ते विंध्यशैलं सहानया ॥

आस्ते पिशाचकस्तत्र योऽस्याः पतिरसन्मतिः

॥२३॥

तस्याग्रे परमां पुण्यां कथामस्मद्गुणैर्युताम् ॥

आख्याय दुर्गतेर्मुक्तं तमानय शिवांतिकम्

॥२४॥

इति देव्या समादिष्टस्तुंबुरुस्तां प्रणम्य च ॥

तया सह विमानेन विंध्याद्रिं सहसा ययौ

॥२५॥

तत्रापश्यन्महाकायं रक्तनेत्रं महाहनुम् ॥

प्रहसंतं रुदंतं च वल्गंतं च पिशाचकम्

॥२६॥

बलाद्गृहीत्वा तं पाशैर्बद्ध्वा वै संनिवेश्य च ॥

तुंबुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम्

॥२७॥

स पिशाचो महापुण्यां कथां श्रुत्वा पुरद्विषः ॥

विधूय कलुषं सर्वं सप्ताहात्प्राप संस्मृतिम्

॥२८॥

स पैशाचं वपुस्त्यक्त्वा स्वरूपं दिव्यमाप्य च ॥

जगौ स्वयमपि श्रीमच्चरितं पार्वतीपतेः

॥२९॥

विमानमारुह्य स दिव्यरूपधृक्स तुंबुरुः पार्श्वगतः स्वकांतया ॥

गायन्महेशस्य गुणान्मनोरमाञ्जगाम कैवल्यपदं सनातनम्

॥१३०॥

सूत उवाच

इत्येतत्कथितं पुण्यमाख्यानं दुरितापहम् ॥

महेश्वरप्रीतिकरं निर्मलज्ञानसाधनम्

॥३१॥

य इदं शृणुयान्मर्त्यः कीर्तयेद्वा समाहितः ॥

शंभोर्गुणानुकथनं विचित्रं पापनाशनम्

॥३२॥

परमानन्दजनकं भवरोगमहौषधम् ॥

भुक्त्वेह विविधान्भोगान्मुक्तो याति परां गतिम्

॥३३॥

सूत उवाच

यूयं खलु महाभागाः कृतार्था मुनिसत्तमाः ॥

ये सेवंते सदा शंभोः कथामृतरसं नवम्

॥३४॥

ते जन्मभाजः खलु जीवलोके येषां मनो ध्यायति विश्वनाथम् ॥

वाणी गुणान्स्तौति कथां शृणोति श्रोत्रद्वयं ते भवमुत्तरंति

॥३५॥

विविधगुणविभेदैर्नित्यमस्पृष्टरूपं जगति च बहिरंतर्वा समानं महिम्ना ॥

स्वमहसि विहरंतं वाङ्मनोवृत्तिदूरं परमशिवमनंतानंदसांद्रं प्रपद्ये

॥१३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोतरखण्डे पुराणश्रवणमहिमवर्णनंनाम द्वाविंशो ऽध्यायः ॥ २२ ॥

इति स्कान्दे तृतीयं ब्राह्मखण्डं संपूर्णम्

॥३॥