इंद्राग्निलोकवर्णनम्
शिवशर्मोवाच
रमयंती मनोतीव केयं कस्येयमीशितुः ॥
नयनानंदसंदोहदायिनीपूरनुत्तमा
॥१॥गणावूचतुः
शिवशर्मन्महाभागसुतीर्थफलितद्रुम ॥
लोकोऽत्र रमते विप्र सहसाक्षपुरी त्वियम्
॥२॥तपोबलेन महता विहिता विश्वकमर्णा ॥
दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत्
॥३॥यदाकलानिधिः क्वापि दर्शे ऽदृश्यत्वमावहेत् ॥
तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत्
॥४॥यदच्छभित्तौ वीक्ष्य स्वमन्ययोपिद्विशंकिता ॥
मुग्धानाशुविशेच्चित्रमपिस्वांचित्रशालिकाम्
॥५॥हर्म्येषु नीलमणिभिर्निर्मितेष्वत्रनिर्भयम् ॥
स्वनीलिमानमाधाय तमोहःस्वपि तिष्ठति
॥६॥चंद्रकांतशिलाजालस्रुतमात्रामलंजलम् ॥
तत्र चादाय कलशैर्नेच्छंत्यन्यज्जलं जनाः
॥७॥कुविंदा न च संत्यत्र न च ते पश्यतो हराः ॥
चैलान्यलंकृतीरत्र यतः कल्पद्रुमोर्पयेत्
॥८॥गणका नात्र विद्यंते चिंताविद्याविशारदाः ॥
यतश्चिकेति सर्वेषां चिंता चिंतामणिर्द्रुतम्
॥९॥सूपकारा न संत्यत्र रसकर्म विचक्षणाः ॥
दुग्धे सर्वरसानेका कामधेनुरतोयतः
॥१०॥कीर्तिरुच्चैःश्रवा यस्य सर्वतो वाजिराजिषु ॥
रत्नमुच्चैःश्रवाः सोत्र हयानां पौरुषाधिकः
॥११॥ऐरावतो दंतिवरश्चतुर्दंतोत्र राजते ॥
द्वितीय इव कैलासो जंगमस्फटिकोज्ज्वलः
॥१२॥तरुरत्नंपारिजातः स्त्रीरत्नं सोर्वशी त्विह ॥
नंदनं वनरत्नं च रत्नं मंदाकिनी ह्यपाम्
॥१३॥त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता ॥
प्रतीक्षते साऽवसरं सेवायै प्रत्यहंत्विह
॥१४॥स्वर्गेष्विंद्रपदादन्यन्न विशिष्येत किंचन ॥
यद्यत्त्रिलोक्यामैश्वर्यं न तत्तुल्यमनेन हि
॥१५॥अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् ॥
किं तेन तुल्यमन्यत्स्यात्पवित्रमथवा महत
॥१६॥अर्चिष्मती संयमिनी पुण्यवत्यमलावती ॥
गंधवत्यलकेशी च नैतत्तुल्या महर्धिभिः
॥१७॥अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः ॥
शतमन्युरयं देवो नामान्येतानि नामतः
॥१८॥सप्तापि लोकपाला ये त एनं समुपासते ॥
नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते
॥१९॥एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते ॥
पराजयान्महेंद्रस्य त्रैलोक्यं स्यात्पराजितम्
॥२०॥दनुजा मनुजा दैत्यास्तपस्यंत्युग्रसंयमाः ॥
गंधर्व यक्षरक्षांसि महेंद्रपदलिप्सवः
॥२१॥सगराद्या महीपाला वाजिमेधविधायकाः ॥
कृतवंतो महायत्नं शक्रैश्वर्यजिघृक्षवः
॥२२॥निष्प्रत्यूहं क्रतुशतं यः कश्चित्कुरुतेऽवनौ ॥
जितेंद्रियोमरावत्यां स प्राप्नोति पुलोमजाम्
॥२३॥असमाप्तक्रतुशता वसंत्यत्र महीभुजः ॥
ज्योतिष्टोमादिभिर्यागैर्ये यजंत्यपि ते द्विजाः
॥२४॥तुलापुरुषदानादि महादानानि षोडश ॥
ये यच्छंत्यमलात्मानस्ते लभंतेऽमरावतीम्
॥२५॥अक्लीबवादिनो धीराः संग्रामेष्वपराङ्मुखाः ॥
विक्रांता वीरशयने तेऽत्र तिष्ठंति भूभुजः
॥२६॥इत्युद्देशात्समाख्याता महेंद्रनगरी स्थितिः ॥
यायजूका वसंत्यत्र यज्ञविद्याविशारदाः
॥२७॥इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् ॥
जातवेदसि ये भक्तास्ते वसंत्यत्र सुव्रताः
॥२८॥अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेंद्रियाः ॥
स्त्रियो वा सत्त्वसंपन्नास्ते सर्वे अग्नितेजसः
॥२९॥अग्निहोत्ररता विप्रास्तथाग्निब्रह्मचारिणः ॥
पंचाग्निव्रतिनो ये वै तेऽग्निलोकेग्नितेजसः
॥३०॥शीते शीतापनुत्यै यस्त्विध्मभारान्प्रयच्छति ॥
कुर्यादग्निष्टिकां वाऽथ स वसेदग्निसन्निधौ
॥३१॥अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः ॥
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते
॥३२॥जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम् ॥
मंदाग्नये स पुण्यात्मा वह्निलोके वसेच्चिरम्
॥३३॥यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा ॥
यथाशक्ति प्रदद्याद्यो ह्यर्चिष्मत्यांवसेत्स वै
॥३४॥अग्निरेको द्विजातीनां निःश्रेयसकरः परः ॥
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम्
॥३५॥अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ॥
पावनानि भवंत्येव तस्माद्यः पावकः स्मृतः
॥३६॥अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम् ॥
अन्यत्र बध्नाति रतिं ब्राह्मणो न स वेदवित्
॥३७॥अंतरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः ॥
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम्
॥३८॥तैजसी शांभवी मूर्तिः प्रत्यक्षा दहनात्मिका ॥
कर्त्री हंत्री पालयित्री विनैनां किं विलोक्यते
॥३९॥चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः ॥
अंधं तमोमये लोके विनैनं कः प्रकाशकः
॥४०॥धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम् ॥
एतद्भुक्तं निषेवंते सर्वे दिवि दिवौकसः
॥४१॥शिवशर्मोवाच
कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम् ॥
आग्नेयं लब्धमेतेन ब्रूतमेतन्ममाग्रतः
॥४२॥गणावूचतुः
आकर्णय महाप्राज्ञ वर्णयावो यथातथम् ॥
योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी
॥४३॥नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ॥
पुरारिभक्तः पुण्यात्माऽभवद्विश्वानरो मुनिः
॥४४॥ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा ॥
शांडिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्वशी
॥४५॥विज्ञाताखिलशास्त्रार्थो लौकिकाचारचंचुरः ॥
कदाचिच्चिंतयामास हृदि ध्यात्वा महेश्वरम्
॥४६॥चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम् ॥
यस्मिन्प्राप्नोति संक्षुण्णे परत्रेह च वा सुखम्
॥४७॥इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत् ॥
इत्थं सर्वं समालोड्य गार्हस्थ्यं प्रशशंस ह
॥४८॥ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ॥
एषामाधारभूतोसौ गृहस्थो नान्यथेति च
॥४९॥देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते ॥
गृहस्थः प्रत्यहं यस्मात्तस्माच्छ्रेष्ठो गृहाश्रमी
॥५०॥अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही ॥
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते
॥५१॥अस्नाताशी मलं भुंक्ते त्वजपी पूयशोणितम् ॥
अहुताशी कृमीन्भुंक्तेप्यदत्त्वाविड्विभोजनः
॥५२॥ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम् ॥
स्वभावचपले चित्ते क्व तादृग्ब्रह्मचारिणि
॥५३॥हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक् ॥
संकल्पयति चित्ते चेत्कृतमप्यकृतं तदा
॥५४॥परदारपरित्यागात्स्वदारपरितुष्टितः ॥
ऋतुकालाभिगामित्वाद्ब्रह्मचारी गृहीरितः
॥५५॥विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः ॥
साग्निः सदारः स गृही वानप्रस्थाद्विशिष्यते
॥५६॥वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत् ॥
स भवेदुभयभ्रष्टो वानप्रस्थो न वा गृही
॥५७॥अयाचितोपस्थितया यो वृत्त्या वर्तते गृही ॥
येन केनापि संतुष्टो भिक्षुकात्स विशिष्यते
॥५८॥प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति ॥
अशनेषु न संतुष्टः स यतिः पतितो भवेत्
॥५९॥गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः ॥
उद्ववाह विधानेन स्वोचितां कुलकन्यकाम्
॥६०॥अग्निशुश्रूषणरतः पंचयज्ञपरायणः ॥
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः
॥६१॥धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः ॥
परस्परमसंकोचं दंपत्योरानुकूल्यतः
॥६२॥पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकांडवित् ॥
मध्यंदिने मनुष्याणां पितॄणामपराह्नके
॥६३॥एवं बहुतिथे काले गते तस्याग्रजन्मनः ॥
भार्या शुचिष्मती नाम कामपत्नी वसुव्रता
॥६४॥अपश्यंत्यंकुरमपि संततेः स्वर्गसाधनम् ॥
विज्ञाय शंकंरं कांतं प्रणिपत्य व्यजिज्ञपत्
॥६५॥शुचिष्मत्युवाच
आर्यपुत्रार्यधिषण प्राणनाथ प्रियव्रत ॥
न दुर्लभं ममास्तीह किंचित्त्वच्चरणार्चनात्
॥६६॥ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः ॥
अलंकृत्य मया भुक्ताः प्रसंगाद्वच्मि तान्यपि
॥६७॥सुवासांसि सुवासाश्च सुशय्या सुनितंबिनी ॥
स्रक्तांबूलान्नपानाश्च अष्टौ भोगाः स्वधर्मिणाम्
॥६८॥एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम् ॥
गृहस्थानां समुचितं तत्त्वं दातुमिहार्हसि
॥६९॥विश्वानर उवाच
किमदेयं हि सुश्रोणि तव प्रियहितैषिणि ॥
तत्प्रार्थय महाभागे प्रयच्छाम्यविलंबितम्
॥७०॥महेशितुः प्रसादेन मम किंचिन्न दुर्ल्भम् ॥
इहामुत्र च कल्याणि सर्वकल्याणकारिणः
॥७१॥इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता ॥
उवाच हृष्टवदना यदि देयो वरो मम
॥७२॥वरयोग्यास्मि चेन्नाथ नान्यं वरमहं वृणे ॥
महेशसदृशं पुत्रं देहि माहेश्वरानव
॥७३॥इति तस्या वचः श्रुत्वा शुचिष्मत्याः शुचिव्रतः ॥
क्षणं समाधिमाधाय हृ(?)द्येतत्समचिंतयत्
॥७४॥अहो किमेतया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥
मनोरथपथाद्दूरमस्तुवा स हि सर्वकृत्
॥७५॥तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शंभुना ॥
व्याहृतं कोऽन्यथाकर्तुमुत्सहेत भवेदिदम्
॥७६॥ततः प्रोवाच तां पत्नीमेकपत्निव्रते स्थितः ॥
विश्वानरमुनिः श्रीमानिति कांते भविष्यति
॥७७॥इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः ॥
यत्र विश्वेश्वरः साक्षात्काशीनाथोधितिष्ठति
॥७८॥प्राप्य वाराणसीं तूर्णं दृष्ट्वाथ मणिकर्णिकाम् ॥
तत्याज तापत्रितयमपिजन्मशतार्जितम्
॥७९॥दृष्ट्वा सर्वाणि लिंगानि विश्वेश प्रमुखानि च ॥
स्नात्वा सर्वेषु कुंडेषु वापीकूटसरःसु च
॥८०॥नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ॥
संपूज्य कालराजं च भैरवं पापभक्षणम्
॥८१॥दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥
आदिकेशवमुख्यांश्च केशवान्परितोष्य च
॥८२॥लोलार्कमुख्य सूर्यांश्च प्रणम्य च पुनः पुनः ॥
कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतंद्रितः
॥८३॥सहस्रभोजनाद्यैश्च यतीन्विप्रान्प्रतर्प्य च ॥
महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः
॥८४॥असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ॥
यत्र निश्चलतामेति तपस्तनयकाम्यया
॥८५॥श्रीमदोंकारनाथं वा कृत्तिवासेश्वरं किमु ॥
कालेशं वृद्धकालेशं कलशेश्वरमेव च
॥८६॥केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥
ज्येष्ठेशं जंबुकेशं वा जैगीषव्येश्वरं तु वा
॥८७॥दशाश्वमेधमीशानं द्रुमि चंडेशमेव च ॥
दृक्केशं गरुडेशं च गोकर्णेशं गणेश्वरम्
॥८८॥ढुंढ्याशागजसिद्धाख्यं धर्मेशं तारकेश्वरम् ॥
नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम्
॥८९॥पर्वतेशं पशुपतिं ब्रह्मेशं मध्यमेश्वरम् ॥
बृहस्पतीश्वरं वाथ विभांडेश्वरमेव च
॥९०॥भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ॥
मरुत्तेशं तु मोक्षेशं गंगेशं नर्मदेश्वरम्
॥९१॥मार्कंडं मणिकर्णीश रत्नेश्वरमथापि वा ॥
अथवा योगिनीपीठं साधकस्यैव सिद्धिदम्
॥९२॥यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ॥
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव च
॥९३॥व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम् ॥
वरुणेशं विधीशं वा वसिष्ठेशं शनीश्वरम्
॥९४॥सोमेश्वरं किमिन्द्रेशं स्वर्लीनं संगमेश्वरम् ॥
हरिश्चंद्रेश्वरं किं वा हरिकेशेश्वरं तु वा
॥९५॥त्रिसंध्येशं महादेवमुपशांति शिवं तथा ॥
भवानीशं कपर्दीशं कंदुकेशं मखेश्वरम्
॥९६॥मित्रावरुणसंज्ञं वा किमेषामाशुपुत्रदम् ॥
क्षणं विचार्य स मुनिरिति विश्वानरः सुधीः
॥९७॥आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः ॥
सिद्धैः संसेवितं लिंगं सर्वसिद्धिकरं परम्
॥९८॥दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत् ॥
उद्घाटितं सदैवास्ते स्वर्गद्वारं हि यत्र वै
॥९९॥दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् ॥
पञ्चमुद्रे महापीठे सिद्धिदे सर्वजंतुषु
॥१००॥यत्र सा विकटा देवी प्रकटा सिद्धिरूपिणी ॥
यत्र स्थितानां भक्तानां साक्षात्सिद्धिविनायकः
॥१॥निर्धूय विघ्नजालानि सर्वाः सिद्धीः प्रयच्छति ॥
अविमुक्ते महाक्षेत्रे सिद्धिक्षेत्रं हि तत्परम्
॥२॥यत्र वीरेश्वरं लिंगं महागुह्यतमं मतम् ॥
तिलांतरापि नो काश्यां भूमिर्लिंगं विना क्वचित्
॥३॥परं वीरेश सदृशं न लिंगं त्वाशुसिद्धिदम् ॥
धर्मदं चार्थदं सम्यक्कामदं मोक्षदं तथा
॥४॥यथा वीरेश्वरं लिंगं काश्यां नान्यत्तथा धुवम् ॥
पंचस्वरोत्र गंधर्वः परां सिद्धिमगात्पुरा
॥५॥विद्याधरः स्वच्छविद्यो वसुपूर्णश्च यक्षराट् ॥
नृत्यंती निजभावेन पुराह्यत्राप्सरोवरा
॥६॥सदेहा कोकिलालापा लिंगमध्ये लयं गता ॥
ऋषिर्वेदशिरा नाम जपन्वै शतरुद्रियम्
॥७॥मन्त्रज्योतिर्मये लिंगे सशरीरो विशत्पुरा ॥
चन्द्रमौलि भरद्वाजावुभौ पाशुपतोत्तमौ
॥८॥वीरेश्वरं समभ्यर्च्य गायमानौ लयं गतौ ॥
शंखचूडो हि नागेंद्रः स्वफणामणिभिर्निशि
॥९॥षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह ॥
किन्नरी हंसपद्यत्र भर्त्रा वेणुप्रियेण वै
॥११०॥गायंती सुस्वरं याता परां निर्वाणभूमिकाम् ॥
असंख्याताः सहस्राणि सिद्धाः सिद्धिमिहागताः
॥११॥सिद्धलिंगमिहाख्यातं तस्माद्वीरेश्वरं परम्
॥१२॥वीरेश्वरं समाराध्य भ्रष्टराज्यो जयद्रथः ॥
हत्वा रिपूनस्खलितं राज्यं प्राप विदेहजः
॥१३॥विदूरथोऽथ नृपतिरपुत्रः पुत्रवानभूत् ॥
वीरेश्वरप्रसादेन मगधाधिपतिर्वशी
॥१४॥वसुदत्तोत्र च वणिक्सुतां वसुसुतोपमाम् ॥
अब्दमभ्यर्च्य वीरेशं रत्नदत्तोप्यवाप्तवान्
॥१५॥अहमप्यत्र वीरेशं समाराध्यत्रिकालतः ॥
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया
॥१६॥इति कृत्वा मतिं धीरो विप्रो विश्वानरः कृती ॥
चन्द्र्कूपजलैः स्नात्वा जग्राह नियमं व्रती
॥१७॥एकाहारोभवन्मासं मासं नक्ताशनोभवत ॥
अयाचिताशनो मासं मासं त्यक्ताशनः पुनः
॥१८॥पयोव्रतोभवन्मासं मासं शाकफलाशनः ॥
मासं मुष्टितिलाहारो मासं पानीयभोजनः
॥१९॥पंचगव्याशनो मासं मासं चांद्रायणव्रती ॥
मासं कुशाग्रजलभुङ्मासं श्वसनभक्षणः
॥१२०॥अथ त्रयोदशे मासि स्नात्वा त्रिपथगांभसि ॥
प्रत्यूष एव वीरेशं यावदायाति स द्विजः
॥२१॥तावद्विलोकयांचक्रे मध्ये लिंगं तपोधनः ॥
विभूतिभूषितं बालमष्टवर्षाकृतिं शुभम्
॥२२॥आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ॥
चारुपिंगजटामौलिं नग्नं प्रहसिताननम्
॥२३॥शैशवोचितनेपथ्यधारिणं चित्तहारिणम् ॥
पठंतं श्रुतिसूक्तानि हसंतं च स्वलीलया
॥२४॥तमालोक्य स्तुतिं चक्रे रोमकंचुकितो मुदा ॥
प्रोच्चरद्गद्गदालापो नमोस्त्विति पुनः पुनः
॥२५॥विश्वानर उवाच
एकब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेहनानास्ति किंचित् ॥
एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम्
॥२६॥एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोस्य रूपः ॥
यद्वत्प्रत्यप्स्वर्क एकोप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये
॥२७॥रज्जौ सर्पः शुक्तिकायां च रूप्यंनैरःपूरस्तन्मृगाख्ये मरीचौ ॥
यद्वत्तद्वद्विष्वगेष प्रपंचो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम्
॥२८॥तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौप्रसादः ॥
पुष्पे गंधो दुग्धमध्येपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये
॥२९॥शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ॥
व्यक्षः पश्येस्त्वं रसज्ञोप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये
॥१३०॥नोवेदस्त्वामीश साक्षाद्धिवेदनो वा विष्णुर्नोविधाताऽखिलस्य ॥
नो योगींद्रानेंद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये
॥३१॥नो ते गोत्रं नेशजन्मापिनाख्यानो वा रूपं नैव शीलं न देशः ॥
इत्थंभूतोपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम्
॥३२॥त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशांतः ॥
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किंनास्यतस्त्वां नतोस्मि
॥३३॥स्तुत्वेति भूमौ निपपात विप्रः स दंडवद्यावदतीव हृष्टः ॥
तावत्स बालोखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि
॥३४॥तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ॥
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो
॥३५॥सर्वांतरात्मा भगवान्सर्वः सर्वप्रदो भवान् ॥
याच्ञां प्रतिनियुंक्ते मां किमीशो दैन्यकारिणीम्
॥३६॥इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ॥
शुचेः शुचिव्रतस्याशु शुचिस्मित्वाब्रवीच्छिशुः
॥३७॥बाल उवाच
त्वया शुचे शुचिष्मत्यां योभिलाषः कृतो हृदि ॥
अचिरेणैवकालेन स भविष्यत्यसंशयः
॥३८॥तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ॥
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः
॥३९॥अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ॥
अब्दं त्रिकालपठनात्कामदं शिवसंनिधौ
॥१४०॥एतत्स्तोत्रस्य पठनं पुत्र पौत्र धनप्रदम् ॥
सर्वशांतिकरं चापि सर्वापत्परिनाशनम्
॥४१॥स्वर्गापवर्ग संपत्तिकारकं नात्र संशयः ॥
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांभवम्
॥४२॥वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ॥
वैशाखे कार्तिके माघे विशेषनियमैर्युतः
॥४३॥यः पठेत्स्नानसमये स लभेत्सकलं फलम् ॥
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः
॥४४॥तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ॥
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित्
॥४५॥गोपनीयं प्रयत्नेन महावंध्याप्रसूतिकृत् ॥
स्त्रिया वा पुरुषेणापि नियमाल्लिंग संनिधौ
॥४६॥अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ॥
इत्युक्त्वांतर्दधे बालः सोपि विप्रो गृहं गतः
॥१४७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे इंद्राग्निलोकवर्णनंनाम दशमोऽध्यायः ॥ १० ॥