मणिकर्णिकाख्यानम्
अगस्तिरुवाच
प्रसन्नोसि यदि स्कंद मयि प्रीतिरनुत्तमा ॥
तत्समाचक्ष्व भगवंश्चिरं यन्मे हृदिस्थितम्
॥१॥अविमुक्तमिदं क्षेत्रं कदारभ्य भुवस्तले ॥
परां प्रथितिमापन्नं मोक्षदं चाभवत्कथम्
॥२॥कथमेषा त्रिलोकीड्या गीयते मणिकर्णिका ॥
तत्रासीत्किं पुरास्वामिन्यदा नामरनिम्नगा
॥३॥वाराणसीति काशीति रुद्रावास इति प्रभो ॥
अवाप नामधेयानि कथमेतानि सा पुरी ॥
आनंदकाननं रम्यमविमुक्तमनंतरम्
॥४॥महाश्मशान इति च कथं ख्यातं शिखिध्वज ॥
एतदिच्छाम्यहं श्रोतुं संदेहं मेऽपनोदय
॥५॥स्कंद उवाच
प्रश्नभारोयमतुलस्त्वया यः समुदाहृतः ॥
कुंभयोनेऽमुमेवार्थमप्राक्षीदंबिका हरम्
॥६॥यथा च देवदेवेन सर्वज्ञेन निवेदितम् ॥
जगन्मातुः पुरस्ताच्च तथैव कथयामि ते
॥७॥महाप्रलय काले च नष्टे स्थावरजंगमे ॥
आसीत्तमोमयं सर्वमनर्कग्रहतारकम्
॥८॥अचंद्रमनहोरात्रमनग्न्यनिलभूतलम् ॥
अप्रधानं वियच्छून्यमन्यतेजोविवर्धितम्
॥९॥द्रष्टृत्वादि विहीनं च शब्दस्पर्शसमुज्झितम् ॥
व्यपेतगंधरूपं च रसत्यक्तमदिङ्मुखम्
॥१०॥इत्थं सत्यंधतमसि सूचीभेद्ये निरंतरे ॥
तत्सद्ब्रह्मेति यच्छ्रुत्या सदैकं प्रतिपाद्यते
॥११॥अमनोगोचरोवाचां विषयं न कथंचन ॥
अनामरूपवर्णं च न स्थूलं न च यत्कृशम्
॥१२॥अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ॥
न यत्रोपचयः कश्चित्तथा चापचयोपि च
॥१३॥अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ॥
सत्यं ज्ञानमनंतं च यदानंदं परं महः
॥१४॥अप्रमेयमनाधारमविकारमनाकृति ॥
निर्गुणं योगिगम्यं च सर्वव्याप्येककारणम्
॥१५॥निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ॥
यस्येत्थं संविकल्प्यंते संज्ञाः संज्ञोदितस्य वै
॥१६॥तस्यैकलस्य चरतो द्वितीयेच्छा भवत्किल ॥
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया
॥१७॥सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी
॥१८॥सर्वैकवंद्या सर्वाद्या सर्वदा सर्वसंकृतिः ॥
परिकल्प्येति तां मूर्तिमीश्वरीं शुद्धरूपिणीम्
॥१९॥अंतर्दधे पराख्यं यद्ब्रह्मसर्वंगमव्ययम्
॥२०॥अमूर्तं यत्पराख्यं वै तस्य मूर्तिरहं प्रिये ॥
अर्वाचीनपराचीना ईश्वरं मां जगुर्बुधाः
॥२१॥ततस्तदैकलेनापि स्वैरं विहरतामया ॥
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी
॥२२॥प्रधानं प्रकृतिं त्वां च मायां गुणवतीं पराम् ॥
बुद्धि तत्त्वस्य जननीमाहुर्विकृतिवर्जिताम्
॥२३॥युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा ॥
मयाऽऽद्य पुरुषेणैतत्क्षेत्रं चापि विनिर्मितम्
॥२४॥सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः ॥
ताभ्यां च रममाणाभ्यां तस्मिन्क्षेत्रे घटोद्भव
॥२५॥परमानंदरूपाभ्यां परमानंदरूपिणी ॥
पंचक्रोशपरीमाणे स्वपादतलनिर्मिते
॥२६॥मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ॥
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः
॥२७॥न यदा भूमिवलयं न यदाऽपां समुद्भवः ॥
तदा विहर्तुमीशेन क्षेत्रमेतद्विनि र्मितम्
॥२८॥इदं रहस्यं क्षेत्रस्य वेद कोपि न कुंभज ॥
नास्तिकाय न वक्तव्यं कदाचिच्चर्मचक्षुषे
॥२९॥श्रद्धालवे विनीताय त्रिकालज्ञानचक्षुषे ॥
शिवभक्ताय शांताय वक्तव्यं च मुमुक्षवे
॥३०॥अविमुक्तं तदरभ्य क्षेत्रमेतदुदीर्यते ॥
पर्यंक(?)भूतं शिवयोर्निरंतरसुखास्पदम्
॥३१॥(पर्यंक) अभावः कल्प्यते मूढैर्यदा च शिवयोस्तयोः ॥
क्षेत्रस्यास्य तदाभावः कल्प्यो निर्वाणकारिणः
॥३२॥अनाराध्य महेशानमनवाप्य च काशिकाम् ॥
योगाद्युपायविज्ञोपि न निर्वाणमवाप्नुयात्
॥३३॥अस्यानंदवनं नाम पुरा कारि पिनाकिना ॥
क्षेत्रस्यानंदहेतुत्वादविमुक्तमंनतरम्
॥३४॥आनंदकंदबीजानामंकुराणि यतस्ततः ॥
ज्ञेयानि सर्वलिंगानि तस्मिन्नानंदकानने
॥३५॥अविमुक्तमिति ख्यातमासीदित्थं घटोद्भव ॥
तथा चाख्याम्यथ मुने यथासीन्मणिकर्णिका
॥३६॥प्रागानंदवने तत्र शिवयो रममाणयोः ॥
इच्छेत्यभूत्कलशज सृज्यः कोप्यपरः किल
॥३७॥यस्मिन्न्यस्ते महाभारे आवां स्वः स्वैरचारिणौ ॥
निर्वाणश्राणनं कुर्वः केवलं काशिशायिनाम्
॥३८॥स एव सर्वं कुरुते स एव परिपाति च ॥
स एव संवृणोत्यंते सर्वैश्वर्यनिधिः स च
॥३९॥चेतःसमुद्रमाकुंच्य चिंताकल्लोलदोलितम् ॥
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम्
॥४०॥यस्य प्रसादात्तिष्ठावः सुखमानंदकानने ॥
परिक्षिप्त मनोवृत्तौ क्व हि चिंतातुरे सुखम्
॥४१॥संप्रधार्येति स विभुः सर्वतश्चित्स्वरूपया ॥
तया सह जगद्धात्र्या जगद्धाताऽथ धूर्जटिः
॥४२॥सव्ये व्यापारयांचक्रे दृशमंगे सुधामुचम् ॥
ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः
॥४३॥शांतः सत्त्वगुणोद्रिक्तो गांभीर्य जितसागरः ॥
तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत्
॥४४॥इंद्रनीलद्युतिःश्रीमान्पुंडरीकोत्तमेक्षणः ॥
सुवर्णाकृति सुच्छाय दुकूलयुगलावृतः
॥४५॥लसत्प्रचंडदोर्दंड युगलद्वयराजितः ॥
उल्लसत्परमामोदनाभीह्रदकुशेशयः
॥४६॥एकः सर्वगुणावासस्त्वेकः सर्वकलानिधिः ॥
एकः सर्वोत्तमो यस्मात्ततो यः पुरुषोत्तमः
॥४७॥ततो महांतं तं वीक्ष्य महामहिमभूषणम् ॥
महादेव उवाचेदं महाविष्णुर्भवाच्युत
॥४८॥तव निःश्वसितं वेदास्तेभ्यः सर्वमवैष्यसि ॥
वेददृष्टेन मार्गेण कुरु सर्वं यथोचितम्
॥४९॥इत्युक्त्वा तं महेशानो बुद्धितत्त्वस्वरूपिणम् ॥
शिवया सहितो रुद्रो विवेशानंदकाननम्
॥५०॥ततः स भगवान्विष्णुर्मौलावाज्ञां निधाय च ॥
क्षणं ध्यानपरो भूत्वा तपस्येव मनो दधौ
॥५१॥खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः ॥
निजांगस्वेदसंदोह सलिलैस्तामपूरयत्
॥५२॥समाः सहस्रं पंचाशत्तप उग्रं चचार सः ॥
चक्रपुष्कीरणी तीरे तत्र स्थाणुसमाकृतिः
॥५३॥ततः स भगवानीशो मृडान्या सहितो मृडः ॥
दृष्ट्वा ज्वलंतं तपसा निश्चलं मीलितेक्षणम्
॥५४॥तमुवाच हृषीकेशं मौलिमांदोलयन्मुहुः ॥
अहो महत्त्वं तपसस्त्वहो धैर्यं च चेतसः
॥५५॥अहो अनिंधनो वह्निर्ज्वलत्येष निरंतरम् ॥
अलं तप्त्वा महाविष्णो वरं वरय सत्तम
॥५६॥मृडस्याम्रोडितमिदं प्रत्यभिज्ञाय भाषितम् ॥
उन्मीलित दृगंभोजः समुत्तस्थौ चतुर्भुजः
॥५७॥श्रीविष्णुरुवाच
यदि प्रसन्नो देवेश देवदेव महेश्वर ॥
भवान्या सहितं त्वां तु द्रष्टुमिच्छामि सर्वदा
॥५८॥सर्वकर्मसु सर्वत्र त्वामेव शशिशेखर ॥
पुरश्चरं तं पश्यामि यथा तन्मे वरस्तथा
॥५९॥त्वदीय चरणांभोज मकरंदमधूत्सुकः ॥
मच्चेतो भ्रमरो भ्रांतिं विहायास्तु सुनिश्चलः
॥६०॥श्रीशिव उवाच
एवमस्तु हृषीकेश यत्त्वयोक्तं जनार्दन ॥
अन्यं वरं प्रयच्छामि तमाकर्णय सुव्रत
॥६१॥त्वदीयस्यास्य तपसो महोपचय दर्शनात् ॥
यन्मयांदोलितो मौलिरहिश्रवणभूषणः
॥६२॥तदांदोलनतः कर्णात्पपात मणिकर्णिका ॥
मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका
॥६३॥चक्रपुष्करिणी तीर्थं पुराख्यातमिदं शुभम् ॥
त्वया चक्रेण खननाच्छंखचक्रगदाधर
॥६४॥मम कर्णात्पपातेयं यदा च मणिकर्णिका ॥
तदाप्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका
॥६५॥श्रीविष्णुरुवाच
मुक्ताकुंडलपातेन तवाद्रितनयाप्रिय ॥
तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै
॥६६॥काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वरः ॥
अतो नामापरं चास्तु काशीति प्रथितं विभो
॥६७॥अन्यं वरं वरे देव देयः सोप्यविचारितम् ॥
स ते परोपकारार्थं जगद्रक्षामणे शिव
॥६८॥आब्रह्मस्तंबपर्यंतं यत्किंचिज्जंतुसंज्ञितम् ॥
चतुर्षु भूतग्रामेषु काश्यां तन्मुक्तिमाप्स्यतु
॥६९॥अस्मिंस्तीर्थवरे शंभो मणिश्रव णभूषणे ॥
संध्यां स्नानं जपं होमं वेदाध्ययनमुत्तमम् ॥
तर्पण पिंडदानं च देवतानां च पूजनम्
॥७०॥गोभूतिलहिरण्याश्वदीपान्नांबरभूषणम् ॥
कन्यादानं प्रयत्नेन सप्ततंतूननेकशः
॥७१॥व्रतोत्सर्गं वृषोत्सर्गं लिंगादि स्थापनं तथा ॥
करोति यो महाप्राज्ञो ज्ञात्वायुःक्षणगत्वरम्
॥७२॥विपत्तिं विपुलां चापि संपत्तिमतिभंगुराम् ॥
अक्षया मुक्तिरेकास्तु विपाकस्तस्य कर्मणः
॥७३॥अन्यच्चापि शुभं कर्म यदत्र श्रद्धयायुतम् ॥
विनात्मघातमीशान त्यक्त्वा प्रायोपवेशनम्
॥७४॥नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर ॥
नानुशोचति नाख्याति कृत्वा कालांतरेपि यत्
॥७५॥तदिहाक्षयतामेतु तस्येश त्वदनुग्रहात् ॥
तव प्रसादात्तस्येश सर्वमक्षयमस्तु तत्
॥७६॥यदस्ति यद्भविष्यच्च यद्भूतं च सदाशिव ॥
तस्मादेतच्च सर्वस्मात्क्षेत्रमस्तु शुभोदयम्
॥७७॥यथा सदाशिव त्वत्तो न किंचिदधिकं शिवम् ॥
तथानंदवनादस्मात्किंचिन्मास्त्वधिकं क्वचित्
॥७८॥विना सांख्येन योगेन विना स्वात्मावलोकनम् ॥
विना व्रत तपो दानैः श्रेयोऽस्तु प्राणिनामिह
॥७९॥शशका मशका कीटाः पतं गास्तुरगोरगाः ॥
पंचक्रोश्यां मृताः काश्यां संतु निर्वाणदीक्षिताः
॥८०॥नामापि गृह्णतां काश्याः सदैवास्त्वेनसः क्षयः
॥८१॥सदा कृतयुगं चास्तु सदाचास्तूत्तरायणम् ॥
सदा महोदयश्चास्तु काश्यां निवसतां सताम्
॥८२॥यानि कानि पवित्राणि श्रुत्युक्तानि सदाशिव ॥
तेभ्योऽधिकतरं चास्तु क्षेत्रमेतत्त्रिलोचन
॥८३॥चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ॥
तत्पुण्यं जायतां काश्यां गायत्रीलक्ष जाप्यतः
॥८४॥अष्टांगयोगाभ्यासेन यत्पुण्यमपि जायतेः ॥
तत्पुण्यं साधिकं भूयाच्छ्रद्धाकाशीनिषेवणात्
॥८५॥कृच्छ्रचांद्रायणाद्यैश्च यच्छ्रेयः समुपार्ज्यते ॥
तदेकेनोपवासेन भवत्वानंदकानने
॥८६॥अन्यत्र यत्तपस्तप्त्वा श्रेयः स्याच्छरदां शतम् ॥
तदस्तु काश्यां वर्षेण भूमिशय्या व्रतेन हि
॥८७॥आजन्म मौनव्रततो यदन्यत्रफलं स्मृतम् ॥
तदस्तु काश्यां पक्षाहः सत्यवाक्परिभाषणात्
॥८८॥अन्यत्र दत्त्वा सर्वस्वं सुकृतं यत्समीरितम् ॥
सहस्रभोजनात्काश्यां तद्भूयादयुताधिकम्
॥८९॥मुक्तिक्षेत्राणि सर्वाणि यत्संसेव्योदितं फलम् ॥
पंचरात्रात्तदत्रास्तु निषेव्य मणिकर्णिकाम्
॥९०॥प्रयागस्नानपुण्येन यत्पुण्यं स्याच्छिवप्रदम् ॥
काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्त्विह
॥९१॥यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयतः ॥
काश्यां तत्पुण्यमाप्नोतु त्रिरात्रशयनाद्यमी
॥९२॥तुलापुरुषदानेन यत्पुण्यं सम्यगाप्यते ॥
काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्तु वै
॥९३॥इति विष्णोर्वरं श्रुत्वा देवदेवो जगत्पतिः ॥
उवाच च प्रसन्नात्मा तथाऽस्तु मधुसूदन
॥९४॥श्रीमहादेव उवाच
शृणु विष्णो महाबाहो जगतः प्रभवाप्यय ॥
विधेहि सृष्टिं विविधां यथावत्त्वं श्रुतीरिताम्
॥९५॥पितेव सर्वभूतानां धर्मतः पालको भव ॥
विध्वंसनीया विविधा धर्मध्वंसविधायिनः
॥९६॥धर्मेतरपथस्थानामुपसंहृतये हरे ॥
हेतुमात्रं भवान्यस्मात्स्वकर्मनिहता हि ते
॥९७॥यथा परिणतं सस्यं पतेत्प्रसवबंधनात् ॥
ते परीणतपाप्मानः पतिष्यंति तथा स्वयम्
॥९८॥ये च त्वामवमन्यंते दर्पिताः स्वतपोबलैः ॥
तेषां चैवोपसंहृत्यै प्रभविष्याम्यहं हरे
॥९९॥उपपातकिनो ये च महापातकिनश्च ये ॥
तेपि काशीं समासाद्य भविष्यंति गतैनसः
॥१००॥इदं मम प्रियं क्षेत्रं पंचक्रोशीपरीमितम् ॥
ममाज्ञा प्रभवेदत्र नान्याज्ञा प्रभवेदिह
॥१॥पुनर्विष्णुर्मया प्रोक्तो मृडानि शुभलोचने ॥
अत्युग्रतेजसा तेजो भ्रमंस्त्रैलोक्यविभ्रमः
॥२॥पापिनामपि जंतूनामविमुक्तनिवासिनाम् ॥
नान्यः शासयिता विप्णो तेषां शास्ताऽहमेव हि
॥३॥योजनानां शतस्थोपि यो(?)ऽविमुक्तं स्मरेद्धृदि ॥
बहुपातकपूर्णोपि न स पापैः प्रबाध्यते
॥४॥मम प्रियस्य क्षेत्रस्य योऽविमुक्तस्य संस्मरेत् ॥
प्राण प्रयाणसमये दूरगोप्यघवानपि
॥५॥स पापपूगमुत्सृज्य स्वर्गभोगान्समश्नुते ॥
काशीस्मरणपुण्येन स्वर्गाद्भ्रष्टो हि जायते
॥६॥पृथिव्यामेकराड्भूत्वा भुक्त्वा भोगाननेकशः ॥
प्राप्याविमुक्तं तत्पुण्यान्निर्वाणपदभाग्भवेत्
॥७॥बहुकालमुषित्वाऽत्र नियतेंद्रियमानसः ॥
यद्यन्यत्र विपद्येत दैवयोगाच्छुचिस्मिते
॥८॥सोपि स्वर्गसुखं भुक्त्वा भूत्वा क्षितिपतीश्वरः ॥
पुनः काशीमवाप्याथ विंदेन्नैःश्रेयसीं श्रियम्
॥९॥विष्णोऽविमुक्ते संवासः कर्मनिर्मूलनक्षमः ॥
द्वित्राणां हि पवित्राणां निर्वाणा येह जायते
॥११०॥विष्णुरुवाच
देवेशक्षेत्रमाहात्म्यं यो न जानाति तत्त्वतः ॥
न श्रद्दधाति म्रियते मृते तस्येह का गतिः
॥११॥शिव उवाच
अन्यत्र कृत्वा पापानि बहूनि सुमहांति च ॥
अश्रद्दधानोऽतत्त्वज्ञो यद्यत्र च विपद्यते
॥१२॥महिमन्यनभिज्ञोपि क्षेत्रस्यास्य जनार्दन ॥
तस्य या गतिरुद्दिष्टा तां निशामय सुव्रत
॥१३॥पंचक्रोशीं प्रविशतस्तस्य पातकसंततिः ॥
बहिरेव प्रतिष्ठेत नांतर्निर्विशते क्वचित्
॥१४॥भयाद्बहिः स्थितायां च तस्य पातकसंततौ ॥
त्रिशूलपाशपाणीनां गणानां सीमचारिणाम्
॥१५॥प्रवेशमात्रादनघ सर्वैरेनोभिरुज्झितः ॥
संस्नाय मणिकर्णिक्यां पुण्यं प्राप्नोत्यनुत्तमम्
॥१६॥सर्वतीर्थेषुसंस्नानाद्यत्पुण्यं समवाप्यते ॥
तत्पुण्यमाप्यते सम्यङ्मणिकर्ण्येक मज्जनात्
॥१७॥विधिना तत्र संस्नाय मृद्गोमयकुशादिभिः ॥
स्वशाखावारुणैर्मंत्रैर्दूर्वापामार्गदर्भकैः
॥१८॥सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥
मणिकर्ण्यां विधिस्नातः श्रद्धया तदवाप्नुयात्
॥१९॥अश्रद्धयापि यः स्नातो मणिकर्ण्यां विधानतः ॥
सोपि पुण्यमवाप्नोति स्वर्गप्राप्तिकरं परम्
॥१२०॥श्रद्धया विधिवत्स्नात्वा कृत्वा देवादितर्पणम् ॥
तिलबर्हिर्यवैः सम्यक्सर्वयज्ञफलं लभेत्
॥२१॥श्रद्दधानो विधिस्नातः कृत सर्वोदकक्रियः ॥
जपन्देवान्समभ्यर्च्य सर्वमंत्रफलं लभेत्
॥२२॥स्नात्वा मौनेन विश्वेश दर्शना न्नियतेंद्रियः ॥
सर्वव्रतकृतं श्रेयो लभेद्वाचंयमः शिवे
॥२३॥स्नाने देवार्चने जप्ये मलमूत्रविसर्जने ॥
मौनं कुर्यात्प्रयत्नेन दंतधावनहोमयोः
॥२४॥विश्वेश्वरं समभ्यर्च्य सूपचारैर्विधानतः ॥
यावज्जीवं शिवार्चायाः फलमाप्नोति वै सकृत्
॥२५॥दत्त्वाल्पमपि देवेशि न्यायेनोपार्जितं धनम् ॥
अविमुक्ते मम क्षेत्रे न दरिद्रो भवेत्क्वचित्
॥२६॥विविधं धनमावर्ज्य योऽविमुक्ते न यच्छति ॥
संप्राप्य निधनं मूढोऽन्यत्र शोचति सर्वदा
॥२७॥रम्याणि यानि रत्नानि गोगजाश्वांबराण्यपि ॥
कृतानि तानि श्रेयोर्थमविमुक्तनिवासिनाम्
॥२८॥विश्वेशप्रीणनार्थाय धनं निधनमेव वा ॥
न्यायेन काश्यां यः कुर्यात्स धन्यः स च धर्मवित्
॥२९॥योसौ विश्वेश्वरो देवः काशीपुर्यामुमे स्थितः ॥
लिंगरूपधरः साक्षान्मम श्रेयास्पदं हि तत्
॥१३०॥अविमुक्तं महत्क्षेत्रं पंचक्रोशपरीमितम् ॥
ज्योतिर्लिगं तदेकं हि ज्ञेयं विश्वेश्वराभिधम्
॥३१॥एकदेशस्थितमपि यथा मार्तंडमंडलम् ॥
दृश्यते सर्वगं सर्वैः काश्यां विश्वेश्वरस्तथा
॥३२॥निष्प्रत्यूहेन योगेन नानाजन्मार्जितेन च ॥
यत्फलं लभ्यतेऽन्यत्र तत्काश्यां त्यजतस्तनुम
॥३३॥तप्त्वा तपांसि सर्वाणि बहुकालं जितेंद्रियैः ॥
यत्फलं लभ्यतेऽन्यत्र तत्काश्यामेकरात्रतः
॥३४॥अक्षेत्रमहिमज्ञोपि श्रद्धाहीनोपि कालतः ॥
काशीप्रवेशादनघोऽमृतत्वं लभतेमृतः
॥३५॥कृत्वाप्येनांसि चोग्राणि कालात्प्राप्याथ काशिकाम् ॥
त्यक्त्वा तनुं प्रसादान्मे मामेव प्रतिपद्यते
॥३६॥विना मम प्रसादं वै कः काशीं प्रतिपद्यते ॥
विना ब्रध्नं विशालाक्षि दिनकृत्क इहोच्यते
॥३७॥अप्राप्य काशीं को देवि निरंतर सुखं लभेत् ॥
बह्माद्याः प्राकृतैः पाशैर्यतो बद्धा निरंतरम्
॥३८॥चतुर्विंशतिभिः पाशैस्त्रिगुणैः क्रियया दृढैः ॥
कंठे बद्धा विमुच्यंते कथं काशीं विना जनाः
॥३९॥बहूपसर्गो योगोयं कृच्छ्रसाध्यं तपो हि यत् ॥
योगाद्भ्रष्टस्तपोभ्रष्टो गर्भक्लेशसहःपुनः
॥१४०॥कृत्वापि काश्यां पापानि काश्यामेव म्रियेत चेत् ॥
भूत्वा रुद्रपिशाचोपि पुनर्मुक्तिमवाप्स्यति
॥४१॥काश्यां मृतानां जंतूनां दैवात्पापकृतामपि ॥
न पातो नरके तेषां तेषां शास्ताहमेव यत्
॥४२॥कायं विज्ञाय सापायं स्मृत्वा गर्भस्य वेदनाम् ॥
त्यक्त्वा राज्यमपि प्राज्यं सेव्या काशी निरंतरम्
॥४३॥अतर्कितं समभ्येत्य यमदूताः सुदारुणाः ॥
बद्ध्वा पाशैर्हनिष्यंति क्षिप्रं काशीं ततः श्रयेत
॥४४॥न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ॥
न गर्भवासभीर्यत्र तां काशीं को न संश्रयेत्
॥४५॥अद्य प्रातः परश्वो वा मरणं प्राप्यमेव च ॥
यावत्कालविलंबोस्ति तावत्काशीं समाश्रयेत्
॥४६॥प्राप्ते तु मरणे पुंसां पुनर्जन्म पुनर्मृतिः ॥
अपुनर्भवभूमिं च तस्मात्काशीं श्रयेद्बुधः
॥४७॥पुत्रक्षेत्रकलत्राख्यां त्यक्त्वा मायां हि वैष्णवीम् ॥
भवांतरेनेकरूपां भवघ्नीं काशिकां श्रयेत्
॥४८॥स्कंद उवाच
दूरं मे मरणंयुवाहमधुना धार्यं न चित्तेत्विति श्रोतव्यो निभृतं कृतांत महिषग्रैवेयघंटारवः ॥
नैकट्यात्प्रकटोत्कटश्रमघटामप्राप्य हित्वा द्रुतं जीर्णां पर्णकुटीं ततः पटुमतिर्गच्छेत्पुरीं धूर्जटेः
॥४९॥व्यास उवाच
अगस्त्यस्य पुरः सूत कथयित्वा कथामिमाम् ॥
सर्वपापप्रशमनीं पुनः स्कंद उवाच ह
॥१५०॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे मणिकर्णिकाख्यानं नाम षड्विंशोऽध्यायः ॥ २६ ॥