कथं दुर्गेति वै नाम देव्या जातंमुमासुत
अगस्त्य उवाच
कथं दुर्गेति वै नाम देव्या जातंमुमासुत ॥
कथं च काश्यां सा सेव्या समाचक्ष्वेति मामिह
॥१॥स्कंद उवाच
कथयामि महाबुद्धे यथा कलशसंभव ॥
दुर्गा नामाभवद्देव्या यथा सेव्या च साधकैः
॥२॥दुर्गो नाम मदादैत्यो रुरु दैत्यांगजोभवत् ॥
यश्च तप्त्वा तपस्तीव्रं पुंभ्योजेयत्वमाप्तवान्
॥३॥ततस्तेनाखिला लोका भूर्भुवःस्वर्मुखा अपि ॥
स्वसात्कृता विनिर्जित्य रणे स्वभुजसारतः
॥४॥स्वयमिंद्रः स्वयं वायुः स्वयं चंद्रः स्वयं यमः ॥
स्वयमग्निः स्वयं पाशी धनदोभूत्स्वयं बली
॥५॥स्वयमीशानरुद्रार्क वसूनां पदमाददे ॥
तत्साध्वसाद्विमुक्तानि तपांस्यति तपस्विभिः
॥६॥न वेदाध्ययनं चक्रुर्ब्राह्मणास्तद्भयादिताः ॥
यज्ञवाटा विनिर्ध्वस्तास्तद्भटैरतिदुःसहैः
॥७॥विध्वस्ता बहुशः साध्व्यस्तैरमार्गकृतास्पदैः ॥
प्रसभं च परस्वानि अपहृत्य दुरासदाः
॥८॥अभोक्षिषुर्दुराचाराः क्रूरकर्मपरिग्रहाः ॥
नद्यो विमार्गगा आसञ्ज्वलंति न तथाग्नयः
॥९॥ज्योतींषि न प्रदीप्यंति तद्भयाकुलितान्यहो ॥
दिग्वधूवसनन्यासन्विच्छायानि समंततः
॥१०॥धर्मक्रियाविलुप्ताश्च प्रवृत्ताः सुकृतेतराः ॥
त एव जलदीभूय ववृषुर्निज लीलया
॥११॥सस्यानि तद्भयात्सूते त्वनुप्तापि वसुंधरा ॥
सदैव फलिनो जातास्तरवोप्यवकेशिनः
॥१२॥बंदीकृताः सुरर्षीणां पत्न्यस्तेनातिदर्पिणा ॥
दिवौकसः कृतास्तेन समस्ताः काननौकसः
॥१३॥मर्त्या अमर्त्यान्स्वगृहं प्राप्तानपि भयार्दिताः ॥
अपि संभाषमात्रेण नार्च्चयंति विपज्जुषः
॥१४॥स्कंद उवाच
न कौलीन्यं न सद्वृत्तं महत्त्वाय प्रकल्पते ॥
एकमेव पदं श्रेयः पदभ्रंशो हि लाघवम्
॥१५॥विपद्यपि हि ते धन्या न ये दैन्यप्रणोदिताः ॥
धनैर्मलिनचित्तानामालभंतेंगणं क्वचित्
॥१६॥पंचत्वमेव हि वरं लोके लाघववर्ज्जितम् ॥
नामरत्वमपि श्रेयो लाघवेन समन्वितम्
॥१७॥त एव लोके जीवंति पुण्यभाजस्त एव वै ॥
विपद्यपि न गांभीर्यं यच्चेतोब्धिः परित्यजेत्
॥१८॥कदाचित्संपदुदयः कदाचिद्विपदुद्गमः ॥
दैवाद्द्वयमपि प्राप्य धीरो धैर्यं न हापयेत्
॥१९॥उदयानुदयौ प्राज्ञैर्द्रष्टव्यौ पुष्पवंतयोः ॥
सदैकरूपताऽत्याज्या हर्षाहर्षौ ततोऽध्रुवौ
॥२०॥यस्त्वापदं समासाद्य दैन्यग्रस्तो विपद्यते ॥
तस्य लोकद्वयं नष्टं तस्माद्दैन्यं विवर्जयेत्
॥२१॥आपद्यपि हि ये धीरा इह लोके परत्र च ॥
न तान्पुनः स्पृशेदापत्तद्धैर्येणावधीरिता
॥२२॥भ्रष्टराज्याश्च विबुधा महेशं शरणं गताः ॥
सर्वज्ञेन ततो देवीप्रेरिताऽसुरमर्दने
॥२३॥माहेश्वरीं समासाद्य भवान्याज्ञां प्रहृष्टवत् ॥
अमर्त्यायाऽभयं दत्त्वा समरायोपचक्रमे
॥२४॥कालरात्रीं समाहूय कांत्या त्रैलोक्यसुंदरीम् ॥
प्रेषयामास रुद्राणी तमाह्वातुं सुरद्रुहम्
॥२५॥कालरात्री समासाद्य तं दैत्यं दुष्टचेष्टितम् ॥
उवाच दैत्याधिपते त्यज त्रैलोक्यसंपदम्
॥२६॥त्रिलोकीं लभतामिंद्रस्त्वं तु याहि रसातलम् ॥
प्रवर्तंतां क्रियाः सर्वा वेदोक्ता वेदवादिनाम्
॥२७॥अथ चेद्गर्वलेशोऽस्ति तदायाहि समाजये ॥
अथवा जीविताकांक्षी तदिंद्रं शरणं व्रज
॥२८॥इति वक्तुं महादेव्या महामंगलरूपया ॥
त्वदंतिके प्रेषिताहं मृत्युस्ते तदुपेक्षया
॥२९॥अतो यदुचितं कर्तुं तद्विधेहि महासुर ॥
परं हितं चेच्छृणुयाज्जीवग्राहं ततो व्रज
॥३०॥इत्याकर्ण्य वचो देव्या महाकाल्याः स दैत्यराट् ॥
प्रजज्वाल तदा क्रोधाद्गृह्यतां गृह्यतामियम्
॥३१॥त्रैलोक्यमोहिनी ह्येषा प्राप्ता मद्भाग्यगौरवैः ॥
त्रैलोक्यराज्यसंपत्ति वल्ल्याः फलमिदं महत्
॥३२॥एतदर्थं हि देवर्षि नृपा बंदी कृता मया ॥
अनायासेन मे प्राप्ता गृहमेषा शुभोदयात्
॥३३॥अवश्यं यस्य योग्यं यत्तत्तस्येहोपतिष्ठते ॥
अरण्ये वा गृहे वापि यतो भाग्यस्य गौरवात्
॥३४॥अंतःपुरचरा एतां नयंत्वंतःपुरं महत् ॥
अनया सदलं कृत्या मम राष्ट्रमलंकृतम्
॥३५॥अहो महोदयश्चाद्य जातो मम महामते ॥
केवलं न ममैकस्य सर्वदैत्यान्वयस्य च
॥३६॥नृत्यंतु पितरश्चाद्य मोदंतां बांधवाः सुखम् ॥
मृत्युः कालोंऽतको देवाः प्राप्नुवंत्वद्य मे भयम्
॥३७॥इति यावत्समायातास्तां नेतुं सौविदल्लकाः ॥
तावत्तया कालरात्र्या प्रत्युक्तो दैत्यपुंगवः
॥३८॥कालरात्र्युवाच
दैत्यराज महाप्राज्ञ नैतद्युक्तं भवादृशाम् ॥
वयं दूत्यः परवशा राजनीतिविदुत्तम
॥३९॥अल्पोपि दूतसंबाधां न विदध्यात्कदाचन ॥
किं पुनर्ये भवादृक्षा महांतो बलिनोऽधिपाः
॥४०॥दूतीषु कोनुरागोयं महाराजाल्पिकास्विह ॥
अनायासेन च वयमायास्यामस्तदागमात्
॥४१॥विजित्य समरे तां तु स्वामिनीं मम दैत्यप ॥
मादृशीनां सहस्रणि परिभुंक्ष्व यथेच्छया
॥४२॥अद्यैव ते महासौख्यं भावितस्याविलोकनात् ॥
बांधवानां सुखं तेद्य भविता सह पूर्वजैः
॥४३॥संपत्स्यंतेऽद्य ते कामाः सर्वे ये चिरचिंतिताः ॥
अबला सा च मुग्धा च तस्यास्त्राता न कश्चन
॥४४॥सर्वरूपमयी चैव तां भवान्द्रष्टुमर्हति ॥
अहं हि दर्शयिष्यामि यत्र साऽस्ति जगत्खनिः
॥४५॥धृतायामपि चैकस्यां कस्ते कामो भविष्यति ॥
अहं ते सन्निधिं नैव त्यक्ष्याम्यद्य दिनावधि
॥४६॥ततो निवारयैतान्मामादित्सून्सौविदल्लकान् ॥
इति श्रुत्वा वचस्तस्याः स कामक्रोधमोहितः
॥४७॥तामेव बह्वमंस्तैकां दूतीं मृत्योरिवासुरः ॥
शुद्धांतरक्षिणश्चैतां शुद्धां तं प्रापयंत्वरम्
॥४८॥इति तेन समादिष्टाः सर्वे वर्पवरा मुने ॥
तां धर्तुमुद्यमं चक्रुर्बलेन बलवत्तराः
॥४९॥सा तान्भस्मीचकाराशु हुंकारजनिताग्निना ॥
ततो दैत्यपतिः क्रुद्धो दृष्ट्वा तान्भस्मसात्कृतान्
॥५०॥क्षणेनैव तया दूत्या दैत्त्यास्त्र्ययुतसंमितान् ॥
दृशा व्यापारयामास दुर्धरं दुर्मुखं खरम्
॥५१॥सीरपाणिं पाशपाणिं सुरेंद्रदमनं हनुम् ॥
यज्ञारिं खङ्गलोमानमुग्रास्यं देवकंपनम्
॥५२॥बद्ध्वा पाशैरिमां दुष्टामानयंत्वाशु दानवाः ॥
विध्वस्तकेशवेशां च विस्त्रस्तांबरभूषणाम्
॥५३॥इति दैत्याधिपादेशाद्दुर्धरप्रमुखास्ततः ॥
पाशासिमुद्गरधरास्तामादातुं कृतोद्यमाः
॥५४॥गिरींद्रगुरुवर्ष्माणः शस्त्रास्त्रोद्यतपाणयः ॥
दिगंतं ते परिप्राप्तास्तदुच्छ्वासानिलाहताः
॥५५॥तेषूड्डीनेषु दैत्येषु शतकोटिमितेषु च ॥
निर्जगाम ततः सा तु कालरात्रिर्नभोध्वगा
॥५६॥ततस्तां तु विनिर्यांतीमनुजग्मुर्महासुराः ॥
कोटिकोटिसहस्राणि पूरयित्वा तु रोदसी
॥५७॥दुर्गोनाम महादैत्यः शतकोटि रथावृतः ॥
गजानामर्बुदशतद्वयेनपारिवारितः
॥५८॥कोट्यर्बुदेन सहितो हयानां वातरंहसाम् ॥
पदातिभिरसंख्यातैः पच्चूर्णितशिलोच्चयैः
॥५९॥उदायुधैर्महाभीमैःकृतत्रिजगतीभयैः ॥
समेतः स महादैत्यो दुर्गः क्रुद्धो विनिर्ययौ
॥६०॥अथ दृष्ट्वा महादेवी विंध्याचलकृतालयाम् ॥
आगत्य कालरात्र्यां च निवेदित तदागसम्
॥६१॥महाभुजसहस्राढयां महातेजोभिबृंहिताम् ॥
तत्तद्घोरप्रहरणां रणकौतुकसादराम्
॥६२॥प्रौद्यच्चंद्रसहस्रांशु निर्मार्जित शुभाननाम् ॥
लावण्यवार्धि निर्गच्छच्चंचच्चंद्रैकचंद्रिकाम्
॥६३॥महामाणिक्यनिचय रोचिःखचितविग्रहाम् ॥
त्रैलोक्यरम्यनगरी सुप्रकाशप्रदीपिकाम्
॥६४॥हरनेत्राग्निनिर्दग्ध कामजीवातुवीरुधम् ॥
लसत्सौंदर्यसंभार जगन्मोहमहौषधिम्
॥६५॥विषमेषु शरैर्भिन्नहृदयो दैत्यपुंगवः ॥
आदिष्टवान्महासैन्यनायकानुप्रशासनः
॥६६॥अयि जंभ महाजंभ कुजंभ विकटानन ॥
लंबोदर महाकाय महादंष्ट्र महाहनो
॥६७॥पिंगाक्ष महिषग्रीव महोग्रात्युग्रविग्रह ॥
क्रूराक्ष क्रोधनाक्रंद संक्रंदन महाभय
॥६८॥जितांतक महाबाहो महावक्त्र महीधर ॥
दुंदुभे दुंदुभिरव महादुंदुभिनासिक
॥६९॥उग्रास्य दीर्घदशनमेवकेश वृकानन ॥
सिंहास्य सूकरमुख शिवाराव महोत्कट
॥७०॥शुकतुंड प्रचंडास्य भीमाक्ष क्षुदमानस ॥
उलूकनेत्र कंकास्य काकतुंड करालवाक्
॥७१॥दीर्घग्रीव महाजंघ क्रमेलक शिरोधर ॥
रक्तबिंदो जपानेत्र विद्युज्जिह्वाग्नितापन
॥७२॥धूम्राक्ष धूमनिःश्वास चंडचंडांशुतापन ॥
महाभीषणमुख्याश्च शृण्वंत्वाज्ञां ममादरात्
॥७३॥भवत्स्वेतेषु चान्येषु एतां विंध्यवासिनीम् ॥
धृत्यानेष्यति बुद्ध्या वा बलेनापि च्छलेन वा
॥७४॥तस्याहमिंद्रपदवीमद्य दास्याम्यसंशयम् ॥
दृष्ट्वैतां सुंदरीमद्य मनो मे व्याकुलं भवेत्
॥७२॥यांतु क्षिप्रं नयावन्मे पंचेषु शरपीडितम् ॥
मनोविह्वलतां गच्छेदेतत्प्राप्तेरभावतः
॥७६॥इत्याकर्ण्य वचस्तस्य दुर्गस्य दनुजेशितुः ॥
प्रोचुः सर्वे तदा दैत्याः प्रबद्धकरसंपुटाः
॥७७॥अवधेहि महाराज किमेतत्कर्मदुष्करम् ॥
अनाथायास्तथैकस्या अबलया विशेषतः
॥७८॥अस्या आनयने कोयं महायत्नविधिः प्रभो ॥
कोऽस्मान्प्रलयकालाग्निमहाज्वालावलीसमान्
॥७९॥सहेत त्रिषु लोकेषु त्वत्प्रसादात्कृतोद्यमान् ॥
यद्यादेशो भवेदद्य तदेंद्रं स मरुद्गणम्
॥८०॥सांतःपुरं समानीय क्षिप्नुमस्त्वत्पदाग्रतः ॥
भूर्भुवःस्वरिदं सर्वं त्वदाज्ञावशवर्तितम्
॥८१॥महर्जनस्तपःसत्यलोकास्त्वदधिकारिणः ॥
तत्राप्यसाध्यं नास्माकं त्वन्निदेशान्महासुर
॥८२॥वैकुंठनायको नित्यं त्वदाज्ञापरिपालकः ॥
यानि रम्याणि रत्नानि तानि संप्रेषयन्मुदा
॥८३॥अस्माभिरेव संत्यक्तः कैलासाधिपतिः स वै ॥
विपाशी चातिनिःस्वत्वाद्भस्मकृत्त्यहिभूषणः
॥८४॥अर्धांगेनास्मद्भयतो योषिदेका निगूहिता ॥
तस्य ग्रामेपि सकले द्वितीयो न चतुष्पदः
॥८५॥एकोऽजरद्गवः सोपि नान्यस्मात्परिजीवति ॥
श्मशानवासिनः सर्वे सर्वे कौपीनवाससः
॥८६॥सर्वे विभूतिधवला सर्वेप्येक कपर्द्दिनः ॥
समस्ते नगरे तस्य वसंत्येवंविधा गणाः
॥८७॥तेषां गणानां किं कुर्मो दरिद्राणां वयं विभो ॥
समुद्रा रत्नसंभारं प्रत्यहं प्रेषयंति च
॥८८॥नागा वराकाश्चास्माकं सायंसायं स्वयं प्रभो ॥
प्रदीपयंति सततं फणा रत्नप्रदीपकान्
॥८९॥कल्पद्रुमः कामगवी चिंतामणिगणा बहु ॥
तव प्रसादादस्माकमपि तिष्ठंति वेश्मसु
॥९०॥वायुर्व्यजनतां यातस्त्वां सेवेत प्रयत्नतः ॥
स्वच्छान्यंबूनि वरुणः प्रत्यहं पूरयत्यहो
॥९१॥वासांसि क्षालयेदग्निश्चंद्रश्छत्रधरः स्वयम् ॥
सूर्यः प्रकाशयेन्नित्यं क्रीडावाप्यंबुजानि च
॥९२॥कस्त्वत्प्रसादं नेक्षेत मर्त्यामर्त्योरगेषु च ॥
सर्वे त्वामुपजीवंति सुराऽसुरखगादयः
॥९३॥पश्य नः पौरुषं राजन्नानयामो बलादिमाम् ॥
इत्युक्त्वा युगपत्सर्वे क्षुब्धास्तोयधयो यथा
॥९४॥संवर्तकालमासाद्य प्लावितुं जगतीमिमाम् ॥
रणतूर्य निनादश्च समुत्तस्थौ समंततः
॥९५॥रोमांचिता यच्छ्रवणात्कातरा अप्यकातराः ॥
ततो देवा भयत्रस्ताश्चकंपे च वसुंधरा
॥९६॥क्षुब्धा अंबुधयः सर्वे पेतुर्नक्षत्रमालिकाः ॥
रोदसीमंडलं व्याप्तं तेन तूर्यरवेण वै
॥९७॥ततो भगवती देवी स्वशरीरसमुद्भवाः ॥
शक्तीरुत्पादयामास शतशोऽथ सहस्रशः
॥९८॥ताभिः शक्तिभिरेतेषां बलिनां दितिजन्मनाम् ॥
प्रत्येकं परितो रुद्ध उद्वेलः सैन्यसागरः
॥९९॥शस्त्रास्त्राणि महादैत्यैर्यान्युत्सृष्टानि संगरे ॥
ताभिः शक्तिभिरुग्राणि तृणीकृत्योज्झितान्यरम्
॥१००॥ततोतिकोपपूर्णास्ते जंभमुख्याः सुरारयः ॥
असि चक्र भुशुंडीभिर्गदामुद्गरतोमरैः
॥१॥भिंदिपालैश्च परिघैः कुंतैः शल्यैश्च शक्तिभिः ॥
अर्धचंद्रैः क्षुरप्रैश्च नाराचैश्च शिलीमुखैः
॥२॥महाभल्लैः परशुभिर्भिंदुरैर्मर्मभेदिभिः ॥
वृक्षोपलमहावर्षैर्ववृषुर्जलदा इव
॥३॥अथ सा विंध्यनिलया महामाया महेश्वरी ॥
आदायोद्दंडकोदंडं वायव्यास्त्रेण हेलया
॥४॥दैत्यास्त्रशस्त्रजालानि परिचिक्षेप दूरतः ॥
ततो महासुरो दुर्गो वीक्ष्य सैन्यं निरायुधम्
॥५॥ज्वलंतीं शक्तिमादाय तां देवीं प्रति सोऽक्षिपत् ॥
तां तु शक्तिं समायांतीं महावेगवतीं रणे
॥६॥निजचापविनिर्मुक्तैर्बाणैश्चूर्णी चकार सा ॥
भग्नां शक्तिं समालोक्य ततो दुर्गो महासुरः
॥७॥चक्रं च प्रेषयामास दैत्यचक्रातिहर्षदम् ॥
तच्च देव्या शरशतैरंतरैवाणुवत्कृतम्
॥८॥ततः शार्ङ्गं समादाय धनुः शक्रधनुर्यथा ॥
हृदि विव्याध बाणेन तां देवीममरार्दनः
॥९॥स च बाणस्तया देव्या निज बाणैर्महाजवैः ॥
निवारितोपि वेगेन तां देवीमभ्यगान्मुने
॥११०॥ततः कोदंडदंडेन आषुगेन तमाशुगम् ॥
हत्वा निवारयामास कालदंडमिवापरम्
॥११॥तस्मिन्विमुखतां याते मार्गणे दुर्गमासुरः ॥
क्रुद्धः शूलं समादाय संवर्तानलसुप्रभम्
॥१२॥महावेगन चिक्षेप तां देवीमभि दैत्यपः ॥
परापतच्च तच्छूलं निजशूलेन चंडिका
॥१३॥अंतरैव प्रचिच्छेद सह दैत्यजयाशया ॥
तस्मिन्नपि महाशूले देवीशूलावहेलिते
॥१४॥गदामादाय दैत्येंद्रः सहसाभिपपात ह ॥
आजघान च तं देवीं भुजमूले महाबलः
॥१५॥सापि देवी भुजं प्राप्य गिरींद्रशिखराकृतिः ॥
गदाशुपरिपुस्फोट शतधा च सहस्रधा
॥१६॥तदा देव्या स दैत्येंद्रो वामपादतलेन हि ॥
आताडितः पपातोर्व्यां हृदि गाढं प्रपीडितः
॥१७॥तत्क्षणादेव दैत्येंद्रः पतित्वा पुनरुत्थितः ॥
बभूव सहसा दृश्यो दीपो वातहतो यथा
॥१८॥तावञ्जगज्जनन्याताः प्रेरिता निज शक्तयः ॥
विचेरुर्दैत्यसैन्येषु संवर्ते मृत्युसैन्यवत्
॥११९॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गपराक्रमो नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥