मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५७

3
काशीखण्डः · 57

ढुंढिविनायकप्रादुर्भावः

स्कंद उवाच

विश्वेशो विश्वया सार्धं मया च मुनिसत्तम ॥

महाशाखविशाखाभ्यां नंदिभृंगिपुरोगमः

॥१॥

नैगमेयेन सहितो रुद्रैः सर्वत्र संवृतः ॥

देवर्षिभिः समायुक्तः सनकाद्यैरभिष्टुतः

॥२॥

समस्तायतनाधीशैर्दिक्पालैरभिनंदितः ॥

तीर्थैर्दर्शित तीर्थश्च गंधर्वैर्गीतमंगलः

॥३॥

कृतपूजोप्सरोभिश्च नृत्यहस्तकपल्लवैः ॥

वियत्यनाहतैर्वाद्यैः समंतादनुमोदितः

॥४॥

ऋषीणां ब्रह्मनिर्घोषैर्बधिरीकृतदिङ्मुखः ॥

कृतस्तुतिश्चारणौघैर्विमानैरभितोवृतः

॥५॥

त्रिविष्टप वधूमुष्टिभ्रष्टैर्लाजैरितस्ततः ॥

अभिवृष्टो महादेवः संप्रहृष्टतनूरुहः

॥६॥

दत्तमाल्योपहारश्च बहुविद्याधरी गणैः ॥

यक्षगुह्यकसिद्धैश्च खेचरैरभिनंदितः

॥७॥

कृतप्रवेश शकुनो मृगैः शकुनिभिः पुरः ॥

किंनरीभिः प्रहष्टास्यैः किंनरैरुपवर्णितः

॥८॥

विष्णुना च महालक्ष्म्या ब्रह्मणा विश्वकर्मणा ॥

नंदिनाथ गणेशेन आविष्कृतमहोत्सवः

॥९॥

नागांगनाभिः परितः कृतनीराजनाविधिः ॥

प्रविवेश महादेवः पुरीं वाराणसीं शुभाम्

॥१०॥

पश्यतां सर्वदेवानामवरुह्य वृषेंद्रतः ॥

परिष्वज्य गणाधीशं प्रोवाच वृषभध्वजः

॥११॥

यदहं प्राप्तवानस्मि पुरीं वाराणसीं शुभाम् ॥

मयाप्यतीव दुष्प्राप्यां स प्रसादो स्य वै शिशोः

॥१२॥

यद्दुष्प्रसाध्यं हि पितुरपि त्रिजगतीतले ॥

तत्सूनुना सुसाध्यं स्यादत्र दृष्टांतता मयि

॥१३॥

अनेन गजवक्त्रेण स्वबुद्धिविभवेरिह ॥

काशीप्राप्तिर्यथा मे स्यात्तथा किंचिदनुष्ठितम्

॥१४॥

पुत्रवानहमेवास्मि यच्च मे चिरचिंतितम् ॥

स्वपौरुषेण कृतवानभिलाषं करस्थितम्

॥१५॥

इत्युक्त्वा त्रिपुरीहर्ता पुरुहूतादिभिः स्तुतः ॥

परितुष्टावसंहृष्टः स्पष्टगीर्भिर्गजाननम्

॥१६॥

श्रीकंठ उवाच

जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ॥

अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत्

॥१७॥

जय सर्वगणाधीश जय सर्व गणाग्रणीः ॥

गणप्रणतपादाब्ज गणनातीतसद्गुण

॥१८॥

जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे ॥

सर्वमायाप्रपंचज्ञ सर्वकर्माग्रपूजित

॥१९॥

सर्वमंगलमांगल्य जय त्वं सर्वमंगल ॥

अमंगलोपशमन महामंगलहेतुक

॥२०॥

जय सृष्टिकृतां वंद्य जय स्थितिकृतानत ॥

जय संहृतिकृत्स्तुत्य जयसत्कर्मसिद्धिद

॥२१॥

सिद्धवंद्यपदांभोज जयसिद्धिविधायक ॥

सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक

॥२२॥

अशेषगुणनिर्माण गुणातीत गुणाग्रणी ॥

परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित

॥२३॥

जय सर्वबलाधीश बलाराति बलप्रद ॥

बलाकोज्ज्वल दंताग्र बालाबालपराकम

॥२४॥

अनंतमहिमाधार धराधर विदारण ॥

दंताग्रप्रोतां दङ्नाग जयनागविभूषण

॥२५॥

ये त्वांनमंति करुणामय दिव्य मूर्ते सर्वैनसामपि भुवो भुविमुक्तिभाजः ॥

तेषां सदैव हरसीहमहोपसर्गान्स्वर्गापवर्गमपि संप्रददासि तेभ्यः

॥२६॥

ये विघ्नराज भवता करुणाकटाक्षैः संप्रेक्षिताः क्षितितले क्षणमात्रमत्र ॥

तेषां क्षयंति सकलान्यपिकिल्विषाणि लक्ष्मीः कटाक्षयतितान्पुरुषोत्तमान्हि

॥२७॥

ये त्वां स्तुवंति नतविघ्नविघातदक्ष दाक्षायणीहृदयपंकजतिग्मरश्मे ॥

श्रूयंत एव त इह प्रथिता न चित्रं चित्रं तदत्र गणपा यदहो त एव

॥२८॥

ये शीलयंति सततं भवतोंघ्रियुग्मं ते पुत्रपौत्रधनधान्यसमृद्धिभाजः ॥

संशीलितांघ्रिकमला बहुभृत्यवर्गैर्भूपालभोग्यकमलां विमलां लभंते

॥२९॥

त्वं कारणं परमकारणकारणानां वेद्योसि वेदविदुषां सततं त्वमेकः ॥

त्वं मार्गणीयमसि किंचन मूलवाचां वाचामगोचरचराचरदिव्यमूर्ते

॥३०॥

वेदा विदंति न यथार्थतया भवंतं ब्रह्मादयोपि न चराचर सूत्रधार ॥

त्वं हंसि पासि विदधासि समस्तमेकः कस्तेस्तुतिव्यतिकरो मनसाप्यगम्य

॥३१॥

त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरांधकजलंधरमुख्यकांश्च ॥

कस्यास्ति शक्तिरिह यस्त्वदृतेपि तुच्छं वांछेद्विधातु मिह सिद्धिदकार्यजातम्

॥३२॥

अन्वेषणे ढुंढिरयं प्रथितोस्तिधातुः सर्वार्थढुंढिततया तव ढुंढि नाम ॥

काशीप्रवेशमपि को लभतेत्र देही तोषं विना तव विनायकढुंढिराज

॥३३॥

ढुंढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी ॥

तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किंचिदत्र न पुनर्भवतास्ति येन

॥३४॥

स्नात्वा नरः प्रथमतो मणिकर्णिकायामुद्धूलितांघ्रियुगलस्तु सचैलमाशु ॥

देवर्षिमानवपितॄनपि तर्पयित्वा ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम्

॥३५॥

सामोदमोदकभरैर्वरधूपदीपैर्माल्यैः सुगंधबहुलैरनुलेपनैश्च ॥

संप्रीण्यकाशिनगरीफलदानदक्षं प्रोक्त्वाथ मां क इह सिध्यति नैव ढुंढे

॥३६॥

तीर्थांतराणि च ततः क्रमवर्जितोपि संसाधयन्निह भवत्करुणाकटाक्षैः ॥

दूरीकृतस्वहितघात्युपसर्गवर्गो ढुंढे लभेदविकलं फलमत्र काश्याम्

॥३७॥

यः प्रत्यहं नमति ढुं ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः ॥

नो तस्य जातु जगतीतलवर्ति वस्तु दुष्प्रापमत्र च परत्र च किंचनापि

॥३८॥

यो नाम ते जपति ढुंढिविनायकस्य तं वै जपंत्यनुदिनं हृदि सिद्धयोष्टौ ॥

भोगान्विभुज्य विविधान्विबुधोपभोग्यान्निर्वाणया कमलया व्रियते स चांते

॥३९॥

दूरे स्थितोप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुंढिराज ॥

काशीस्थिते रविकलं सफलं लभेत नैवान्यथा न वितथा मम वाक्कदाचित्

॥४०॥

जाने विघ्नानसंख्यातान्विनिहंतुमनेकधा ॥

क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः

॥४१॥

यानि यानि च रूपाणि यत्रयत्र च तेनघ ॥

तानि तत्र प्रवक्ष्यामि शृण्वंत्वेते दिवौकसः

॥४२॥

प्रथमं ढुंढिराजोसि मम दक्षिणतो मनाक् ॥

-आढुंढ्य सर्वभक्तेभ्यः सर्वार्थान्संप्रयच्छसि

॥४३॥

अंगारवासरवतीमिह यैश्चतुर्थीं संप्राप्य मोदकभरैः परिमोदवद्भिः ॥

पूजा व्यधायि विविधा तव गंधमाल्यैस्तानत्र पुत्रविदधामि गणान्गणेश

॥४४॥

ये त्वामिह प्रति चतुर्थि समर्चयंति ढुंढे विगाढमतयः कृतिनस्त एव ॥

सर्वापदां शिरसि वामपदं निधाय सम्यग्गजानन गजाननतां लभंते

॥४५॥

माघशुक्लचतुर्थ्यां तु नक्तव्रतपरायणाः ॥

ये त्वां ढुंढेर्चयिष्यंति तेऽर्च्याः स्युरसुरद्रुहाम्

॥४६॥

विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ॥

शुक्लां शुक्लतिलैर्बद्ध्वा प्राश्नीयाल्लड्डुकान्व्रती

॥४७॥

कार्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ॥

तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुंढे सर्वोपसर्गहृत्

॥४८॥

तां यात्रां नात्रयः कुर्यान्नैवेद्यतिललडुकैः ॥

उपसर्गसहस्रैस्तु स हंतव्यो ममाज्ञया

॥४९॥

होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ॥

तस्यां चतुर्थ्यां मंत्रज्ञस्तस्य मंत्रः प्रसेत्स्यति

॥५०॥

वैदिकोऽवैदिको वापि यो मंत्रस्ते गजानन ॥

जप्तस्त्वत्संनिधौ ढुंढे सिद्धिं दास्यति वांछिताम्

॥५१॥

ईश्वर उवाच

इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः ॥

न जातु तं तु विघ्नौघाः पीडयिष्यंति निश्चितम्

॥५२॥

ढौंढीं स्तुतिमिमां पुण्यां यः पठेड्ढुंढि संनिधौ ॥

सान्निध्यं तस्य सततं भजेयुः सर्वसिद्धयः

॥५३॥

इमां स्तुतिं नरो जप्त्वा परं नियतमानसः ॥

मानसैरपि पापैस्तैर्नाभिभूयेत कर्हिचित्

॥५४॥

पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमंदिरम् ॥

प्राप्नुयाच्च धनं धान्यं ढुंढिस्तोत्रं जपन्नरः

॥५५॥

सर्वसंपत्करं नाम स्तोत्रमेतन्मयेरितम् ॥

प्रजप्तव्यं प्रयत्नेन मुक्तिकामेन सर्वदा

॥५६॥

जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः ॥

पुंसः पुरः समेष्यंति नियतं सर्वसिद्धयः

॥५७॥

अन्यच्च कथयाम्यत्र शृण्वंत्वेते दिवौकसः ॥

ढुंढिना क्षेत्ररक्षार्थं यत्रयत्र स्थितिः कृता

॥५८॥

काश्यां गंगासि संभेदे नामतोर्कविनायकः ॥

दृष्टोर्कवासरे पुंभिः सर्वतापप्रशांतये

॥५९॥

दुर्गो नाम गणाध्यक्षः सर्वदुर्गतिनाशनः ॥

क्षेत्रस्य दक्षिणे भागे पूजनीयः प्रयत्नतः

॥६०॥

भीमचंडी समीपे तु भीमचंडविनायकः ॥

क्षेत्रनैर्ऋतदेशस्थो दृष्टो हंति महाभयम्

॥६१॥

क्षेत्रस्य पश्चिमे भागे स देहलिविनायकः ॥

सर्वान्निवारयेद्विघ्नान्भक्तानां नात्र संशयः

॥६२॥

क्षेत्रवायव्यदिग्भागे उद्दंडाख्यो गजाननः ॥

उद्दंडानपि विघ्नौघान्भक्तानां दंडयेत्सदा

॥६३॥

काश्याः सदोत्तराशायां पाशपाणिर्विनायकः ॥

विनायकान्पाशयति भक्त्या काशीनिवासिनाम्

॥६४॥

गंगावरणयोः संगे रम्यः खर्वविनायकः ॥

अखर्वानपि विघ्नौघान्भक्तानां खर्वयेत्सताम्

॥६५॥

प्राच्यां तु क्षेत्ररक्षार्थं सिद्धः सिद्धिविनायकः ॥

पश्चिमे यमतीर्थस्य साधकक्षिप्रसिद्धिदः

॥६६॥

बाह्यावरणगाश्चैते काश्यामष्टौ विनायकाः ॥

उच्चाटयत्यभक्तांश्च भक्तानां सर्वसिद्धिदाः

॥६७॥

द्वितीयावरणे चैव ये रक्षंति विनायकाः ॥

अविमुक्तमिदं क्षेत्रं तानहं कथयाम्यतः

॥६८॥

स्वर्धुन्याः पश्चिमे कूले उत्तरेर्कविनायकात् ॥

लंबोदरो गणाध्यक्षः क्षालयेद्विघ्नकर्दमम्

॥६९॥

तत्पश्चिमेकूटदंत उदग्दुर्गविनायकात् ॥

दुर्गोपसर्गसंहर्ता रक्षेत्क्षेत्रमिदं सदा

॥७०॥

भीमचंड गणाध्यक्षात्किंचिदीशानदिग्गतः ॥

क्षेत्ररक्षोगणाध्यक्षः पूज्यः शालकटंकटः

॥७१॥

प्राच्या देहलिविघ्नेशात्कूश्मांडाख्यो विनायकः ॥

पूजनीयः सदा भक्तेर्महोत्पात प्रशांतये

॥७२॥

उद्दंडाख्याद्गणपतेराशुशुक्षणिदिक्स्थितः ॥

महाप्रसिद्धः संपूज्यो भक्तैर्मुंडविनायकः

॥७३॥

पाताले तस्य देहोस्ति मुंडं काश्यां व्यवस्थितम ॥

अतः स गीयते काश्यां देवो मुंडविनायकः

॥७४॥

पाशपाणेर्गणेशानाद्दक्षिणे विकटद्विजम् ॥

पूजयित्वा गणपतिं गाणपत्यपदं लभेत्

॥७५॥

खर्वाख्यान्नैर्ऋतेभागे राजपुत्रो विनायकः ॥

भ्रष्टराज्यं च राजानं राजानं कुरुतेऽर्चितः

॥७६॥

गंगायाः पश्चिमे कूले प्रणवाख्यो गणाधिपः ॥

अवाच्यां राजपुत्राच्च प्रणतः प्रणयेद्दिवम्

॥७७॥

द्वितीयावरणे काश्यामष्टावेते विनायकाः ॥

उत्सादयेयुर्विघ्नौघान्काशी स्थितिनिवासिनाम्

॥७८॥

क्षेत्रे तृतीयावरणे क्षेत्ररक्षाकृतः सदा ॥

ये विघ्नराजाः संतीह ते वक्तव्या मयाधुना

॥७९॥

उदग्वहायाः स्वर्धुन्या रम्ये रोधसि विघ्नराट् ॥

लंबोदरादुदीच्यां तु वक्रतुंडोघसंघहृत्

॥८०॥

कूटदंताद्गणपतेरुदीच्यामेकदंतकः ॥

सदोपसर्गसंसर्गात्पायादानंदकाननम्

॥८१॥

काशीभयहरो नित्यमैश्यां शालकटंकटात् ॥

त्रिमुखो नाम विघ्नेशः कपिसिंहद्विपाननः

॥८२॥

कूश्मांडात्पूर्वदिग्भागे पंचास्यो नाम विघ्नराद् ॥

पंचास्यस्यंदनवरः पाति वाराणसीं पुरीम्

॥८३॥

हेरंबाख्यः सदाग्नेय्यां पूज्यो मुंडविनायकात् ॥

अंबावत्पूरयेत्कामान्सर्वेषां काशिवासिनाम्

॥८४॥

अवाच्यामर्चयेद्धीमान्सिद्ध्यै विकटदंततः ॥

विघ्नराजं गणपतिं सर्वविघ्नविनाशनम्

॥८५॥

विनायकाद्राजपुत्रात्किंचिद्रक्षोदिशिस्थितः ॥

वरदाख्यो गणाध्यक्षः पूज्यो भक्तवरप्रदः

॥८६॥

याम्यां प्रणवविघ्नेशाद्गणेशो मोदकप्रियः ॥

पूज्यः पिशंगिला तीर्थे देवनद्यास्तटे शुभे

॥८७॥

चतुर्थावरणे काश्यां भक्तविघ्नविनाशकाः ॥

द्रष्टव्या हृष्टचेतोभिः स्पष्टमष्टौ विनायकाः

॥८८॥

वक्रतुंडादुदग्दिक्स्थः स्वःसिंधो रोधसिस्थितः ॥

विनायकोस्त्यभयदः सर्वेषां भयनाशनः

॥८९॥

कौबेर्यामेकदशनात्सिंहतुंडो विनायकः ॥

उपसर्गगजान्हंति वाराणसि निवासिनाम्

॥९०॥

कूणिताक्षो गणाध्यक्षस्त्रितुंडादीश दिक्स्थितः ॥

महाश्मशानं सततं पायाद्दुष्टकुदृष्टितः

॥९१॥

प्राच्यां पंचास्यतः पायात्पुरीं क्षिप्रप्रसादनः ॥

क्षिप्रप्रसादनार्चातः क्षिप्रं सिध्यंति सिद्धयः

॥९२॥

हेरंबाद्वह्निदिग्भागे चिंतामणि विनायकः ॥

भक्तचिंतामणिः साक्षाच्चिंतितार्थ समर्पकः

॥९३॥

विघ्नराजादवाच्यां तु दंतहस्तो गणेश्वरः ॥

लिखेद्विघ्नसहस्राणि नृणां वाराणसीद्रुहाम्

॥९४॥

वरदाद्यातुधान्यां च यातुधानगणावृतः ॥

देवः पिचिंडिलो नाम पुरीं रक्षेदहर्निशम्

॥९५॥

दृष्टः पिलिपिलातीर्थे दक्षिणे मोदकप्रियात् ॥

उद्दंड मुंडो हेरंबो भक्तेभ्यः किं न यच्छति

॥९६॥

प्राकारे पंचमे काश्यां द्विचतुष्क विनायकाः ॥

कुर्वंति रक्षां क्षेत्रस्य ये तानत्र ब्रवीम्यहम्

॥९७॥

तीरे स्वर्गतरंगिण्या उत्तरे चाभयप्रदात् ॥

स्थूलदंतो गणेशानः स्थूलाः सिद्धीर्दिशेत्सताम्

॥९८॥

सिंहतुडादुदग्भागे कलिप्रिय विनायकः ॥

कलहं कारयेन्नित्यमन्योन्यं तैर्थिकद्रुहाम्

॥९९॥

कूणिताक्षात्तथैशान्यां चतुर्दंतो विनायकः ॥

तस्य दर्शनमात्रेण विघ्नसंघः क्षयेत्स्वयम्

॥१००॥

क्षिप्रप्रसादनादैंद्र्यां द्वितुंडो गणनायकः ॥

अग्रतः पृष्ठतश्चापि बिभर्ति सदृशीं श्रियम्

॥१॥

तस्य संदर्शनात्पुसां भवेच्छ्रीः सर्वतोमुखी ॥

ज्येष्ठो नाम गणाध्यक्षो ज्येष्ठो मे पुत्रसंपदि

॥२॥

ज्येष्ठशुक्लचतुर्दश्यां संपूज्यो ज्येष्ठताप्तये ॥

स्थितो वह्निदिशो भागे चिंतामणि विनायकात्

॥३॥

दंतहस्ताद्यमाशायां पूज्यो गजविनायकः ॥

तस्य संपूजनाद्भक्त्या गजांता श्रीरवाप्यते

॥४॥

पिचिण्डिलाद्गणपतेर्याम्यां कालविनायकः ॥

भयं न कालकलितं तस्य संसेवनान्नृणाम्

॥५॥

उद्दंडमुंडाद्गणपात्की नाशदिशि संस्थितम् ॥

नागेशं गणपं दृष्ट्वा नागलोके महीयते

॥६॥

अथ षष्ठावरणगाः प्रोच्यंते विघ्ननायकाः ॥

तेषां नामश्रवादेव पुंसां सिद्धिः प्रजायते

॥७॥

मणिकर्णो गणपतिः प्राच्यां विघ्नविघातकृत् ॥

आशाविनायको वह्न्यां भक्ताशां पूरयन्स्थितः

॥८॥

याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ॥

नैर्ऋत्यां यक्षविघ्नेशः सर्वविघ्नहरः परः ॥

९ [ प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः ॥

चित्रघंटो गणपतिर्वायव्यां पालयेत्पुरीम्

॥११०॥

स्थूलजंघउदीच्यां च शमयेच्छमिनामघम् ॥

ऐश्यामैशीपुरीं पायात्समंगलविनायकः

॥११॥

यमतीर्थादुदीच्यां च पूज्यो मित्रविनायकः ॥

सप्तमावरणे ये च तांश्च वक्ष्ये विनायकान्

॥१२॥

मोदाद्याः पंचविघ्नेशाः षष्ठो ज्ञानविनायकः ॥

सप्तमो द्वारविघ्नेशो महाद्वारपुरश्चरः

॥१३॥

अष्टमः सर्वकष्टौघानविमुक्तविनायकः ॥

अविमुक्ते मम क्षेत्रे हरेत्प्रणतचेतसाम्

॥१४॥

षट्पंचाशद्गजमुखानेतान्यः संस्मरिष्यति ॥

दूरदेशांतरस्थोपि स मृतो ज्ञानमाप्नुयात्

॥१५॥

ढुंढिस्तुतिं महापुण्यां षट्पंचाशद्गजाननाम् ॥

यः पठिष्यति पुण्यात्मा तस्य सिद्धिः पदेपदे

॥१६॥

इमे गणेश्वराः सर्वे स्मर्तव्या यत्र कुत्रचित् ॥

महाविपत्समुद्रांतः पतंतं पांति मानवम्

॥१७॥

इति स्तुतिं महापुण्यां श्रुत्वा चैतान्विनायकान् ॥

जातुविघ्नैर्नबाध्येत पापेभ्योपि प्रहीयते

॥१८॥

इत्युक्त्वा देवदेवोपि महोत्सवितमानसः ॥

कृताभिषेको ब्रह्माद्यैस्तेभ्यो दत्त्वाभिवांछितम्

॥१९॥

संप्रसाद्य यथायोगं सर्वानुचित चंचुरः ॥

अविशद्राजसदनं विश्वकर्मविनिर्मितम्

॥१२०॥

स्कंद उवाच

एवं स्तुतो भगवता देवदेवेन विघ्नजित् ॥

इत्थं च बहुधात्मानं स चकार विनायकः

॥२१॥

एतानि तस्य नामानि ढुंढिराजस्य कुंभज ॥

जपित्वा यानि मनुजो लप्स्यते निजवांछितम्

॥२२॥

अन्येपि तत्र वै भेदास्तस्य ढुंढेर्गणेशितुः ॥

भक्तैः समर्चिता भक्त्या ह्यसंख्याताः सहस्रशः

॥२३॥

भगीरथगणाध्यक्षो हरिश्चंद्रविनायकः ॥

कपर्दाख्यो गणपतिस्तथा बिंदुविनायकः

॥२४॥

इत्याद्यास्तत्र विघ्नेशाः प्रतिभक्तप्रतिष्ठिताः ॥

तेषामप्यर्चनात्पुंसां जायंते सर्वसंपदः

॥२५॥

श्रुत्वाध्यायमिमं पुण्यं नरः श्रद्धासमन्वितः ॥

सर्वविघ्नान्समुत्सृज्य लभते वांछितं पदम्

॥१२६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे ढुंढिविनायकप्रादुर्भावो नाम सप्तपंचाशत्तमोऽध्यायः ॥ ५७