मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय १२

3
काशीखण्डः · 12

निर्ऋतिवरुणलोकवर्णनम्

शिवशर्मोवाच

नैर्ऋतादीन् क्रमाल्लोकानाख्यातं पुरुषोत्तमौ ॥

पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ

॥१॥

गणावूचतुः

आकर्णय महाभाग संयमिन्याः पुरीं पराम् ॥

दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता

॥२॥

राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा ॥

जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे

॥३॥

स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि ॥

नाद्रियंतेऽन्नपानानामस्मृत्युक्तं कदाचन

॥४॥

परदार परद्रव्य परद्रोहपराङ्मुखाः ॥

जाताजातौ निकृष्टायामपिपुण्यानुसारिणः

॥५॥

द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये ॥

सदा संकुचितांगाश्च द्विजसंभाषणादिषु

॥६॥

आहूता वस्त्रवदना वदंति द्विजसंनिधौ ॥

जयजीवभगोनाथ स्वामिन्निति हि वादिनः

॥७॥

तीर्थस्नानपरानित्यं नित्यं देवपरायणाः ॥

द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम्

॥८॥

दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः ॥

अस्तेय सत्याहिंसाश्च सर्वेषां धर्महेतवः

॥९॥

आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् ॥

सर्वभोगसमृद्धास्ते वसंत्यत्र पुरोत्तमे

॥१०॥

म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः ॥

विहाय काशीं निर्वाण विश्राणांतेऽत्र भोगिनः

॥११॥

अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः ॥

भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामसूकराः

॥१२॥

आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता ॥

इहापि च परत्रापि न शुभान्यात्मघातिनाम्

॥१३॥

यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः ॥

प्रयागे सर्वतीर्थानां राज्ञिसर्वाभिलाषदे

॥१४॥

अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः ॥

परोपकृतिनिष्ठास्ते वसंत्यत्र तु सत्तमाः

॥१५॥

अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु ॥

मध्ये विंध्याटवि पुरा पक्कणस्थजनाग्रणीः

॥१५॥

पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः ॥

निर्विंध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः

॥१७॥

घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः ॥

व्याघ्रादीन् दुष्टसत्त्वांश्च स हिनस्ति प्रयत्नतः

॥१८॥

जीवेन्मृगयु धर्मेण तत्रापि करुणापरः ॥

न विश्वस्तान्पक्षिमृगान्न सुप्तान्न व्यवायिनः

॥१९॥

न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् ॥

स घातयति धर्मज्ञो जातिधर्मपराङ्मुखः

॥२०॥

श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति ॥

हरेत्क्षुधा क्षुधार्तानामुपानद्दोऽनुपानहे

॥२१॥

मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति ॥

अनुव्रजति कांतारे प्रांतरे पथिकान्पथि

॥२२॥

न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति ॥

आविंध्याटवि मे नाम ग्राह्यं दुष्टभयापहम्

॥२३॥

नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति ॥

तेपि च प्रतितीर्थं हि तमाशीर्वादयं ति वै

॥२४॥

इति तिष्ठति पिंगाक्षे साटवी नगरायिता ॥

अध्वनीने ऽध्वगान्कोपि न रुणद्धि ससाध्वसः

॥२५॥

कदाचित्तत्पितृव्येण समीप ग्रामवासिना ॥

श्रुतः कार्पटिकानां हि सार्थः सार्थो महास्वनः

॥२०५॥

लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः ॥

स रुरोध तमध्वानमग्रे गत्वाऽतिगूढवत्

॥२७॥

तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः ॥

तस्मिन्नरण्ये तन्मार्गं निकषाध्युषितो निशि

॥२८॥

परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः ॥

विश्वं कुशलितेनैतद्विश्वेशपरिरक्षितम्

॥२९॥

न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन ॥

विधिदृष्टं यतो भावि कलुषंभावि केवलम्

॥३०॥

तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत् ॥

चिंतयेच्चेत्तदाचिंत्यो मोक्षोपायो न चेतरः

॥३१॥

व्युष्टायामथयामिन्यामभूत्कोलाहलो महान् ॥

घातयध्वं पातयध्वं नग्नयध्वं द्रुतं भटाः

॥३२॥

मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम् ॥

अनायासं लुंठयध्वं नयध्वं च यदस्ति नः

॥३३॥

वयं पांथा अनाथाः स्मो विश्वनाथपरायणाः ॥

सनाथास्ते न दूरं सनाथतां पथिकोऽपरः

॥३४॥

वयं पिंगाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः ॥

यातायातं सदा कुर्मः स च दूर इतो वनात्

॥३५॥

इति श्रुत्वाऽथ पिंगाक्षो भटः कार्पटिकेरितम ॥

दूरान्मा भैष्ट माभैष्ट ब्रुवन्निति समागतः

॥३६॥

तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः ॥

तूर्णं तदायुष्यमिव तत्रोपस्थितवान् क्षणात्

॥३७॥

कोयंकोयं दुराचारः पिंगाक्षे मयि जीवति ॥

उल्लुलुंठयिषुः पांथान्प्राणलिंगसमान्मम

॥३८॥

इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः ॥

धनलोभेन पिंगाक्षे पापं पापो व्यचिंतयत्

॥३९॥

कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः ॥

चिरं चिंतितमद्यामुं घातयिष्याम्यसंशयम्

॥४०॥

विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा ॥

आदावेनं घातयंतु ततः कार्पटिकानिमान्

॥४१॥

ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः ॥

यथाकथंचित्ताननयत्स च स्वावसथांतिकम्

॥४२॥

आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः ॥

असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः

॥४३॥

अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः ॥

तेपि कार्पटिकाः प्राप्तास्तत्पल्लीं गतसाध्वसाः

॥४४॥

या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः ॥

दिगीशत्वमतः प्राप्तो निर्ऋत्यां नैर्ऋतेश्वरः

॥४५॥

इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम् ॥

एतस्योत्तरतो लोको वरुणस्यायमद्भुतः

॥४६॥

कूपवापीतडागानां कर्तारो निर्मलैर्धनैः ॥

इह लोके महीयंते वारुणे वरुणप्रभाः

॥४७॥

निर्जले जलदातारः परसंतापहारिणः ॥

अर्थिभ्यो ये प्रयच्छंति चित्रच्छत्रकमंडलून्

॥४८॥

पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः ॥

दद्युर्धर्मघटांश्चापि सुगंधोदकपूरितान्

॥४९॥

अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः ॥

विश्रामशालाकर्तारः श्रांतसंतापनोदकाः

॥५०॥

ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि ॥

चित्राणि तालवृंतानि वितरंति तपागमे

॥५१॥

रसवंति सुगंधीनि हिमवंति तपर्तुषु ॥

विश्राणयंति वा तृप्ति पानकानि प्रयत्नतः

॥५२॥

इक्षुक्षेत्राणि संकल्प्य ब्राह्मणेभ्यो ददत्यपि ॥

तथा नानाप्रकारांश्च विकारानैक्षवान्बहून्

॥५३॥

गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः ॥

धारामंडपकर्तारश्छायामंडपकारिणः

॥५४॥

देवालयेषु ये दद्युर्बहुधारागलंतिकाः ॥

तीर्थे वा करहर्तारस्तीर्थमार्गावनेजका.

॥५५॥

अभयं ये प्रयच्छंति भयार्तोद्यत पाणयः ॥

निर्भया वारुणे लोके ते वसंति लसंति च

॥५६॥

विपाशयंति ये पुण्या दुर्वृतैः कंठपाशितान् ॥

ते पाशपाणे लोकेस्मिन्निवसंत्यकुतोभयाः

॥५७॥

नौकाद्युपायैर्न द्यादौ पांथान्ये तारयंत्यपि ॥

तारयंत्यपि दुःखाब्धेस्तत्र नागरिका द्विज

॥५८॥

घट्टान्पुण्यतटिन्यादेर्बंधयंति शिलादिभिः ॥

तोयार्थिसुखसिद्ध्यर्थं ये नरास्तेत्र भोगिनः

॥५९॥

वितर्पयंति ये पुण्यास्तृषिताञ्शीतलैर्जलैः ॥

तेऽत्र वै वारुणे लोके सुखसंततिभागिनः

॥६०॥

जलाशयानां सर्वेषामयमेकतमः पतिः ॥

प्रचेता यादसांनाथः साक्षी सर्वेषुकर्मसु

॥६१॥

अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः ॥

आसीन्मुनिरमेयात्मा कर्दमस्य प्रजापतेः

॥६२॥

शुचिष्मानिति विख्यातस्तनयो विनयोचितः ॥

स्थैर्य माधुर्य धैर्याद्यैर्गुणैरुपचितोहितः

॥६३॥

अच्छोदे सरसि स्नातुं स गतो बालकैः सह ॥

जलक्रीडनसंसक्तं शिशुमारो हरच्च तम्

॥६४॥

ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः ॥

तैः समागत्य शिशुभिः कथितं तत्पितुः पुरः

॥६५॥

हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः ॥

श्रुतबालविपत्तेश्च चचाल न मनोहरात्

॥६६॥

अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम् ॥

पश्यञ्शंभोः समीपे स भुवनानि चतुर्दश

॥६७॥

नाना भूतानि भूतानि ब्रह्मांडांतर्गतानि च ॥

चंद्रसूर्यर्क्षताराश्च पर्वतान्सरितो द्रुमान्

॥६८॥

समुद्रानंतरीयाणि ह्यरण्यानीस्सरांसि च ॥

नाना देवनिकायांश्च बह्वीर्दिविषदां पुरीः

॥६९॥

वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु ॥

एकस्मिन्क्वापि सरसि जलक्रीडापरायणान्

॥७०॥

बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः ॥

करयंत्रविनिर्मुक्ततोयधाराभिषेचनैः

॥७१॥

करताडितपानीयशब्ददिङ्मुखनादिभिः ॥

जलखेलनकैरित्थं संसक्तान्बहुबालकान्

॥७२॥

तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः ॥

स्वं शिशुं शिशुमारेण नीयमानं सुविह्वलम्

॥७३॥

कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः ॥

प्रसह्य नीत्वोदधये दृष्टवांस्तं समर्पितम्

॥७४॥

निर्भर्त्स्य सरितांनाथं केनचिद्रुद्ररूपिणा ॥

त्रिशूलपाणिनेत्युक्तं क्रोधताम्राननेनच

॥७५॥

कुतो जलानामधिप शिवभक्तस्य बालकः ॥

प्रजापतेः कर्दमस्य महाभागस्य धीमतः

॥७६॥

अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः ॥

भयत्रस्तेन तद्वाक्यश्रवणात्तमुदन्वता

॥७७॥

बालं रत्नैरलंकृत्य बद्ध्वा तं शिशुमारकम् ॥

समर्पितं समानीय शंभुपादाब्जसंनिधौ

॥७८॥

नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो ॥

अनाथनाथविश्वेश भक्तापत्तिविनाशन

॥७९॥

भक्तकल्पतरो शंभोऽनेनायं दुष्टयादसा ॥

अनायिन मया नाथ भवद्भक्तजनार्भकः

॥८०॥

गणेन तेन विज्ञाय शंभोरथ मनोगतम् ॥

पाशेन बद्ध्वा तद्यादः शिशुहस्ते समर्पितम्

॥८१॥

गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया ॥

याहि स्वभवनं वत्स ब्रुवतीति स कर्दमः

॥८२॥

समाधिसमये सर्वमिति शृण्वन्नुदारधीः ॥

उन्मील्य नयने यावत्प्रणिधानं विसृज्य च

॥८३॥

संपश्यते शिशुं तावत्पुरतः समवैक्षत ॥

गृहीतशिशुमारं च पार्श्वेऽलंकृतकर्णिकम्

॥८४॥

तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम् ॥

किंचिद्विरूक्षं त्वक्क्षोभं संभ्रमापन्नमानसम्

॥८५॥

कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम् ॥

पुनर्जातमिवामंस्त पश्यंश्चापि मुहुर्मुहुः

॥८६॥

शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि ॥

कर्दमस्य व्यतीतानि शंभुमर्चयतस्तदा

॥८७॥

कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम् ॥

यतो न प्रभवेत्कालो महाकालस्य संनिधौ

॥८८॥

ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च ॥

जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम्

॥८९॥

तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् ॥

पंचवर्षसहस्राणि स्थितः पाषाणनिश्चलः

॥९०॥

आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः ॥

उवाच कार्दमे ब्रूहि कं ददामि वरोत्तमम्

॥९१॥

कार्दमिरुवाच

यदि नाथ प्रसन्नोसि भक्तानामनुकंपक ॥

सर्वासामाधिपत्यं मे देह्यपां यादसामपि

॥९२॥

इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः ॥

अभ्यषिंचत तं तत्र वारुणे परमे पदे

॥९३॥

रत्नानामब्धिजातानामब्धीनां सरितामपि ॥

सरसां पल्वलानां च वाप्यंबु स्रोतसा पुनः

॥९४॥

जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः ॥

अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः

॥९५॥

ददामि वरमन्यं च सर्वेषां हितकारकम् ॥

त्वयैतत्स्थापितं लिंगं तव नाम्ना भविष्यति

॥९६॥

वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम् ॥

मणिकर्णेश लिंगस्य नैर्ऋत्यां दिशि संस्थितम्

॥९७॥

आराधितं सदा पुंसां सर्वजाड्यविनाशकृत् ॥

वरुणेशस्य ये भक्ता न तेषामब्भयं क्वचित्

॥९८॥

न संतापभयं तेषां नापायमरणं क्वचित् ॥

जलोदरभयं नैव न भयं वै तृषः क्वचित्

॥९९॥

नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः ॥

सरसानि भविष्यंति नात्र कार्या विचारणा

॥१००॥

इत्युक्त्वांतर्दधे शंभुर्वरुणोपि स्वबंधुभिः ॥

इमं लोकमलंकुर्वंस्तदारभ्य स्थितो द्विजः

॥१॥

इदं वरुणलोकस्य स्वरूपं ते निरूपितम् ॥

यच्छ्रुत्वा न नरः क्वापि दुरपायैः प्रबाध्यते

॥१०२॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे निर्ऋतिवरुणलोकवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥