रत्नेश्वरप्रशंसनम्
अगस्त्य उवाच
रत्नेश्वरसमुत्पतिं कथयस्व षडानन ॥
रत्नभूतं महालिंगं यत्काश्यां परिवर्ण्यते
॥१॥कोस्य लिंगस्य महिमा केनैतच्च प्रतिष्ठितम् ॥
एतं विस्तरतो ब्रूहि गौरीहृदयनंदन
॥२॥स्कंद उवाच
रत्नेश्वरस्य माहात्म्यं कथयिष्यामि ते मुने ॥
यथा च रत्नलिंगस्य प्रादुर्भावोऽभवद्भुवि
॥३॥श्रुतं नामापि लिंगस्य यस्य जन्मत्रयार्जितम् ॥
वृजिनं नाशयेत्तस्य प्रादुर्भावं ब्रुवे मुने
॥४॥शैलराजेन रत्नानि यानि पुंजीकृतान्यहो ॥
उत्तरे कालराजस्य तानि तस्य गिरेर्वृषात्
॥५॥सर्वरत्नमयं लिंगं जातं तत्सुकृतात्मनः ॥
शक्रचापसमच्छायं सर्वरत्नद्युतिप्रभम्
॥६॥तल्लिंगदर्शनादेव ज्ञानरत्नमवाप्यते ॥
शैलेश्वरं समालोक्य शिवौ तत्र समागतौ
॥७॥यत्र रत्नमयं लिंगमाविर्भूतं स्वयं मुने ॥
तस्य स्फुरत्प्रभाजालैस्ततमंबरमंडलम्
॥८॥तत्र दृष्ट्वा शुभं लिंगं सर्वरत्नसमुद्भवम् ॥
भवान्यदृष्टपूर्वा हि परिपप्रच्छ शंकरम्
॥९॥देवदेव जगन्नाथ सर्वभक्ताभयप्रद ॥
कुतस्त्यमेतल्लिंगं द्विसप्तपातालमूलवत्
॥१०॥ज्वालाजटिलिताकाशं प्रभाभासित दिङ्मुखम् ॥
किमाख्यं किं स्वरूपं च किं प्रभावं भवांतक
॥११॥यस्य संवीक्षणादेव मनोमेतीव हृष्टवत् ॥
इहैव रमते नाथ कथयैतत्प्रसादतः
॥१२॥देवदेव उवाच
शृण्वपर्णे समाख्यामि यत्त्वया पृच्छि पार्वति ॥
स्वरूपमेतल्लिंगस्य सर्वतेजोनिधेः परम्
॥१३॥तव पित्रा हिमवता गिरिराजेन भामिनि ॥
त्वामुद्दिश्य महारत्नसंभारोत्राप्यनायि हि
॥१४॥अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा ॥
सुकृतोपार्जितान्येव ययौ स्वसदनं पुनः
॥१५॥तवार्थं वाममार्थं वा श्रद्धया यत्समर्प्यते ॥
काश्यां तस्य परीपाको भवेदीदृग्विधोऽनघे
॥१६॥लिंगं रत्नेश्वराख्यं वै मत्स्वरूपं हि केवलम् ॥
अस्य प्रभावो हि महान्वाराणस्यामुमे ध्रुवम्
॥१७॥सर्वेषामिह लिंगानां रत्नभूतमिदं परम् ॥
अतो रत्नेश्वरं नाम परं निर्वाणरत्नदम्
॥१८॥अनेनैव सुवर्णेन पित्रा राशीकृतेन च ॥
प्रासादमस्य लिंगस्य विधापय महेश्वरि
॥१९॥लिंगप्रासादकरणात्खंडस्फुटित संस्कृतेः ॥
लिंगस्थापनजं पुण्यं हेलयैवेह लभ्यते
॥२०॥तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ ॥
सोमनंदि प्रभृतयो ऽसंख्या व्यापारिता मुने
॥२१॥गणैश्च कांचनमयो नानाकौतुकचित्रितः ॥
निर्ममे याममात्रेण प्रासादो मेरुशृंगवत्
॥२२॥देवी प्रदृष्टवदना दृष्ट्वा प्रासादनिर्मितिम् ॥
गणेभ्यो व्यतरद्भूरि समानं पारितोषिकम्
॥२३॥पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम् ॥
महिमानं महादेवं लिंगस्यास्य महामुने
॥२४॥देवदेव उवाच
लिंगं त्वनादिसंसिद्धमेतद्देवि शुभप्रदम् ॥
आविर्भूतमिदानीं च त्वत्पितुः पुण्यगौरवात्
॥२५॥गुह्यानां परमं गुह्यं क्षेत्रेऽस्मिश्चिंतितप्रदम् ॥
कलौ कलुषबुद्धीनां गोपनीयं प्रयत्नतः
॥२६॥यथा रत्नं गृहे गुप्तं न कैश्चिज्ज्ञायते परैः ॥
अविमुक्ते तथा लिंगं रत्नभूतं गृहे मम
॥२७॥यानि ब्रह्मांडमध्येत्र संति लिंगानि पार्वति ॥
तैरर्चितानि सर्वाणि रत्नेशो यैः समर्चितः
॥२८॥प्रमादेनापि यैर्गौरि लिंगं रत्नेशमर्चितम् ॥
ते भवंत्येव नियतं सप्तद्वीपेश्वरा नृपाः
॥२९॥त्रैलोक्ये यानि वस्तूनि रत्नभूतानि तानि तु ॥
रत्नेश्वरं समभ्यर्च्य सकृत्प्राप्नोति मानवः
॥३०॥पूजयिष्यंति ये लिंगं रत्नेशं कामवर्जिताः ॥
ते सर्वे मद्गणा भूत्वा प्रांते द्रक्ष्यंति मामिह
॥३१॥रुद्राणां कोटिजप्येन यत्फलं परिकीर्तितम् ॥
तत्फलं लभ्यते देवि रत्नेशस्य समर्चनात्
॥३२॥लिंगे चानादिसंसिद्धे यद्वृत्तं तद्ब्रवीमि ते ॥
इतिहासं महाश्चर्यं सर्वपापनिकृंतनम्
॥३३॥पुरेह नर्तकी काचिदासीन्नाट्यार्थकोविदा ॥
सैकदा फाल्गुने मासि शिवरात्र्यां कलावती
॥३४॥ननर्त जागरं प्राप्य जगौ गीतं च पेशलम् ॥
स्वयं च वादयामास नानावाद्यानि वाद्यवित्
॥३५॥तेन तौर्यत्रिकेणापि प्रीणयित्वाथ सा नटी ॥
रत्नेश्वरं महालिंगं देशमिष्टं जगाम ह
॥३६॥कालधर्मवशंयाता तत्र सा वरनर्तकी ॥
सुता गंधर्वराजस्य वसुभूतेर्बभूव ह
॥३७॥संगीतस्य सवाद्यस्य तस्य लास्यस्यपुण्यतः ॥
तत्रेशाग्रे कृतस्येह जागरे शिवरात्रिजे
॥३८॥रम्या रत्नावली नाम रूपलावण्यशालिनी ॥
कलाकलापकुशला मधुरालापवादिनी
॥३९॥पितुरानंदकृन्नित्यं वसुभूतेर्घटोद्भव ॥
सर्वगांधर्वकुशला गुणरत्नमहाखनिः
॥४०॥मुने सखीत्रयं तस्याश्चारु चातुर्यभाजनम् ॥
शशिलेखानंगलेखा चित्रलेखेति नामतः
॥४१॥तिसृभिस्ताभिरेकत्र वाग्देवीपरिशीलिता ॥
ताभ्यः सर्वाः कलाः प्रादात्परिप्रीता सरस्वती
॥४२॥प्राप्य रत्नावली गौरि सा जन्मांतरवासनाम् ॥
रत्नेश्वरस्य लिंगस्य जग्राह नियमं शुभम्
॥४३॥रत्नभूतस्य लिंगस्य काश्यां रत्नेश्वरस्य वै ॥
नित्यं संदर्शनं प्राप्य वक्ष्याम्यपि वचो मुखे
॥४४॥इत्थं नियमवत्यासीत्सा गंधर्वसुतोत्तमा ॥
ताभिः सखीभिः सहिता नित्यं लिंगं च पश्यति
॥४५॥एकदाराध्य रत्नेशं ममैतल्लिंगमुत्तमम् ॥
समानर्च च सा बाला रम्यया गीतमालया
॥४६॥सख्यः प्रदक्षिणीकर्तुं लिंगं तिस्रोऽप्युमे गताः ॥
तस्या गीतेन तुष्टोहं लिंगस्थो वरदोभवम्
॥४७॥यस्त्वया रंस्यते रात्रावद्य गंधर्वकन्यके ॥
तवनामसमानाख्यः स ते भर्ता भविष्यति
॥४८॥इति लिंगांबुधेर्जातां परिपीय वचःसुधाम् ॥
बभूवानंदसंदोह मंथरातीव ह्रीमती
॥४९॥गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् ॥
कथयंती निजोदंतं तमालीनां पुरो मुदा
॥५०॥ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनंदिता ॥
अद्य ते वांछितं भावि रत्नेशस्य समर्चनात्
॥५१॥यद्यायाति स ते रात्रावद्य कौमारहारकः ॥
चोरो बाहुलतापाशैः पाशितव्योतियत्नतः
॥५२॥गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः ॥
प्रातरेव तव प्रेयान्रत्नेशादिष्ट इष्टकृत्
॥५३॥यातास्वस्मासु हृष्टासु भवती शयगौरवात् ॥
अहो रत्नेश्वरं लिंगं प्रत्यक्षीकृतवत्यसि
॥५४॥अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः ॥
एकस्यैव भवेत्सिद्धिर्यदेकत्रापि तिष्ठताम्
॥५५॥सत्यं वदंति नासत्यं दैवप्राधान्यवादिनः ॥
दैवमेव फलेदेकं नोद्यमो नापरं बलम्
॥५६॥भवत्या अपि चास्माकमेक एव हि चोद्यमः ॥
परं दैवं फलत्येकं यथा तव न नः पुरः
॥५७॥लोकानां व्यवहारोयमालिप्रोक्तप्रसंगतः ॥
परं मनोरथावाप्तिस्तव या सैव नः स्फुटम्
॥५८॥इति संव्याहरंतीनामनंतोध्वाऽतितुच्छवत् ॥
क्षणात्तासां व्यतिक्रांतः प्राप्ताश्च स्वंस्वमालयम्
॥५९॥अथ प्रातः समुत्थाय पुनरेकत्र संगताः ॥
सा च मौनवती ताभिः परिभुक्तेव लक्षिता
॥६०॥तूष्णीं प्राप्याथ काशीं सा स्नात्वा मंदाकिनीजले ॥
सखीभिः सहितापश्यल्लिंगं रत्नेश्वरं मम
॥६१॥निर्वर्त्य नियमं साथ लज्जामुकुलितेक्षणा ॥
निर्बंधेन वयस्याभिः परिपृष्टा जगाद ह
॥६२॥रत्नावल्युवाच
अथ रत्नेश यात्रायाः प्रयातासु स्वमंदिरम् ॥
भवतीषु स्मरंत्येव तद्रत्नेशवचोऽमृतम्
॥६३॥सविशेषांगसंस्काराऽविशं संवेशमंदिरम् ॥
निद्रादरिद्रनयना तद्विलोकनलालसा
॥६४॥बलात्स्वप्नदशां प्राप्ता भाविनोर्थस्य गौरवात् ॥
आत्मविस्मरणे हेतू ततो मे द्वौ बभूवतुः
॥६५॥तंद्री तदंगसंस्पर्शौ मम बोधापहारकौ ॥
तंद्र्या परवशा चासं ततस्तत्स्पर्शनेन च
॥६६॥न जाने त्वथ किं वृत्तं काहं क्वाहं स चाथ कः ॥
तं निर्जिगमिषुं सख्यो यावद्धर्तुं प्रसारितः
॥६७॥दोः कंकणेन रिपुणा क्वणितं तावदुत्कटम् ॥
महता सिंजितेनाहं तेनाल्पपरिबोधिता
॥६८॥सुखसंतानपीयूष ह्रदे परिनिमज्य वै ॥
क्षणेन तद्वियोगाग्निकीलासु पतिता बलात्
॥६९॥किंकुलीयः स नो वेद्मि किंदेशीयः किमाख्यकः ॥
दुनोति नितरां सख्यस्तद्विश्लेषानलो महान्
॥७०॥अनल्पोत्कलितं चेतः पुनस्तत्संगमाशया ॥
प्राणानां मे यियासूनामेकमेव महौषधम्
॥७१॥वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम् ॥
भवतीनामधीनं च तत्पुनर्दर्शनं मम
॥७२॥काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने ॥
तद्दर्शनेन स्थास्यंति प्राणा यास्यंति चान्यथा
॥७३॥दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम् ॥
इति तस्या गिरः श्रुत्वा दूनाया नितरां च ताः
॥७४॥प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम्
॥७५॥सख्य ऊचुः
यस्य ग्रामो न नो नाम नान्वयो नापि बुध्यते ॥
स कथं प्राप्यते भद्रे क उपायो विधीयताम्
॥७६॥इति रत्नावली श्रुत्वा ससंदेहां च तद्गिरम् ॥
वयस्यास्तदवाप्तौ मे यूयं कुंठि मुमूर्छ ह
॥७७॥इत्यर्धोक्तेन सा बाला यूयं कुंठितशक्तयः ॥
यद्वक्तव्यं त्विति तया यूयं कुंठीति भाषितम्
॥७८॥ततस्तास्त्वरिताः सख्यः परितापोपहारकान् ॥
बहुशः शीतलोपायान्व्यधुर्मोहप्रशांतये
॥७९॥व्यपैति न यदा मूर्छा तत्तच्छीतोपचारतः ॥
तस्यास्तदैकयानीतं रत्नेशस्नपनोदकम्
॥८०॥तदुक्षणात्क्षणादेव तन्मूर्छा विरराम ह ॥
सुप्तोत्थितेव सावादीन्मुहुः शिवशिवेति च
॥८१॥स्कदं उवाच
श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि ॥
नोपायांतरमस्त्येव विनेश चरणोदकम्
॥८२॥ये व्याधयोपि दुःसाध्या बहिरंतः शरीरगाः ॥
श्रद्धयेशोदकस्पर्शात्ते नश्यंत्येव नान्यथा
॥८३॥सेवितं येन सततं भगवच्चरणोदकम् ॥
तं बाह्याभ्यंतरशुचिं नोपसर्पति दुर्गतिः
॥८४॥आधिभौतिकतापं च तापं वाप्याधिदैविकम् ॥
आध्यात्मिकं तथा तापं हरेच्छ्रीचरणोदकम्
॥८५॥व्यपेतसंज्वरा चाथ गंधर्वतनया मुने ॥
उचितज्ञेति होवाच ताः सखीः स्रिग्धधो(धी?)रधीः
॥८६॥रत्नावल्युवाच
शशिलेखेनंगलेखे चित्रलेखे मदीहितं ॥
यूयं कुंठितसामर्थ्याः कुतो वस्ताः कलाः क्व वा
॥८७॥मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः ॥
रत्नेश्वरानुग्रहतोऽनुतिष्ठत हि तं हिताः
॥८८॥शशिलेखेभिलषितप्राप्त्यै लेखांस्त्वमालिख ॥
संलिखानंगलेखे त्वं यूनः सर्वावनीचरान्
॥८९॥चित्रगे चित्रलेखे त्वं पातालतलशायिनः ॥
किंचिदाविर्भवच्चारु तारुण्यालंकृतीँल्लिख
॥९०॥अथाकण्येति ताः सख्यस्तच्चातुर्यं प्रवर्ण्य च ॥
लिलिखुः क्रमशः सख्यो यूनो यौवन शेवधीन्
॥९१॥निर्यत्कौमारलक्ष्मीकान्पुंवत्त्व श्रीसमावृतान् ॥
प्रातःसंध्येव गंधर्वी नृपाद्यांस्तानवैक्षत
॥९२॥सर्वान्सुरनिकायान्सा व्यलोकत शुभेक्षणा ॥
न चांचल्यं जहावक्ष्णोस्तेषु स्वर्लोकवासिषु
॥९३॥ततो मध्यमलोकस्थान्मुनिराजकुमारकान् ॥
विलोक्यापि न सा प्रीतिं क्वाप्याप प्रेमनिर्भरा
॥९४॥अथ रत्नावली बाला कर्णाभ्यर्णविलोचना ॥
दृशौ व्यापारयामास बलिसद्मयुवस्वपि
॥९५॥दितिजान्दनुजान्वीक्ष्य सा गंधर्वी कुमारकान् ॥
रतिं बबंध न क्वापि तापिता मान्मथैः शरैः
॥९६॥सुधाकर करस्पृष्टाप्यतिदूनांगयष्टिका ॥
पश्यंती नागयूनः सा किंचिदुच्छ्वसिताऽभवत्
॥९७॥भोगिनस्तान्विलोक्यापि चित्रंचित्रगतानथ ॥
मनात्संभुक्तभोगेव क्षणमासीत्कुमारिका
॥९८॥यूनः प्रत्येकमद्राक्षीदशेषाञ्छेष वंशजान् ॥
तक्षकान्वयगांस्तद्वदथ वासुकिगोत्रजान्
॥९९॥पुलीकानंत कर्कोट भद्रसंतानगानपि ॥
दृष्ट्वा नागकुमारांस्ताञ्छंखचूडमथैक्षत
॥१००॥शंखचूडेक्षणादेव परां लज्जां बभार सा ॥
उद्भिन्नपुलकाप्यासीदंगप्रत्यंग संधिषु
॥१॥तत्त्रपाभरतोऽज्ञायि तत्कौमारहरो वरः ॥
तया वैदग्ध्यवरया क्षणतश्चित्रलेखया
॥२॥अथ चित्रपटी चित्रलेखा चित्रपटांचलम् ॥
परिक्षिप्यावृणोत्तूर्णं परिहासैकपेशला
॥३॥रत्नावली चित्रलेखां ह्रिया मौनावलंबिनी ॥
दृशा कुटिलयाद्राक्षीत्प्रस्फुरद्दशनांबरा
॥४॥कटाक्षितानंगलेखा तयाथ शशिलेखया ॥
चित्रलेखापरिक्षिप्त पटांचलमपाकरोत्
॥५॥वसुभूतिसुता साथ कन्या रत्नावली शुभा ॥
शंखचूडान्ववाये तं रत्नचूडमवैक्षत
॥६॥तदीक्षणक्षणाद्दृष्टिरानंदाश्रुभिरावृता ॥
कपोलभित्तिरभवत्स्वेदोदकणिकांचिता
॥७॥चकंपे गात्रलतिका धृतरोमांचकंचुका ॥
चित्रन्यस्तेव तस्तंभ क्षणं मुकुलितानना
॥८॥ततः सा चित्रलेखा तामेत्याश्वासयदातुराम् ॥
मौत्सुक्यं व्रज गंधर्वि सिद्धस्तेद्य मनोरथः
॥९॥एतस्यावगतं सर्वं देशनामान्वयादिकम् ॥
मा विषीदालिसुलभस्त्वेष रत्नेश्वरार्पितः
॥११०॥अहो सदृग्वरावाप्त्या रत्नेशेनासि तोषिता ॥
उत्तिष्ठ यामः सदनं रत्नेशः सर्वदोहिनः
॥११॥अथ देववशाद्यांत्यस्ता दृष्टा गगनाध्वगाः ॥
सुबाहुना दानवेन पातालतलवासिना
॥१२॥गृहीत्वा ताश्चतस्रोपि निरगाद्दानवो गृहम् ॥
हरिर्विकटदंष्ट्रास्यः प्रांतरे हरिणीरिव
॥१३॥तास्तं विलोक्य गंधर्व्यो दंष्ट्राविकटिताननम् ॥
रुधिरारुणनेत्रं च जाता वेपथुभूमयः
॥१४॥हा मातर्हा पितस्त्राहि हा विधे मा विधेहि तत् ॥
यदेतत्कर्तुमारब्धमनाथास्वतिनिष्ठुरम्
॥१५॥हा दैव मंदभाग्याभिः किमस्माभिरनुष्ठितम् ॥
सुकृतेतरवार्तापि नो चित्ते व्याहृता क्वचित्
॥१६॥शिशुक्रीडनकं हित्वा हित्वा रत्नेश्वरार्चनम् ॥
पित्रोः स्वाधीन सच्चेष्टा इष्टं विद्मो न किंचन
॥१७॥अधोभुवनगा दीना हीनानाथेन कोत्र नः ॥
त्राति त्राणार्थिनीर्बालाः शंभो रत्नेश सर्वग
॥१८॥इत्थं गंधर्वतनया विलपंतीः कृपातुरम् ॥
शुश्राव नागराजोसौ रत्नचूडो महामनाः
॥१९॥कोसौ मत्स्वामिनो नाम रत्नेशस्य महेशितुः ॥
लिंगराजस्य गृह्णाति कर्मबंधनभेदिनः
॥१२०॥पुनरप्यार्तरावं स श्रुत्वा बालामुखेरितम् ॥
रत्नेश रक्षरक्षेति गृहीतास्त्रो विनिर्ययौ
॥२१॥तं वसारसपानेन महामांसनिषेवणात् ॥
अत्यंतोन्मत्त दुश्चेष्टं रत्नचूडो निरैक्षत
॥२२॥अध्याक्षिपच्च रे दुष्ट शिष्टकन्यापहारक ॥
मद्दृष्टिगोचरं यातः क्व यास्यस्यद्य रेऽधम
॥२३॥मम बाणहतप्राणः प्रयाणं कुरु दुर्मते ॥
आर्तत्राणोद्यतमते वैवस्वतपुरं प्रति
॥२४॥रत्नेश्वरस्य यैर्नाम प्रलयापद्यपि स्फुटम् ॥
गृहीतं न भवादृग्भ्यस्तेषु भीतिर्भयात्मसु
॥२५॥रत्नेश्वरमहानाम कृतत्राणास्तु ये नराः ॥
तेषां जन्मजराव्याधि कलिकालभयं कुतः
॥२६॥इत्युक्त्वा ता भयत्रस्तास्तन्मुखप्रहितेक्षणाः ॥
व्याघ्रघ्राता इव मृगीर्माभैषिष्टेत्युवाच सः
॥२७॥इत्याश्वास्याथ गंधर्वीः स वै भुजगराजजः ॥
आकर्णपूर्णमाकृष्य कोदंडं प्राहिणोच्छरम्
॥२८॥सोपि क्रुद्धो दनुजराट्पदास्पृष्टभुजंगवत् ॥
आविद्ध्य कालदंडाभं परिघं व्यसृजन्महत्
॥२९॥हृदि रत्नेश्वरं लिंगं यस्य सम्यग्विजृंभते ॥
अलातदंडवत्तस्मिन्कालदंडोपि जायते
॥१३०॥अंतरेव स चिच्छेद परिघं स्वमहेषुभिः ॥
दुर्वृतस्य यथेहायुर्विच्छिद्येतांतरैव हि
॥३१॥ततोस्य बाणं चिक्षेप कालानलसमप्रभम् ॥
स बाणस्तस्य हृदयं प्रविश्य प्रगवेष्य च
॥३२॥प्राणानस्य विनिर्यात्य स्वयं तूणमगात्पुनः ॥
हृदिस्थं तस्य दौरात्म्यं सर्वं विज्ञाय तत्त्वतः
॥३३॥दिगंगनापुरः ख्यातुमिव नागाशुगो गतः
॥३४॥अन्यायोपार्जितैर्द्रव्यैर्यः सुखं भोक्तुमिच्छति ॥
तानि द्रव्याणि यांत्येव स प्राणानि कुतः सुखम
॥३५॥इति तं दानवं हत्वा नागराजो महाबली ॥
प्रत्युवाचाथ ताः कन्याः का यूयं कस्य चात्मजाः
॥३६॥दुरात्मना कुतोनेन संगता दनुजन्मना ॥
क्व वा रत्नेश्वरं लिंगं भवतीभिर्विलोकितम्
॥३७॥यस्य नामाक्षरोच्चाराद्व्यपेत परमापदः ॥
यृयमाशु तदाख्यात येन जानामि तत्त्वतः
॥२८॥इति श्रुत्वा गिरस्तस्य नितरां प्रेमनिर्भराः ॥
परस्परं मुखं वीक्ष्य कोसौ स्याद्दृष्टपूर्ववत्
॥३९॥अकारण सखा कोसौ प्रांतरे समुपस्थितः ॥
निजप्राणान्पणीकृत्य येन त्राता स्म बालिकाः
॥१४०॥अस्य संदर्शनादेव स्वभाव चपलान्यपि ॥
मंथराणींद्रियाणिस्तु परिपीय सुधामिव
॥४१॥यातुमन्यत्र नो नेत्रे प्रोत्सहेते यथा तथा ॥
अन्यद्वस्त्वंतरं प्रेक्ष्य रमणीयतरंत्वपि
॥४२॥वचःपीयूषमाधुर्य नितरां प्राप्य नः श्रुती ॥
शब्दांतरग्रहापेक्षां न कुर्वाते स्वजन्मनः
॥४३॥आप्नुतः पंगुतामेतौ पादौ नश्चंचलावपि ॥
अमुं युवानमालोक्य चोरं नः सन्मनोमणेः
॥४४॥इति ब्रुवंत्यस्ता बालाः परस्परमनुल्बणम् ॥
दृष्ट्वापि चित्रमध्यस्थं विविदुस्तन्न बालिकाः
॥४५॥अतीव भीषणाकार दनुजस्यातिसाध्वसात् ॥
अंधीभूतेक्षणास्तं नाज्ञासिषुर्हरिणीक्षणाः
॥४६॥ऊचुश्च तं युवानं ता निजजीवितरक्षिणम् ॥
यदंग भवता पृष्टं स्नेहनिर्भरचेतसा
॥४७॥तदाचक्षामहे सर्वमवधेहि क्षणं मनः ॥
इयं गंधर्वराजस्य वसुभूतेस्तनूद्भवा
॥४८॥कन्या रत्नावली नाम गुणरत्नमहाखनिः ॥
वयं वयस्या एतस्याश्छायेवानुगताः सदा
॥४९॥आरभ्य बाल्यमप्येषा लिंगं रत्नेश्वराभिधम् ॥
यांति पित्राप्यनुज्ञाता काश्यामर्चयितुं सदा
॥१५०॥वरोपि दत्तस्तेनास्यै प्रसन्नेनाथ शंभुना ॥
हरिष्यतीति यः स्वप्ने कौमारं ते कुमारिके
॥५१॥तव नामसमानाख्यः स ते भर्ता भविष्यति ॥
युवानं स्वप्नभोक्तारं प्राप्याप्येषा सुदुःखिता
॥५२॥पुनस्तद्विरहोत्थेन वह्निनातीव तापिता ॥
कलाकौशल्यतोऽस्माभिः सोपि चित्रे प्रदर्शितः
॥५३॥यस्य न ग्राम नामापि नान्वयोप्यवबुध्यते ॥
तं दृष्ट्वा चित्रलिखितमप्येषा जीविता पुनः
॥५४॥ततो रत्नेश्वरं नत्वा स्वगृहायोत्सुकाभवत् ॥
यांतीस्ततोऽनया सार्धं प्रांतरे गगना ध्वनि
॥५५॥अतर्किता यमश्चास्मान्धृत्वा पातालमाविशत् ॥
अनंतरं भवानेव तं वेत्ति दनुजाधमम्
॥५६॥अंग इत्येव वृत्तांतो निजोऽस्माभिरुदीरितः ॥
प्रसादं कुरु चास्माकं पुरः कोसि कृपानिधे
॥५७॥यदा प्रभृति चास्माभिः स दृष्टो दुष्टदानवः ॥
तदाप्रभृति नो नेत्रे विद्युतेव हतप्रभे
॥५८॥कांदिशीका भयत्रातर्न विद्मः किंचिदेव हि ॥
क्व वयं का वयं कस्त्वं किं जातं किं भविष्यति
॥५९॥निशम्येति स पुण्यात्मा नागराजकुमारकः ॥
आश्वास्य ता भयत्रस्ताः प्रोवाचेदं च पुण्यधीः
॥१६०॥मया सह समायात रत्नेशं दर्थयामि वः ॥
इत्याहूय स ता निन्ये क्रीडावापीं सुखोदकाम्
॥६१॥वित्रित्रमणिसोपानां हंसकोककृतारवाम् ॥
कवीनां वासितव्याजात्स्वागतं कुर्वतीमिव
॥६२॥तत्र तेनाभ्यनुज्ञाताः क्रीडावाप्यां निमज्ज्य ताः ॥
सचैलपुष्पाभरणाः प्रोन्ममज्जुस्ततः पुनः
॥६३॥बहिर्निर्गत्य गंधर्व्यः पश्यंत्यः स्थगिता इव ॥
रत्नेशालयमालोक्य कालराजसमीपतः
॥६४॥परस्परं ततः प्रोचुर्गंधर्व्यो विस्मिता इव ॥
स्वप्नोयं किं नु वा सत्यं खेलो रत्नेश्वरस्य वा
॥६५॥वयमेव हि वा भ्रांता गंधर्व्यो न वयं किमु ॥
किमेतन्नैव जानीम ऐंद्रजालिक खेलवत्
॥६६॥एषोत्तरवहा गंगा स्फुटमेव भवेदिह ॥
शंखचूडस्य वाप्येषा शंखचूडालयस्त्वसौ
॥६७॥एतत्पंचनदं तीर्थमेष वागीश्वरालयः ॥
यस्य संदर्शनादेव वाग्विभूतिर्विजृंभते
॥६८॥शंखचूडेश्वरश्चैष शंखचूडप्रतिष्ठितः ॥
यस्य संदर्शनात्पुंसां न भयं कालसर्पजम्
॥६९॥एषा मंदाकिनी नाम दीर्घिका पुण्यतोयभूः ॥
यस्यां कृतोदका मर्त्या मर्त्यलोके विशंति न
॥१७०॥असावाशापुरी देवी या स्तुता त्रिपुरारिणा ॥
त्रिपुरं जेतुकामेन मंदाकिन्यास्तटे शुभे
॥७१॥याद्यापि पूजिता मर्त्यैराशां पूरयतेर्थिनाम् ॥
मंदाकिन्याः प्रतीच्यां तु एष सिद्ध्यष्टकेश्वरः
॥७२॥भवेद्यस्य सपर्यातो गृहे सिद्ध्यष्टकं स्फुटम् ॥
कुंडसिद्ध्यष्टकाख्यं च तत्रैव विरजोदकम्
॥७३॥यत्र स्नात्वा कृतश्राद्धो विरजस्को दिवं व्रजेत् ॥
मूर्त्यस्ताः सिद्धयश्चाष्टौ याः काश्यां सर्वसिद्धिदाः
॥७४॥सर्वसिद्धिप्रदश्चासौ महाराजविनायकः ॥
विनायकाः प्रणश्यंति यस्मै प्रणमतां नृणाम्
॥७५॥असौ सिद्धेश्वरस्योच्चैः प्रासादः कांचनोज्ज्वलः ॥
रत्नध्वजपताकाश्च सिद्धिः स्याद्यद्विलोकनात्
॥७६॥क्षेत्रस्य मध्यमे ॥
भागे मध्यमेश्वर एष वै ॥
मध्याधोलोकयोर्मध्ये न वसेद्यस्य वीक्षणात्
॥७७॥मध्यमेशं समभ्यर्च्य नरो मध्यमविष्टपे ॥
आसमुद्रक्षितींद्रः स्यात्ततो मोक्षं च विंदति
॥७८॥ऐरावतेश्वरं लिंगं तत्प्राच्यामिष्टसिद्धिकृत् ॥
दृश्यते यत्पताकायां रम्य ऐरावतो गजः
॥७९॥वृद्धकालेश्वरस्यैष प्रासादो रत्ननिर्मितः ॥
प्रतिदर्शं वसेद्यत्र रात्रौ चंद्रः सतारकः
॥१८०॥यस्य संदर्शनान्नृणां न कालः प्रभवेद्भवे ॥
न कलिः प्रभवेत्सत्यं न च कल्मषराशयः
॥८१॥इति यावत्कथां चक्रुः संभ्रांता इव बालिकाः ॥
तावद्वसुविभूतिः स गंधर्वस्त्वरया ययौ
॥८२॥नारदाच्छ्रुतवृत्तांतः सुबाहुदनुजन्मनः ॥
रत्नावली सुता प्रीता ससखीका यथाहृता
॥८३॥रत्नेश्वरात्समायांती शून्ये गगनवर्त्मनि ॥
यथानयच्च पातालं यथा युद्धमभूत्पुनः
॥८४॥यथा रत्नेश भक्तेन रत्नचूडेन घातितः ॥
स सुबाहुर्दनुजनुर्महेष्वासेन चेषुणा
॥८५॥यथा च पृष्टवृत्तांतो वापीमार्गेण चानयत् ॥
शंखचूडस्य वापीं तां पातालेषु प्रवर्तिनीम्
॥८६॥यथा च प्राप्य निर्याताः काशीं दृष्ट्वापि बालिकाः ॥
भृशं संभ्रांतिमापन्नाः पश्यंत्योपि समुत्सुकाः
॥८७॥दृष्ट्वा गंधर्वराजस्तां पुनर्जातामिवात्मजाम् ॥
सवयस्यामनाम्लानमुखपंकजसुश्रियम्
॥८८॥परिष्वज्य समाघ्राय ललाटफलकं मुहुः ॥
अंकमारोप्य पप्रच्छ सर्वं वृत्तांतमादरात्
॥८९॥अथ सा कथयामास दनुजापहृतेः कथाम् ॥
रत्नेश्वरं वरावाप्तिं स्वप्नावस्थां विहाय च
॥१९०॥रत्नावलीमनोवृत्तिं विज्ञायाथ मुखेंगितैः ॥
शशिलेखा समाचष्ट स्पष्टवर्णैः सविस्तरम्
॥९१॥तुतोष नितरां सोथ गंधर्वाधिपतिः कृती ॥
प्रभावं वर्णयामास मुदा रत्नेश्वरस्य च
॥९२॥स्कंद उवाच
आकर्णय मुनिश्रेष्ठ विंध्यवृद्धि विवर्धन ॥
प्रत्यहं रत्नचूडोपि वापीमार्गेण संयमी
॥९३॥नागलोकात्समागत्य स्नात्वा मंदाकिनी जले ॥
रत्नेश्वरं समभ्यर्च्य रत्नांजल्यष्टकेन वै
॥९४॥सुवर्णपंकजान्यष्टौ समर्पयति हृष्टवत् ॥
एकदा स्वप्नसमये रत्नेशो लिंगरूपधृक्
॥९५॥रत्नचूडमुवाचेदं निजभक्तं दृढव्रतम् ॥
दानवेन हृतां कन्यां मोचयिष्यति यां भवान्
॥९६॥तं दानवं रणे जित्वा सा ते पत्नी भविष्यति ॥
इति स्मरन्वरं सोथ नागराजो महामनाः
॥९७॥तां कन्यां दानवं हत्वा विमोच्य निज वीर्यतः ॥
वापीमार्गेण पातालादानिनाय पुनर्महीम्
॥९८॥स्वयं च साधयांचक्रे प्रत्यहं नियमं सुधीः ॥
लिंगं समर्चयित्वाथ कृत्वा चापि प्रदक्षिणम्
॥९९॥यावद्बहिः समागच्छेद्रम्याद्रत्नेशमंडपात ॥
तावद्गंधर्वराजाय ताभिः स वसुभूतये
॥२००॥सोयं सोयं युवा धन्यस्तर्जन्यग्रेण दर्शितः ॥
गंधर्वराजस्तं दृष्ट्वा नागराजकुमारकम्
॥१॥अतीवस्मेरनयनः संप्रहृष्टतनूरुहः ॥
मनस्येनं च संवर्ण्य तद्रूपं सवयोन्वयम्
॥२॥धन्योस्म्यनुगृहीतोस्मि रत्नेशेन वरार्पणात् ॥
कन्या धन्यतरा चेयमनुरूपोस्ति यत्पतिः
॥३॥संप्रधार्येति हृद्येनं समाकार्य च सुंदरम् ॥
पृष्ट्वा तन्नामगोत्रं च गणयित्वा बलाबलम्
॥४॥रत्नेश्वरस्य पुरतस्तस्मै कन्यां ददौ मुदा ॥
नीत्वा गंधर्वलोकं च कृतकौतुकमंगलम्
॥५॥मधुपर्केण संपूज्य पाणिमग्राहयत्ततः ॥
वैवाहिकेन विधिना ददौ रत्नान्यनेकशः
॥६॥शशिलेखानंगलेखा चित्रलेखापि कुंभज ॥
विज्ञाप्य स्वजनेतारं वरयामास तं पतिम्
॥७॥उपयम्य चतस्रोपि स गंधर्वसुताः शुभाः ॥
रत्नचूडो जगामाथ ताभिः स्वपितृमंदिरम्
॥८॥यथा चतसृभिः सार्धं श्रुतिभिः प्रणवः शिवम् ॥
स्वपित्रोश्चरणौ नत्वा नवोढाभिः स नागराट्
॥९॥विनिवेदितवृत्तांतो रत्नेशानुग्रहस्य च ॥
उवास ताभिः ससुखं पितृभ्यामभिनंदितः
॥२१०॥ईश्वर उवाच
रत्नेश्वरस्य लिंगस्य मम स्थावररूपिणः ॥
सर्वेषां सर्वदस्यास्य प्रभावो गिरिजेऽतुलः
॥११॥अस्मिँल्लिंगे परां सिद्धि प्राप्ताः सिद्धाः सहस्रशः ॥
गुप्तमासीदिदं लिंगमद्य यावत्सुमध्यमे
॥१२॥तव पित्रा हिमवता मम भक्तेन सर्वथा ॥
पुण्यार्जितैर्महारत्नै रत्नेशः प्रकटीकृतः
॥१३॥अस्मिँल्लिंगे मम प्रीतिर्नितरामद्रिराजजे ॥
वाराणस्यामिदं लिंगं पूजनीयं प्रयत्नतः
॥१४॥नाना रत्नानि लभ्यंते रत्नेशानुग्रहादुमे ॥
स्त्रीरत्नपुत्ररत्नादि स्वर्गमोक्षावपि प्रिये
॥१५॥योऽत्र रत्नेश्वरं नत्वा मृतो देशांतरेष्वपि ॥
न स स्वर्गादिहागच्छेत्कल्पकोटिशतैरपि
॥१६॥असितायां चतुर्दश्यामुपोष्य निशि जागरात् ॥
रत्नेशसन्निधौ देवि मम सान्निध्यमाप्नुयात्
॥१७॥अस्य लिंगस्य पूर्वेण त्वया जन्मांतरे प्रिये ॥
दाक्षायणीश्वरं लिगं मद्भक्त्यात्र प्रतिष्ठितम्
॥१८॥तस्य संदर्शनादेव न नरो याति दुर्गतिम् ॥
अंबिका नाम गौरी त्वं तत्राहं चांबिकेश्वरः
॥१९॥मूर्तः षडाननस्तत्र तव पुत्रः सुमध्यमे ॥
एतत्त्रयं नरो दृष्ट्वा न गर्भं प्रविशेदुमे
॥२२०॥रत्नेश्वरस्य माहात्म्यं मया ते समुदीरितम् ॥
गोपनीयं प्रयत्नेन कलिकल्मषचेतसाम्
॥२१॥इदं रत्नेश्वराख्यानं यः पठिष्यति सर्वदा ॥
सपुत्रपौत्रपशुभिर्न वियुज्येत कर्हिचित्
॥२२॥श्रुत्वा रत्नेश्वरोत्पतिं सेतिहासां नरोत्तमः ॥
अनूढो लभते सत्यं कन्यारत्नं कुलोचितम्
॥२३॥कन्यापीमं समाकर्ण्य त्वितिहासं मनोरमम् ॥
श्रद्धया सत्पतिं प्राप्य भविष्यति पतिव्रता
॥२४॥इतिहासमिमं श्रुत्वा नारी वा पुरुषोपिवा ॥
न जात्विष्टवियोगाग्नि तापेन परितप्यते
॥२२५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे रत्नेश्वरप्रशंसनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥