मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय १४

3
काशीखण्डः · 14

सोमलोकवर्णनम्

गणावूचतुः

अलकायाः पुरोभागे पूरैशानीमहोदया ॥

अस्यां वसंति सततं रुद्रभक्तास्तपोधनाः

॥१॥

शिवस्मरणसंसक्ताः शिवव्रतपरायणाः ॥

शिवसात्कृतकर्माणः शिवपूजारताः सदा

॥२॥

साभिलाषास्तपस्यंति स्वर्गभोगोस्त्वितीह नः ॥

तेऽत्र रुद्रपुरे रम्ये रुद्ररूपधरा नराः

॥३॥

अजैकपादहिर्बुध्न्य मुख्या एकादशापि वै ॥

रुद्राः परिवृढाश्चात्र त्रिशूलोद्यतपाणयः

॥४॥

पुर्यष्टकं च दुष्टेभ्यो देवध्रुग्भ्यो ह्यवंति ते ॥

प्रयच्छंति वरान्नित्यं शिवभक्तजने वराः

॥५॥

एतैरपि तपस्तप्तं प्राप्य वाराणसीं पुरीम् ॥

ईशानेशं महालिंगं परिस्थाप्य शुभप्रदम्

॥६॥

ईशानेश प्रसादेन दिश्यैश्यां हि दिगीश्वराः ॥

एकादशाप्येकचरा जटामुकुटमंडिताः

॥७॥

भालनेत्रा नीलगलाः शुद्धांगा वृषभध्वजाः ॥

असंख्याताः सहस्राणि ये रुद्रा अधिभूतलम्

॥८॥

तेऽस्यां पुरि वसंत्यैश्यां सर्वभोगसमृद्धयः ॥

ईशानेशं समभ्यर्च्य काश्यां देशांतरेष्वपि

॥९॥

विपन्नास्तेन पुण्येन जायंते ऽत्रपुरोहिताः ॥

अष्टम्यां च चतुर्दश्यामीशानेशं यजंति ये

॥१०॥

त एव रुद्रा विज्ञेया इहामुत्राप्यसंशयम् ॥

कृत्वा जागरणं रात्रावीशानेश्वर संनिधौ

॥११॥

उपोष्यभूतांयांकांचिन्न नरो गर्भभाक्पुनः ॥

स्वर्गमार्गे कथामित्थं शृण्वन्विष्णुगणोदिताम्

॥१२॥

शिवशर्मा दिवाप्युच्चैरपश्यच्चंद्रचंद्रिकाम् ॥

आह्लादयंतीं बहुशः समं सर्वेंद्रियैर्मनः

॥१३॥

चमत्कृत्य चमत्कृत्य कोयं लोको हरेर्गणौ ॥

पप्रच्छ शिवशर्मा तौ प्रोचतुस्तं च तौ द्विजम्

॥१४॥

गणावूचतुः

शिवशर्मन्महाभाग लोक एष कलानिधेः ॥

पीयूषवर्षिभिर्यस्य करैराप्याय्यते जगत्

॥१५॥

पिता सोमस्य भो विप्र जज्ञेऽत्रिर्भगवानृषिः ॥

ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः

॥१६॥

अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा ॥

त्रीणिवर्षसहस्राणि दिव्यानीतीह नौ श्रुतम्

॥१७॥

ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् ॥

नेत्राभ्यां तच्च सुस्राव दशधा द्योतयद्दिशः

॥१८॥

तं गर्भं विधिना दिष्टा दश देव्यो दधुस्ततः ॥

समेत्य धारयामासुर्नैव ताः समशक्नुवन्

॥१९॥

यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ॥

ततस्ताभिः सजूः सोमो निपपात वसुंधराम्

॥२०॥

पतितं सोममालोक्य ब्रह्मा लो कपितामहः ॥

रथमारोपयामास लोकानां हितकाम्यया

॥२१॥

स तेन रथमुख्येन सागरांतां वसुंधराम् ॥

त्रिःसप्तकृत्वो द्रुहिणश्चकारामुं प्रदक्षिणम्

॥२२॥

तस्य यत्प्लवितं तेजः पृथिवीमन्वपद्यत ॥

तथौषध्यः समुद्भूता याभिः संधार्यते जगत्

॥२३॥

सलब्धतेजा भगवान्ब्रह्मणा वर्धितः स्वयम् ॥

तपस्तेपे महाभाग पद्मानां दशतीर्दश

॥२४॥

अविमुक्तं समासाद्य क्षेत्रं परमपावनम् ॥

संस्थाप्य लिंगममृतं चंद्रेशाख्यं स्वनामतः

॥२५॥

बीजौषधीनां तोयानां राजाभूदग्रजन्मनाम् ॥

प्रसादाद्देवदेवस्य विश्वेशस्य पिनाकिनः

॥२६॥

तत्र कूपं विधायैकममृतोदमिति स्मृतम् ॥

यस्यांबुपानस्नानाभ्यां नरोऽज्ञातात्प्रमुच्यते

॥२७॥

तुष्टेनदेवदेवेन स्वमौलौ यो धृतः स्वयम् ॥

आदाय तां कलामेकां जगत्संजविनीं पराम्

॥२८॥

पश्चाद्दक्षेण शप्तोपि मासोने क्षयमाप्य च ॥

आप्याय्यतेसौ कलया पुनरेव तया शशी

॥२९॥

स तत्प्राप्य महाराज्यं सोमः सोमवतां वरः ॥

राजसूयं समाजह्रे सहस्रशतदक्षिणम्

॥३०॥

दक्षिणामददत्सोमस्त्रींल्लोकानिति नौ श्रुतम् ॥

तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विज

॥३१॥

हिरण्यगर्भो ब्रह्माऽत्रिर्भृगुर्यत्रर्त्विजोभवन् ॥

सदस्योभूद्धरिस्तत्र मुनिभिर्बहुभिर्युतः

॥३२॥

तंसिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभावसुः ॥

कीर्तिर्धृतिश्च लक्ष्मीश्च नवदेव्यः सिषेविरे

॥३३॥

उमया सहितं रुद्रं संतर्प्याध्वरकर्मणा ॥

प्राप सोम इति ख्यातिं दत्तां सोमेन शंभुना

॥३४॥

तत्रैव तप्तवान्सोमस्तपः परमदुष्करम् ॥

तत्रैव राजसूयं च चक्रे चंद्रेश्वराग्रतः

॥३५॥

तत्रैव ब्राह्मणैः प्रीतैरित्युक्तोसौ कलानिधिः ॥

सोमोस्माकं ब्राह्मणानां राजा त्रैलोक्यदक्षिणः

॥३६॥

तत्रैव देवदेवस्य विलोचनपदं गतः ॥

देवेन प्रीतमनसा त्रैलोक्याह्लादहेतवे

॥३७॥

त्वं ममास्य परामूर्तिरित्युक्तस्तत्तपोबलात् ॥

जगत्तवोदयं प्राप्य भविष्यति सुखोदयम्

॥३८॥

त्वत्पीयूषमयैर्हस्तैः स्पृष्टमेतच्चराचरम् ॥

भानुतापपरीतं च परा ग्लानिं विहास्यति

॥३९॥

एतदुक्त्वा महेशानो वरानन्यानदान्मुदा ॥

द्विजराजतपस्तप्तं यदत्युग्रं त्वयात्र वै

॥४०॥

यच्च क्रतु क्रियोत्सर्गस्त्वया मह्यं निवेदितः ॥

स्थापितं यत्त्विदं लिंगं मम चंद्रेश्वराभिधम्

॥४१॥

ततोत्र लिंगे त्वन्नाम्नि सोमसोमार्धरूपधृक् ॥

प्रतिमासं पंचदश्यां शुक्लायां सर्वगोप्यहम्

॥४२॥

अहोरात्रं वसिष्यामि त्रैलोक्यैश्वर्यसंयुतः ॥

ततोत्र पूर्णिमायां तु कृता स्वल्पापि सत्क्रिया

॥४३॥

जपहोमार्चनध्यानदानब्राह्मणभोजनम् ॥

महापूजा च सा नूनं मम प्रीत्यै भविष्यति

॥४४॥

जीर्णोद्धारादिकरणं नृत्यवाद्यादिकार्पणम् ॥

ध्वजारोपणकर्मादि तपस्वियतितपर्णम्

॥४५॥

चंद्रेश्वरे कृतं सर्वं तदानंत्याय जायते ॥

अन्यच्च ते प्रवक्ष्यामि शृणु गुह्यं कलानिधे

॥४६॥

अभक्ताय च नाख्येयं नास्तिकाय श्रुतिद्रुहे ॥

अमावास्या यदा सोम जायते सोमवासरे

॥४७॥

तदोपवासः कर्तव्यो भूतायां सद्भिरादरात् ॥

कृतनित्यक्रियः सोम त्रयोदश्यां निशामय

॥४८॥

शनिप्रदोषे संपूज्य लिंगं चंद्रेश्वराह्वयम् ॥

नक्तं कृत्वा त्रयोदश्यां नियमं परिगृह्य च

॥४९॥

उपोष्य च चतुर्दश्यां कृत्वा जागरणं निशि ॥

प्रातः सोमकुहूयोगे स्नात्वा चंद्रोदवारिभिः

॥५०॥

उपास्य संध्यां विधिवत्कृतसर्वोदक क्रियः ॥

उपचंद्रोदतीर्थेषु श्राद्धं विधिवदाचरेत्

॥५१॥

आवाहनार्घ्यरहितं पिंडान्दद्यात्प्रयत्नतः ॥

वसुरुद्रादितिसुतस्वरूपपुरुषत्रयम्

॥५२॥

मातामहांस्तथोद्दिश्य तथान्यानपि गोत्रजान् ॥

गुरुश्वशुरबंधूनां नामान्युच्चार्य पिंडदः

॥५३॥

कुर्वञ्छ्राद्धं च तीर्थेस्मिञ्छ्रद्धयोद्धरतेखिलान् ॥

गयायां पिंडदानेन यथा तुप्यंति पूर्वजाः

॥५४॥

तथा चंद्रोदकुंडेऽत्र श्राद्धैस्तृप्यंति पूर्वजाः ॥

गयायां च यथा मुच्येत्सर्वर्णात्पितृजान्नरः

॥५५॥

तथा प्रमुच्यते चर्णाच्चंद्रोदे पिण्डदानतः ॥

यदा चंद्रेश्वरं द्रष्टुं यायात्कोपि नरोत्तमः

॥५६॥

तदा नृत्यंति मुदितास्तत्पूर्वप्रपितामहाः ॥

अयं चंद्रोदतीर्थेस्मिंस्तर्पणं नः करिष्यति

॥५७॥

अस्माकं मंदभाग्यत्वाद्यदि नैव करिष्यति ॥

तदातत्तीर्थ संस्पर्शादस्मत्तृप्तिर्भविष्यति

॥५८॥

स्पृशेन्नापि यदा मंदस्तदा द्रक्ष्यति तृप्तये ॥

एवं श्राद्धं विधायाथ स्पृष्ट्वा चंद्रेश्वरं व्रती ॥

संतर्प्य विप्रांश्च यतीन्कुर्याद्वै पारणं ततः

॥५९॥

एवं व्रते कृते काश्यां सदर्शे सोमवासरे ॥

भवेदृणत्रयान्मुक्तो मृगांकमदनुग्रहात्

॥६०॥

अत्र यात्रा महाचैत्र्यां कार्या क्षेत्रनिवासिभिः ॥

तारकज्ञानलाभाय क्षेत्रविघ्ननिवर्तिनी

॥६१॥

चंद्रेश्वरं समभ्यर्च्य यद्यन्यत्रापि संस्थितः ॥

अघौघपटलीं भित्त्वा सोमलोकमवाप्स्यति

॥६२॥

कलौ चंद्रेशमहिमा नाभाग्यैरवगम्यते ॥

अन्यच्च ते प्रवक्ष्यामि परं गुह्यं निशापते

॥६३॥

सिद्धयोगीश्वरं पीठमेतत्साधकसिद्धिदम् ॥

सुरासुरेषु गंधर्व नागविद्याधरेष्वपि

॥६४॥

रक्षोगुह्यकयक्षेषु किंनरेषु नरेषु च ॥

सप्तकोट्यस्तु सिद्धानामत्र सिद्धा ममाग्रतः ६५ ॥

षण्मासं नियताहारो ध्यायन्विश्वेश्वरीमिह ॥

चंद्रेश्वरार्चनायातान्सिद्धान्पश्यति सोऽग्रगान्

॥६६॥

सिद्धयोगीश्वरी साक्षाद्वरदा तस्य जायते ॥

तवापि महती सिद्धिः सिद्धयोगीश्वरीक्षणात्

॥६७॥

संति पाठान्यनेकानि क्षितौ साधकसिद्धये ॥

परं योगीश्वरी पीठाद्भूपृष्ठेनाशु सिद्धिदम्

॥६८॥

यत्र चंद्रेश्वरं लिंगं त्वयेदं स्थापितं शशिन् ॥

इदमेव हि तत्पीठमदृश्यमकृतात्मभिः

॥६९॥

जितकामा जितक्रोधा जितलोभस्पृहास्मिताः ॥

योगीश्वरीं प्रपश्यंति मम शक्तिपरां हिताम्

॥७०॥

ये तु प्रत्यष्टमि जनास्तथा प्रति चतुर्दशि ॥

सिद्धयोगीश्वरीपीठे पूजयिष्यंति भाविताः

॥७१॥

अदृष्टरूपां सुभगां पिंगलां सर्वसिद्धिदाम् ॥

धूपनैवेद्यदीपाद्यैस्तेषामाविर्भविष्यति

॥७२॥

इति दत्त्वा वराञ्छंभुस्तस्मै चंद्रमसे द्विज ॥

अंतर्हितो महेशानस्तत्र वैश्वेश्वरे पुरे

॥७३॥

तदारभ्य च लोकेऽस्मिन्द्विजराजोधिपोभवत् ॥

दिशोवितिमिराः कुर्वन्निजैः प्रसृमरैः करैः

॥७४॥

सोमवारव्रतकृतः सोमपानरता नराः ॥

सोमप्रभेणयानेन सोमलोकं व्रजंति हि

॥७५॥

चंद्रेश्वरसमुत्पत्तिं तथा चांद्रमसं तपः ॥

यः श्रोष्यति नरो भक्त्या चंद्रलोके स इज्यते

॥७६॥

अगस्तिरुवाच

शिवशर्मणि शर्मकारिणीं प थि दिव्ये श्रमहारिणीं गणौ ॥

कथयंतौ तु कथामिमां शुभामुडुलोकं परिजग्मतुस्ततः

॥७७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सोमलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥