मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ७८

3
काशीखण्डः · 78

आनंदकानने शंभो यल्लिंगं पुण्यवर्धनम्

पार्वत्युवाच

आनंदकानने शंभो यल्लिंगं पुण्यवर्धनम् ॥

यन्नामस्मरणादेव महापातकसंक्षयः

॥१॥

यत्सेव्यं साधकैर्नित्यं यत्र प्रीतिरनुत्तमा ॥

यत्र दत्तं हुतं जप्तं ध्यातं भवति चाक्षयम्

॥२॥

यस्य संस्मरणादेव यल्लिंगस्य विलोकनात् ॥

यल्लिंगप्रणतेश्चापि यस्य संस्पर्शनादपि

॥३॥

पंचामृतादि स्नपनपूर्वाद्यस्यार्चनादपि ॥

तल्लिंगं कथयेशान भवेच्छ्रेयः परंपरा

॥४॥

स्कंद उवाच

इति देवीसमुदितं समाकर्ण्य वटोद्भव ॥

सर्वज्ञेन यदाख्यातं तदाख्यास्यामि ते शृणु

॥९॥

देवदेव उवाच

उमे भवत्या यत्पृष्टं भवबंधविमोक्षकृत् ॥

ततोऽहं कथयिष्यामि लिंगं स्थिरमना भव

॥६॥

आनंदकानने चात्र रहस्यं परमं मम ॥

न मया कस्यचित्ख्यातं न प्रष्टुं वेत्ति कश्चन

॥७॥

संति लिंगान्यनेकानि ममानंदवने प्रिये ॥

परं त्वया यथा पृष्टं यथावत्तद्ब्रवीमि ते

॥८॥

यत्र मुक्तिस्वरूपा त्वं स्वयं तिष्ठसि विश्वगे ॥

यत्र ते नंदनश्चास्ति क्षेत्रं विघ्नविघातकृत्

॥९॥

ममापि येन त्रिपुरं समरे जयकांक्षिणः ॥

जयाशा पूरिता स्तुत्या बहुमोदकदानतः

॥१०॥

यत्रास्ति तीर्थमघहृत्पितृप्रीतिविवर्धनम् ॥

यत्स्नानाद्वृत्रहा वृत्रवधपापाद्विमुक्तवान्

॥११॥

धर्माधिकरणं यत्र धर्मराजोप्यवाप्तवान् ॥

सुदुष्करं तपस्तप्त्वा परमेण समाधिना

॥१२॥

पक्षिणोपि हि यत्रापुर्ज्ञानं संसारमोचनम् ॥

रम्यो हिरण्मयो यत्र बभूव बहुपाद्द्रुमः

॥१३॥

यल्लिंगदर्शनादेव दुर्दमो नाम पार्थिवः ॥

उद्वेजकोपि लोकानां क्षणाद्धर्ममतिस्त्वभूत्

॥१४॥

तस्य लिंगस्य माहात्म्यमाविर्भावं च सुंदरि ॥

निशामयाभिधास्यामि महापातक नाशनम्

॥१५॥

धर्मपीठं तदुद्दिष्टमत्रानंदवने मम ॥

तत्पीठदर्शनादेव नरः पापैः प्रमुच्यते

॥१६॥

पुरा विवस्वतः पुत्रो यमः परमसंयमी ॥

तपस्तताप विपुलं विशालाक्षि तवाग्रतः

॥१७॥

शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः ॥

तपर्तौ पंचवह्निस्थः कदाचिदिति तप्तवान्

॥१८॥

पादाग्रांगुष्ठभूस्पर्शी बहुकालं स तस्थिवान् ॥

एकपादस्थितः सोपि कदाचिद्बह्वनेहसम्

॥१९॥

समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् ॥

पपौ स तु पिपासुः सन्कुशाग्रजलविप्रुषः

॥२०॥

दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन् ॥

चतुर्गुणं दिदृक्षुर्मां परमेण समाधिना

॥२१॥

ततोहं तस्य तपसा संतुष्टः स्थिरचेतसः ॥

ययौ तस्मै वरान्दातुं शमनाय महात्मने

॥२२॥

वटः कांचनशाखाख्यो यस्तपस्तापसंततिम् ॥

दूरीचकार सुच्छायो बहुद्विजसमाश्रयः

॥२३॥

मंदमद मरुल्लोल पल्लवैः करपल्लवैः ॥

योध्वगानध्वसंतप्तानाह्वये दिवतापहृत्

॥२४॥

स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः ॥

प्रीणयेदर्थिसार्थं यो वृत्तैर्निजफलैरलम्

॥२५॥

तदधस्तात्परं वीक्ष्य तमहं तपनांगजम् ॥

स्थाणुनिश्चल वर्ष्माणं नासाग्रन्यस्तलोचनम्

॥२६॥

तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम् ॥

भानुमंतमिवाकाशे सुनीले स्वेन तेजसा

॥२७॥

स्वाख्यांकितं महालिंगं प्रतिष्ठाप्यातिभक्तितः ॥

स्वच्छ सूर्योपलमयतेजः पुंजैरिवार्चितम्

॥२८॥

साक्षीकृत्येव तल्लिंगं तप्यमानं महत्तपः ॥

प्रत्यवोचं धर्मराजं वरं ब्रूहीति भास्करे

॥२९॥

अलं तप्त्वा महाभाग प्रसन्नोस्मि शुभव्रत ॥

निशम्य शमनश्चेति दृष्ट्वा मां प्रणनाम ह

॥३०॥

चकार स्तवनं चापि परिहृष्टेंद्रियेश्वरः ॥

निर्व्याजं स समाधिं च विसृज्य ब्रध्ननंदनः

॥३१॥

धर्म उवाच

नमोनमः कारणकारणानां नमोनमः कारणवर्जिताय ॥

नमोनमः कार्यमयाय तुभ्यं नमोनमः कार्यविभिन्नरूप

॥३२॥

अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय ॥

अपारपाराय पराब्धिपार प्रदाय तुभ्यं शशिमौलये नमः

॥३३॥

अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम् ॥

कालात्परस्त्वं प्रकृतेः परस्त्वं कालाय कालात्प्रकृते नमस्ते

॥३४॥

त्वमेव निर्वाणपद प्रदोसि त्वमेव निर्वाणमनंतशक्ते ॥

त्वमात्मरूपः परमात्मरूपस्त्वमंतरात्मासि चराचरस्य

॥३५॥

त्वत्तो जगत्त्वं जगदेवसाक्षाज्जगत्त्वदीयं जगदेकबंधो ॥

हर्ताविता त्वं प्रथमो विधाता विधातृविष्ण्वीश नमो नमस्ते

॥३६॥

मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु ॥

त्वं शंकरः सोमसुभक्तिभाजामुग्रोसि रुद्र त्वमभक्तिभाजाम्

॥३७॥

त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोसि ॥

श्रीकंठ एकः स्वपदश्रितानां दुरात्मनां हालहलोग्रकंठः

॥३८॥

नमोस्तु ते शंकर शांतशंभो नमोस्तु ते चंद्रकलावतंस ॥

नमोस्तु तुभ्यं फणिभूषणाय पिनाकपाणेंऽधकवैरिणे नमः

॥३९॥

स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव ॥

तवस्तुतिं यः कुरुते सदैव स स्तूयते दुश्च्यवनादि देवैः

॥४०॥

कस्त्वामिह स्तोतुमनंतशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः ॥

प्राचां न वाचामिहगोचरो यः स्तुतिस्त्वयीयं नतिरेव यावत्

॥४१॥

स्कंद उवाच

उदीर्य सूर्यस्य सुतोतिभक्त्या नमः शिवायेति समुच्चरन्सः ॥

इलामिलन्मौलिरतीव हृष्टः सहस्रकृत्वः प्रणनाम शंभुम्

॥४२॥

ततः शिवस्तं तपसातिखिन्नं निवार्य ताभ्यः प्रणतिभ्य ईश्वरः ॥

वरान्ददौ सप्ततुरंगसूनवे त्वं धर्मराजो भव नामतोपि

॥४३॥

त्वमेव धर्माधिकृतौ समस्त शरीरिणां स्थावरजंगमानाम् ॥

मया नियुक्तोद्य दिनादिकृत्यः प्रशाधि सर्वान्मम शासनेन

॥४४॥

त्वं दक्षिणायाश्च दिशोधिनाथस्त्वं कर्मसाक्षी भव सर्वजंतोः ॥

त्वद्दर्शिताध्वान इतो व्रजंतु स्वकर्मयोग्यां गतिमुत्तमाधमाः

॥४५॥

त्वया यदेतन्ममभक्तिभाजा लिंगं समाराधितमत्र धर्म ॥

तद्दर्शनात्स्पर्शनतोऽर्चनाच्च सिद्धिर्भविष्यत्यचिरेण पुंसाम्

॥४६॥

धर्मेश्वरं यः सकृदेव मर्त्यो विलोकयिष्यत्यवदातबुद्धिः ॥

स्नात्वा पुरस्तेऽत्र च धर्मतीर्थे न तस्य दूरे पुरुषार्थसिद्धिः

॥४७॥

कृत्वाप्यघानामिह यः सहस्रं धर्मेश्वरं पश्यति दैवयोगात् ॥

सहेतनो जातु स नारकीं व्यथां कथां तदीयां दिविकुर्वतेमराः

॥४८॥

यो धर्मपीठं प्रतिलभ्य काश्यां स्वश्रेयसे नो यततेऽत्र मर्त्यः ॥

कथं स धर्मत्वमिवातितेजाः करिष्यति स्वं कृतकृत्यमेव ॥

त्वया यथाप्ता इह धर्मराज मनोरथास्ते गुरुभिस्तपोभिः ॥

तथैव धर्मेश्वरभक्तिभाजां कामाः फलिष्यंति न संशयोत्र

॥५०॥

कृत्वाप्यघान्येव महांत्यपीह धर्मेश्वरार्चां सकृदेव कुर्वन् ॥

कुतो बिभेति प्रियबंधुरेव तव त्वदीयार्चित लिंगभक्तः

॥५१॥

पत्रेण पुष्पेण जलेन दूर्वया यो धर्मधर्मेश्वरमर्चयिष्यति ॥

समर्चयिष्यंत्यमृतांधसस्तं मंदारमालाभिरतिप्रहृष्टाः

॥५२॥

त्वत्तो विभेष्यंति कृतैनसो ये भयं न तेषां भविता कदाचित् ॥

धर्मेश्वरार्चा रचनां करिष्यतां हरिष्यतां बंधुतयामनस्ते

॥५३॥

यदत्र दास्यंति हि धर्मपीठे नरा द्युनद्यां कृतमज्जनाश्च ॥

तदक्षयं भावि युगांतरेपि कृतप्रणामास्तव धर्मलिंगे

॥५४॥

ये कार्तिके मासि सिताष्टमी तिथौ यात्रां करिष्यंति नरा उपोषिताः ॥

रात्रौ च वै जागरणं महोत्सवैर्धर्मेश्वरे तेन पुनर्भवा भुवि

॥५५॥

स्तुतिं च ये वै त्वदुदीरितामिमां नराः पठिष्यंति तवाग्रतः क्वचित् ॥

निरेनसस्ते मम लोकगामिनः प्राप्स्यंति ते वैभवतः सखित्वम्

॥५६॥

पुनर्वरं ब्रूहि यथेप्सितं ददे तेजोनिधेर्नंदन धर्मराज ॥

अदेयमत्रास्ति न किंचिदेव ते विधेहि वागुद्यममात्रमेव

॥५७॥

प्रसन्नमूर्तिं स विलोक्य शंकरं कारुण्यपूर्णं स्वमनोरथाभिदम् ॥

आनंदसंदोहसरोनिमग्नो वक्तुं क्षणं नैव शशाक किंचित्

॥५८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशमहिमाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥