मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८१

3
काशीखण्डः · 81

धर्मतीर्थस्य माहात्म्यं कीदृग्देवेन शंभुना

अगस्त्य उवाच

धर्मतीर्थस्य माहात्म्यं कीदृग्देवेन शंभुना ॥

स्कंद देव्यै समाख्यातं तदाख्याहि कृपां कुरु

॥१॥

स्कंद उवाच

विंध्योन्नतिहृदाख्यामि धर्मतीर्थसमुद्भवम् ॥

आकर्णय महाप्राज्ञ यथा देवेन भाषितम्

॥२॥

वृत्रं निहत्य वृत्रारिर्ब्रह्महत्यामवाप्तवान् ॥

अनुतप्तोथ पप्रच्छ प्रायश्चित्तं पुरोहितम्

॥३॥

बृहस्पतिरुवाच

यदि त्वं देवराजेमां ब्रह्महत्यां सुदुस्त्यजाम् ॥

अपानुनुत्सुस्तद्याहि काशीं विश्वेशपालिताम्

॥४॥

नान्यत्किंचित्क्वचिद्दृष्टं ब्रह्महत्यामहौषधम् ॥

राजधानीं परित्यज्य शक्र विश्वेशितुः पराम्

॥५॥

भैरवस्यापिहस्ताग्रादपतद्वैधसं शिरः ॥

यत्रानंदवने तत्र वृत्रशत्रो व्रज द्रुतम्

॥६॥

सीमानमपि संप्राप्य शक्रानंदवनस्य हि ॥

ब्रह्महत्या पलायेत वेपमाना निराश्रया

॥७॥

अन्येषामपि पापानां महापापजुषामपि ॥

नाशयित्री परा काशी विश्वेश समधिष्ठिता

॥८॥

महापातकतो मुक्तिः काश्यामे व शतक्रतो ॥

महासंसारतो मुक्तिः काश्यामेव न चान्यतः

॥९॥

निर्वाणनगरी काशी काशी सर्वाघसंघहृत् ॥

विश्वेशितुः प्रिया काशी द्यौः काशी सदृशी नहि

॥१०॥

ब्रह्महत्याभयं यस्य यस्य संसारतो भयम् ॥

जातुचित्तेन न त्याज्या काशिका मुक्तिकाशिका

॥११॥

जंतूनां कर्मबीजानां यत्र देहविसर्जने ॥

न जातुचित्प्ररोहोस्ति हरदृष्ट्याप्तशुष्मणाम्

॥१२॥

तां काशीं प्राप्य वृत्रारे वृत्रहत्यापनुत्तये ॥

समाराधय विश्वेशं विश्वमुक्तिप्रदायकम्

॥१३॥

बृहस्पतेरिति वचो निशम्य स सहस्रदृक् ॥

आयाद्द्रुततरं काशीं महापातकघातुकाम्

॥१४॥

स्नात्वोत्तरवहायां च धर्मेशं परितः स्थितः ॥

आराधयन्महादेवं ब्रह्मद्वत्याप नुत्तये

॥१५॥

महारुद्रजपासक्तः सुत्रामाथ त्रिलोचनम् ॥

ददर्श लिंगमध्यस्थं स्वभासा दीपितांबरम्

॥१६॥

पुनस्तुष्टाव वेदोक्तै रुद्रसूक्तैरनेकधा ॥

विनिष्क्रम्य ततो लिंगादाविर्भूय भवोवदत्

॥१७॥

शचीपते प्रसन्नोस्मि वरं वरय सुव्रत ॥

किं देयं द्रुतमाख्याहि धर्मपीठकृतास्पद

॥१८॥

श्रुत्वेति देवदेवस्य स प्रेमवचनं हरिः ॥

सर्वज्ञ किंतेऽविदितं तमुवाचेति वृत्रहा

॥१९॥

ततस्तत्कृपयानुन्नो धर्मपीठनिषेवणात् ॥

निष्पाद्य तीर्थं तत्रेशोऽत्र स्नाहींद्रेति चाब्रवीत्

॥२०॥

तत्रेंद्रः स्नानमात्रेण दिव्यगंधोऽभवत्क्षणात् ॥

अवाप च रुचिं चारुं प्राक्तनीं शातयाज्ञिकीम्

॥२१॥

तदाश्चर्यमथो दृष्ट्वा मुनयो नारदादयः ॥

परिसस्नुर्मुदायुक्ता धर्मतीर्थेऽघहारिणि

॥२२॥

अतर्पयन्पितॄन्दिव्यान्व्यधुः श्राद्धानि श्रद्धया ॥

धर्मेशं स्नापयामासुस्तत्तीर्थाम्बुभृतैर्घटैः

॥२३॥

तदा प्रभृति तत्तीर्थं धर्मांधुरिति विश्रुतम् ॥

ब्रह्महत्यादि पापानामक्लेशं क्षालनं परम्

॥२४॥

यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते ॥

सहस्रगुणितं तत्स्याद्धर्मांधु स्नानमात्रतः

॥२५॥

गंगाद्वारे कुरुक्षेत्रे गंगासागरसंगमे ॥

यत्फलं लभते मर्त्यो धर्मतीर्थे तदाप्नुयात्

॥२६॥

नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ ॥

स्नात्वा यत्फलमाप्येत धर्मकूपे तदाप्नुयात्

॥२७॥

मानसे पुष्करे चैव द्वारिके सागरे तथा ॥

तीर्थे स्नात्वा फलं यत्स्यात्तत्स्याद्धर्मजलाशये

॥२८॥

कार्तिक्यां सूकरक्षेत्रे चैत्र्यां गौरीमहाह्रदे ॥

शंखोद्धारे हरिदिने यत्फलं तत्फलं त्विह

॥२९॥

तीर्थद्वयं प्रतीक्षंते सिस्नासून्पितरो नरान् ॥

गंगायां धर्मकूपे च पिंडनिर्वपणाशया

॥३०॥

पितामहसमीपे वा धर्मेशस्याग्रतोथ वा ॥

फल्गौ च धर्मकूपे च माद्यंति प्रपितामहाः

॥३१॥

धर्मकूपे नरः स्नात्वा परितर्प्य पितामहान् ॥

गयां गत्वा किमधिकं कर्ता पितृमुदावहम्

॥३२॥

यथा गयायां तृप्ताः स्युः पिंडदाने पितामहाः ॥

धर्मतीर्थे तथैव स्युर्न न्यूनं नैव चाधिकम् ॥

ते धन्याः पितृभक्तास्ते प्रीणितास्तैः पितामहाः ॥

पैत्रादृणाद्धर्मतीर्थे निष्कृतिर्यैः कृता सुतैः

॥३४॥

तत्तीर्थस्य प्रभावेण निष्पापोभूत्क्षणेन च ॥

प्रणम्य देवदेवेशमिंद्रोऽगादमरावतीम्

॥३५॥

अपारो महिमा तस्य धर्मतीर्थस्य कुंभज ॥

तत्कूपे स्वं निरीक्ष्यापि श्राद्धदानफलं लभेत्

॥३६॥

तत्रापि काकिणी मात्रं यच्छेत्पितृमुदे नरः ॥

अक्षयं फलमाप्नोति धर्मपीठप्रभावतः

॥३७॥

तत्र यो भोजयेद्विप्रान्यतिनोथ तपस्विनः ॥

सिक्थे सिक्थे लभेत्सोथ वाजपेयफलं स्फुटम्

॥३८॥

प्राप्यामरावतीं शक्रस्ततो दिविषदां पुरः ॥

धर्मपीठस्य माहात्म्यं महत्काश्यामवर्णयत्

॥३९॥

आगत्य पुनरप्यत्र शंभोरानंदकानने ॥

मुनिवृंदारकैः सार्धं लिंगमस्थापयद्धरिः

॥४०॥

तारकेशात्पश्चिमत इंद्रेश्वरमितीरितम् ॥

तस्य संदर्शनात्पुंसामैंद्रलोको न दूरतः

॥४१॥

तद्दक्षिणे शचीशश्च स्वयं शच्या प्रतिष्ठितः ॥

शचीशार्चनतः स्त्रीणां सौभाग्यमतुलं भवेत्

॥४२॥

तत्समीपेस्ति रंभेशो बहुसौख्यसमृद्धिदः ॥

इंद्रेश्वरस्य परितो लोकपालेश्वरो परः

॥४३॥

तदर्चनात्प्रसीदंति लोकपालाः समृद्धिदाः ॥

धर्मेशात्पश्चिमाशायां धरणीशः प्रकीर्तितः ॥

तद्दर्शनेन धैर्यं स्याद्राज्ये राजकुलादिषु

॥४४॥

धर्मेशाद्दक्षिणे पूज्यं तत्त्वेशाख्यं परं नरैः ॥

तत्त्वज्ञानं प्रवर्तेत तल्लिंगस्य समर्चनात्

॥४५॥

धर्मेशात्पूर्वदिग्भागे वैराग्येशं समर्चयेत् ॥

निवृत्तिश्चेतसस्तस्य लिंगस्य स्पर्शनादपि

॥४६॥

ज्ञानेश्वरं तथैशान्यां ज्ञानदं सर्वदेहिनाम् ॥

ऐश्वर्येशमुदीच्यां च लिंगाद्धर्मेश्वराच्छुभात्

॥४७॥

तद्दर्शनाद्भवेन्नृणामैश्वर्यं मनसेप्सितम् ॥

पंचवक्त्रस्य रूपाणि लिंगान्येतानि कुंभज

॥४८॥

एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम् ॥

अन्यत्तत्रैव यद्वृत्तं तदाख्यामि मुने शृणु

॥४९॥

यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति ॥

कदंबशिखरो नाम विंध्यपादो महानिह

॥५०॥

दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः ॥

पितर्युपरते राज्यं संप्राप्याविजितेंद्रियः

॥५१॥

हरेत्पुरंध्रीः प्रसभं पौराणां काममोहितः ॥

असाधवः प्रियास्तस्य साधवोऽप्रियतां ययुः

॥५२॥

अदंड्यान्दंडयांचक्रे दंड्येष्वासीत्पराङमुखः ॥

सदैव मृगयाशीलः सोऽभून्मृगयु संगतः

॥५३॥

विवासिताः स्वविषयात्तेन सन्मतिदायिनः ॥

धर्माधिकारिणः शूद्रा ब्राह्मणाः करदीकृताः

॥५४॥

परदारेषुसंतुष्टः स्वदारेषु पराङ्मुखः ॥

आनर्च जातुचिन्नैव देवौ दुःखांतकारिणौ

॥५५॥

हारिणौ सर्वपापानां सर्ववांछितदायिनौ ॥

सर्वेषां जगतीसारौ श्रीकंठश्रीपतीपती

॥५६॥

स्वप्रजास्वेक उदितो धूमकेतुरिवापरः ॥

दुर्दमो नाम भूपालः क्षयाया कांड एव हि

॥५७॥

स कदाचिन्मृगयुभिः पापर्धि व्यसनातुरः ॥

सार्धं विवेशारण्यानि गृष्टिपृष्ठानुगो हयी

॥५८॥

एकाकी दैवयोगेन दुर्दमः सोऽवनीपतिः ।

धन्वी तुरंगमारुढोऽविशदानंदकाननम्

॥५९॥

स विलोक्याथ सर्वत्र पादपा नवकेशिनः ॥

सुच्छायांश्च सुविस्तारान्गतश्रम इवाभवत्

॥६०॥

सुगंधेन सुशीतेन सुमदेन सुवायुना ॥

क्षणं संवीजितो राजा पल्लवव्यजनैः कुजैः

॥६३॥

केवलं मृगया जातस्तत्खेदो न व्यपाव्रजत् ॥

आजन्मजनितः खेदो निरगात्तद्वनेक्षणात्

॥६२॥

मध्ये वनं स चापश्यत्प्रासादं चुंबितांबरम् ॥

महारत्नशलाकानां रम्यमेकमिवाकरम्

॥६३॥

अथावरुह्य तुरगात्स भूपालोतिविस्मितः ॥

धर्मेशमंडपं प्राप्य स्वात्मानं प्रशशंस ह

॥६४॥

धन्योस्म्यहं प्रसन्नोस्मि धन्ये मेद्य विलोचने ॥

धन्यमद्यतनं चाहर्यदपश्यमिमां भुवम्

॥६५॥

पुनर्निनिंद चात्मानं धर्मपीठ प्रभावतः ॥

धिङ्मां दुर्जनसंसर्गं त्यक्तसज्जनसंगमम्

॥६६॥

जंतूद्वेगकरं मूढं प्रजापीडनपंडितम् ॥

परदारपरद्रव्यापहृत्यासुखमानिनम्

॥६७॥

अद्ययावन्मम गतं वृथाजन्माल्पमेधस ॥

धर्मस्थानानीदृशानि यद्दृष्टानि न कुत्रचित्

॥६८॥

एवं बहु विनिंद्य स्वं नत्वा धर्मेश्वरं विभुम् ॥

आरुह्याश्वं ययौ राजा दुर्दमो विषयं स्वकम्

॥६९॥

ततोमात्यान्समाहूय क्रमायातांश्चिरंतनान् ॥

नवीनान्परिनिर्वास्य पौरांश्चापि समाह्वयत्

॥७०॥

ब्राह्मणांश्चनमस्कृत्य तेभ्यो वृत्तीः प्रदाय च ॥

पुत्रे राज्यं समारोप्य प्रजाधर्मे निवेश्य च

॥७१॥

परिदंड्य च दंडार्हान्साधूंश्च परितोष्य च ॥

दारानपि परित्यज्य विषयेषु पराङ्मुखः

॥७२॥

समागच्छदथैकाकी काशीं श्रेयोविकासिनीम् ॥

धर्मेश्वरं समाराध्य कालान्निर्वाणमाप्तवान्

॥७३॥

धर्मेशदर्शनान्नित्यं तथाभूतः स दुर्दमः ॥

बभूव दमिनां श्रेष्ठः प्रांते मोक्षं च लब्धवान्

॥७४॥

इत्थं धर्मेश माहात्म्यं मया स्वल्पं निरूपितम् ॥

धर्मपीठस्य माहात्म्यं सम्यक्को वेद कुंभज

॥७९॥

इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः ॥

आजन्मसंचितात्पापात्स मुक्तो भवति क्षणात्

॥७६॥

श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम् ॥

श्रावयेद्ब्राह्मणान्धीमान्पितॄणां तृप्तिकारणम्

॥७७॥

धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः ॥

सर्वपापर्विनिर्मुक्तो गंतांते शिवमंदिरम्

॥७८॥

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याननामैकाशीतितमोध्यायः ॥ ८१ ॥