मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४६

3
काशीखण्डः · 46

गतेथ योगिनीवृंदे देवदेवो घटोद्भव

स्कंद उवाच

गतेथ योगिनीवृंदे देवदेवो घटोद्भव ॥

काशीप्रवृत्तिं जिज्ञासुः प्राहिणोदंशुमालिनम्

॥१॥

देवदेव उवाच

सप्ताश्व त्वरितो याहि पुरीं वाराणसीं शुभाम् ॥

यत्रास्ति स दिवोदासो धर्ममूर्तिर्महीपतिः

॥२॥

तस्य धर्मविरोधेन यथातत्क्षेत्रमुद्वसेत् ॥

तथा कुरुष्व भो क्षिप्रं मावमंस्थाश्च तं नृपम्

॥३॥

धर्ममार्ग प्रवृत्तस्य क्रियते यावमानना ॥

सा भवेदात्मनो नूनं महदेनश्च जायते

॥४॥

तवबुद्धिविकासेन च्यवते चेत्स धर्मतः ॥

तदा सा नगरी भानो त्वयोद्वास्याऽसहैः करैः

॥५॥

कामक्रोधौ लोभमोहौ मत्सराहंकृती अपि ॥

ते तत्र न भवेतां यत्तत्कालोपि न तं जयेत्

॥६॥

यावद्धर्मे स्थिराबुद्धिर्यावद्धर्मेस्थिरं मनः ॥

तावद्विघ्नोदयः क्वास्ति विपद्यपि रवे नृषु

॥७॥

सर्वेषामिह जंतूनां त्वं वेत्सि ब्रध्नचेष्टितम् ॥

अतएव जगच्चक्षुर्व्रज त्वं कार्यसिद्धये

॥८॥

रविरादाय देवाज्ञां मूर्तिमन्यां प्रकल्प्य च ॥

नभोध्वगामहोरात्रं काशीमभिमुखोऽभवत्

॥९॥

मनसातीवलोलोऽभूत्काशीदर्शनलालसः ॥

सहस्रचरणोप्यैच्छत्तदा खे नैकपादताम्

॥१०॥

हंसत्वं तस्य सूर्यस्य तदा सफलतामगात् ॥

सदा नभोध्वनीनस्य काशीं प्रति यियासतः

॥११॥

अथ काशीं समासाद्य रविरंतर्बहिश्चरन् ॥

मनागपि न तद्भूपे धर्मध्वस्तिमवेक्षत

॥१२॥

विभावसुर्वसन्काश्यां नानारूपेण वत्सरम् ॥

क्वचिन्नावसरं प्राप तत्र राज्ञि सुधर्मिणि

॥१३॥

कदाचिदतिथिर्भूतो दुर्लभं प्रार्थयन्रविः ॥

न तस्य राज्ञो विषये दुर्लभं किंचिदैक्षत

॥१४॥

कदाचिद्याचको जातो बहुदोपि कदाप्यभूत् ॥

कदाचिद्दीनतां प्राप्तः कदाचिद्गणकोप्यभूत्

॥१५॥

वेदबाह्यां क्रियां चापि कदाचित्प्रत्यपादयत् ॥

कदाचित्स्थापयामास दृष्टप्रत्ययमैहिकम्

॥१६॥

कदाचिज्जटिलो जातः कदाचिच्च दिगंबरः ॥

स कदाचिज्जांगुलिको विषविद्याविशारदः

॥१७॥

सर्वपाषंडधर्मज्ञः कदाचिद्ब्रह्मवाद्यभूत् ॥

ऐंद्रजालिक आसीच्च कदाचिद्भ्रामयञ्जनान्

॥१८॥

नानाव्रतोपदेशैश्च कदाचित्स पतिव्रताः ॥

क्षोभयामास बहुशः सदृष्टांत कथानकैः

॥१९॥

कापालिक व्रतधरः कदाचिच्चाभवद्द्विजः ॥

कदाचिदपि विज्ञानी धातुवादी कदाचन

॥२०॥

क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योंत्यजः क्वचित ॥

ब्रह्मचारी क्वचिदभूद्गृही वनचरः क्वचित्

॥२१॥

यतिः कदाचिदिति सरूपैरभ्रामयज्जनान् ॥

सर्वविद्यासु कुशलः सर्वज्ञश्चाभवत्क्वचित्

॥२२॥

इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः ॥

न कदापि जने क्वापि च्छिद्रं प्राप कदाचन

॥२३॥

ततो निनिंद चात्मानं चिंतार्तः कश्यपात्मजः ॥

धिक्परप्रेष्यतां यस्यां यशो लभ्येत न क्वचित्

॥२४॥

मार्तंड उवाच

मंदरं यदि याम्यद्य सद्यस्तत्क्रुद्ध्यतीश्वरः ॥

अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत्

॥२५॥

कोपमप्युररीकृत्य यदि यायां कथंचन ॥

कथं तिष्ठे पुरस्तस्य तर्हि वै मूढभृत्यवत्

॥२६॥

अथोंकृत्यावहेलं वा यामि चेच्च कथंचन ॥

क्रोधान्निरीक्षेत्त्र्यक्षो मां विषं पेयं तदा मया

॥२७॥

हरकोपानले नूनं यदि यातः पतंगताम् ॥

पितामहोपि मां त्रातुं तदा शक्ष्यति नस्फुटम्

॥२८॥

स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन ॥

क्षेत्रसंन्यासविधिना वाराणस्यां कृताश्रमः

॥२९॥

पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः ॥

यत्पापं भावि मे तस्य काशीपापस्यनिष्कृतिः

॥३०॥

अन्यान्यपि च पापानि महांत्यल्पानि यानि च ॥

क्षयंति तानि सर्वाणि काशीं प्रविशतां सताम्

॥३१॥

बुद्धिपूर्वं मया चैतन्न पापं समुपार्जितम् ॥

पुरारिणैव हि पुराऽऽशासि धर्मो हि रक्ष्यताम्

॥३२॥

धर्मो हि रक्षितो येन देहे सत्वरगत्वरे ॥

त्रैलोक्यरक्षितं तेन किं कामार्थैः सुरक्षितैः

॥३३॥

रक्षणीयो यदि भवेत्कामः कामारिणा कथम् ॥

क्षणादनंगतां नीतो बहूनां सुखकार्यपि

॥३४॥

अर्थश्चेत्सर्वथारक्ष्य इति कैश्चिदुदाहृतम् ॥

तत्कथं न हरिश्चंद्रोऽरक्षत्कुशिकनंदने

॥३५॥

धर्मस्तु रक्षितः सर्वैरपिदेहव्ययेन च ॥

शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः

॥३६॥

अयमेव हि वै धर्मः काशीसेवनसंभवः ॥

रुषितादपि रुद्रान्मां रक्षिष्यति न संशयः

॥३७॥

अवाप्य काशीं दुष्प्रापां को जहाति सचेतनः ॥

रत्नं करस्थमुत्सृज्य कः काचं संजिघृक्षति

॥३८॥

वाराणसीं समुत्सृज्य यस्त्वन्यत्र यियासति ॥

हत्वा निधानं पादेन सोर्थमिच्छति भिक्षया

॥३९॥

पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ॥

प्रतिजन्मेह लभ्यंते काश्येका नैव लभ्यते

॥४०॥

येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा ॥

त्रैलोक्यैश्वर्यदुष्प्रापं तेन लब्धं महासुखम्

॥४१॥

कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति ॥

काश्यां च लप्स्ये तत्तेजो यद्वै स्वात्मावबोधजम्

॥४२॥

इतराणीह तेजांसि भासंते तावदेव हि ॥

खद्योताभानि यावन्नो जृंभते काशिजं महः

॥४३॥

इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः ॥

कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः

॥४४॥

लोलार्क उत्तरार्कश्च सांबादित्यस्तथैव च ॥

चतुर्थो द्रुपदादित्यो मयूखादित्य एव च

॥४५॥

खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ ॥

दशमो विमलादित्यो गंगादित्यस्तथैव च

॥४६॥

द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव ॥

तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षंत्यमी सदा

॥४७॥

तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने ॥

अतो लोलार्क इत्याख्या काश्यां जाता विवस्वतः

॥४८॥

लोलार्कस्त्वसिसंभेदे दक्षिणस्यां दिशिस्थितः ॥

योगक्षेमं सदा कुर्यात्काशीवासि जनस्य च

॥४९॥

मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे ॥

विधाय वार्षिकीं यात्रां नरः पापै प्रमुच्यते

॥५०॥

कृतानि यानि पापानि नरैः संवत्सरावधि ॥

नश्यंति क्षणतस्तानि षष्ठ्यर्के लोलदर्शनात्

॥५१॥

नरः स्नात्वासिसंभेदे संतर्प्य पितृदेवताः ॥

श्राद्धं विधाय विधिना पित्रानृण्यमवाप्नुयात्

॥५२॥

लोलार्कसंगमे स्नात्वा दानं होमं सुरार्चनम् ॥

यत्किंचित्क्रियते कर्म तदानंत्याय कल्पते

॥५३॥

सूर्योपरागे लोलार्के स्नानदानादिकाः क्रियाः ॥

कुरुक्षेत्राद्दशगुणा भवंतीह न संशयः

॥५४॥

लोलार्के रथसप्तम्यां स्नात्वा गंगासिसंगमे ॥

सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात्

॥५५॥

प्रत्यर्कवारं लोलार्कं यः पश्यति शुचिव्रतः ॥

न तस्य दुःखं लोकेस्मिन्कदाचित्संभविष्यति

॥५६॥

न तस्य दुःखं नो पामा न दद्रुर्न विचर्चिका ॥

लोलार्कमर्के यः पश्येत्तत्पादोदकसेवकः

॥५७॥

वाराणस्यामुषित्वापि यो लोलार्कं न सेवते ॥

सेवंते तं नरं नूनं क्लेशाः क्षुद्व्याधिसंभवाः

॥५८॥

सर्वेषां काशितीर्थानां लोलार्कः प्रथमं शिरः ॥

ततोंऽगान्यन्यतीर्थानि तज्जलप्लावितानिहि

॥५९॥

तीर्थांतराणि सर्वाणि भूमीवलयगान्यपि ॥

असिसंभेदतीर्थस्य कलां नार्हंति षोडशीम्

॥६०॥

सर्वेषामेव तीर्थानां स्नानाद्यल्लभ्यते फलम् ॥

तत्फलं सम्यगाप्येत नरैर्गंगासिसंगमे

॥६१॥

नार्थवादोयमुदितः स्तुतिवादो न वै मुने ॥

सत्यं यथार्थवादोयं श्रद्धेयः सद्भिरादरात्

॥६२॥

यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गतरंगिणी ॥

मिथ्या तत्रानुमन्यंते तार्किकाश्चानुसूयकाः

॥६३॥

उदाहरंति ये मूढाः कुतर्कबलदर्पिताः ॥

काश्यां सर्वेर्थवादोयं ते विट्कीटा युगेयुगे

॥६४॥

कस्यचित्काशितीर्थस्य महिम्नो महतस्तुलाम् ॥

नाधिरोहेन्मुने नूनमपि त्रैलोक्यमंडपः

॥६५॥

नास्तिका वेदबाह्याश्च शिश्नोदरपरायणाः ॥

अंत्यजाताश्च ये तेषां पुरः काशी न वर्ण्यताम्

॥६६॥

लोलार्ककरनिष्टप्ता असिधार विखंडिताः ॥

काश्यां दक्षिणदिग्भागे न विशेयुर्महामलाः

॥६७॥

महिमानमिमं श्रुत्वा लोलार्कस्य नरोत्तमः ॥

न दुःखी जायते क्वापि संसारे दुःखसागरे

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे लोलार्कवर्णनं नाम षट्चत्वारिंशोध्यायः ॥ ४६ ॥