मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५२

3
काशीखण्डः · 52

दशाश्वमेधवर्णनम्

स्कंद उवाच

गभस्तिमालिनिगते काशीं त्रैलोक्यमोहिनीम् ॥

पुनश्चिंतामवापोच्चैर्मंदरस्थो मुने हरः

॥१॥

नाद्याप्यायांति योगिन्यो नाद्याप्यायाति तिग्मगुः ॥

प्रवृत्तिरपि मे काश्याश्चित्रमत्यंत दुर्लभा

॥२॥

किमत्र चित्रं यत्काशी मदीयमपिमानसम् ॥

निश्चलं चंचलयति गणना केतरेसुरे

॥३॥

अधाक्षिपमहं कामं त्रिजगज्जित्त्वरंदृशा ॥

अहो काश्यभिलाषोत्र मामेव दुनुयात्तराम्

॥४॥

काशीप्रवृत्तिमन्वेष्टुं कं वा प्रहिणुयामितः ॥

ज्ञातुं क एव निपुणो यतः स चतुराननः

॥५॥

इत्याहूय विधातारं बहुमानपुरःसरम् ॥

तत्रोपवेश्य श्रीकंठः प्रोवाच चतुराननम्

॥६॥

योगिन्यः प्रेषिताः पूर्वं प्रेषितोथ सहस्रगुः ॥

नाद्यापि ते निवर्तंते काश्याः कलशसंभव

॥७॥

सा समुत्सुकयेत्काशी लोकेश मम मानसम् ॥

प्राकृतस्य जनस्येव चंचलाक्षीव काचन

॥८॥

मंदरेत्र रतिर्मे न भृशं सुंदरकंदरे ॥

अनच्छतुच्छपानीये नक्रस्येवाल्पपल्वले

॥९॥

ना बाधिष्ट तथा मां स तापो हालाहलोद्भवः ॥

काशीविरहजन्मात्र यथा मामतिबाधते

॥१०॥

शीतरश्मिः शिरःस्थोपि वर्षन्पीयूषसीकरैः ॥

काशीविश्लेषजं तापं नाहो गमयितुं प्रभुः

॥११॥

विधे विधेहि मे कार्यमार्य धुर्य महामते ॥

याहि काशीमितस्तूर्णं यतस्व च ममेहिते

॥१२॥

ब्रह्मंस्त्वमेव तद्वेत्सि काशी त्यजनकारणम् ॥

मंदोपि न त्यजेत्काशीं किमु यो वेत्ति किंचन

॥१३॥

अद्यैव किं न गच्छेयं काशीं ब्रह्मन्स्वमायया ॥

दिवोदासं स्वधर्मस्थं न तूल्लंघितुमुत्सहे

॥१४॥

विधे सर्वविधेयानि त्वमेव विदधासि यत् ॥

इति चेति च वक्तव्यं त्वय्यपार्थमतोखिलम्

॥१५॥

अरिष्टं गच्छ पंथास्ते शुभोदर्को भवत्वलम् ॥

आदायाज्ञां विधि मूर्ध्नि ययौ वाराणसीं मुदा

॥१६॥

सितहंसरथस्तूर्णं प्राप्य वाराणसीं पुरीम् ॥

कृतकृत्यमिवात्मानममन्यत तदात्मभूः

॥१७॥

हंसयानफलं मेद्य जातं काशीसमागमे ॥

काशी प्राप्तौ यतः प्रोक्ता अंतरायाः पदेपदे

॥१८॥

दृशि धातुरभूद्य मदृशो प्राप्य सान्वयः ॥

स्पष्टं दृष्टिपथं प्राप्ता यदेषाऽऽनंदवाटिका

॥१९॥

स्वयं सिंचति या मद्भिः स्वाभिः स्वर्गतरंगिणी ॥

यत्रानंदमया वृक्षा यत्रानंदमया जनाः

॥२०॥

निर्विशंति सदा काश्यां फलान्यानंदवंत्यपि ॥

सदैवानंदभूः काशी सदैवानंददः शिवः

॥२१॥

आनंदरूपा जायंते तेन काश्यां हि जंतवः ॥

चरणौ चरितुं वित्तस्तावेव कृतिनामिह

॥२२॥

चरणौ विचरेतांयौ विश्वभर्तृ पुरी भुवि ॥

तावेव श्रवणौ श्रोतुं संविदा ते बहुश्रुतौ

॥२३॥

इह श्रुतिमतां पुंसां याभ्यां काशी श्रुता सकृत् ॥

तदेव मनुते सर्वं मनस्त्विह मनस्विनाम

॥२४॥

येनानुमन्यते चैषा काशी सर्वप्रमाणभूः ॥

बुद्धिर्बुध्यति सा सर्वमिह बुद्धिमतां सताम् ॥

ययैतद्धूर्जटेर्धाम धृतं स्व विषयीकृतम्

॥२५॥

वरं तृणानि धान्यानि तानि वात्याहतान्यपि ॥

काश्यां यान्या पतंतीह न जनाः काश्यदर्शनाः

॥२६॥

अद्य मे सफलं चायुः परार्धद्वय संमितम् ॥

यस्मिन्सति मया प्रापि दुष्प्रापा काशिका पुरी

॥२७॥

अहो मे धर्मसंपत्तिरहोमे भाग्यगौरवम् ॥

यदद्राक्षिषमद्याहं काशीं सुचिर चिंतिताम्

॥२८॥

अद्य मे स्वतपो वृक्षो मनोरथफलैरलम् ॥

शिवभक्त्यंबुना सिक्तः फलितोति बृहत्तरैः

॥२९॥

मया व्यधायि बहुधा सृष्टिः सृष्टिं वितन्वता ॥

परमन्यादृशी काशी स्वयं विश्वेश निर्मितिः

॥३०॥

इति हृष्टमना वेधा दृष्ट्वा वाराणसीं पुरीम् ॥

वृद्धब्राह्मणरूपेण राजानं च ददर्श ह

॥३१॥

जलार्द्राक्षतपाणिश्च स्वस्त्युक्त्वा पृथिवीभुजे ॥

कृतप्रणामो राज्ञाथ भेजे तद्दत्तमासनम्

॥३२॥

कृतमानो नृपतिना सोभ्युत्थानासनादिभिः ॥

विप्रो व्यजिज्ञपद्भूपं पृष्टागमनकारणम्

॥३३॥

ब्राह्मण उवाच

भूपाल बहुकालीनोस्म्यहमत्र चिरंतनः ॥

त्वं तु मां नैव जानासि जाने त्वां हि रिपुंजयम्

॥३४॥

परःशता मया दृष्टा राजानो भूरिदक्षिणाः ॥

विजितानेकसंग्रामा यायजूका जितेंद्रियाः

॥३५॥

विनिष्कृतारिषड्वर्गाः सुशीलाः सत्त्वशालिनः ॥

श्रुतस्यपारदृश्वानो राजनीतिविचक्षणाः

॥३६॥

दयादाक्षिण्यनिपुणाः सत्यव्रतपरायणाः ॥

क्षमया क्षमयातुल्या गांभीर्यजितसागराः

॥३७॥

जितरोषरयाः शूराः सौम्यसौंदर्यभूमयः ॥

इत्यादि गुणसंपन्नाः सुसंचितयशोधनाः

॥३८॥

परं द्वित्राः पवित्रा ये राजर्षे तव सद्गुणाः ॥

तेष्वेषु राजसु मम प्रायशो न दृशं गताः

॥३९॥

प्रजानिजकुटुंबस्त्वं त्वं तु भूदेवदैवतः ॥

महातपः सहायस्त्वं पथानान्ये तथा नृपाः

॥४०॥

धन्यो मान्योसि च सतां पूजनीयोसि सद्गुणैः ॥

देवा अपि दिवोदास त्वत्त्रासान्न विमार्गगाः

॥४१॥

किं नः स्तुत्या तव नृप द्विजानामस्पृहावताम् ॥

किं कुर्मस्त्वद्गुणग्रामाः स्तावकान्नः प्रकुर्वते

॥४२॥

गोष्ठी तिष्ठत्वियं तावत्प्रस्तुतं स्तौमि सांप्रतम् ॥

यष्टुकामोस्म्यहं राजंस्त्वां सहायमतो वृणे

॥४३॥

त्वया राजन्वती चैषाऽवनिः सर्वर्धिभाजनम् ॥

अहं चास्तिधनो राजन्न्यायोपात्तमहाधनः

॥४४॥

इयं च राजधानी ते कर्मभूमावनुत्तमा ॥

यस्यां कृतानां कार्याणां संवर्तेपि न संक्षयः

॥४९॥

संचितं यद्धनं पुंभिर्नयसन्मार्गगामिभिः ॥

तत्काश्यां विनियुज्येत क्लेशायेतरथा भवेत्

॥४६॥

महिमानं परं काश्याः कोपि वेद न भूपते ॥

ऋते त्रिनयनाच्छंभोः सर्वज्ञानप्रदायिनः

॥४७॥

मन्ये धन्यतरोसि त्वं बहुजन्मशतार्जितैः ॥

सुकृतैः पासि यत्काशीं विश्वभर्तुः परां तनुम्

॥४८॥

काशी त्रिजगतीसारस्त्रिवेदी सार एव वै ॥

त्रिवर्गोत्तरसारश्च निर्णीतेति महर्षिभिः

॥४९॥

विश्वेशानुग्रहेणैव त्वयैषा पाल्यते पुरी ॥

एकस्याप्यवनात्काश्यां त्रैलोक्यमवितं भवेत्

॥५०॥

अन्यच्च ते हितं वच्मि यदि ते रोचतेऽनघ ॥

प्रीणनीयः सदैवैको विश्वेशः सर्वकर्मभिः

॥५१॥

अन्यदेवधिया राजन्विश्वेशं पश्य मा क्वचित् ॥

ब्रह्मविष्ण्विंद्र चंद्रार्का क्रीडेयं तस्य धूर्जटेः

॥५२॥

विप्रैरुदर्कमिच्छद्भिः शिक्षणीया यतो नृपाः ॥

अतस्तव हितं ख्यातं किं वा मे चिंतयानया

॥५३॥

इति जोषं स्थितं विप्रं प्रत्युवाच नृपोत्तमः ॥

सर्वं मया हृदि धृतं यत्त्वयोक्तं द्विजोत्तम

॥५४॥

राजोवाच

अहं यियक्षमाणस्य तव साहाय्यकर्मणि ॥

दासोस्मि यज्ञसंभारान्नयमेको शतोऽखिलान्

॥५५॥

यदस्ति मेखिलं तत्र सप्तांगेपि भवान्प्रभुः ॥

यजस्वैकमनाब्रह्मन्सिद्धं मन्यस्व वांछितम्

॥५६॥

राज्यं करोमि यद्ब्रह्मन्स्वार्थं तन्न मनागपि ॥

पुत्रैः कलत्रैर्देहेनपरोपकृतये यते

॥५७॥

राज्ञां क्रतुक्रियाभ्योपि तीर्थेभ्योपि समंततः ॥

प्रजापालनमेवैको धर्मः प्रोक्तो मनीषिभिः

॥५८॥

प्रजासंतापजोवह्निर्वज्राग्नेरपि दारुणः ॥

द्वित्रान्दहति वज्राग्निः पूर्वो राज्यं कुलं तनुम्

॥५९॥

यदावभृथसिस्रासुर्भवेयं द्विजसत्तम ॥

तदा विप्रपदांभोभिरभिषेकं करोम्यहम्

॥६०॥

हवनं ब्राह्मणमुखे यत्करोमि द्विजोत्तम ॥

मन्ये क्रतुक्रियाभ्योपि तद्विशिष्टं महामते

॥६१॥

अभिलाषेषु सर्वेषु जागर्त्येको हृदीह मे ॥

अद्यापि मार्गणः कोपि द्रष्टव्यः स्वतनोरपि

॥६२॥

अहो अहोभिर्बहुभिः फलितो मे मनोरथः ॥

यत्त्वं मेद्य गृहे प्राप्तः किंचित्प्रार्थयितुं द्विज

॥६३॥

एकाग्रमानसो विप्र यज्ञान्विपुलदक्षिणान् ॥

बहून्यजकृतं विद्धि साहाय्यं सर्ववस्तुषु

॥६४॥

इति राज्ञो महाबुद्धेर्धर्मशीलस्य भाषितम् ॥

श्रुत्वा तुष्टमनाः स्रष्टा क्रतुसंभारमाहरत्

॥६५॥

साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः ॥

इयाज दशभिः काश्यामश्वमेधैर्महामखैः

॥६६॥

अद्यापि होमधूमोघैर्यद्व्याप्तं गगनांतरम् ॥

तदा प्रभृति न व्योम नीलिमानं जहात्यदः

॥६७॥

तीर्थं दशाश्वमेधाख्यं प्रथितं जगतीतले ॥

तदा प्रभृति तत्रासीद्वाराणस्यां शुभप्रदम्

॥६८॥

पुरा रुद्रसरो नाम तत्तीर्थं कलशोद्भव ॥

दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात्

॥६९॥

स्वर्धुन्यथ ततः प्राप्ता भगीरथसमागमात् ॥

अतीव पुण्यवज्जातमतस्तत्तीर्थमुत्तमम्

॥७०॥

विधिर्दशाश्वमेधेशं लिंगं संस्थाप्य तत्र वै ॥

स्थितवान्न गतोद्यापि क्वापि काशीं विहाय तु

॥७१॥

राज्ञो धर्मरतेस्तस्य च्छिद्रं नावाप किंचन ॥

अतः पुरारेः पुरतो व्रजित्वा किं वदेद्विधिः

॥७२॥

क्षेत्रप्रभावं विज्ञाय ध्यायन्विश्वेश्वरं शिवम् ॥

ब्रह्मेश्वरं च संस्थाप्य विधिस्तत्रैव संस्थितः

॥७३॥

परातनुरियं काशी विश्वेशस्येति निश्चितम् ॥

अस्याः संसेवनाच्छंभुर्न कुप्यति पुरो मयि

॥७४॥

कः प्राप्य काशीं दुर्मेधाः पुनस्त्यक्तुमिहेह ते ॥

अनेकजन्मजनितकर्मनिर्मूलनक्षमाम्

॥७५॥

विश्वसंतापसंहर्तुः स्थाने विश्वपतेस्तनुः ॥

संताप्यतेतरां काश्या विश्लेषज महाग्निना

॥७६॥

प्राप्य काशीं त्यजेद्यस्तु समस्ताघौघनाशिनीम् ॥

नृपशुः स परिज्ञेयो महासौख्यपराङमुखः

॥७७॥

निर्वाणलक्ष्मीं यः कांक्षेत्त्यक्त्वा संसारदुर्गतिम् ॥

तेन काशी न संत्याज्या यद्याप्तैशादनुग्रहात्

॥७८॥

यः काशीं संपरित्यज्य गच्छेदन्यत्र दुर्मतिः ॥

तस्य हस्ततलाद्गच्छेच्चतुर्वर्गफलोदयः

॥७९॥

निबर्हणी मधौघस्य सुपुण्य परिबृंहिणीम् ॥

कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम्

॥८०॥

सत्यलोके क्व तत्सौख्यं क्व सौख्यं वैष्णवे पदे ॥

यत्सौख्यं लभ्यते काश्यां निमेषार्धनिषेवणात्

॥८१॥

वाराणसीगुणगणान्निर्णीय द्रुहिणस्त्विति ॥

व्यावृत्य मंदरगिरिं न पुनः प्रत्यगान्मुने

॥८२॥

स्कंद उवाच

मित्रावरुणयोः पुत्र महिमानं ब्रवीमि ते ॥

काश्यां दशाश्वमेधस्य सर्वतीर्थशिरोमणेः

॥८३॥

दशाश्वमेधिकं प्राप्य सर्वतीर्थोत्तमोत्तमम् ॥

यत्किंचित्क्रियते कर्म तदक्षयमिहेरितम्

॥८४॥

स्नानं दानं जपो होमः स्वाध्यायो दे वतार्चनम् ॥

संध्योपास्तिस्तर्पणं च श्राद्धं पितृसमर्चनम्

॥८५॥

दशाश्वमेधिके तीर्थे सकृत्स्नात्वा नरोत्तमः ।

दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते

॥८६॥

ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् ॥

दशाश्वमेधिके स्नात्वा मुच्यते जन्मपातकैः

॥८७॥

ज्येष्ठे शुक्ल द्वितीयायां स्नात्वा रुद्रसरोवरे ॥

जन्मद्वयकृतं पापं तत्क्षणादेव नश्यति

॥८८॥

एवं सर्वासु तिथिषु क्रमस्नायी नरोत्तमः ॥

आशुक्लपक्षदशमि प्रतिजन्माघमुत्सृजेत्

॥८९॥

तिथिं दशहरां प्राप्य दशजन्माघहारिणीम् ॥

दशाश्वमेधिके स्नातो यामीं पश्येन्न यातनाम्

॥९०॥

लिंगं दशाश्वमेधेशं दृष्ट्वा दशहरा तिथौ ॥

दशजन्मार्जितैः पापैस्त्यज्यते नात्र संशयः

॥९१॥

स्नातो दशहरायां यः पूजयेल्लिंगमुत्तमम् ॥

भक्त्या दशाश्वमेधेशं न तं गर्भदशा स्पृशेत्

॥९२॥

ज्येष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः ॥

कुर्वन्वै वार्षिकीं यात्रां न विघ्नैरभिभूयते

॥९३॥

दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते ॥

दशाश्वमेधे तन्नूनं स्नात्वा दशहरा तिथौ

॥९४॥

स्वर्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ॥

न दुर्दशामवाप्नोति पुमान्पुण्यतमः क्वचित्

॥९५॥

यत्काश्यां दक्षिणद्वारमंतर्गेहस्य कीर्त्यते ॥

तत्र ब्रह्मेश्वरं दृष्ट्वा ब्रह्मलोके महीयते

॥९६॥

इति ब्राह्मणवेषेण वाराणस्यां महाधिया ॥

द्रुहिणेन स्थितं तावद्यावद्विश्वेश्वरागमः

॥९७॥

दिवोदासोपि राजेंद्रो वृद्धब्राह्मणरूपिणे ॥

ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकल्पयत्

॥९८॥

ब्रह्मेश्वरसमीपे तु ब्रह्मशाला मनोहरा ॥

ब्रह्मा तत्रावसद्व्योम ब्रह्मघोषैर्निनादयन्

॥९९॥

इति ते कथितो ब्रह्मन्महिमातिमहत्तरः ॥

दशाश्वमेधतीर्थस्य सर्वाघौघविनाशनः

॥१००॥

श्रुत्वाध्यायमिमं पुण्यं श्रावयित्वा तथैव च ॥

ब्रह्मलोकमवाप्नोति श्रद्धया मानवोत्तमः

॥१०१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुर्थे काशीखंडे दशाश्वमेधवर्णनंनाम द्विपंचाशत्तमोऽध्यायः ॥ ५२ ॥