मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४०

3
काशीखण्डः · 40

अविमुक्तेश माहात्म्यं वर्णितं तेग्रतो मया

स्कंद उवाच

अविमुक्तेश माहात्म्यं वर्णितं तेग्रतो मया ॥

अथो किमसि शुश्रूषुः कथयिष्यामि तत्पुनः

॥१॥

अगस्त्य उवाच

अविमुक्तेश माहात्म्यं श्रावं श्रावं श्रुती मम ॥

अतीव सुश्रुते जाते तथापि न धिनोम्यहम्

॥२॥

अविमुक्तेश्वरं लिंगं क्षेत्रं चाप्यविमुक्तकम् ॥

एतयोस्तु कथं प्राप्तिर्भवेत्षण्मुख तद्वद

॥३॥

स्कंद उवाच

शृणु कुं भज वक्ष्यामि यथा प्राप्तिर्भवेदिह ॥

स्वश्रेयो दातुरेतस्या विमुक्तस्य महामते

॥४॥

समीहितार्थ संसिद्धिर्लभ्यते पुण्यभारतः ॥

तच्च पुण्यं भवेद्विप्र श्रुतिवर्त्मसभाजनात्

॥५॥

श्रुतिवर्त्मजुषः पुंसः संस्पर्शान्नश्यतो मुने ॥

कलिकालावपि सदा छिद्रं प्राप्य जिघांसतः

॥६॥

वर्जितस्य विधानेन प्रोक्तस्याकरणेन वै ॥

कलिकालावपि हतो ब्राह्मणं रंध्रदर्शनात्

॥७॥

निषिद्धाचरणं तस्मात्कथयिष्ये तवाग्रतः ॥

तद्दूरतः परित्यज्य नरो न निरयी भवेत्

॥८॥

पलांडुं विड्वराहं च शेलुं लशुन गृंजने ॥

गोपीयूषं तंडुलीयं वर्ज्यं च कवकं सदा

॥९॥

व्रश्चनान्वृक्षनिर्यासान्पायसापूपशष्कुलीः ॥

अदेवपित्र्यं पललमवत्सागोपयस्त्यजेत्

॥१०॥

पय ऐकशफं हेयं तथा क्रामेलकाविकम् ॥

रात्रौ न दधि भोक्तव्यं दिवा न नवनीतकम्

॥११॥

टिट्टिभं कलविंकं च हंसं चक्रं प्लवंबकम् ॥

त्यजेन्मांसाशिनः सर्वान्सारसं कुक्कुटं शुकम्

॥१२॥

जालपादान्खंजरीटान्बुडित्वा मत्स्यभक्षकान् ॥

मत्स्याशी सर्वमांसाशी तन्मत्स्यान्सर्वथा त्यजेत्

॥१३॥

हव्यकव्यनियुक्तौ तु भक्ष्यौ पाठीनरोहितौ ॥

मांसाशिभिस्त्वमी भक्ष्याः शश शल्लक कच्छपाः

॥१४॥

श्वाविद्गोधे प्रशस्ते च ज्ञाताश्च मृगपक्षिणः ॥

आयुष्कामैः स्वर्गकामैस्त्याज्यं मांसं प्रयत्नतः

॥१५॥

यज्ञार्थं पशुहिंसा या सा स्वर्ग्या नेतरा क्वचित् ॥

त्यजेत्पर्युषितं सर्वमखंडस्नेह वर्जितम्

॥१६॥

प्राणात्यये क्रतौ श्राद्धे भैषजे विप्रकाम्यया ॥

अलौल्यमित्थं पललं भक्षयन्नैव दोषभाक्

॥१७॥

न तादृशं भवेत्पापं मृगयावृत्तिकांक्षिणः ॥

यादृशं भवति प्रेत्य लौल्यान्मांसोपसेविनः

॥१८॥

मखार्थं ब्रह्मणा सृष्टाः पशु द्रुम मृगौषधीः ॥

निघ्नन्नहिंसको विप्रस्तासामपि शुभा गतिः

॥१९॥

पितृदेवक्रतुकृते मधुपर्कार्थमेव च ॥

तत्र हिंसाप्यहिंसा स्याद्धिंसान्यत्र सुदुस्तरा

॥२०॥

यो जंतूनात्मपुष्ट्यर्थं हिनस्ति ज्ञानदुर्बलः ॥

दुराचारस्य तस्येह नामुत्रापि सुखं क्वचित्

॥२१॥

भोक्तानुमंता संस्कर्ता क्रयिविक्रयि हिंसकाः ॥

उपहर्ता घातयिता हिंसकाश्चाष्टधा स्मृताः

॥२२॥

प्रत्यब्दमश्वमेधेन शतं वर्षाणि यो यजेत् ॥

अमांसभक्षको यश्च तयोरंत्यो विशिष्यते

॥२३॥

यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता ॥

सुखदुःखानि तुल्यानि यथात्मनि तथा परे

॥२४॥

सुखं वा यदि वा चान्यद्यत्किंचित्क्रियते परे ॥

तत्कृतं हि पुनः पश्चात्सर्वमात्मनि संभवेत्

॥२५॥

न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रियाः ॥

क्रियाहीने कुतो धर्मो धर्महीने कुतः सुखम्

॥२६॥

सुखं हि सर्वैराकांक्ष्यं तच्च धर्मसमुद्भवम् ॥

तस्माद्धर्मोत्र कर्तव्यश्चातुर्वर्ण्येन यत्नतः

॥२७॥

न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् ॥

दानं च विधिना देयं काले पात्रे च भावतः

॥२८॥

विधिहीनं तथाऽपात्रे यो ददाति प्रतिग्रहम् ॥

न केवलं हि तद्याति शेषं तस्य च नश्यति

॥२९॥

व्यसनार्थे कुटुंबार्थे यदृणार्थे च दीयते ॥

तदक्षयं भवेदत्र परत्र च न संशयः

॥३०॥

मातापितृविहीनं यो मौंजीपाणिग्रहादिभिः ॥

संस्कारयेन्निजैरर्थैस्तस्य श्रेयस्त्वनंतकम्

॥३१॥

अग्निहोत्रैर्न तच्छ्रेयो नाग्निष्टोमादिभिर्मखैः ॥

यच्छ्रेयः प्राप्यते मर्त्यैर्द्विजे चैके प्रतिष्ठिते

॥३२॥

यो ह्यनाथस्य विप्रस्य पाणिं ग्राहयते कृती ॥

इह सौख्यमवाप्नोति सोक्षयं स्वर्गमाप्नुयात्

॥३३॥

पितृगेहे तु या कन्या रजः पश्येदसंस्कृता ॥

भ्रूणहा तत्पिता ज्ञेयो वृषली सापि कन्यका

॥३४॥

यस्तां परिणयेन्मोहात्स भवेद्वृषलीपतिः ॥

तेन संभाषणं त्याज्यमपाङ्क्तेयेन सर्वदा

॥३५॥

विज्ञाय दोषमुभयोः कन्यायाश्च वरस्य च ॥

संबंधं रचयेत्पश्चादन्यथा दोषभाक्पिता

॥३६॥

स्त्रियः पवित्राः सततं नैता दुष्यंति केनचित् ॥

मासिमासि रजस्तासां दुष्कृतान्यपकर्षति

॥३७॥

पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगंधर्व वह्निभिः ॥

भुंजते मानुषाः पश्चान्नैतादुष्यं ति केनचित्

॥३८॥

स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ॥

कल्याणवाणीं गंधर्वास्तेन मेध्याः सदा स्त्रियः

॥३९॥

कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ॥

स्तनोद्भेदेषु गंधर्वास्तत्प्रागेव प्रदीयते

॥४०॥

दृश्यरोमात्वपत्यघ्नी कुलघ्न्युद्गतयौवना ॥

पितृघ्न्याविष्कतरजास्ततस्ताः परिवर्जयेत्

॥४१॥

कन्यादानफलप्रेप्सुस्तस्माद्द द्यादनग्निकाम् ॥

अन्यथा न फलं दातुः प्रतिग्राही पतेदधः

॥४२॥

कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं लभेत् ॥

देवभुक्तां ददद्दाता न स्वर्गमधिगच्छति

॥४३॥

शयनासनयानानि कुणपं स्त्रीमुखं कुशाः ॥

यज्ञपात्राणि सर्वाणि न दुष्यंति बुधाः क्वचित्

॥४४॥

वत्सः प्रस्रवणे मध्ये शकुनिः फलपातने ॥

नार्यो रतिप्रयोगेषु श्वा मृग ग्रहणे शुचिः ॥

अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ॥

पादतो ब्राह्मणा मेध्याः स्त्रियो मेध्यास्तु सर्वतः

॥४५॥

बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ॥

न त्याज्या दयिता नारी नास्यास्त्यागो विधीयते

॥४७॥

आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्य भस्मना ॥

संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः

॥४८॥

मनसापि हि या नेह चिंतयेत्पुरुषांतरम् ॥

सोमया सह सौख्यानि भुंक्ते चात्रापि कीर्तिभाक्

॥४९॥

पिता पितामहो भ्राता सकुल्यो जननी तथा ॥

कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परःपरः

॥५०॥

अप्रयच्छन्समाप्नोति भूणहत्यामृतावृतौ ॥

स्वयं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्

॥५१॥

हृताधिकारां मलिनां पिंडमात्रोपजीविनीम् ॥

परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम्

॥५२॥

व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ॥

गर्भभर्तृवधादौ तु महत्यपि च कल्मषे

॥५३॥

शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृते ॥

ते च स्वा चैव राज्ञस्तु ताश्च स्वाचाग्रजन्मनः

॥५४॥

आरोप्य शूद्रां शयने विप्रो गच्छेदधोगतिम् ॥

उत्पाद्य पुत्रं शूद्रायां ब्राह्मण्यादेव हीयते

॥५५॥

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ॥

देवाद्यास्तन्न चाश्नंति स च स्वर्गं न गच्छति

॥५६॥

जामयो यानि गेहानि शपंत्यप्रतिपूजिताः ॥

कृत्याभिर्निहतानीव नश्येयुस्तान्यसंशयम्

॥५७॥

तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ॥

भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च

॥५८॥

यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः ॥

रमंते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः

॥५९॥

यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति ॥

तत्र वेश्मनि कल्याणं संपद्येत पदे पदे

॥६०॥

अहुतं च हुतं चैव प्रहुतं प्राशितं तथा ॥

ब्राह्मं हुतं पंचमं च पंचयज्ञा इमे शुभाः

॥६१॥

जपोऽहुतोहुतो होमः प्रहुतो भौतिको बलिः ॥

प्राशितं पितृसंतृप्तिर्हुतं ब्राह्मं द्विजार्चनम्

॥६२॥

पंचयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति ॥

एतेषामननुष्ठानात्पंचसूना अवाप्नुयात्

॥६३॥

ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम् ॥

वैश्यं सुखं समागम्य शूद्रं संतोषमेव च

॥६४॥

जातमात्रः शिशुस्तावद्यावदष्टौ समाः स्मृताः ॥

भक्ष्याभक्ष्येषु नो दु्ष्येद्यावन्नैवोपनीयते

॥६५॥

भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम् ॥

प्रत्यवायो ह्यभरणे भर्तव्यस्तत्प्रयत्नतः

॥६६॥

मातापितागुरुपत्नीः त्वपत्यानि समाश्रिताः ॥

अभ्यागतोतिथिश्चाग्निः पोष्यवर्गा अमी नव

॥६७॥

स जीवति पुमान्योऽत्र बहुभिश्चोपजीव्यते ॥

जीवन्मृतोथ विज्ञेयः पुरुषः स्वोदरंभरिः

॥६८॥

दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया ॥

अदत्तदाना जायंते परभाग्योपजीविनः

॥६९॥

विभागशीलसंयुक्तो दयावांश्च क्षमायुतः ॥

देवतातिथिभक्तस्तु गृहस्थो धार्मिकः स्मृतः

॥७०॥

शर्वरीमध्य यामौ यौ हुतशेषं च यद्धविः ॥

तत्र स्वपंस्तदश्नंश्च ब्राह्मणो नावसीदति

॥७१॥

नवैतानि गृहस्थस्य कार्याण्यभ्यागते सदा ॥

सुधा व्ययानि यत्सौम्यं वाक्यं चक्षुर्मनोमुखम्

॥७२॥

अभ्युत्थानमिहायात सस्नेहं पूर्वभाषणम् ॥

उपासनमनुव्रज्या गृहस्थोन्नति हेतवे

॥७३॥

तथेषद्व्यययुक्तानि कार्याण्येतानि वै नव ॥

आसनं पादशौचं च यथाशक्त्याशनं क्षितिः

॥७४॥

शय्यातृणजलाभ्यंग दीपा गार्हस्थ्य सिद्धिदाः ॥

तथा नव विकर्माणि त्याज्यानि गृहमेधिनाम्

॥७५॥

पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम् ॥

द्वेषो दंभश्च माया च स्वर्गमार्गार्गलानि हि

॥७६॥

नवावश्यककर्माणि कार्याणि प्रतिवासरम् ॥

स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम्

॥७७॥

वेश्वदेवं तथातिथ्यं नवमं पितृतर्पणम् ॥

नव गोप्यानि यान्यत्र मुने तानि निशामय

॥७८॥

जन्मर्क्षं मैथुनं मंत्रो गृहच्छिद्रं च वंचनम् ॥

आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा

॥७९॥

नवैतानि प्रकाश्यानि रहः पापमकुत्सितम् ॥

प्रायोग्यमृणशुद्धिश्च सान्वयः क्रयविक्रयौ ॥

कन्यादानं गुणोत्कर्षो नान्यत्केनापि कुत्रचित्

॥८०॥

पात्र मित्र विनीतेषु दीनानाथोपकारिषु ॥

मातापितुगुरूष्वेतन्नवकं दत्तमक्षयम्

॥८१॥

निष्फलं नवसूत्सृष्टं चाटचारणतस्करे ॥

कुवैद्ये कितवे धूर्ते शठे मल्ले च बंदिनि

॥८२॥

आपस्त्वपि न देयानि नववस्तूनि सर्वथा ॥

अन्वये सति सर्वस्वं दारांश्च शरणागतान्

॥८३॥

न्यासाधीकुलवृत्तिं च निक्षेपं स्त्रीधनं सुतम् ॥

यो ददाति स मूढात्मा प्रायश्चित्तैर्विशुध्यति

॥८४॥

एतन्नवानां नवकं ज्ञात्वा प्रियमवाप्नुयात् ॥

अन्यच्च नवकं वच्मि सर्वेषां स्वर्गमार्गदम्

॥८५॥

सत्यं शौचमहिंसा च क्षांतिर्दानं दया दमः ॥

अस्तेयमिंद्रियाकोचः सर्वेषां धर्मसाधनम्

॥८६॥

अभ्यस्य नवतिं चैतां स्वर्गमार्गप्रदीपिकाम् ॥

सतामभिमतां पुण्यां गृहस्थो नावसीदति

॥८७॥

जिह्वा भार्या सुतो भ्राता मित्र दास समाश्रिताः ॥

यस्यैते विनयाढ्याश्च तस्य सर्वत्र गौरवम्

॥८८॥

पानं दुर्जन संसर्गः पत्या च विरहोटनम् ॥

स्वप्नोन्यगृहवासश्च नारीणां दूषणानि षट्

॥८९॥

समर्घं धान्यमुद्धत्य महर्घं यः प्रयच्छति ॥

स हि वार्धुषिको नाम तस्यान्नं नैव भक्षयेत्

॥९०॥

अग्रे माहिषिकं दृष्ट्वा मध्ये च वृषलीपतिम् ॥

अंते वार्धुषिकं चैव निराशाः पितरो गताः

॥९१॥

महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी ॥

तां दुष्टां कामयेद्यस्तु स वै माहिषिकः स्मृतः

॥९२॥

स्व वृषं या परित्यज्य परवृषे वृषायते ॥

वृषली सा हि विज्ञेया न शूद्री वृषली भवेत्

॥९३॥

यावदुष्णं भवत्यन्नं यावन्मौनेन भुज्यते ॥

तावदश्नंति पितरो यावन्नोक्ता हविर्गुणाः

॥९४॥

विद्याविनयसंपन्ने श्रोत्रिये गृहमागते ॥

क्रीडंत्यौषधयः सर्वा यास्यामः परमां गतिम्

॥९५॥

भ्रष्टशौचवताचारे विप्रे वेदविवर्जिते ॥

रोदित्यन्नं दीयमानं किं मया दुष्कृतं कृतम्

॥९६॥

यस्य कोष्ठगतं चान्नं वेदाभ्यासेन जीर्यति ॥

स तारयति दातारं दशपूर्वान्दशापरान्

॥९७॥

न स्त्रीणां वपनं कार्यं न च गाः समनुव्रजेत् ॥

न च रात्रौ वसेद्गोष्ठे न कुर्याद्वैदिकीं श्रुतिम्

॥९८॥

सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥

एवमेव तु नारीणां शिरसो मुंडनं भवेत्

॥९९॥

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥

अकारयित्वा वपनं प्रायश्चित्तं विनिर्दिशेत्

॥१००॥

केशानां रक्षणार्थाय द्विगुणं व्रतमादिशेत् ॥

द्विगुणा दक्षिणा देया ब्राह्मणे वेदपारगे

॥१॥

योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ॥

अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः

॥२॥

दाराग्निहोत्र दीक्षां च कुरुते योऽग्रजे स्थिते ॥

परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः

॥३॥

परिवित्तिः परिवेत्ता यया च परिविद्यते ॥

सर्वे ते नरकं यांति दातृयाजकपंचमाः

॥४॥

क्लीबे देशांतरस्थे च मूके प्रत्रजिते जडे ॥

कुब्जे खर्वे च पतिते न दोषः परिवेदने

॥५॥

वेदाक्षरणि यावंति नियुंज्यादर्थकारणे ॥

तावतीर्वै भ्रूणहत्या वेदविक्रयकृल्लभेत्

॥६॥

यस्तु प्रव्रजितो भूत्वा सेवते मैथुनं पुनः ॥

षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः

॥७॥

शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ॥

शूद्राद्विद्यागमः कश्चिज्ज्वलंतमपि पातयेत्

॥८॥

शूद्रादाहृत्य निर्वापं ये पचंत्यबुधा द्विजाः ॥

ते यांति नरकं घोरं ब्रह्मतेजोविवर्जिताः

॥९॥

माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ॥

हस्तदत्तानि भुक्तानि दिनमेकमभोजनम्

॥११०॥

हस्तदत्ताश्च ये स्नेहा लवणं व्यजनानि च ॥

दातारं नोपतिष्ठंते भोक्ता भुंक्ते तु किल्बिषम्

॥११॥

आयसेनैव पात्रेण यदन्नमुपदीयते ॥

भोक्ता तद्विट्समं भुंक्ते दाता च नरकं व्रजेत्

॥१२॥

अंगुल्या दंतकाष्ठं च प्रत्यक्षलवणं च यत् ॥

मृत्तिकाभक्षणं यच्च समं गोमांसभक्षणैः

॥१३॥

पानीयं पायसं भैक्षं घृतं लवणमेव च ॥

हस्तदत्तं न गृह्णीयात्तुल्यगोमांसभक्षणैः

॥१४॥

अग्रतो निवसेन्मूर्खो दूरतश्च गुणान्वितः ॥

गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः

॥१५॥

ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ॥

ज्वलंतमग्निमुत्सृज्य नहि भस्मनि हूयते

॥१६॥

सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ॥

भोजने चैव दाने च दहेदासप्तमं कुलम्

॥१७॥

गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ॥

प्रेष्यान्वार्धुषिकांश्चैव विप्राञ्शूद्रवदाचरेत्

॥१८॥

देवद्रव्यविभागेन ब्रह्मस्व हरणेन च ॥

कुलान्याशु विनश्यंति ब्राह्मणातिक्रमेण च

॥१९॥

मा देहीति च यो ब्रूयाद्गवाग्निब्राह्मणेषु च ॥

तिर्यग्योनिशतं गत्वा चांडालेष्वभिजायते

॥१२०॥

वाचा यच्च प्रतिज्ञातं कर्मणानोपपादितम् ॥

ऋणं तद्धर्मसंयुक्तमिहलोके परत्र च

॥२१॥

विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ॥

यज्ञशेषोऽमृतंभुक्तशेषं तु विघसं विदुः

॥२२॥

सव्यादंसात्परिभ्रष्टे नाभिदेशे व्यवस्थिते ॥

वस्त्रे स एकवासास्तं देवे पित्र्ये च वर्जयेत्

॥२३॥

यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः ॥

तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम्

॥२४॥

हस्तौ प्रक्षाल्य गंडूषं यः पिबेद्भोजनोत्तरम् ॥

दैवं पित्र्यं तथात्मानं त्रयं स उपघातयेत्

॥१५॥

गणान्नं गणिकान्नं च यदन्नं ग्रामयाजके ॥

स्त्रीणां प्रथमगर्भेषु भुक्त्वा चांद्रायणं चरेत

॥२६॥

पक्षे वा यदि वा मासे यस्य गेहेत्ति न द्विजः ॥

भुक्त्वा दुरात्मनस्तस्य चरेच्चांद्रायणव्रतम्

॥२७॥

सत्रिणां दीक्षितानां च यतीनां ब्रह्मचारिणाम् ॥

एतेषां सूतकं नास्ति ऋत्विजां कर्मकुर्वताम्

॥२८॥

अजीर्णेऽभ्युदिते वाते श्मश्रुकर्मणि मैथुने ॥

दुःस्वप्ने दुर्जनस्पर्शे स्नानमेव विधीयते

॥२९॥

चैत्यवृक्षं चितिं यूपं शिवनिर्माल्यभोजिनम् ॥

वेदविक्रयिणं स्पृष्ट्वा सचैलो जलमाविशेत्

॥१३०॥

अग्न्यगारे गवां गोष्ठे देव ब्राह्मणसन्निधौ ॥

स्वाध्याये भोजने पाने पादुके वै विसर्जयेत्

॥३१॥

खलक्षेत्रगतं धान्यं कूपवापीषु यज्जलम् ॥

अग्राह्यादपि तद्ग्राह्यं यच्च गोष्ठगतं पयः

॥३२॥

यद्वेष्टितशिरा भुंक्ते यो भुंक्ते दक्षिणामुखः ॥

सोपानत्कश्च यद्भुंक्ते तद्वै रक्षांसि भुंजते

॥३३॥

यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ॥

हरंति रसमन्नस्य मंडलेन विवर्जितम्

॥३४॥

ब्रह्माद्याश्च सुराः सर्वे वसिष्ठाद्या महर्षयः ॥

मंडलं चोपजीवंति ततः कुर्वीत मंडलम्

॥३५॥

ब्राह्मणे चतुरस्रं स्यात्त्र्यस्रं वै बाहुजन्मनः ॥

वर्तुलं च विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम्

॥३६॥

नोत्संगे भोजनं कृत्वा नो पाणौ नैव कर्पटे ॥

नासनेन च शय्यायां भुंजीत न मलार्दितः

॥३७॥

धर्मशास्त्र रथारूढा वेदखड्गधरा द्विजाः ॥

क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः

॥३८॥

रात्रौ धाना दधियुतं धर्मकामो न भक्षयेत् ॥

अश्नतो धर्महानिः स्याद्व्याधिभिश्चोपपीड्यते

॥३९॥

फाणितं गोरसं तोयं लवणं मधुकांजिकम् ॥

हस्तेन ब्राह्मणो दत्त्वा कृच्छ्रं चांद्रायणं चरेत्

॥१४०॥

गंधाभरणमाल्यानि यः प्रयच्छति धर्मवित् ॥

ससुगंधिः सदा हृष्टो यत्रयत्रोपजायते

॥४१॥

नीलीरक्तं तु यद्वस्त्रं दूरतः परिवर्जयेत् ॥

स्त्रीणां क्रीडार्थसंयोगे शयनीयेन दुष्यति

॥४२॥

पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात् ॥

अपवित्रो भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति

॥४३॥

स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥

वृथा तस्य महायज्ञा नीली वासो बिभर्ति यः

॥४४॥

नीलीरक्तं यदावस्त्रं विप्रः स्वांगेषु धारयेत् ॥

तं तु संततिसंख्याके नरके स वसेद्ध्रुवम्

॥४५॥

अहोरात्रोषितो भूत्वा पंचगव्येन शुध्यति

॥४६॥

नीलीरक्तेन वस्त्रेण यदन्नमुपकल्पयेत् ॥

भोक्ता विष्ठासमं भुंक्ते दाता च नरकं व्रजेत्

॥४७॥

अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् ॥

वैश्यस्य चान्नमेवान्नं शूद्रस्य रुधिरं स्मृतम्

॥४८॥

वैश्वदेवेन होमेन देवताभ्यर्चनैर्जपैः ॥

अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम्

॥४९॥

व्यवहारानुरूपेण न्यायेन तु यदर्जनम् ॥

क्षत्रियस्य पयस्तेन प्रजापालनतो भवेत् ॥

4.1.40.१५० प्रहरानद्धवाहाद्यदन्नमुत्पाद्य यच्छति ॥

सीतायज्ञविधानेन वैश्यान्नं तेन संस्कृतम्

॥५१॥

अज्ञानतिमिरांधस्य मद्यपानरतस्य च ॥

रुधिरं तेन शूद्रान्नं वेदमंत्रविवर्जितम्

॥५२॥

न वृथा शपथं कुर्यात्स्वल्पेप्यर्थे नरोत्तमः ॥

वृथा हि शपथं कुर्वन्प्रेत्य चेह विनश्यति

॥५३॥

कामिनीषु विवाहे च गवां भुक्ते धनक्षये ॥

ब्राह्मणाभ्युपपत्तौ च शपथैर्नास्ति पातकम्

॥५४॥

सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ॥

गोबीजकांचनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः

॥५५॥

अग्निं वा हारयेदेनमप्सु चैनं निमज्जयेत् ॥

स्पर्शयेत्पुत्रदाराणां शिरांस्येनं च वा पृथक्

॥५६॥

न यमं यममित्याहुरात्मा वै यम उच्यत ॥

आत्मा संयमितो येन तं यमः किं करिष्यति

॥५७॥

न निस्त्रिंशस्तथा तीक्ष्णः फणी वा दुरतिक्रमः ॥

रिपुर्वा नित्यसंकुद्धो यथात्मा दुरधिष्ठितः

॥५८॥

एकः क्षमावतां दोषो न द्वितीयः कथंचन ॥

यदेनं क्षमया युक्तमशक्तं मन्यते जनः

॥५९॥

न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्या वसथप्रियस्य ॥

न भोजनाच्छादन तत्परस्य न लोकवित्त ग्रहणे रतस्य

॥१६०॥

एकांतशीलस्य सदैव तस्य सर्वेंद्रियप्रीति निवर्तकस्य ॥

स्वाध्याययोगे गतमानसस्य मोक्षो धुवं नित्यमहिंसकस्य

॥६१॥

क्वैकांतशीलत्वमिहास्ति पुंसः क्व चेंद्रियप्रीतिनिवृत्तिरस्ति ॥

क्व योगयुक्तिः क्व च दैवतेज्या काश्यां विनैभिः सहजेन मुक्तिः

॥६२॥

विश्वेश संशीलनमेवयोगस्तपश्च विश्वेशपुरीनिवासः ॥

व्रतानि दानं नियमा यमाश्च स्नानं द्युनद्यां यदुदग्वहायाम्

॥६३॥

स्कंद उवाच

न्यायागतधनस्तत्त्वज्ञाननिष्ठोतिथिप्रियः ॥

श्राद्धकृत्सत्यवादी च गृहस्थोपीह मुच्यते

॥६४॥

दीनांधकृपणार्थिभ्यो दत्त्वान्नानि विशेषतः ॥

कृत्वा गार्ह्याणि कर्माणि गृहस्थः श्रेय आप्नुयात्

॥६५॥

इत्थमाचरतां पुंसां काशीनाथः प्रसीदति ॥

काशीनाथप्रसादेन काशीप्राप्तिस्तु मोक्षकृत्

॥६६॥

स सर्वतीर्थसुस्नातः स सर्वक्रतुदीक्षितः ॥

स दत्तसर्वदानस्तु काशी येन निषेविता

॥१६७॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे गृहस्थधर्माख्यानंनाम चत्वारिंशोध्यायः ॥ ४० ॥