विश्वेश्वरलिंगमहिमाख्यः
व्यास उवाच
शृणु सूत यथा प्रोक्तं कुंभजे शरजन्मना ॥
देवदेवस्य चरितं विश्वेशस्य परात्मनः
॥१॥अगस्त्य उवाच
सेनानीः कथय त्वं मे ततो निर्वाणमंडपात् ॥
निर्गत्य देवो देवेंद्रैः सहितः किं चकार ह
॥२॥स्कंद उवाच
मुक्तिमंडपतः शंभुर्ब्रह्मविष्णुपुरोगमः ॥
शृंगारमंडपं प्राप्य यच्चकार वदामि तत्
॥३॥प्राङ्मुखस्तूपविश्येशः सहास्माभिः सहेशया ॥
ब्रह्मणाधिष्ठितः सव्ये वामपार्श्वेथ शार्ङ्गिणा
॥४॥वीज्यमानो महेंद्रेण ऋषिभिः परितो वृतः ॥
गणैः पृष्ठप्रदेशस्थैर्जोषं तिष्ठद्भिरादरात्
॥५॥उदायुधैः सेव्यमानश्चावसन्मानभूरिभिः ॥
ब्रह्मणे विष्णवे शंभुः पाणिमुत्क्षिप्य दक्षिणम्
॥६॥दर्शयामास देवेशो लिंगं पश्यत पश्यत ॥
इदमेव परं ज्योतिरिदमेव परात्परम्
॥७॥इदमेव हि मे रूपं स्थावरं चाति सिद्धिदम् ॥
एते पाशुपता सिद्धा आबाल ब्रह्मचारिणः
॥८॥जितेंद्रियास्तपोनिष्ठाः पंचार्थज्ञाननिर्मलाः ॥
भस्मकूटशया दाताः सुशीला ऊर्ध्वरेतसः
॥९॥लिंगार्चनरता नित्यमनन्येंद्रियमानसाः ॥
सदैव वारुणाग्नेय स्नानद्वय सुनिर्मलाः
॥१०॥कंदमूलफलाहाराः परतत्त्वार्पितेक्षणाः ॥
सत्यवंतो जितक्रोधा निर्मोहा निष्परिग्रहाः
॥११॥निरीहा निष्प्रपंचाश्च निरातंका निरामयाः ॥
निर्भगा निरुपायाश्च निःसंगा निर्मलाशयाः
॥१२॥निस्तीर्णोदग्रसंसारा निर्विकल्पा निरेनसः ॥
निर्द्वंद्वा निश्चितार्थाश्च निरहंकारवृत्तयः
॥१३॥सदैव मे महाप्रीता मत्पुत्रा मत्स्वरूपिणः ॥
एते पूज्या नमस्याश्च मद्बुद्ध्यामत्परायणैः
॥१४॥अर्चितेष्वेष्वहं प्रीतो भविष्यामि न संशयः ॥
अस्मिन्वैश्वेश्वरे क्षेत्रे संभोज्याः शिवयोगिनः
॥१५॥कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ॥
अयं विश्वेश्वरः साक्षात्स्थावरात्मा जगत्प्रभुः
॥१६॥सर्वेषां सर्वसिद्धीनां कर्ता भक्तिजुषामिह ॥
अहं कदाचिद्दृश्यः स्यामदृश्यः स्यां कदाचन
॥१७॥आनंदकानने चात्र स्वैरं तिष्ठामि देवताः ॥
अनुग्रहाय सर्वेषां भक्तानामिह सर्वदा
॥१८॥स्थास्यामि लिंगरूपेण चिंतितार्थफलप्रदः ॥
स्वयंभून्यस्वयंभूनि यानि लिंगानि सर्वतः ॥
तानि सर्वाणि चायांति द्रष्टुं लिंगमिदं सदा
॥१९॥अहं सर्वेषु लिंगेषु तिष्ठा्म्येव न संशयः ॥
परं त्वियं परामूर्तिर्मम लिंगस्वरूपिणी
॥२०॥येन लिंगमिदं दृष्टं श्रद्धया शुद्धचक्षुषा ॥
साक्षात्कारेण तेनाहं दृष्ट एव दिवौकसः
॥२१॥श्रवणादस्य लिंगस्य पातकं जन्मसंचितम् ॥
क्षणात्क्षयति शृण्वंतु देवा ऋषिगणैः सह
॥२२॥स्मरणादस्य लिंगस्य पापं जन्मद्वयार्जितम् ॥
अवश्यं नश्यति क्षिप्रं मम वाक्यान्न संशयः
॥२३॥एतल्लिंगं समुद्दिश्य गृहान्निष्क्रमणक्षणात् ॥
विलीयते महापापमपि जन्मत्रयार्जितम्
॥२४॥दर्शनादस्य लिंगस्य हयमेधशतोद्भवम् ॥
पुण्यं लभेत नियतं ममानुग्रहतोमराः
॥२५॥स्वयंभुवोस्य लिंगस्य मम विश्वेशितुः सुराः ॥
राजसूयसहस्रस्य फलं स्यात्स्पर्शमात्रतः
॥२६॥पुष्पमात्र प्रदानाच्च चुलुकोदकपूवर्कम् ॥
शतसौवर्णिकं पुण्यं लभते भक्तियोगतः
॥२७॥पूजामात्रं विधायास्य लिंगराजस्य भक्तितः ॥
सहस्रहेमकमलपूजाफलमवाप्यते
॥२८॥विधाय महती पूजां पंचामृतपुरःसराम् ॥
अस्य लिंगस्य लभते पुरुषार्थचतुष्टयम्
॥२९॥वस्त्रपूतजलैर्लिंगं स्नापयित्वा ममामराः ॥
लक्षाश्वमेधजनितं पुण्यमाप्नोति सत्तमः
॥३०॥सुगंधचंदनरसैर्लिंगमालिप्य भक्तितः ॥
आलिप्यते सुरस्त्रीभिः सुगंधैर्यक्षकर्दमैः
॥३१॥सामोद धूपदानैश्च दिव्यगंधाश्रयो भवेत् ॥
घृतदीपप्रबोधैश्च ज्योतीरूप विमानगः
॥३२॥कर्पूरवर्तिदीपेन सकृद्दत्तेन भक्तितः ॥
कर्पूरदेहगौरश्रीर्भवेद्भालविलोचनः
॥३३॥दत्त्वा नैवेद्यमात्रं तु सिक्थेसिक्थे युगंयुगम् ॥
कैलासाद्रौ वसेद्धीमान्महाभोगसमन्वितः
॥३४॥विश्वेशे परमान्नं यो दद्यात्साज्य सशर्करम् ॥
त्रैलोक्यं तर्पितं तेन सदेवपितृमानवम्
॥३५॥मुखवासं तु यो दद्याद्दर्पणं चारुचामरम् ॥
उल्लोचं सुखपर्यंकं तस्य पुण्यफलं महत्
॥३६॥संख्या सागररत्नानां कथंचित्कर्तुमिष्यते ॥
मुखवासादिदानस्य कः संख्यामत्र कारयेत्
॥३७॥पूजोपकरणद्रव्यं यो घंटा गडुकादिकम् ॥
भक्त्या मे भवने दद्यात्स वसेदत्र मेंतिके
॥३८॥यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात् ॥
तस्याग्रतो दिवारात्रं भवेत्तौर्यत्रिकं महत्
॥३९॥चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् ॥
यः सचित्रान्महाभोगान्भुंक्ते मत्पुरतः स्थितः
॥४०॥सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः ॥
त्रैलोक्यवंदितपदो जायते वसुधापतिः
॥४१॥यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते ॥
तस्य जन्मांतरे मोक्षो भवत्येव न संशयः
॥४२॥विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ ॥
विश्वेशशीलनं चित्ते यस्य तस्य जनिः कुतः
॥४३॥लिंगं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते ॥
स मे गणेषु गण्येत महापुण्यबलाश्रितः
॥४४॥नित्यं विश्वेश विश्वेश विश्वनाथेति यो जपेत् ॥
त्रिसंध्यं तं सुकृतिनं जपाम्यहमपि ध्रुवम्
॥१५॥ममापीदं महालिंगं सदा पूज्यतमं सुराः . ॥
तस्मात्सर्वप्रयत्नेन पूज्यं देवर्षि मानवैः
॥४६॥यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः ॥
कृतांतदूतैस्ते दृष्टास्तैः स्मृता गर्भवेदना
॥४७॥यैरिदं प्रणतं लिंगं प्रणतास्ते सुरासुरैः ॥
यस्यै केन प्रणामेन दिक्पालपदमल्पकम् ॥
दिक्पालपदतः पातः पातः शिवनतेर्नहि
॥४८॥शृण्वंतु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै ॥
न भूर्भुवः स्वर्गमहर्जनांतर्विश्वेशतुल्यं क्वचिदस्ति लिंगम्
॥४९॥न सत्यलोके न तपस्यहो सुरा वैकुंठकैलासरसातलेषु ॥
तीर्थं क्वचिद्वै मणिकर्णिकासमं लिंगं च विश्वेश्वरतुल्यमन्यतः
॥५०॥न विश्वनाथस्य समं हि लिंगं न तीर्थमन्यन्मणिकर्णिकातः ॥
तपोवनं कुत्रचिदस्ति नान्यच्छुभं ममानंदवनेन तुल्यम्
॥५१॥वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम् ॥
तत्रापि काचिन्मम सौख्यभूमिर्महापवित्रा मणिकर्णिकासौ
॥५२॥स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम् ॥
सव्येपसव्ये च कराः क्रमेण शतत्रयी यापि शतद्वयी च
॥५३॥हस्ताः शतं पंच सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम् ॥
सारस्त्रिलोक्याः परकोशभूमिर्यैः सेविता ते मम हृच्छया हि
॥५४॥अस्मिन्ममानंदवने यदेतल्लिंगं सुधाधाम सुधामधाम ॥
आसप्त पातालतलात्स्वयंभु समुत्थितं भक्तकृपावशेन
॥५५॥येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिंगं भजिष्यंति च हेतुवादैः ॥
तेषां हि दंडः पर एष एव नगर्भवासाद्विरमंति ते ध्रुवम्
॥५६॥यद्यद्धितं स्वस्य सदैव तत्तल्लिंगेत्र देयं मम भक्तिमद्भिः ॥
इहाप्यमुत्रापि न तस्य संक्षयो यथेह पापस्य कृतस्य पापिभिः
॥५७॥दूरस्थितैरप्यधिबुद्धिभिर्यैर्लिंगं समाराधि ममेदमत्र ॥
मयैव दत्तैः शुभवस्तुजातैर्निःश्रेयसः श्रीर्वसं(?)येत्सतस्तान्
॥५८॥शृणुष्व विष्णो शृणु सृष्टिकर्तः शृण्वंतु देवर्षिगणाः समस्ताः ॥
इदं हि लिंगं परसिद्धिदं सतां भेदो मनागत्र न मत्सकाशतः
॥५९॥अस्मिन्हि लिंगेऽखिलसिद्धिसाधने समर्पितं यैः सुकृतार्जितं वसु ॥
तेभ्योतिमात्राखिलसौख्यसाधनं ददामि निर्वाणपदं सुनिर्भयम्
॥६०॥उत्क्षिप्य बाहुं त्वसकृद्ब्रवीमि त्रयीमयेऽस्मिंस्त्रयमेव सारम् ॥
विश्वेश लिंगं मणिकर्णिकांबु काशीपुरी सत्यमिदं त्रिसत्यम्
॥६१॥उत्थाय देवोथ स शक्तिरीशस्तस्मिन्हि लिंगे कृतचारुपूजः ॥
ययौ लयं ते च सुरा जयेति जयेति चोक्त्वा नुनुवुस्तमीशम्
॥६२॥स्कंद उवाच
क्षेत्रस्य मैत्रावरुणे विमुक्तस्य महामते ॥
प्रभावस्यैकदेशोयं कथितः कल्मषापहः
॥६३॥तवाग्रे तु यथाबुद्धि काशीविश्लेषतापि नः ॥
अचिरेणैव कालेन काशीं प्राप्स्यस्यनुत्तमाम्
॥६४॥अस्ताचलस्य शिखरं प्राप्तवानेष भानुमान् ॥
तवापि हि ममाप्येष मौनस्य समयोऽभवत्
॥६५॥व्यास उवाच
श्रुत्वेति स मुनिः सूत संध्योपास्त्यै विनिर्गतः ॥
प्रणम्यौ मेयमसकृल्लोपामुद्रा समन्वितः
॥६६॥रहस्यं परिविज्ञाय क्षेत्रस्य शशिमौलिनः ॥
अगस्त्यो निश्चितमनाः शिवध्यानपरोभवत्
॥६७॥आनंदकाननस्येह महिमानं महत्तरम् ॥
कोत्र वर्णयितुं शक्तः सूत वर्षशतैरपि
॥६८॥यथा देव्यै समाख्यायि शिवेन परमात्मना ॥
तथा स्कंदेन कथितं माहात्म्यं कुंभसंभवे
॥६९॥तवाग्रे च समाख्यातं शुकादीनां च सत्तम ॥
इदानीं प्रष्टुकामोसि किं तत्पृच्छ वदामि ते
॥७०॥श्रुत्वाध्यायमिमं पुण्यं सर्वकल्मषनाशनम् ॥
समस्तचिंतितफलप्रदं मर्त्यो भवेत्कृती
॥७१॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वेश्वरलिंगमहिमाख्यो नाम नवनवतितमोऽध्यायः ॥ ९९ ॥