मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६

3
काशीखण्डः · 6

तीर्थाध्यायः

पाराशर्य उवाच

शृणु सूत महाभाग कथां श्रुतिसहोदराम् ॥

यां वै हृदि निधायेह पुरुषः पुरुषार्थभाक्

॥१॥

ततः श्रीदर्श नानंद सुधाधाराधुनीं मुनिः ॥

अवगाह्य सपत्नीकः परां मुदमवाप सः

॥२॥

वह्निकुंडसमुद्भूत सूतनिर्मलमानस ॥

शृणुष्वैकं पुरा विद्भिर्भाषितं यत्सुभा षितम्

॥३॥

परोपकरणं येषां जागर्ति हृदये सताम् ॥

नश्यंति विपदस्तेषां संपदः स्युः पदेपदे

॥४॥

तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम् ॥

तपोभिरुग्रैस्तन्नाप्यमुपकृत्याय दाप्यते

॥५॥

परोपकृत्या यो धर्मो धर्मो दानादिसंभवः ॥

एकत्र तुलितौ धात्रा तत्र पूर्वो भवद्गुरुः

॥६॥

परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि ॥

नोपकारात्परो धर्मो नापकारादवं परम्

॥७॥

उपकर्तुरगस्त्यस्य जातमेतन्निदर्शनम् ॥

क्व तादृक्काशिजं दुःखं क्व तादृक्श्रीमुखेक्षणम्

॥८॥

करिकर्णाग्रचपलं जीवितं विविधं वसु ॥

तस्मात्परोपकरणं कार्यमेकं विपश्चिता

॥९॥

यल्लक्ष्मीनाममात्राप्त्या नरो नो माति कुत्रचित् ॥

साक्षात्समीक्ष्यतां लक्ष्मीं कृतकृत्यो भवन्मुनिः

॥१०॥

गच्छन्यदृच्छयासोथ दूराच्छ्रीशैलमैक्षत ॥

यत्र साक्षान्निवसति देवः श्रीत्रिपुरांतकः

॥११॥

उवाच वचनं पत्नीं तदा प्रीतमना मुनिः ॥

इहस्थितैव पश्य त्वं कांते कांततरं परम्

॥१२॥

श्रीशैल शिखरं श्रीमदिदंतद्यद्विलोकनात् ॥

पुनर्भवो मनुष्याणां भवेत्र नभवेत्क्वचित्

॥१३॥

गिरि श्चतुरशीत्यायं योजनानां हि विस्मृतः ॥

सर्वलिंगमयो यस्मादतः कुर्यात्प्रदक्षिणम्

॥१४॥

लोपामुद्रोवाच

किंचिद्विज्ञप्तुमिच्छामि यद्याज्ञा स्वामिनो भवेत् ॥

ब्रूते हि याऽनुज्ञाता पत्या सा पतिता भवेत्

॥१५॥

अगस्त्य उवाच

किं वक्तुकामा देवि त्वं ब्रूहि तत्त्वमशंकिता ॥

न त्वादृशीनां वाक्यं हि पत्युः खेदाय जायते

॥१६॥

ततः पप्रच्छ सा देवी प्रणम्य मुनिमानता ॥

सर्वेषां च हितार्थाय स्वसंदेहापनुत्तये

॥१७॥

लोपामुद्रोवाच

श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते ॥

इदमेव हि सत्यं चेत्किमर्थं काशिरिष्यते

॥१८॥

अगस्तिरुवाच

आकर्णय वरारोहे सत्यं पृष्टं त्वयामले ॥

निर्णीतमसकृच्चैतन्मुनिभिस्तत्त्वचिंतकैः

॥१९॥

मुक्तिस्थानान्यनेकानि कृतस्तत्रापिनिर्णयः ॥

तानि ते कथयाम्यत्र दत्तचित्ता भव क्षणम्

॥२०॥

प्रथमं तीर्थराजं तु प्रयागाख्यं सुविश्रुतम् ॥

कामिकं सर्वतीर्थानां धर्मकामार्थमोक्षदम्

॥२१॥

नैमिषं च कुरुक्षेत्रं गंगाद्वारमवंतिका ॥

अयोध्या मथुरा चैव द्वारकाप्यमरावती

॥२२॥

सरस्वती सिंधुसंगो गंगासागरसंगमः ॥

कांती च त्र्यंबकं चापि सप्तगोदावरीतटम्

॥२३॥

कालंजरं प्रभासश्च तथा बद रिकाश्रमः ॥

महालयस्तथोंकारक्षेत्रं वै पौरुषोत्तमम्

॥२४॥

गोकर्णो भृगुकच्छश्च भृगुतुंगश्च पुष्करम् ॥

श्रीपर्वतादि तीर्थानि धारातीर्थं तथैव च

॥२५॥

मानसान्यपि तीर्थानि सत्यादीनि च वै प्रिये ॥

एतानि मुक्तिदान्येव नात्र कार्या विचारणा

॥२६॥

गया तीर्थं च यत्प्रोक्तं पितॄणां हि मुक्तिदम् ॥

पितामहानामृणतो मुक्तास्तत्तनया अपि

॥२७॥

सधर्मिण्युवाच

मानसान्यपि तीर्थानि यान्युक्तानि महामते ॥

कानि कानि च तानीह ह्येतदाख्यातुमर्हसि

॥२८॥

अगस्त्य उवाच

शृणु तीर्थानि गदतो मानसानि ममानघे ॥

येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम्

॥२९॥

सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः ॥

सर्वभूतदयातीर्थं तीर्थमार्जवमेव च

॥३०॥

दानं तीर्थं दमस्तीर्थं संतोषस्तीर्थमुच्यते ॥

ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता

॥३१॥

ज्ञानं तीर्थं धृतिस्तीर्थं तपस्तीर्थमुदाहृतम् ॥

तीर्थानामपि तत्तीर्थं विशुद्धिर्मनसः परा

॥३२॥

न जलाप्लुतदेहस्य स्नानमित्यभिधीयते ॥

स स्नातो यो दमस्नातः शुचिः शुद्धमनोमलः

॥३३॥

यो लुब्धः पिशुनः क्रूरो दांभिको विषयात्मकः ॥

सर्वतीर्थेष्वपि स्नातः पापो मलिन एव सः

॥३४॥

न शरीर मल त्यागान्नरो भवति निर्मलः ॥

मानसे तु मले त्यक्ते भवत्यंतः सुनिर्मलः

॥३५॥

जायंते च म्रियंते च जलेष्वेव जलौकसः ॥

न च गच्छंति ते स्वर्गमविशुद्धमनोमलाः

॥३६॥

विषयेष्वति संरागो मानसो मल उच्यते ॥

तेष्वेव हि विरागो स्य नैर्मल्यं समुदाहृतम्

॥३७॥

चित्तमंतर्गतं दुष्टं तीर्थस्नानान्न शुद्ध्यति ॥

शतशोथ जलैर्धौतं सुराभांडमिवाशुचि

॥३८॥

दानमिज्यातपःशौचं तीर्थसेवा श्रुतं तथा ॥

सर्वाण्येतान्यतीर्थानि यदि भावो न निर्मलः

॥३९॥

निगृहीतेंद्रियग्रामो यत्रैव च वसेन्नरः ॥

तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च

॥४०॥

ज्ञानपूते ज्ञानजले रागद्वेषमलापहे ॥

यः स्नाति मानसे तीर्थे स याति परमां गतिम्

॥४१॥

एतत्ते कथितं देवि मानसं तीर्थलक्षणम् ॥

भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु

॥४२॥

यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः ॥

तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः

॥४३॥

प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसः ॥

परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता

॥४४॥

तस्माद्भौमेषु तीर्थेषु मानसेषु च नित्यशः ॥

उभयेष्वपि यः स्नाति स याति परमां गतिम

॥४५॥

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ॥

अदत्त्वा कांचनं गाश्च दरिद्रो नाम जायते

॥४६॥

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ॥

न तत्फलमवाप्नोति तीर्थभिगमनेन यत्

॥४७॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते

॥४८॥

प्रतिग्रहादुपावृत्तः संतुष्टो येनकेनचित् ॥

अहंकार विमुक्तश्च स तीर्थफलमश्नुते

॥४९॥

अदंभको निरारंभो लघ्वाहारो जितेंद्रियः ॥

विमुक्तसर्वसंगैर्यः स तीर्थफलमश्नुते

॥५०॥

अकोपनोऽमलमतिः सत्यवादी दृढव्रतः ॥

आत्मोपमश्च भूतेषु सतीर्थफलमश्नुते ॥

तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः ॥

कृतपापो विशुद्ध्येत किं पुनः शुद्धकर्मकृत्

॥५२॥

तिर्यग्योनि न वै गच्छेत्कुदेशे नैव जायते ॥

न दुःखी स्यात्स्वर्गभाक्च मोक्षोपायं च विंदति

॥५३॥

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ॥

हेतुनिष्ठश्च पंचैते न तीर्थफलभागिनः

॥५४॥

तीर्थानि च यथोक्तेन विधिना संचरंति ये ॥

सर्वद्वंद्वसहा धीरास्ते नराः स्वर्गभागिनः

॥५५॥

तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे ॥

गणेशं च पितॄन्विप्रान्साधूञ्छक्त्या प्रपूज्य च

॥५६॥

कृतपारणको हृष्टो गच्छेन्नियमधृक्पुनः ॥

आगत्याभ्यर्च्य पितॄन्यथोक्तफलभाग्भवेत्

॥५७॥

न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थी भोज्य एव च ॥

सक्तुभिः पिंडदानं च चरुणा पायसेन च

॥५८॥

कर्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन च ॥

श्राद्धं तत्र प्रकर्तव्यमर्घ्यावाहनवर्जितम्

॥५९॥

अकालेप्यथवा काले तीर्थे श्राद्धं च तर्पणम् ॥

अविलंबेन कर्तव्यं नैव विघ्नं समाचरेत्

॥६०॥

तीर्थं प्राप्य प्रसंगेन स्नानं तीर्थे समाचरेत् ॥

स्नानजं फलमाप्नोति तीर्थयात्राश्रितं स च

॥६१॥

नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ॥

यथोक्तं फलदं तीर्थं भवेच्छ्रद्धात्मनां नृणाम्

॥६२॥

षोडशांशं स लभते यः पराथं च गच्छति ॥

अर्धं तीर्थफलं तस्य यः प्रसंगेन गच्छति

॥६३॥

कुश प्रतिकृतिं कृत्वा तीर्थवारिणि मज्जयेत्।

मज्जयेच्च यमुद्दिश्य सोष्टमांशं लभेत वै

॥६४॥

तीर्थोपवासः कर्तव्यः शिरसो मुंडनं तथा।

शिरोगतानि पापानि यांति मुंडनतो यतः

॥६५॥

यदह्नि तीर्थप्राप्तिः स्यात्ततोह्नः पूर्ववासरे ॥

उपवासस्तु कर्तव्यः प्राप्ताह्नि श्राद्धदो भवेत्

॥६६॥

तीर्थप्रसंगात्तीर्थांगमप्युक्तं त्वत्पुरोमया ॥

स्वर्गसाधनमेवैतन्मोक्षोपायश्च वै भवेत्

॥६७॥

काशीकांती च मायाख्या त्वयोध्याद्वारवत्यपि ॥

मथुरावंतिका चैताः सप्त पुर्योत्र मोक्षदाः

॥६८॥

श्रीशैलो मोक्षदः सर्वः केदारोपि ततोऽधिकः ॥

श्रीशैलाच्चापि केदारात्प्रयागं मोक्षदं परम्

॥६९॥

प्रयागादपि तीर्थाग्र्यादविमुक्तं विशिष्यते ॥

यथाविमुक्ते निर्वाणं न तथाक्वाप्यसंशयम्

॥७०॥

अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि च ॥

काशीं ध्यायमिमं श्रुत्वा नरो नियतमानसः ॥

श्रावयित्वा द्विजांश्चापि श्रद्धाभक्तिसमन्वितान्

॥७३॥

क्षत्रियान्धर्मनिरतान्वैश्यान्सन्मार्गवर्तिनः ॥

शूद्रान्द्विजेषु भक्तांश्च निष्पापो जायते द्विजः

॥७४॥

इति श्रीस्कान्देमहापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे तीर्थाध्यायोनाम षष्ठोऽध्यायः ॥ ६ ॥