मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८७

3
काशीखण्डः · 87

दक्षयज्ञप्रादुर्भावः

अगस्त्य उवाच

सर्वज्ञसूनो षड्वक्त्र सर्वार्थकुशल प्रभो ॥

प्रादुर्भावं निशम्यैषां लिंगानां मुक्तिदायिनाम्

॥१॥

नितरां परितृप्तोस्मि सुधां पीत्वेव निर्जरः ॥

ओंकारप्रमुखैर्लिंगैरिदमानंदकाननम्

॥२॥

आनंदमेवजनयेदपि पापजुषामिह ॥

परानंदमहं प्राप्तः श्रुत्वैतल्लिंगकीर्तनम्

॥३॥

जीवन्मुक्तइवासं हि क्षेत्रतत्त्वश्रुतेरहम् ॥

स्कंददक्षेश्वरादीनि लिंगानीह चतुर्दश ॥

यान्युक्तानि समाचक्ष्व तत्प्रभावमशेषतः

॥४॥

यो दक्षो गर्हयामास मध्ये देवसभं विभुम् ॥

स कथं लिंगमीशस्य प्रत्यस्थापयदद्भुतम्

॥५॥

इति श्रुत्वा शिखिरथः कुंभयोनेरुदीरितम् ॥

सूत संकथयामास दक्षेश्वर समुद्भवम्

॥६॥

स्कंद उवाच

आकर्णय मुने वच्मि कथां कल्मषहारिणीम् ॥

पुरश्चरणकामोसौ दक्षः काशीं समाययौ

॥७॥

छागवक्त्रो विरूपास्यो दधीचि परिधिक्कृतः ॥

प्रायश्चित्तविधानार्थं सूपदिष्टः स्वयंभुवा

॥८॥

एकदा देवदेवस्य सेवार्थं शशिमौलिनः ॥

कैलासमगमद्विष्णुः पद्मयोनिपुरस्कृतः

॥९॥

इंद्रादयो लोकपाला विश्वेदेवा मरुद्गणाः ॥

आदित्या वसवो रुद्राः साध्या विद्याधरोरगाः

॥१०॥

ऋषयोऽप्सरसोयक्षा गंधर्वाः सिद्धचारणाः ॥

तैर्नतो देवदेवेशः परिहृष्टतनूरुहैः

॥११॥

स्तुतश्च नाना स्तुतिभिः शंभुनापि कृतादराः ॥

विविशुश्चासनश्रेण्यां तन्मुखासक्तदृष्टयः

॥१२॥

अथ तेषूपविष्टेषु शंभुना विष्टरश्रवाः ॥

कृतहस्तपरिस्पर्शमानः पृष्टो महादरम्

॥१३॥

श्रीवत्सलांछन हरे दैत्यवंशदवानल ॥

कच्चित्पालयितुं शक्तिस्त्रिलोकीमस्त्यकुंठिता

॥१४॥

दितिजान्दनुजान्दुष्टान्कच्चिच्छासि रणांगणे ॥

अपि कुद्धान्महीदेवान्मामिव प्रतिमन्यसे

॥१५॥

बाधया रहिता गावः कच्चित्संति महीतले ॥

स्त्रियः संति हि सुश्रीकाः पतिव्रतपरायणाः

॥१६॥

विधियज्ञाः प्रवर्तंते पृथिव्यां बहुदक्षिणाः ॥

निराबाधं तपः कच्चिदस्ति शश्वत्तपस्विनाम्

॥१७॥

निष्प्रत्यूहं पठंत्येव सांगान्वेदान्द्विजोत्तमाः ॥

महीपालाः प्रजाः कच्चित्पांति त्वमिवकेशव

॥१८॥

स्वेषु स्वेषु च धर्मेषु कच्चिद्वर्णाश्रमास्तथा ॥

निष्ठावंतो हि तिष्ठंति प्रहृष्टेंद्रियमानसाः

॥१९॥

धूर्जटिः परिपृछ्येति हृष्टं वैकुंठनायकम्।

ब्रह्माणं चापि पप्रच्छ ब्राह्मं तेजः समेधते

॥२०॥

सत्यमस्खलितं कच्चिदस्ति त्रैलोक्यमंडपे ॥

तीर्थावरोधो न क्वापि केनचित्क्रियते विधे

॥२१॥

इंद्रादयः सुराः कच्चित्स्वेषु स्वेषु पुरेष्वहो ॥

राज्यं प्रशासति स्वस्थाः कृष्णदोर्दंडपालिताः

॥२२॥

प्रत्येकं परिपृच्छयेशः सर्वानित्थं कृतादरान् ॥

पृष्ट्वा गमनकार्यं च तेषां कृत्वा मनोरथान्

॥२३॥

विससर्जाथ तान्सर्वान्देवः सौधं समाविशत् ॥

गतेष्वथ च देवेषु स्वस्व धिष्ण्येषु हृष्टवत्

॥२४॥

मध्ये मार्गं स चिंतोभूद्दक्षः सत्याः पिता तदा ॥

अन्यदेवसमानं स मानं प्राप न चाधिकम्

॥२५॥

अतीव क्षुब्धचित्तोभून्मंदराघाततोऽब्धिवत् ॥

उवाच च मनस्येतन्महाक्रोधरयांधदृक्

॥२६॥

अतीवगर्वितो जातः सती मे प्राप्य कन्यकाम् ॥

कस्यचिन्नाप्यसौ प्रायो न कोस्यापि क्वचित्पुनः

॥२७॥

किं वंश्यस्त्वेष किं गोत्रः किं देशीयः किमात्मकः ॥

किं वृत्तिः किं समाचारो विपा(षा?)दी वृषवाहनः

॥२८॥

न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम् ॥

न गृहस्थेषु गण्योसौ श्मशाननिलयो यतः

॥२९॥

असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः ॥

वानप्रस्थ्यं कुतश्चास्मिन्नैश्वर्यमदमोहिते

॥३०॥

न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम् ॥

शस्त्रास्त्रधारणात्प्रायः क्षत्रियः स्यान्न सोप्ययम्

॥३१॥

क्षतात्संत्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये ॥

वैश्योपि न भवेदेष सदा निर्धनचेष्टनः

॥३२॥

शूद्रोपि न भवेत्प्रायो नागयज्ञोपवीतवान् ॥

एवं वर्णाश्रमातीतः कोसौ सम्यङ्नकीर्त्यते

॥३३॥

सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ॥

प्रायशः पुरुषोनासावर्धनारीवपुर्यतः

॥३४॥

योषापि न भवेदेष यतोसौ श्मश्रुलाननः ॥

नपुंसकोपि न भवेल्लिंगमस्ययतोर्च्यते

॥३५॥

बालोपि न भवत्येष यतोऽयं बहुवार्षिकः ॥

अनादिवृद्धो लोकेषु गीयते चोग्र एष यत्

॥३६॥

अतो युवत्वं संभाव्यं नात्र नूनं चिरंतने ॥

वृद्धोऽपि न भवत्येष जरामरणवर्जितः

॥३७॥

ब्रह्मादीन्संहरेत्प्रांते तथापि च न पातकी ॥

पुण्यलेशोपि नास्त्यस्मिन्ब्रह्ममौलिच्छिदिक्रुधा

॥३८॥

अस्थिनेपथ्यवति च क्व शुचित्वं विवाससि ॥

किं बहूक्तेन नो किंचिज्ज्ञायतेऽस्य विचेष्टितम्

॥२९॥

अहो धार्ष्ट्यं महद्दृष्टं जटिलस्याद्य चाद्भुतम् ॥

यदासनान्नोत्थितोसौ दृष्ट्वा मां श्वशुरं गुरुम्

॥४०॥

एवंभूता भवंत्येव मातापितृविवर्जिताः ॥

निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरंकुशाः

॥४१॥

स्वच्छंदचारिणोऽनाथाः सर्वत्र स्वाभिमानिनः ॥

अकिंचना अपिप्रायस्तथापीश्वरमानिनः

॥४२॥

जामातॄणां स्वभावोयं प्रायशो गर्वभाजनम् ॥

किंचिदैश्वयर्मासाद्य भवत्येव न संशयः

॥४३॥

द्विजराजः स गर्विष्ठो रोहिणीप्रेमनिर्भरः ॥

कृत्तिकादिषु चास्नेही मया शप्तः क्षयीकृतः

॥४४॥

अस्याहं गर्वसर्वस्वं हरिष्याम्येव शूलिनः ॥

यथावमानितश्चाहमनेनास्य गृहं गतः

॥४५॥

तथास्याहं करिष्यामि मानहानिं च सर्वतः ॥

संप्रधार्येति बहुशः स तु दक्षः प्रजापतिः

॥४६॥

प्राप्य स्वभवनं देवानाजुहाव सवासवान् ॥

अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः

॥४७॥

भवंतु यज्ञसंभारानानयंतु त्वरान्विताः ॥

श्वेतद्वीपमथो गत्वा चक्रे चक्रिणमच्युतम्

॥४८॥

महाक्रतूपद्रष्टारं यज्ञपूरुषमेव च ॥

तस्यर्त्विजोभवन्सर्व ऋषयो ब्रह्मवादिनः

॥४९॥

प्रावर्तत ततस्तस्य दक्षस्य च महाध्वरः ॥

दृष्ट्वा देवनिकायांश्च तस्मिन्दक्ष महाध्वरे

॥५०॥

अनीश्वरांस्ततो वेधा व्याजं कृत्वा गृहं ययौ ॥

दधीचिरथ संवीक्ष्य सर्वांस्त्रैलोक्यवासिनः

॥५१॥

दक्षयज्ञे समायातान्सतीश्वरविवर्जितान् ॥

प्राप्तसंमानसंभारान्वासोलंकृतिपूर्वकम्

॥५२॥

दक्षस्य हि शुभोदर्कमिच्छन्प्रोवाच चेति वै ॥

दधीचिरुवाच ॥

दक्षप्रजापते दक्ष साक्षाद्धातृस्वरूपधृक्

॥५३॥

न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम् ॥

यादृशः क्रतुसंभारस्तव चेह समीक्ष्यते

॥५४॥

न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते ॥

क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः

॥५५॥

कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्संपत्ति रीदृशी ॥

साक्षादग्निः स्वयं कुंडे साक्षादिंद्रादिदेवताः

॥५६॥

साक्षाच्च सर्वे मंत्रा वै साक्षाद्यज्ञपुमानसौ ॥

आचार्यपदवीमेष देवाचार्यः स्वयं चरेत् ॥

साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकांडवित्

॥५७॥

अयं पूषा भगस्त्वेष इयं देवी सरस्वती ॥

एते च सर्वदिक्पाला यज्ञरक्षाकृतः स्वयम्

॥५८॥

त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया ॥

जामाता त्वेष ते धर्मः पत्नीभिर्दशभिः सह

॥५९॥

स्वयमेव हि कुर्वीत धर्मकार्यं प्रयत्नतः ॥

ओषधीनामयं नाथस्तव जामातृषूत्तमः

॥६०॥

सप्तविंशतिभिः सार्धं पत्नीभिस्तव कार्यकृत् ॥

ओषधीः पूरयेत्सर्वा द्विजराजो महासुधीः

॥६१॥

दीक्षितो राजसूयस्य दत्तत्रैलोक्यदक्षिणः ॥

मारीचः कश्यपश्चासौ प्रजापतिषु सत्तमः ॥

त्रयोदशमिताभिश्च भार्याभिस्तव कार्यकृत्

॥६२॥

हविः कामदुघा सूते कल्पवृक्षः समित्कुशान् ॥

दारुपात्राणि सर्वाणि शकटं मंडपादिकम्

॥६३॥

विश्वकर्माप्यलंकारान्कुरुतेभ्यागतर्त्विजाम् ॥

वसूनि चाऽपि वासांसि वसवोष्टौ ददत्यपि

॥६४॥

स्वयंलक्ष्मीरलंकुर्याद्यावै चात्र सुवासिनीः

॥६५॥

सर्वे सुखाय मे दक्ष वीक्षमाणस्य सर्वतः ॥

एकं दुःखाकरोत्येव यत्त्वं विस्मृतवानसि

॥६६॥

जीवहीनो यथा देहो भूषितोपि न शोभते ॥

तथेश्वरं विना यज्ञः श्मशानमिव लक्ष्यते

॥६७॥

इत्थं दधीचिवचनं श्रुत्वा दक्षः प्रजापतिः ॥

भृशं जज्वाल कोपेन हविषा कृष्णवर्त्मवत्

॥६८॥

पूर्वस्तुत्याति संहृष्टो दृष्टो योसौ दधीचिना ॥

स एव चापि कोपाग्निमुद्वमन्वीक्षितो मुखात्

॥६९॥

प्रत्युवाचाथ तं विप्रं वेपमानांगयष्टिकः ॥

दक्षः प्रजापती रोषाज्जिघांसुरिव तं द्विजम्

॥७०॥

दक्ष उवाच

ब्राह्मणोसि दधीचे त्वं किं करोमि तवात्र वै ॥

दीक्षामहमहो प्राप्तः कर्तुं नायाति किंचन

॥७१॥

भवान्केन समाहूतो यदत्रागान्महाजडः ॥

आगतोपि हि केन त्वं पृष्ट इत्थं प्रब्रवीषि यत्

॥७२॥

सर्वमंगलमांगल्यो यत्र श्रीमानयं हरिः ॥

स्वयं वै यज्ञपुरुषः स मखः किं श्मशानवत्

॥७३॥

यत्र वज्रधरः शक्रः शतयज्ञैकदीक्षितः ॥

त्रयस्त्रिंशतिकोटीनाममराणां पतिः स्वयम्

॥७४॥

तं त्वंचोपमिमीषेमुं श्मशानेन महामखम् ॥

धर्मराट्च स्वयं यत्र धर्माधर्मैककोविदः

॥७५॥

श्रीदोस्ति यत्र श्रीदाता साक्षाद्यत्राशुशुक्षणिः ॥

तं यज्ञमुपमासि त्वममंगलभुवातया

॥७६॥

देवाचार्यः स्वयं यत्र क्रतोराचार्यतागतः ॥

अभिमानवशात्तं त्वमाख्यासि पितृकाननम्

॥७७॥

यत्रार्त्विज्यं भजंतेऽमी वसिष्ठप्रमुखर्षयः ॥

तमध्वरं समाचक्षे मंगलेतरभूमिवत्

॥७८॥

निशम्येति मुनिः प्राह दधीचिर्ज्ञानिनां वरः ॥

सर्वमंगलमांगल्यो भवेद्यज्ञपुमान्हरिः

॥७९॥

तथापि शांभवी शक्तिर्वेदे विष्णुः प्रपठ्यते ॥

वामांगं स्रष्टुराद्यस्य हरिस्तदितरद्विधिः

॥८०॥

दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः ॥

दुर्वाससा क्षणेनापि नीतो निःश्रीकतां हि सः

॥८१॥

पुनराराध्य भूतेशं प्रापैकाममरावतीम् ॥

यस्त्वया धर्मराजोत्र कथितः क्रतुरक्षकः

॥८२॥

बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा ॥

धनदस्त्र्यंबकसखस्तच्चक्षुश्चाशुशुक्षणिः

॥८३॥

पार्ष्णिग्राह्यभवद्रुद्रो देवाचार्यस्य वै तदा ॥

यदा तारामधार्षीत्स द्विजराजोऽतिसुंदरीम्

॥८४॥

तं विदंति वसिष्ठाद्यास्तवार्त्विज्यं भजंति ये ॥

एको रुद्रो न द्वितीयः संविदाना अपीति हि

॥८५॥

प्रावर्तंतर्षयोन्येपि गौरवात्तव ते क्रतौ ॥

यदि मे ब्राह्मणस्यैकं शृणोषि वचनं हितम्

॥८६॥

तदा क्रतुफलाधीशं विश्वेशं त्वं समाह्वय ॥

विना तेन क्रतुरसौ कृतोप्यकृत एव हि

॥८७॥

सति तस्म्निमहादेवे विश्वकर्मैकसाक्षिणि ॥

तवापि चैषा सर्वेषां फलिष्यंति मनोरथाः

॥८८॥

यथा जडानि बीजानि न फलंति स्वयं तथा ॥

जडानि सर्वकर्माणि न फलंतीश्वरं विना

॥८९॥

अर्थहीना यथा वाणी धर्महीना यथा तनुः ॥

पतिहीना यथा नारी शिवहीना तथा क्रिया

॥९०॥

गंगाहीना यथा देशाः पुत्रहीना यथा गृहाः ॥

दानहीना यथा संपच्छिवहीना तथा क्रिया

॥९१॥

मंत्रिहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः ॥

योषा हीनं यथा सौख्यं शिवहीना तथा क्रिया

॥९२॥

दर्भहीना यथा संध्या तिलहीनं च तर्पणम् ॥

हविर्हीनो यथा होमः शिवहीना तथा क्रिया

॥९३॥

इत्थं दधीचिनाख्यातं जग्राह वचनं न तत् ॥

दक्षो दक्षोपि तत्रैव शंभोर्माया विमोहितः

॥९४॥

प्रोवाच च भृशं क्रुद्धः का चिंता तव मे क्रतोः ॥

क्रतुमुख्यानि सर्वाणि यानि कर्माणि सर्वतः

॥९५॥

तानि सिद्ध्यंति नियतं यथार्थकरणादिह ॥

अयथार्थविधानेन सिद्ध्येत्कर्मापि नेशितुः

॥९६॥

स्वकर्मसिद्धये चाथ सर्व एव हि चेश्वरः ॥

ईश्वरः कर्मणां साक्षी यत्त्वयापीति भाषितम्

॥९७॥

तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित्

॥९८॥

जडानि सर्वकर्माणि न फलंतीश्वरं विना ॥

यदुक्तं भवता तत्राप्यहो दृष्टांतयाम्यहम्

॥९९॥

जडान्यपि च बीजानि कालं संप्राप्यवात्मनः ॥

अंकूरयंति कालाच्च पुष्प्यंति च फलंति च

॥१००॥

विनापीशं तथा कर्म स्वयं कालात्फलत्यहो ॥

किमीश्वरेण तेनात्र महामंगलमूर्तिना

॥१॥

दधीचिरुवाच

यथार्थकरणात्सिद्धमपि कार्यं कदाचन ॥

ईश्वरप्रातिकूल्याच्च सिद्धमेवाशु नश्यति

॥२॥

ईश्वरेच्छा बलात्कर्म कृतमप्यविधानतः ॥

संसिद्ध्येत्तदधीनाश्च कथं सर्व इहेश्वराः

॥३॥

सामान्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम् ॥

साक्षीभवेदसंदिग्धः फलस्य प्रतिभूरपि

॥४॥

भूजलादिस्वरूपेण बीजमाविश्यसर्वकृत् ॥

स्वयं कालस्वरूपेण विदध्यादंकुरोदयम्

॥५॥

यत्त्वयोक्तं विनापीशं काले कर्मफलेत्स्वयम् ॥

स एव कालो भगवान्सर्वकर्ता महेशिता

॥६॥

अन्यच्च भवता प्रोक्तं तदेकं तथ्यमेव तत् ॥

किमीश्वरेण तेनात्र महामंगलमूर्तिना

॥७॥

ये महांतो भवंत्येव ये च मंगलमूर्तयः ॥

ईश्वराख्या च येष्वस्ति किं तैरत्र तवांतिके

॥८॥

उत्तरादुत्तरं चेति प्रत्युत्तरयति द्विजे ॥

दधीचौ चुक्रुधेऽत्यंतं दक्षोगर्वातिसुश्रिया

॥९॥

आदिदेश समीपस्थानालोक्य परितस्त्विति ॥

ब्राह्मणापसदं चामुं परिदूरयताशु वै

॥११०॥

अमुष्मादध्वरश्रेष्ठादवरिष्ठमनोगतम् ॥

इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव

॥११॥

किं मां दूरयसे मूढ दूरीभूतो भवानपि ॥

सर्वेभ्यो मंगलेभ्यश्च सर्वैरेभिः समं ध्रुवम्

॥१२॥

अकांडे क्रोधजो दंडस्तव मूर्ध्नि पतिष्यति ॥

महेशितुस्त्रिजगती परिशास्तुः प्रजापते

॥१३॥

इत्युक्त्वा निर्जगामाशु यज्ञवाटात्ततो द्विजः ॥

तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो भवान्

॥१४॥

उत्तंक उपमन्युश्च ऋचीकोद्दालकावपि ॥

मांडव्यो वामदेवश्च गालवो गर्गगौतमौ

॥१५॥

शिवतत्त्वविदोन्येपि दक्षयज्ञाद्विनिर्ययुः ॥

गते दधीचौ सानंदं प्रावर्तत महामखः

॥१६॥

ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुण दक्षिणाम् ॥

प्रादात्प्रजापतिर्दक्षस्त्वन्येभ्योप्यधिकं वसु

॥१७॥

सर्वे जामातरस्तेन तोषिता भूरिशोधनैः ॥

कन्याश्चालंकृताः सर्वा महाविभवविस्तरैः

॥१८॥

ऋषिपत्न्योपि बहुशो देवपत्न्योप्यनेकशः ॥

तथा पुरांगनाः सर्वास्तेन मानभुवः कृताः

॥१९॥

ब्रह्मघोषेण तारेण व्योमशब्दगुणं स्फुटम् ॥

कारितं तेन दक्षेण विप्राणां हृष्टचेतसाम्

॥१२०॥

अग्निर्मंदाग्निरभवत्तस्मिञ्जुह्वति दीक्षिते ॥

हविः परिमलेनैव परितृप्ता दिगंगनाः

॥२१॥

स्वाहाकारैर्वषट्कारैः सुरा जाताः पिचंडिलाः ॥

रचिता गिरयस्तेन सदन्नानां पदेपदे

॥२२॥

घृतकुल्याः कृतास्तेन मधुकुल्याः सहस्रशः ॥

महासरांसि पयसां द्रप्सस्यापि महाह्रदाः

॥२३॥

राशयश्च दुकूलानां रत्नानां शिखराणि च ॥

यज्ञवाटस्य वसुधा स्वर्णरूप्यमयीकृता

॥२४॥

न लभ्यंते क्रतौ तस्य मार्गिता अपि मार्गणाः ॥

हृष्टाः पुष्टाः समभवन्नपि तत्परिचारकाः

॥२५॥

ध्वनिर्मंगलगीतानां व्यानशे गगनांगणम् ॥

जहृषे चाप्सरोवृंदैर्गंधर्वैर्मुमुदेतराम्

॥२६॥

विद्याधरैर्ननंदे च वसुधा ववृधे भृशम् ॥

महाविभवसंभारे तस्मिन्दाक्षे महाक्रतौ ॥

इत्थं प्रवृत्तेऽथ मुनिः कैलासं नारदो ययौ

॥१२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षयज्ञप्रादुर्भावोनाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥