विवाहा ब्राह्म दैवार्षाः प्राजापत्यासुरौ तथा
स्कंद उवाच
विवाहा ब्राह्म दैवार्षाः प्राजापत्यासुरौ तथा ॥
गांधर्वो राक्षसश्चापि पैशाचोऽष्टम उच्यते
॥१॥स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता ॥
दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम्
॥२॥यज्ञस्थायर्त्विजे दैवस्तज्जःपाति चतुर्दश ॥
वरादादाय गोद्वंद्वमार्षस्तज्जः पुनाति षट्
॥३॥सहोभौ चरतां धर्ममित्युक्त्वा दीयतेर्थिने ॥
यत्र कन्या प्राजापत्यस्तज्जो वंशान्पुनाति षट्
॥४॥चत्वार एते विप्राणां धर्म्याः पाणिग्रहाः स्मृताः ॥
आसुरः क्रयणाद्द्रव्यैर्गांधर्वोन्योन्य मैत्रतः
॥५॥प्रसह्यकन्याहरणाद्राक्षसो निंदितः सताम् ॥
छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः
॥६॥प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः ॥
अष्टमस्त्वेष पापिष्ठः पापिष्ठानां च संभवेत्
॥७॥सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः ॥
प्रतोदो वैश्यया धार्यो वासोंतः पज्जया तथा
॥८॥असवर्णस्त्वेष विधिः स्मृतो दृष्टश्च वेदने ॥
सवर्णाभिस्तु सर्वाभिः पाणिर्ग्राह्यस्त्वयं विधिः
॥९॥धर्म्यैर्विवाहैर्जायंते धर्म्या एव शतायुषः ॥
अधर्म्यैर्धर्मरहिता मंदभाग्यधनायुषः
॥१०॥ऋतुकालाभिगमनं धर्मोयं गृहिणः परः ॥
स्त्रीणां वरमनुस्मृत्य यथाकाम्यथवा भवेत्
॥११॥दिवाभिगमनं पुंसामनायुष्यं परं मतम् ॥
श्राद्धाहः सर्वपर्वाणि यत्नात्त्याज्यानि धीमता
॥१२॥तत्र गच्छन्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात्
॥१३॥ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ॥
स सदा ब्रह्मचारी च विज्ञेयः सद्गृहाश्रमी
॥१४॥ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ॥
पुत्रास्तास्वपि या युग्मा अयुग्माः कन्यका प्रजाः
॥१५॥त्यक्त्वा चंद्रमसं दुःस्थं मघां पौष्णं विहाय च ॥
शुचिः सन्निर्विशेत्पत्नीं पुन्नामर्क्षे विशेषतः ॥
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम्
॥१६॥आर्षे विवाहे गोद्वंद्वं यदुक्तं तन्न शस्यते ॥
शुल्कमण्वपि कन्यायाः कन्या विक्रयपापकृत्
॥१७॥अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने ॥
अतो नाण्वपि कन्याया उपजीवेत्पिता धनम्
॥१८॥स्त्रीधनान्युपजीवंति ये मोहादिह बांधवाः ॥
न केवलं निरयगास्तेषामपि हि पूर्वजाः
॥१९॥पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र स्त्रिया पतिः ॥
तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवाऽरिणा
॥२०॥वाणिज्यं नृपतेः सेवा वेदानध्यापनं तथा ॥
कुविवाहः क्रियालोपः कुले पतनहेतवः
॥२१॥कुर्याद्वैवाहिके वह्नौ गृह्यकर्मान्वहं गृही ॥
पंचयज्ञक्रियां चापि पक्तिं दैनंदिनीमपि
॥२२॥गृहस्थाश्रमिणः पंच सूना कर्म दिने दिने ॥
कंडनी पेषणी चुल्ली ह्युदकुंभस्तु मार्जनी
॥२३॥तासां च पंचसूनानां निराकरणहेतवः ॥
क्रतवः पंच निर्दिष्टा गृहि श्रेयोभिवर्धनाः
॥२४॥पाठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृ क्रतुः ॥
होमो दैवो बलिर्भौतोऽतिथ्यर्चा नृक्रतुः क्रमात्
॥२५॥पितृप्रीतिं प्रकुर्वाणः कुर्वीत श्राद्धमन्वहम् ॥
अन्नोदकपयोमूलैः फलैर्वापि गृहाश्रमी
॥२६॥गोदानेन च यत्पुण्यं पात्राय विधिपूर्वकम् ॥
सत्कृत्य भिक्षवे भिक्षां दत्त्वा तत्फलमाप्नुयात्
॥२७॥तपोविद्यासमिद्दीप्ते हुतं विप्रास्य पावके ॥
तारयेद्विघ्नसंघेभ्यः पापाब्धेरपि दुस्तरात्
॥२८॥अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति ॥
आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत्
॥२९॥सांत्वपूर्वाणि वाक्यानि शय्यार्थे भूस्तृणोदके ॥
एतान्यपि प्रदेयानि सदाभ्यागत तुष्टये
॥३०॥गृहस्थः परपाकादी प्रेत्य तत्पशुतां व्रजेत् ॥
श्रेयः परान्नपुष्टस्य गृह्णीयादन्नदो यतः
॥३१॥आदित्योढोऽतिथिः सायं सत्कर्तव्यः प्रयत्नतः ॥
असत्कृतोन्यतो गच्छन्दुष्कृतं भूरि यच्छति
॥३२॥भुंजानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत् ॥
प्रणोद्यातिथिमन्नाशी किल्बिषी च गृहाश्रमी
॥३३॥वैश्वदेवांत संप्राप्तः सूर्योढो वातिथिः स्मृतः ॥
न पूर्वकाल आयातो न च दृष्टचरः क्वचित्
॥३४॥बलिपात्रकरे विप्रे यद्यन्योतिथिरागतः ॥
अदत्त्वा तं बलिं तस्मै यथाशक्त्यान्नमर्पयेत्
॥३५॥कुमाराश्च स्ववासिन्यो गर्भिण्योऽतिरुजान्विताः ॥
अतिथेरादितोप्येते भोज्या नात्र विचारणा
॥३६॥पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही ॥
स्वार्थं पचन्नघं भुंक्ते केवलं स्वोदरंभरिः
॥३७॥माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाचरेत् ॥
पत्नी सायं बलिं दद्यात्सिद्धान्नैर्मंत्रवर्जितम्
॥३८॥एतत्सायंतनं नाम वैश्वदेवं गृहाश्रमे ॥
सायंप्रातर्भवेदेव वैश्वदेवं प्रयत्नतः
॥३९॥वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ॥
सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः
॥४०॥अकृत्वा वैश्वदेवं तु भुंजते ये द्विजाधमाः ॥
इह लोकेन्नहीनाः स्युः काकयोनिं व्रजंत्यथ
॥४१॥वेदोदितं स्वकं कर्म नित्यं कुर्यादतंद्रितः ॥
तद्धि कुर्वन्यथाशक्ति प्राप्नुयात्सद्गतिं पराम्
॥४२॥षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि ॥
पंचदश्यां चतुर्दश्यां तथैव च भगेक्षुरे
॥४३॥उदयं तं न चेक्षेत नास्तं यंतं न मध्यगम् ॥
न राहुणोपसृष्टं च नांबुसंस्थं दिवाकरम्
॥४४॥न वीक्षेतात्ममनोरूपमाशुधावेन्न वर्षति ॥
नोल्लंघयेद्वत्सतंत्रीं न नग्नो जलमाविशेत्
॥४५॥देवतायतनं विप्रं धेनुं मधुमृदं घृतम् ॥
जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम्
॥४६॥अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम् ॥
सिद्धान्नं दधिसिद्धार्थं गच्छन्कुर्यात्प्रदक्षिणम्
॥४७॥रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ॥
एकवासा न भुंजीत न भुंजीतोत्कटासने
॥४८॥नाश्नंतीं स्त्रीं समीक्षेत तेजस्कामो द्विजोत्तमः ॥
असंतर्प्य पितॄन्देवान्नाद्यादन्नं नवं क्वचित्
॥४९॥पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः ॥
न मूत्रं गोव्रजे कुर्यान्न वल्मीके न भस्मनि
॥५०॥न गर्तेषु ससत्वेषु न तिष्ठन्न व्रजन्नपि ॥
गोविप्रसूर्यवाय्वग्नि चंद्रर्क्षांबु गुरूनपि
॥५१॥अभिपश्यन्न कुर्वीत मलमूत्रविसर्जनम् ॥
तिरस्कृत्यावनिं लोष्टकाष्ठपर्णतृणादिभिः
॥५२॥प्रावृत्य वाससा मौलिं मौनी विण्मूत्रमुत्सृजेत् ॥
यथासुखमुखो रात्रौ दिनेच्छायांधकारयोः
॥५३॥भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम् ॥
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम्
॥५४॥नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत् ॥
प्राणिहिंसां न कुर्वीत नाश्नीयात्सँध्ययोर्द्वयोः
॥५५॥न संविशेत संध्यायां प्रत्यक्सौम्यशिरा अपि ॥
विण्मूत्रष्ठीवनं नाप्सु कुर्याद्दीर्घजिजीविषुः
॥५६॥नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् ॥
नैकः सुप्यात्क्वचिच्छून्ये न शयानं प्रबोधयेत्
॥५७॥पंथानं नैकलो यायान्न वार्यंजलिना पिबेत् ॥
न दिवोद्भूत सारं च भक्षयेद्दधिनो निशि
॥५८॥स्त्रीधर्मिण्या नाभिवदेन्नाद्यादातृप्ति रात्रिषु ॥
तौर्यत्रिक प्रियो न स्यात्कांस्ये पादौ न धावयेत्
॥५९॥श्राद्धं कृत्वा पर श्राद्धे योऽश्नीयाज्ज्ञानवर्जितः ॥
दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत्
॥६०॥न धारयेदन्यभुक्तं वासश्चो पानहावपि ॥
न भिन्न भाजनेश्नीयान्नासीताग्न्यादि दूषिते
॥६१॥आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम् ॥
बालातपं दिवास्वापं द्यजेद्दीर्घं जिजीविषुः
॥६२॥स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि ॥
हस्तौ शिरो न धुनुयान्नाकर्षेदासनं पदा
॥६३॥नोत्पाटयेल्लोमनखं दशनेन कदाचन ॥
करजैः करजच्छेदं तृणच्छेदं विवर्जयेत्
॥६४॥शुभायन यदायत्यां त्यजेत्तत्कर्म यत्नतः ॥
अद्वारेण न गंतव्यं स्ववेश्मपरवेश्मनोः
॥६५॥क्रीडेन्नाक्षैः सहासीत न धर्मघ्नैर्न रोगिभिः ॥
न शयीत क्वचिन्नग्नः पाणौ भुंजीत नैव च
॥६६॥आर्द्रपादकरास्योश्नन्दीर्घकालं च जीवति ॥
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत्
॥६७॥शयनस्थो न चाश्नीयान्नपिबेन्न जपेद्द्विजः ॥
सोपानत्कश्चनाचामेन्न तिष्ठन्धारया पिबेत्
॥६८॥सर्वं तिलमयं नाद्यात्सायं शर्माभिलाषुकः ॥
न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः
॥६९॥नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः ॥
पतितैः सह संवासः पतनायैव जायते
॥७०॥श्रावयेद्वैदिकं मंत्रं न शूद्राय कदाचन ॥
ब्राह्मण्याद्धीयते विप्रः शूद्रो धर्माच्च हीयते
॥७१॥धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत् ॥
द्विजशुश्रूषणं धर्मः शूद्राणां हि परो मतः
॥७२॥कंडूयनं हि शिरसः पाणिभ्यां न शुभं मतम् ॥
आताडनं कराभ्यां च क्रोशनं केशलुंचनम्
॥७३॥अशास्त्रवर्तिनो भूपाल्लुब्धात्कृत्वा प्रतिग्रहम् ॥
ब्राह्मणः सान्वयो याति नरकानेकविंशतिम्
॥७४॥अकालविद्युत्स्तनिते वर्षर्तौ पांसुवर्षणे ॥
महावातध्वनौ रात्रावनध्यायाः प्रकीर्तिताः
॥७५॥उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु ॥
संध्ययोर्वृषलोपांते राज्ञोराहोश्च सूतके
॥७६॥दर्शाष्टकासु भूतायां श्राद्धिकं प्रतिगृह्य च ॥
प्रतिपद्यपि पूर्णायां गजोष्ट्राभ्यां कृतांतरे
॥७७॥खरोष्ट्रक्रोष्ट्र विरुते समवाये रुदत्यपि ॥
उपाकर्मणि चोत्सर्गे नाविमार्गे तरौ जले
॥७८॥आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ ॥
अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित्
॥७९॥कृतांतरायो न पठेद्भेकाखु श्वाहि बभ्रुभिः ॥
भूताष्टम्योः पंचदश्योर्ब्रह्मचारी सदा भवेत्
॥८०॥अनायुष्यकरं चैव परदारोपसर्पणम् ॥
तस्मात्तद्दूरतस्त्याज्यं वैरिणां चोपसेवनम्
॥८१॥पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् ॥
सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः
॥८२॥सत्यं ब्रूयात्प्रियं ब्रूयान्नब्रूयात्सत्यमप्रियम् ॥
प्रियं च नानृतं ब्रूयादेष धर्मो घटोद्भव
॥८३॥भद्रमेव वदेन्नित्यं भद्रमेव विचिंतयेत् ॥
भद्रैरेवेह संसर्गो नाभद्रैश्च कदाचन
॥८४॥रूपवित्तकुलैर्हीनान्सुधीर्नाधिक्षिपेन्नरान् ॥
पुप्पवंतौ न चेक्षेत त्वशुचिर्ज्योतिषां गणम्
॥८५॥वाचोवेगं मनोवेगं जिह्वावेगं च वर्जयेत् ॥
उत्कोच द्यूत दौत्यार्त द्रव्यं दूरात्परित्यजेत्
॥८६॥गोब्राह्मणाग्नीनुच्छिष्ट पाणिना नैव संस्पृशेत् ॥
न स्पृशेदनिमित्ते नखानि स्वानि त्वनातुरः
॥८७॥गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत् ॥
पादधौतोदकं मूत्रमुच्छिष्टान्नोदकानि च
॥८८॥निष्ठीवनं च श्लेष्माणं गृहाद्दूरं विनिक्षिपेत् ॥
अहर्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात् ॥
अद्रोहवत्या बुद्ध्या च पूर्वं जन्म स्मरेद्द्विजः
॥८९॥वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम् ॥
विनम्रधमनिस्तस्मादनुयायात्ततश्च तान्
॥९०॥श्रुति भूदेव देवानां नृप साधु तपस्विनाम् ॥
पतिव्रतानां नारीणां निंदां कुर्यान्न कर्हिचित्
॥९१॥न मनुष्यस्तुतिं कुर्यान्नात्मानमपमानयेत् ॥
अभ्युद्यतं न प्रणुदेत्परमर्माणि नोच्चरेत्
॥९२॥अधर्मादेधते पूर्वं विद्वेष्टॄनपि संजयेत् ॥
सर्वतोभद्रमाप्यापि ततो नश्येच्च सान्वयः
॥९३॥उद्धृत्य पंच मृत्पिंडान्स्नायात्परजलाशये ॥
अनुद्धृत्य च तत्कर्तुरेनसः स्यात्तुरीयभाक्
॥९४॥श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु ॥
देशे काले च विधिना तदानंत्याय कल्पते
॥९५॥भूप्रदो मंडलाधीशः सर्वत्रसुखिनोन्नदाः ॥
तोयदाता सदा तृप्तो रूपवान्रूप्यदो भवेत्
॥९६॥प्रदीपदो निर्मलाक्षो गोदाताऽर्यमलोकभाक् ॥
स्वर्णदाता च दीर्घायुस्तिलदः स्यात्तु सुप्रजाः
॥९७॥वेश्मदो ऽत्युच्चसौधेशो वस्त्रदश्चंद्रलो कभाक् ॥
हयप्रदो दिव्ययानो लक्ष्मीवान्वृषभप्रदः
॥९८॥सुभार्यः शिबिका दाता सुपर्यंक प्रदोपि च ॥
धान्यैः समृद्धिमान्नित्यमभयप्रद ईशिता
॥९९॥ब्रह्मदो ब्रह्मलोकेज्यो ब्रह्मदः सर्वदो मतः ॥
उपायेनापि यो ब्रह्म दापयेत्सोपि तत्समः
॥१००॥श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति ॥
स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्धयात्यधः
॥१॥अनृतेन क्षरेद्यज्ञस्तपो विस्मयतः क्षरेत् ॥
क्षरेत्कीर्तनतोदानमायुर्विप्रापवादतः
॥२॥गंधपुष्पकुशाञ्छय्यां शाकं मांसं पयो दधि ॥
मणि मत्स्य गृहं धान्यं ग्राह्यमेतदुपस्थितम्
॥३॥मधूदकं फलं मूलमेधांस्यभयदक्षिणा ॥
अभ्युद्यतानि ग्राह्याणि त्वेतान्यपिनिकृष्टतः
॥४॥दास नापित गोपाल कुलमित्रार्धसीरिणः ॥
भोज्यान्नाः शूद्रवर्गेमी तथात्मविनिवेदकः
॥५॥इत्थमानृण्यमासाद्य देवर्षिपितृजादृणात् ॥
माध्यस्थ्यमाश्रयेद्गेहे सुते विष्वग्विसृज्य च
॥६॥गेहेपि ज्ञानमभ्यस्येत्काशीं वाथ समाश्रयेत् ॥
सम्यग्ज्ञानेन वा मुक्तिः किंवा विश्वेशवेश्मनि
॥७॥सम्यग्ज्ञानं भवेत्पुंसां कुत एकेन जन्मना ॥
वाराणस्यां ध्रुवा मुक्तिः शरीरत्यागमात्रतः
॥८॥अद्य श्वो वा परश्वो वा कालाद्वाथ परःशतात् ॥
सत्वरो गत्वरो देहः काश्यां चेदमृती भवेत्
॥९॥सा च वाराणसी लभ्या सदाचारवता सदा ॥
मनसापि सदाचारमतो विद्वान्न लंघयेत्
॥११०॥आकर्ण्येति ततोगस्त्यः पुनः प्राह षडाननम् ॥
पुनः काशीं समाचक्ष्व सदाचारेण याप्यते
॥११॥कानि कानि च लिंगानि स्कंद ज्ञानप्रदानि च ॥
वाराणस्यां परिब्रूहि तानि मे परिपृच्छतः
॥१२॥विना काशीं न मे प्रीतिर्विनाकाशीं न मे रतिः ॥
चित्रपुत्रकवच्चास्मि विना काशी षडानन
॥१३॥न निद्रामि न जागर्मि नाश्नामि न पिबाम्यपः ॥
काशीं द्व्यक्षरपीयूषं पिबामि हि च केवलम्
॥१४॥इति श्रुत्वा वचः स्कंदो मैत्रावरुणिभाषितम् ॥
अविमुक्तस्य माहात्म्यं वक्तुं समुपचक्रमे
॥११५॥इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां काशीखंडे पूर्वार्द्धे सदाचारवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥