मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय १

3
काशीखण्डः · 1

विन्ध्यवर्धनम्

श्रीगणेशाय नमः

तं मन्महे महेशानं महेशानप्रियार्भकम् ॥

गणेशानं करिगणेशानाननमनामयम्

॥१॥

भूमिष्ठापि न यात्रभूस्त्रिदिवतोप्युच्चैरधःस्थापि या या बद्धा भुवि मुक्तिदास्युरमृतं यस्यां मृता जंतवः ॥

या नित्यं त्रिजगत्पवित्रतटिनी तीरे सुरैः सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत्

॥२॥

नमस्तस्मै महेशाय यस्य संध्यात्त्रयच्छलात् ॥

यातायातं प्रकुर्वंति त्रिजगत्पतयोऽनिशम्

॥३॥

अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः ॥

सूताग्रे कथयामास कथां पापापनोदिनीम्

॥४॥

श्रीव्यास उवाच

कदाचिन्नारदः श्रीमान्स्नात्वा श्रीनर्मदांभसि ॥

श्रीमदोंकारमभ्यर्च्य सर्वदं सर्वदेहिनाम्

॥५॥

व्रजन्विलोकयांचक्रे पुरोविंध्यं धराधरम् ॥

संसारतापसंहारि रेवावारिपरिष्कृतम्

॥६॥

द्वैरूप्येणापि कुर्वंतं स्थावरेण चरेण च ॥

साभिख्येन यथार्थाख्यामुच्चैर्वसु मतीमिमाम्

॥७॥

रसालयं रसालैस्तैरशोकैः शोकहारिणाम् ॥

तालैस्तमालेर्हिंतालैः सालैः सर्वत्रशालितम्

॥८॥

खपुरैः खपुराकारं श्रीफलं श्रीफलैः किल ॥

गुरुश्रियंत्वगुरुभिः कपिपिंगं कपित्थकैः

॥९॥

वनश्रियः कुचाकारैर्लकुचैश्च मनोहरम् ॥

सुधाफलसमारंभि रंभाभिः परिभासितम्

॥१०॥

सुरंगैश्चापि नारंगैरंगमंडपवच्छियः ॥

वानीरैश्चापि जंबीरैर्बीजपूरैः प्रपूरितम्

॥११॥

अनिलालोल कंकोल वल्लीहल्ली सकायितम् ॥

लवलीलवलीलाभिर्लास्यलीलालयं किल

॥१२॥

मंदांदोलितकर्पूर कदलीदल संज्ञया ॥

विश्रमाय श्रमापन्नानाहूयंतमिवाध्वगान्

॥१३॥

पुन्नागमिव पुन्नागपल्लवैःकरपल्लवैः ॥

कलयंतमिवाऽलोलैर्मल्लिकास्तबकस्तनम्

॥१४॥

विदीर्णदाडिमैः स्वांतं दर्शयंतं तु रागवत् ॥

माधवीं धवरूपेण श्लिष्यंतमिव कानने

॥१५॥

उदुंबरैरंबरगैरनंतफलमालितैः ॥

ब्रह्मांडकोटीर्बिभ्रंतमनंतमिव सर्वतः

॥१६॥

पनसैर्वनासाभैः शुकनासैः पलाशकैः ॥

पलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम्

॥१७॥

कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव ॥

समंततो भ्राजमानं कदंबककदंबकैः

॥१८॥

नमेरुभिश्च मेरूच्चशिखरैरिव राजितम् ॥

राजादनैश्च मदनैः सदनैरिव कामिनाम्

॥१९॥

तटेतटेपटुवटैरुच्चैःपटकुटी वृतम् ॥

कुटजस्तबकैर्भांतमधिष्ठितबकैरिव

॥२०॥

करमर्दैः करीरैश्च करजैश्चकरंबकैः ॥

सहस्रकरवद्भांतमर्थिप्रत्युद्गतैः करैः

॥२१॥

नीराजितमिवोद्दीपैराजचंपककोरकैः ॥

सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम्

॥२२॥

क्वचिच्चलदलैरुच्चैः क्वचित्कांचनकेतकैः ॥

कृतमालैर्न क्तमालैः शोभमानं क्वचित्क्वचित्

॥२३॥

कर्कंधु बंधुजीवैश्च पुत्रजीवैर्विराजितम् ॥

सतिंदुकेंगुदीभिश्च करुणैःकरुणालयम् ॥

२४ !।

गलन्मधू ककुसुमैर्धरारूपधरंहरम् ॥

स्वहस्तमुक्तमुक्ताभिरर्चयंतमिवानिशम्

॥२५॥

सर्जार्जुनांजनैर्बीजैर्व्यजनैर्वीज्यमानवत् ॥

नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवांबरे

॥२६॥

अमंदैः पिचुमंदैश्च मंदारैः कोविदारकैः ॥

पाटलातिंतिणीघोंटाशाखोटैः करहाटकैः

॥२७॥

उद्दंडैश्चापि शेहुंडैरेरंडैर्गुडपुष्पकैः ॥

बकुलैस्तिलकैश्चैव तिलकांकितमस्तकम्

॥२८॥

अक्षैः प्लक्षैः शल्लकीभिर्देवदारुहरिद्रुमैः ॥

सदाफलसदापुष्प वृक्षवल्लीविराजितम्

॥२९॥

एलालवंग मरिचकुलुं जनवनावृतम् ॥

जंब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम्

॥३०॥

शाकशंखवनैरम्यं चदनैरक्तचंदनैः ॥

हरीतकीकर्णिकार धात्रीवनविभूषणम्

॥३१॥

द्राक्षावल्लीनागवल्लीकणावल्लीशतावृतम् ॥

मल्लिकायूथिकाकुंदम दयंती सुगंधिनम्

॥३२॥

भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम् ॥

अलिच्छलागतंकृष्णं गोपीरंतुमनेकशः

॥३३॥

नानामृगगणाकीर्णं नानापक्षिविनादितम् ॥

नानासरित्सरः स्रोतः पल्वलैः परितो वृतम्

॥३४॥

तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव ॥

नानासुरनिकायैश्च विष्वग्भोगेच्छयोषितम्

॥३५॥

उत्सृजंतमिवार्घ्यं वै पत्रपुष्पैरितस्ततः ॥

केकिकेकारवैर्दूरात्कुर्वंतं स्वागतं किल

॥३६॥

अथ सूर्यशताभासं नभसि द्योतितांबरम् ॥

नारदं दृष्टवाञ्छैलो दूरात्प्रत्युज्जगाम तम्

॥३७॥

ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः ॥

तमागच्छंतमालोक्य मानसं तम उज्जहौ

॥३८॥

ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः ॥

कठिनोपि परित्यज्य धत्ते मृदुलतां किल

॥३९॥

दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः ॥

मुमुदे सुतरां संतः प्रश्रयग्राह्यमानसाः

॥४०॥

गृहानायांतमालोक्य गुरुंवाऽगुरुमेव वा ॥

योऽगुरुर्नम्रतां धत्ते स गुरुर्न गुरुर्गुरुः

॥४१॥

तं प्रत्युच्चैः शिराःसोपि विनम्रतरकंधरः ॥

शैलस्त्विलामिलन्मौलिः प्रणनाम महामुनिम्

॥४२॥

तमुत्थाप्य कराग्राभ्यामाशीर्भिरभिनंद्य च ॥

तदुद्दिष्टासनं भेजे मनसोपि समुच्छ्रितम्

॥४३॥

स दध्नामधुनाज्येन नीरार्द्राक्षतदूर्व या ॥

तिलैः कुशैः प्रसूनैस्तमष्टांगार्घ्यैरपूजयत्

॥४४॥

गृहीतार्घ्यंकिल श्रांतं पादसंवाहनादिभिः ॥

गतश्रममथालोक्य बभाषे ऽवनतो गिरिः

॥४५॥

अद्य सद्यः परिहृतं त्वदंघ्रिरजसारजः ॥

त्वदंगसंगिमहसा सहसाऽप्यांतरंतमः

॥४६॥

सफलर्धिरहं चाद्य सुदिवाद्यच मे मुने ॥

प्राक्कृतैः सुकृतैरद्य फलितं मे चिरार्जितैः

॥४७॥

धराधरत्वं कुलिषुमान्यं मेऽद्य भविष्यति ॥

इति श्रुत्वा तदा किंचिदुच्छुस्य स्थितवान्मुनिः

॥४८॥

पुनरूचे कुलिवरः संभ्रमाप न्नमानसः ॥

उच्छ्वासकारणं ब्रह्मन्ब्रूहि सर्वार्थकोविद

॥४९॥

अदृष्टं तव नोदृष्टं यदिष्टंविष्टपत्रये ॥

अनुक्रोशोत्र मयिचेदुच्यतां प्रणतोस्म्यहम्

॥५०॥

त्वदागमनजानन्दसंदोहैर्मे दुरारवः ॥

अलं न वक्तुमसकृत्तथाप्येकं वदाम्यहम्

॥५१॥

धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः ॥

वर्ण्यते समुदायात्तदहमेको दधे धराम्

॥५२॥

गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम् ॥

संबंधित्वात्पशुपतेः स एको मान्यभृत्सताम्

॥५३॥

नमेरुः स्वर्णपूर्णत्वाद्रत्नसानुतयाथवा ॥

सुरसद्मतयावापि क्वापि मान्यो मतो मम

॥५४॥

परं शतं न किंशैला इलाकलनकेलयः ॥

इह संति सतां मान्या मान्यास्ते तु स्वभूमिषु

॥५५॥

मन्देहदेहसंदेहादुदयैकदयाश्रितः ॥

निषधो नौषधिधरोऽप्यस्तोप्यस्तमितप्रभः

॥५६॥

नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः ॥

सर्पालयः समलयो रायं नावैति रैवतः

॥५७॥

हेमकूटत्रिकूटाद्याः कूटोत्तरपदास्तुते ॥

किष्किंधक्रौंचसह्याद्या भारसह्या न ते भुवः

॥५८॥

इति विंध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि ॥

अखर्वगर्वसंसर्गो न महत्त्वाय कल्पते

॥५९॥

श्रीशैलमुख्याः किंशैलानेह संत्यमलश्रियः ॥

येषां शिखरमात्रादि दर्शनं मुक्तये सताम्

॥६०॥

अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः ॥

सत्यमुक्तं हि भवता गि रिसारंविवृण्वता

॥६१॥

परं शैलेषु शैलेंद्रो मेरुस्त्वामवमन्यते ॥

मया निःश्वसितं चैतत्त्वयि चापि निवेदितम्

॥६२॥

अथवा मद्विधानां हि केयं चिंता महात्मनाम् ॥

स्वस्त्यस्तु तुभ्यमित्युक्त्वा ययौ स व्योमवर्त्मनि

॥६३॥

गते मुनौ निनिंदस्वमतीवोद्विग्नमानसः ॥

चिन्तामवाप महतीं विंध्यो र्वंध्यमनोरथः

॥६४॥

विंध्य उवाच

धिग्जीवितंशास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य ॥

धिग्जीवितं ज्ञातिपराजितस्य धिग्जीवितं व्यथर्मनोरथस्य

॥६५॥

कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ॥

रहः शर्म कथं तस्य यस्याभिभवनं रिपोः

॥६६॥

अहोदवाग्निदवथुस्तथामां न स बाधते ॥

बाधते तु यथा चित्ते चिन्तासंतापसंततिः

॥६७॥

युक्तमुक्तं पुराविद्भिश्चिन्तामूर्तिः सुदारुणा ॥

न भेषजैर्लंघनैर्वा न चान्यैरुपशाम्यति

॥६८॥

चिन्ताज्वरो मनुष्याणां क्षुधांनिद्रांबलं हरेत् ॥

रूपमुत्साहबुद्धिं श्री जीवितं च न संशयः

॥६९॥

ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते ॥

असौ चिन्ताज्वरस्तीव्रः प्रत्यहं नवतां व्रजेत्

॥७०॥

धन्यो धन्वतरिर्नात्र चरकश्चरतीह न ॥

नासत्यावपिनाऽ सत्यावत्र चिन्ताज्वरे किल

॥७१॥

किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम् ॥

उत्प्लुत्य तस्य शिरसि पतामि न पताम्यतः

॥७२॥

शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित् ॥

पक्षहीनः कृतो यत्र धिगपक्षस्यचेष्टितम्

॥७३॥

अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया ॥

भूमेर्भारभृतःप्रायो भवंति भ्रांति भूमयः

॥७४॥

अलीकवाक्त्वमथवा संभाव्यं नारदे कथम् ॥

ब्रह्मचारिणि वेदज्ञे सत्यलोकनिवासिनि

॥७५॥

युक्तायुक्तविचारोथ मादृशेनोपयुज्यते ॥

पराक्रमेष्वशक्तानां विचारं गाहते मनः

॥७६॥

अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम् ॥

विश्वेशं शरणं यायां समे बुद्धिं प्रदास्यति

॥७७॥

अनाथनाथः सर्वेषां विश्वनाथो हि गीयते ॥

क्षणं मनसि संचित्य भवेदित्थमसंशयम्

॥७८॥

एतदेव करिष्यामि नेष्टं कालविलंबनम् ॥

विचक्षणैरुपेक्ष्यौ न वर्द्धमानौ परामयौ

॥७९॥

मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः ॥

सग्रहर्क्षगणो नूनं मन्यमानो बलाधिकम्

॥८०॥

इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः ॥

अनंतगगनस्यांतं कुर्वद्भिः शिखरैरिव

॥८१॥

कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित् ॥

कर्तव्यश्चेत्प्रयत्नेन यथा नोपहसेज्जनः

॥८२॥

निरुध्य ब्राध्नमध्वानं कृतकृत्य इवाद्रिराट् ॥

स्वस्थोऽभवद्भवाधीना प्राणिनां हि भविष्यता

॥८३॥

यमद्ययमकर्तासौ दक्षिणं प्रक्रमिष्यति ॥

सकुलीनः स च श्रीमान्समहान्महितः स च

॥८४॥

यावत्स्वश क्तिं शक्तोपि न दर्शयति कर्हिचित् ॥

तावत्स लंघ्यः सर्वेषां ज्वलनो दारुगो यथा

॥८५॥

इति चिंतामहाभारं त्यक्त्वा तस्थौ स्थिरोद्यमः ॥

आकांक्षमाणस्तरणे रुदयं ब्राह्मणो यथा

॥८६॥

इति श्रीस्कान्देमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे विन्ध्यवर्धनंनाम प्रथमोऽध्यायः ॥ १ ॥