मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३७

3
काशीखण्डः · 37

स्त्रीलक्षणवर्णनम्

स्कंद उवाच

सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि ॥

अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत्

॥१॥

वपुरावर्तगंधाश्चच्छाया सत्वं स्वरो गतिः ॥

वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका

॥२॥

आपादतलमारभ्य यावन्मौलिरुहं क्रमात् ॥

शुभाशुभानि वक्ष्यामि लक्षणानि मुने शृणु

॥३॥

आदौ पादतलं रेखास्ततोंगुष्ठांगुली नखाः ॥

पृष्ठगुल्फद्वयं पार्ष्णी जंघे रोमाणि जानुनी

॥४॥

ऊरू कटी नितंबस्फिग्भगो जघन बस्तिके ॥

नाभिः कुक्षिद्वयं पार्श्वोदरमध्य वलित्रयम्

॥५॥

रोमाली हृदयं वक्षो वक्षोजद्वयचूचुकम् ॥

जत्रुस्कंधां सकक्षादोर्मणिबंध करद्वयम्

॥६॥

पाणिपृष्ठं पाणितलं रेखांगुष्ठांगुली नखाः ॥

पृष्ठिः कृकाटिका कंठे चिबुकं च हनुद्वयम्

॥७॥

कपोलौ वक्त्रमधरोत्तरोष्ठौ द्विजजिह्विकाः ॥

घंटिका तालुहसितं नासिकाक्षुतमक्षिणी

॥८॥

पक्ष्म भ्रूकर्णभालानि मौलि सीमंतमौलिजाः ॥

षष्टिः षडुत्तरायोषिदंगलक्षणसत्खनिः

॥९॥

स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ॥

अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम्

॥१०॥

रूक्षं विवर्णं परुषं खंडितप्रतिबिंबकम् ॥

शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम्

॥११॥

चक्र स्वस्तिक शंखाब्ज ध्वजमीनातपत्रवत् ॥

यस्याः पादतले रेखा सा भवेत्क्षितिपांगना

॥१२॥

भवेदखंडभोगायोर्द्ध्वामध्यांगुलिसंगता ॥

रेखाखु सर्पकाकाभा दुःखदारिद्र्यसूचिका

॥१३॥

उन्नतो मांसलोंगुष्ठो वर्तुलोतुलभोगदः ॥

वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभंजकः

॥१४॥

विधवा विपुलेन स्याद्दीर्घांगुष्ठेन दुर्भगा ॥

मृदवोंगुलयः शस्ता घनावृत्ताः समुन्नताः

॥१५॥

दीर्घांगुलीभिः कुलटा कृशाभिरतिनिर्धना ॥

ह्रस्वायुष्या च ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी

॥१६॥

चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ॥

परस्परं समारूढाः पादांगुल्यो भवंति हि

॥१७॥

हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् ॥

यस्याः पथि समायांत्या रजोभूमेः समुच्छलेत्

॥१८॥

सा पांसुला प्रजायेत कुलत्रयविनाशिनी ॥

यस्याः कनिष्ठिका भूमिं न गच्छंत्याः परिस्पृशेत्

॥१९॥

सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् ॥

अनामिका च मध्या च यस्या भूमिं न संस्पृशेत्

॥२०॥

पतिद्वयं निहंत्याद्या द्वितीया च पतित्रयम् ॥

पतिहीनत्वकारिण्यौ हीने ते द्वे इमे यदि

॥२१॥

प्रदेशिनी भवेद्यस्या अंगुष्ठाव्यतिरेकिणी ॥

कन्यैव कुलटा सा स्यादेष एव विनिश्चयः

॥२२॥

स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः

॥२३॥

राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ॥

अस्वेदमशिराढ्यं च मसृणं मृदुमांसलम्

॥२४॥

दरिद्रा मध्यनम्रेण शिरालेन सदाध्वगा ॥

रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा

॥२५॥

गूढौ गुल्फौ शिवायोक्तावशिरालौ सुवर्तुलौ ॥

स्थपुटौ शिथिलौ दृश्यौ स्यातां दौर्भाग्यसूचकौ

॥२६॥

समपार्ष्णिः शुभा नारी पृथुपार्ष्णिश्च दुर्भगा ॥

कुलटोन्नतपार्ष्णि स्याद्दीर्घपार्ष्णिश्च दुःखभाक्

॥२७॥

रोमहीने समे स्निग्धे यज्जंघे क्रमवर्तुले ॥

सा राजपत्नी भवति विशिरेसुमनोहरे

॥२८॥

एकरोमा राजपत्नी द्विरोमा च सुखावहा ॥

त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक्

॥२९॥

वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ॥

निर्मांसं स्वैरचारिण्या दरिद्रा याश्च विश्लथम्

॥३०॥

विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ॥

सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः

॥३१॥

वैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि ॥

मध्यच्छिद्रैर्महादुःखं दारिद्र्यं कठिनत्वचैः

॥३२॥

चतुर्भिरंगुलैः शस्ता कटिर्विंशतिसंयुतैः ॥

समुन्नतनितंबाढ्या चतुरस्रा मृगीदृशाम्

॥३३॥

विनता चिपिटा दीर्घा निर्मांसासंकटाकटिः ॥

ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचिका

॥३४॥

नितंबबिंबो नारीणामुन्नतो मांसलः पृथुः ॥

महाभोगाय संप्रोक्तस्तदन्योऽशर्मणे मतः

॥३५॥

कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ ॥

स्फिचौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ

॥३६॥

शुभः कमठपृष्ठाभो गजस्कंधोपमो भगः ॥

वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः

॥३७॥

आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ॥

तुंगः कमलपर्णाभः शुभोश्वत्थदलाकृतिः

॥३८॥

कुरंगखुररूपोयश्चुल्लिकोदरसन्निभः ॥

रोमशो विवृतास्यश्च दृश्यनासोतिदुर्भगः

॥३९॥

शंखावर्तो भगो यस्याः सा गर्भमिह नेच्छति ॥

चिपिटः खर्पराकारः किंकरी पददो भगः

॥४०॥

वंशवेतसपत्राभो गजरोमोच्चनासिकः ॥

विकटः कुटिलाकारो लंबगल्लस्तथाऽशुभः

॥४१॥

भगस्य भालं जघनं विस्तीर्णं तुंगमांसलम् ॥

मृदुलं मृदुलोमाढ्यं दक्षिणावर्तमीडितम्

॥४२॥

वामावर्तं च निर्मांसं भुग्नवैधव्यसूचकम् ॥

संकटस्थपुटं रूक्षं जघनं दुःखदं सदा

॥४३॥

बस्तिः प्रशस्ता विपुला मृद्वीस्तोकसमुन्नता ॥

रोमशा च शिराला च रेखांका नैव शोभना

॥४४॥

गंभीरा दक्षिणावर्ता नाभी स्यात्सुखसंपदे ॥

वामावर्ता समुत्ताना व्यक्तग्रंथिर्न शोभना

॥४५॥

सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ॥

क्षितीशं जनयेत्पुत्रं मंडूकाभेन कुक्षिणा

॥४६॥

उन्नतेन वलीभाजा सावर्तेनापि कुक्षिणा ॥

वंध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह

॥४७॥

समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः ॥

पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम्

॥४८॥

यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते ॥

निरपत्या च दुःशीला सा भवेद्दुःखशेवधिः

॥४९॥

उदरेणातितुच्छेन विशिरेण मृदुत्वचा ॥

योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी

॥५०॥

कुंभाकारं दरिद्राया जठरं च मृदंगवत् ॥

कूष्मांडाभं यवाभं च दुष्पूरं जायते स्त्रियाः

॥५१॥

सुविशालोदरी नारी निरपत्या च दुर्भगा ॥

प्रलंबजठरा हंति श्वशुरं चापि देवरम्

॥५२॥

मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया ॥

ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः

॥५३॥

कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका ॥

चौर वैधव्य दौर्भाग्यं विदध्यादिह योषिताम्

॥५४॥

निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम् ॥

ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत्

॥५५॥

विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा ॥

उद्भिन्नरोमहृदया पतिं हंति विनिश्चितम्

॥५६॥

अष्टादशांगुलततमुरः पीवरमुन्नतम् ॥

सुखाय दुःखाय भवेद्रोमशं विषमं पृथु

॥५७॥

घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ॥

स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ

॥५८॥

दक्षिणोन्नत वक्षोजा पुत्रिणी त्वग्रणीर्मता ॥

वामोन्नतकुचा सूते कन्यां सौभाग्यसुंदरीम्

॥५९॥

अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ॥

पीवरास्यौ सांतरालौ पृथूपांतौ न शोभनौ

॥६०॥

मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ॥

सुखदौ पूर्वकाले तु पश्चादत्यंत दुःखदौ

॥६१॥

सुदृढं चूचुकयुगं शस्तं श्यामं सुवर्तुलम् ॥

अंतर्मग्नं च दीर्घं च कृशं क्लेशाय जायते

॥६२॥

पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ॥

श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यां दरिद्रिणी

॥६३॥

अबद्धावनतौ स्कंधावदीर्घावकृशौ शुभौ ॥

वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्य वैधव्यसूचकौ

॥६४॥

निगूढसंधी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ॥

वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ

॥६५॥

कक्षेसु सूक्ष्मरोमे तु तुंगे स्निग्धे च मांसले ॥

शस्तेन शस्ते गंभीरे शिराले स्वेदमेदुरे

॥६६॥

स्यातां दोषौ सुनिर्दोषौ गूढास्थि ग्रंथिकोमलौ ॥

विशिरौ च विरोमाणौ सरलौ हरिणीदृशाम्

॥६७॥

वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ ॥

परिक्लेशाय नारीणां परिदृश्यशिरौ भुजौ

॥६८॥

अंभोज मुकुलाकारमंगुष्ठांगुलिसंमुखम् ॥

हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते

॥६९॥

मृदुमध्योन्नतं रक्तं तलं पाण्योररंध्रकम् ॥

प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभश्रियम्

॥७०॥

विधवा बहुरेखेण विरेखेण दरिद्रिणी ॥

भिक्षुकी सुशिराढ्येन नारी करतलेन वै

॥७१॥

विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम् ॥

वैधव्यहेतुरोमाढ्यं निर्मांसं स्नायुमत्त्यजेत्

॥७२॥

रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ॥

कररेखांगना याः स्याच्छुभा भाग्यानुसारतः

॥७३॥

मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा ॥

पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम्

॥७४॥

चक्रवर्तिस्त्रियाः पाणौ नंद्यावर्तः प्रदक्षिणः ॥

शंखातपत्रक मठा नृपमातृत्वसूचकाः

॥७५॥

तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके ॥

गजवाजिवृषाकाराः करे वामे मृगीदृशाम्

॥७६॥

रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम् ॥

कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा

॥७७॥

चामरांकुशकोदंडै राजपत्नी भवेद्ध्रुवम् ॥

अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम्

॥७८॥

यदि सा पतिहंत्री स्याद्दूरतस्तां त्यजेत्सुधीः ॥

त्रिशूलासिगदाशक्ति दुंदुभ्याकृति रेखया ॥

नितंबिनी कीर्तिमती त्यागेन पृथिवीतले

॥७९॥

कंक जंबूक मंडूक वृक वृश्चिक भोगिनः ॥

रासभोष्ट्र बिडालाः स्युः करस्था दुःखदाः स्त्रियाः

॥८०॥

शुभदः सरलोंगुष्ठो वृत्तो वृत्तनखो मृदुः

॥८१॥

अंगुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः ॥

चिपिटाःस्थपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः

॥८२॥

अतिह्रस्वाः कृशा वक्रा विरला रोगहेतुकाः ॥

दुःखायांगुलयः स्त्रीणां बहुपर्वसमन्विताः

॥८३॥

अरुणाः सशिखास्तुंगाः करजाः सुदृशांशुभाः ॥

निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यदायकाः

॥८४॥

नखेषु बिंदवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः ॥

पुरुषा अपि जायंते दुःखिनः पुष्पितैर्नखैः

॥८५॥

अंतर्निमग्नवंशास्थिः पृष्ठिः स्यान्मांसला शुभा ॥

पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम्

॥८६॥

भुग्नेन विनतेनापि सशिरेणापि दुःखिता ॥

ऋज्वी कृकाटिका श्रेष्ठा समांसा च समुन्नता

॥८७॥

शुष्का शिराला रोमाढ्या विशाला कुटिलाशुभा ॥

मांसलो वर्तुलः कंठः प्रशस्तश्चतुरंगुलः

॥८८॥

शस्ता ग्रीवा त्रिरेखांका त्वव्यक्तास्थिः सुसंहता ॥

निर्मांसा चिपिटा दीर्घास्थपुटा न शुभप्रदा

॥८९॥

स्थूलग्रीवा च विधवा वक्रग्रीवा च किंकरी ॥

वंध्या द्विचिपिटग्रीवा ह्रस्वग्रीवा च निःसुता

॥९०॥

चिबुकंद्वयंगुलं शस्तं वृत्तं पीनं सुकोमलम् ॥

स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत्

॥९१॥

हनुश्चिबुकसंलग्ना निर्लोमा सुघनाशुभा ॥

वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा

॥९२॥

शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ॥

रोमशौ परुषौ निम्नौ निर्मांसौ परिवर्जयेत्

॥९३॥

समं समांसं सुस्निग्धं स्वामोदं वर्तुलं मुखम् ॥

जनेतृवदनच्छायं धन्यानामिह जायते

॥९४॥

पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः ॥

सीमंतिनी नामधरो धराजानि प्रियो भवेत्

॥९५॥

कृशः प्रलंबः स्फुटितो रूक्षो दौर्भाग्यसूचकः ॥

श्यावः स्थूलोऽधरोष्ठः स्याद्वैधव्य कलहप्रदः

॥९६॥

मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥

किंचिन्मध्योन्नतोऽरोमा विपरीतो विरुद्धकृत्

॥९७॥

गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः ॥

अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः

॥९८॥

पीताः श्यावाश्च दशनाः स्थूलादीर्घाद्विपंक्तयः ॥

शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम्

॥९९॥

अधस्तादधिकैर्दंतैर्मातरं भक्षयेत्स्फुटम् ॥

पतिहीना च विकटैः कुलटा विरलैर्भवेत्

॥१००॥

जिह्वेष्टमिष्टभोक्त्री स्याच्छोणामृद्वी तथासिता ॥

दुःखाय मध्यसंकीर्णा पुरोभागसविस्तरा

॥१॥

सितया तोयमरणं श्यामया कलहप्रिया ।

दरिद्रिणी मांसलया लंबयाऽभक्ष्यभक्षिणी

॥२॥

विशालया रसनया प्रमदातिप्रमादभाक् ॥

स्निग्धं कोकनदाभासं प्रशस्तं तालुकोमलम्

॥३॥

सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ॥

कृष्णेऽपत्यवियोगार्ता रूक्षे भूरिकुटुंबिनी

॥४॥

कंठे स्थूला सुवृत्ता च क्रमतीक्ष्णा सुलोहिता ॥

अप्रलंबा शुभा घंटी स्थूला कृष्णा च दुःखदा

॥५॥

अलक्षितद्विजं किंचित्किंचित्फुल्ल कपोलकम् ॥

स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम्

॥६॥

समवृत्तपुटानासा लघुच्छिद्रा शुभावहा ॥

स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता

॥७॥

आकुंचितारुणाग्रा च वैधव्यक्लेशदायिनी ॥

परप्रेष्या च चिपिटा ह्रस्वा दीर्घा कलिप्रिया

॥८॥

दीर्घायुः कृत्क्षुतं दीर्घं युगपद्द्वित्रिपिंडितम् ॥

ललना लोचने शस्ते रक्तांते कृष्णतारके

॥९॥

गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी ॥

उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत्

॥११०॥

मेषाक्षीमहिषाक्षी च केकराक्षी न शोभना ॥

कामगृहीला नितरां गोपिंगाक्षी सुदुर्वृता

॥११॥

पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ॥

कोटरा नयना दुष्टा गजनेत्रा न शोभना

॥१२॥

पुंश्चली वामकाणाक्षी वंध्या दक्षिणकाणिका ॥

मधुपिंगाक्षी रमणी धनधान्यसमृद्धिभाक्

॥१३॥

पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ॥

कपिलैर्विरलैः स्थूलैर्निंद्या भवति भामिनी

॥१४॥

भ्रुवौ सुवर्तुले तन्व्याः स्निग्धे कृष्णे असंहते ॥

प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मुकाकृती

॥१५॥

खररोमा च पृथुला विकीर्णा सरला स्त्रियाः ॥

न भ्रूः प्रशस्ता मिलिता दीर्घरोमा च पिंगला

॥१६॥

लंबौ कर्णौ शुभावर्तौ सुखदौ च शुभप्रदौ ॥

शष्कुलीरहितौ निंद्यौ शिरालौ कुटिलौ कृशौ

॥१७॥

भालः शिराविरहितो निर्लोमार्धेंदु सन्निभः ॥

अनिम्नस्त्र्यंगुलो नार्याः सौभाग्यारोग्यकारणम्

॥१८॥

व्यक्त स्वस्तिकरेखं च ललाटं राज्यसंपदे ॥

प्रलंबं मस्तकं यस्या देवरं हन्ति सा ध्रुवम्

॥१९॥

रोमशेन शिरालेन प्रांशुना रोगिणी मता

॥१२०॥

सीमन्तः सरलः शस्तो मौलिः शस्तः समुन्नतः ॥

गजकुंभनिभावृत्तैः सौभाग्यैश्वर्यसूचकैः

॥२१॥

स्थूलमूर्धा च विधवा दीर्घशीर्षा च बंधकी ॥

विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम्

॥२२॥

केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः ॥

किंचिदाकुंचिताग्राश्च कुटिलाश्चातिशोभनाः

॥२३॥

परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः ॥

पिंगला लघवो रूक्षा दुःखदारिद्र्यबंधदाः

॥२४॥

भ्रुवोरन्तर्ललाटे वा मशको राज्यसूचकः ॥

वामे कपोले मशकः शोणो मिष्टान्नदः स्त्रियाः

॥२५॥

तिलकं लांछनं वापि हृदि सौभाग्यकारणम् ॥

यस्या दक्षिणवक्षोजे शोणे तिलकलांछने

॥२६॥

कन्या चतुष्टयं सूते सूते सा च सुतत्रयम् ॥

तिलकं लांछनं शोणं यस्या वामे कुचे भवेत्

॥२७॥

एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ॥

गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः

॥२८॥

तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ॥

नासाग्रे मशकः शोणो महिष्या एव जायते

॥२९॥

कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याश्च प्रकीर्तितः ॥

नाभेरधस्तात्तिलकं मशको लांछनं शुभम्

॥१३०॥

मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत ॥

करे कर्णे कपोले वा कण्ठे वामे भवेद्यदि

॥३१॥

एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ॥

भालगेन त्रिशूलेन निर्मितेन स्वयंभुवा

॥३२॥

नितंबिनी सहस्राणां स्वामित्वं योषिदाप्नुयात् ॥

सुप्ता परस्परं यातु दंतान्किटिकिटायते

॥३३॥

सुलक्ष्मापि न सा शस्ता या किंचित्प्रलपेत्तथा ॥

पाणौ प्रदक्षिणावर्तो धर्म्यो वामो न शोभनः

॥३४॥

नाभौ श्रुतावुरसि वा दक्षिणावर्त ईडितः ॥

सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे

॥३५॥

अन्तःपृष्ठं नाभिसमो बह्वायुः पुत्रवर्धनः ॥

राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः

॥३६॥

सचेच्छकटभंगःस्याद्बह्वपत्यसुखप्रदः ॥

कटिगो गुह्यवेधेन पत्यपत्यनिपातनः

॥३७॥

स्यातामुदरवेधेन पृष्ठावर्तौ न शोभनौ ॥

एकेन हंति भर्तारं भवेदन्येन पुं श्चली

॥३८॥

कण्ठगो दक्षिणावर्तो दुःखवैधव्यहेतुकः ॥

सीमन्तेथ ललाटे वा त्याज्यो दूरात्प्रयत्नतः

॥३९॥

सा पतिं हंति वर्षेण यस्या मध्ये कृकाटिकम् ॥

प्रदक्षिणो वा वामो वा रोम्णामावर्त्तकः स्त्रियाः

॥१४०॥

एको वा मूर्धनि द्वौ वा वामे वामगती यदि ॥

आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना

॥४१॥

कट्यावर्ता च कुलटा नाभ्यावर्ता पतिव्रता ॥

पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते

॥४२॥

स्कंद उवाच

सुलक्षणापि दुःशीला कुलक्षण शिरोमणिः ॥

अलक्षणापि सा साध्वी सर्वलक्षणभूस्तु सा

॥४३॥

सुलक्षणा सुचारित्रा स्वाधीना पतिदेवता ॥

विश्वेशानुग्रहादेव गृहे योषिदवाप्यते

॥४४॥

अलकृताः स्ववासिन्यो याभिः प्राक्तनजन्मनि ॥

नानाविधैरलंकारैस्ताः सुरूपा भवंति हि

॥४५॥

सुतीर्थेषु वपुर्याभिः क्षयितं वा विहायितम् ॥

ता लावण्यतरंगिण्यो भवंतीह सुलक्षणाः

॥४६॥

अर्चिता जगतां माता याभिर्मृडवधूरिव ॥

ता भवंति सुचारित्रा योषाः स्वाधीनभ र्तृकाः

॥४७॥

स्वाधीन पतिकानां च सुशीलानां मृगीदृशाम् ॥

स्वर्गापवर्गावत्रैव सुलक्षण फलं हि तत्

॥४८॥

सुलक्षणैः सुचरितैरपि मंदायुषं पतिम् ॥

दीर्घायुषं प्रकुर्वंति प्रमदाः प्रमदास्पदम्

॥४९॥

अतः सुलक्षणा योषा परिणेया विचक्षणैः ॥

लक्षणानि परीक्ष्यादौ हित्वा दुर्लक्षणान्यपि

॥१५०॥

लक्षणानि मयोक्तानि सुखाय गृहमेधिनाम् ॥

विवाहानपि वक्ष्यामि तन्निबोध घटोद्भव

॥१५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्त्रीलक्षणवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥