किंचित्प्रष्टुमना नाथ स्वसंदेहापनुत्तये
उमोवाच
किंचित्प्रष्टुमना नाथ स्वसंदेहापनुत्तये ॥
वद खेदो यदि न ते त्रिकालज्ञानकोविद
॥१॥तदा भगीरथो राजा क्व क्व भागीरथी तदा ॥
यदा विष्णुस्तपस्तेपे चक्रपुष्करिणी तटे
॥२॥शिव उवाच
संदेहोऽत्र न कर्तव्यो विशालाक्षि सदामले ॥
श्रुतौ स्मृतौ पुराणेषु कालत्रयमुदीर्यते
॥३॥भूतं भावि भवच्चापि संशयं मा वृथा कृथाः ॥
इत्युक्त्वा पुनराहेशो गंगामाहात्म्यमुत्तमम्
॥४॥अगस्त्य उवाच
पार्वतीनंदन पुनर्द्युनद्याः परितो वद ॥
महिमोक्तो हरौ यद्वद्देवदेवेन वै तदा
॥५॥स्कंद उवाच
मुनऽत्र मैत्रावरुणे यथा देवेन भाषितम् ॥
शुणु त्रिपथगामिन्या माहात्म्यं पातकापहम्
॥६॥त्रिस्रोतसं समासाद्य सकृत्पिंडान्ददाति यः ॥
उद्धृताः पितरस्तेन भवांभोधेस्तिलोदकैः
॥७॥यावंतश्च तिला मर्त्यैर्गृहीता पितृकर्मणि ॥
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः
॥८॥देवाः सपितरो यस्माद्गंगायां सर्वदा स्थिताः ॥
आवाहनं विसर्गं च तेषां तत्र ततो नहि
॥९॥पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरु श्वशुर बंधूनां ये चान्ये बांधवा मृताः
॥१०॥अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः ॥
अग्निविद्युच्चोरहता व्याघ्रदंष्ट्रिभिरेव च
॥११॥उद्बंधन मृता ये च पतिता आत्मघातकाः ॥
आत्मविक्रयिणश्चोरा ये तथाऽयाज्ययाजकाः
॥१२॥रसविक्रयिणो ये च ये चान्ये पापरोगिणः ॥
अग्निदा गरदाश्चैव गोघ्नाश्चैव स्ववंशजाः
॥१३॥असिपत्रवने ये च कुंभीपाके च ये गताः ॥
रौरवेप्यंधतामिस्रे कालसूत्रे च ये गताः
॥१४॥जात्यंतरसहस्रेषु भ्राम्यंते ये स्वकर्मभिः ॥
ये तु पक्षिमृगादीनां कीटवृक्षादि वीरुधाम्
॥१५॥योनिं गतास्त्वसंख्याताः संख्यातानामशोभनाः ॥
प्रापिता यमलोकं तु सुघोरैर्यमकिंकरैः
॥१६॥येऽबांधवा बांधवा वा येऽन्यजन्मनि बांधवाः ॥
येपि चाज्ञातनामानो ये चापुत्राः स्वगोत्रजाः
॥१७॥विषेण च मृता वै ये ये वै शृंगिभिराहताः ॥
कृतघ्नाश्च गुरुघ्नाश्च ये च मित्रद्रुहस्तथा
॥१८॥स्त्री बालघातका ये च ये च विश्वासघातकाः ॥
असत्यहिंसानिरता सदा पापरताश्च ये
॥१९॥अश्वविक्रयिणो ये च परद्रव्यहराश्च ये ॥
अनाथाः कृपणा दीना मानुष्यं प्राप्तुमक्षमाः
॥२०॥तर्पिता जाह्नवीतोयैर्नरेण विधिना सकृत् ॥
प्रयांति स्वर्गतिं तेपि स्वर्गिणो मुक्तिमाप्नुयुः
॥२१॥एतान्मंत्रान्समुच्चार्य यः कुर्यात्पितृतर्पणम् ॥
श्राद्धं पिंडप्रदानं च स विधिज्ञ इहोच्यते
॥२२॥कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानिचित् ॥
तानि सर्वाणि सेवंते काश्यामुत्तरवाहिनीम्
॥२३॥स्वःसिंधुः सर्वतः पुण्या ब्रह्महत्यापहारिणी ॥
काश्यां विशेषतो विष्णो यत्र चोत्तरवाहिनी
॥२४॥गायंति गाथामेतां वै दैवर्षिपितरोगणाः ॥
अपि दृग्गोचरा नः स्यात्काश्यामुत्तरवाहिनी
॥२५॥यत्रत्यामृतसंतृप्तास्तापत्रितयवर्जिताः ॥
स्याम त्वमृतमेवाद्धा विश्वनाथप्रसादतः
॥२६॥गंगैव केवला मुक्त्यै निर्णीता परितो हरे ॥
अविमुक्ते विशेषेण ममाधिष्ठानगौरवात्
॥२७॥ज्ञात्वा कलियुगं घोरं गंगाभक्तिः सुगोपिता ॥
न विंदतिं जना गंगां मुक्तिमागैर्कदायिकाम्
॥२८॥अनेकजन्मनियुतं भ्राम्यमाणस्तु योनिषु ॥
निर्वृतिं प्राप्नुयात्कोत्र जाह्नवीभजनं विना
॥२९॥नराणामल्पबुद्धीनामेनो विक्षिप्तचेतसाम् ॥
गंगेव परमं विष्णो भेषजं भवरोगिणाम्
॥३०॥खंडस्फुटितसंस्कारं गंगातीरे करोति यः ॥
मम लोके चिरं कालं तस्याक्षय सुखं हरे
॥३१॥गंतुमुद्दिश्य यो गंगां परार्थस्वार्थमेव वा ॥
न गच्छति परं मोहात्स पतेत्पितृभिः सह
॥३२॥सर्वाणि येषां गांगेयैस्तोयैः कृत्यानि देहिनाम् ॥
भूमिस्था अपि ते मर्त्या अमर्त्या एव वै हरे
॥३३॥चरमेपि वयोभागे स्वःसिंधुं यो निषेवते ॥
कृत्वाप्येनांसि बहुशः सोपि यायाच्छुभां गतिम्
॥३४॥यावदस्थि मनुष्याणां गंगातोयेषु तिष्ठति ॥
तावदब्दसहस्राणि स्वर्गलोके महीयते
॥३५॥विष्णुरुवाच
देवदेवजगन्नाथ जगतां हितकृत्प्रभो ॥
कीकसं चेत्पतेद्दैवाद्दुर्वृत्तस्य दुरात्मनः
॥३६॥जले द्युनद्या निष्पापे कथं तस्य परा गतिः ॥
अपमृत्यु विपन्नस्य तदीश विनिवेद्यताम्
॥३७॥महेश्वर उवाच
अत्रार्थे कथयिष्यामि पुरावृत्तमधोक्षज ॥
शृणुष्वैकमना विष्णो वाहीकस्य द्विजन्मनः
॥३८॥पुरा कलिंगविषये द्विजो लवणविक्रयी ॥
संध्यास्नानविहीनश्च वेदाक्षरविवर्जितः
॥३९॥वाहीको नामतो यज्ञसूत्रमात्रपरिग्रहः ॥
परिग्रहश्च तस्यासीत्कौविंदी विधवा नवा
॥४०॥दुर्भिक्षपीडितेनाथ वृषलीपतिना विना ॥
प्राणाधारं तदा तेन देशाद्देशांतरं ययौ
॥४१॥मध्येऽथ दंडकारण्यं क्षुत्क्षामः संगवर्जितः ॥
व्याघ्रेण घातितस्तत्र नरमांसप्रियेण सः
॥४२॥तस्य वामपदं गृध्रो गृहीत्वोदपतत्ततः ॥
मांसाशिनाऽन्य गृध्रेण तस्य युद्धमभूद्दिवि
॥४३॥गृध्रयोरामिषं गृध्न्वोः परस्परजयैषिणोः ॥
अवापतत्पादगुल्फं कंकचंचुपुटात्तदा
॥४४॥तस्य वाहीक विप्रस्य व्याघ्रव्यापादितस्य ह ॥
मध्ये गंगं दैवयोगादपतद्द्वंद्वकारिणोः
॥४५॥यदैव हतवान्द्वीपी तं वाहीकमरण्यगम् ॥
तस्मिन्नेव क्षणे बद्धः स पाशैः क्रूरकिंकरैः
॥४६॥कशाभिर्घातितोत्यंतमाराभिः परितोदितः ॥
वमन्रुधिरमास्येन नीतस्तैः स यमाग्रतः
॥४७॥आपृच्छि धर्मराजेन चित्रगुप्तोथ मापते ॥
धर्माधर्मं विचार्यास्य कथयाशु द्विजन्मनः
॥४८॥वैवस्वतेन पृष्टोथ चित्रगुप्तो विचित्रधीः ॥
सर्वदा सर्वजंतूनां वेदिता सर्वकर्मणाम्
॥४९॥जगाद यमुनाबंधुं वाहीकस्य द्विजन्मनः ॥
जन्मकर्मदिनारभ्य दुर्वृत्तस्य शुभेतरम्
॥५०॥चित्रगुप्त उवाच
गर्भाधानादिकं कर्म प्राक्कृतं नास्य केनचित् ॥
जातकर्मकृतं नास्य पित्राऽज्ञानवता हरे
॥५१॥गर्भैनः शमने हेतुः समस्तायुः सुखप्रदम् ॥
एकादशेह्नि नामास्य न कृतं विधिपूर्वकम्
॥५२॥ख्यातः स्याद्येन विधिना सर्वत्र विधिपावनम् ॥
नाकार्षीन्निर्गमं चास्य चतुर्थे मासि मंदधीः
॥५३॥जनकः शुभतिथ्यादौ विदेशगमनापहम् ॥
षष्ठेऽन्नप्राशनंमासि न कृतं विधिपूर्वकम्
॥५४॥सर्वदा मिष्टमश्नाति कर्मणा येन भास्करे ॥
न चूडाकरणं चास्य कृतमब्दे यथाकुलम्
॥५५॥कर्मणा येन केशाः स्युः स्निग्धाः कुसुमवर्षिणः ॥
नाकारि कर्णवेधोस्य जनित्रा समये शुभे
॥५६॥सुवर्णग्राहिणौ येन कर्णौ स्यातां च सुश्रुती ॥
मौंजीबंधोप्यभूदस्य व्यतीतेब्देऽष्टमे हरे ॥
ब्रह्मचर्याभिवृद्ध्यै यो ब्रह्मग्रहणहेतुकः
॥५७॥मौंजीमोक्षणवार्तापि कृता नास्य जनुःकृता ॥
गार्हस्थ्यं प्राप्यते यस्मात्कर्मणोऽनंतरं वरम्
॥५८॥यथाकथंचिदूढाऽथ पत्नी त्यक्तकुलाध्वगा ॥
वृषलीपतिना तेन परदारापहारिणा
॥५९॥आरभ्य पंचमाद्वर्षात्परस्वस्यापहारकः ॥
अभूदेष दुराचारो दुरोदरपरायणः
॥६०॥रुमायां1 वसताऽनेन हतागौरेकवार्षिकी ॥
1.लवणाकरे भूप्रदेशे एकदा दृढदंडेन लिहंती लवणं मृता
॥६१॥जननीं पादपातेन बहुशोऽसावताडयत् ॥
कदाचिदपि नो वाक्यं पितुः कृतमनेन वै
॥६२॥विषं भक्षितवानेष बहुशः कलहप्रियः ॥
जनोपतापशीलोसौ कृतोदरविदारणः
॥५३॥धत्तूरकरवीरादि बहुधोपविषाणि च ॥
क्रीडाकलहमात्रेण भक्षयच्चैष दुर्मतिः
॥६४॥दग्धोसावग्निना सौरे श्वभिश्च कवलीकृतः ॥
शृंगिभिः परितः प्रोतो विषाणाग्रैरसौ बहु
॥६५॥दंदशूकैर्भृशं दष्टो दुष्टः शिष्टैर्विगर्हितः ॥
काष्ठेष्टलोष्टैः पापिष्ठः कृतानिष्टः सदात्मनः
॥६६॥आस्फालितं शिरोनेनासकृच्चापि दुरात्मना ॥
यदर्च्यते सदा सद्भिरुत्तमांगमनेकधा
॥६७॥असौ हि ब्राह्मणो मंदो गायत्रीमपिवेदन ॥
कामतो मत्स्यमांसानि जग्धान्येतेन दुर्धिया
॥६८॥आत्मार्थं पायसमसौ पर्यपाक्षीदनेकधा ॥
लाक्षालवणमांसानां सपयोदधिसर्पिषाम्
॥६९॥विषलोहायुधानां च दासीगोवाजिनामपि ॥
विक्रेताऽसौ सदा मूढस्तथा वै केशचर्मणाम्
॥७०॥शूद्रान्न परिपुष्टांगः पर्वण्यहनि मैथुनी ॥
पराङ्मुखो दैवपित्र्यकर्मण्येष दुरात्मवान्
॥७१॥पक्षिणो घातितानेन मृगाश्चापि परः शतम् ॥
अकारण द्रुमच्छेदी सदा निर्दयमानसः
॥७२॥उद्वेगजनको नित्यं निजबंधुजनेष्वपि ॥
असत्यवादी सततं सदा हिंसापरायणः
॥७२॥अदत्तदानः पिशुनः शिश्नोदरपरायणः ॥
किं बहूक्तेन रविज साक्षात्पातक मूर्तिमान्
॥७४॥रौरवेप्यंधतामिस्रे कुंभीपाकेऽतिरौरवे ॥
कालसूत्रे कृमिभुजि पूयशोणितकर्दमे
॥७५॥असिपत्रवने घोरे यंत्रपीडे सुदंष्ट्रके ॥
अधोमुखे पूतिगंधे विष्ठागर्त्तेष्वभोजने
॥७६॥सूचीभेद्येऽथ संदंशे लालापे क्षुरधारके ॥
प्रत्येकं नरके त्वेष पात्यतां कल्पसंख्यया
॥७७॥धर्मराजः समाकर्ण्य चित्रगुप्तमुखादिति ॥
निर्भर्त्स्य तं दुराचारं किंकरानादिदेश ह
॥७८॥भ्रू संज्ञया हृतैर्नीतः स बद्ध्वा निरयालयम् ॥
आक्रंदरावो यत्रोच्चैः पापिनां रोमहर्षणः
॥७९॥ईश्वर उवाच
यातनास्वतितीव्रासु वाहीके संस्थिते तदा ॥
तत्कालपुण्यफलदे गाङ्गेयांभसि निर्मले
॥८०॥पतितं तद्धि गृध्रास्याद्वाहीकस्य द्विजन्मनः ॥
हरे विमानं तत्कालमापन्नं सुरसद्मतः
॥८१॥घंटावलंबितं दिव्यं दिव्यस्त्रीशतसंकुलम् ॥
आरुह्य देवयानं स दिव्यवेषधरो द्विजः
॥८२॥वीज्यमानोऽप्सरोवृंदैर्दिव्यगंधानुलेपनः ॥
जगाम स्वर्गभुवनं गंगास्थिपतनाद्धरे
॥८३॥स्कंद उवाच
वस्तुशक्तिविचारोयमद्भुतः कोपि कुंभज ॥
द्रवरूपेण काप्येषा शक्तिः सादाशिवी परा
॥८४॥करुणामृतपूर्णेन देवदेवेन शंभुना ॥
एषा प्रवर्तिता गंगा जगदुद्धरणाय वै
॥८५॥यथान्याः सरितो लोके वारिपूर्णाः सहस्रशः ॥
तथैषानानुमंतव्या सद्भिस्त्रिपथगामिनी
॥८६॥श्रुत्यक्षराणि निश्चित्य कारुण्याच्छंभुना मुने ॥
निर्मिता तद्द्रवैरेषा गंगा गंगाधरेण वै
॥८७॥योगोपनिषदामेतं सारमाकृष्य शंकरः ॥
कृपया सर्वजंतूनां चकार सरितां वराम्
॥८८॥अकलानिधयो रात्र्यो विपुष्पाश्चैव पादपाः ॥
यथा तथैव ते देशा यत्र नास्त्यमरापगा
॥८९॥अनयाः संपदो यद्वन्मखा यद्वददक्षिणाः ॥
तद्वद्देशा दिशः सर्वा हीना गंगांभसा हरे
॥९०॥व्योमांगणमनर्कं च नक्तेऽदीपं यथा गृहम ॥
अवेदा ब्राह्मणा यद्वद्गंगाहीनास्तथा दिशः
॥९१॥चांद्रायणसहस्रं तु यः कुर्याद्देहशोधनम् ॥
गंगामृतं पिबेद्यस्तु तयोर्गंगाबुपोऽधिकः
॥९२॥पादेनैकेन यस्तिष्ठेत्सहस्रं शरदां शतम् ॥
अब्दं गंगांबुपो यस्तु तयोर्गंगांबुपोऽधिकः
॥९३॥अवाक्छिराः प्रलंबेद्यः शतसंवत्सरान्नरः ॥
भीष्मसूवालुकातल्पशयस्तस्माद्वरो हरे
॥९४॥पापतापाभितप्तानां भूतानामिह जाह्ववी ॥
पापतापहरा यद्वद्गंगा नान्यत्तथा कलौ
॥९५॥तार्क्ष्यवीक्षणमात्रेण फणिनौ निर्विषा यथा ॥
निष्प्रभाणि तथेनांसि भागीरथ्यवलोकनात्
॥९६॥गंगातटोद्भवां मृत्स्नां यो मौलौ बिभृयान्नरः ॥
बिभर्ति सोऽर्कबिंबं वै तमोनाशाय निश्चितम्
॥९७॥व्यसनैरभिभूतस्य धनहीनस्य पापिनः ॥
गंगैव केवलं तस्य गतिरुक्ता न चान्यथा
॥९८॥श्रुताभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता ॥
पुंसां वंशद्वयं गंगा तारयेन्नात्र संशयः
॥९९॥कीर्तनाद्दर्शनात्स्पर्शाद्गंगापानावगाहनात् ॥
दशोत्तरगुणा ज्ञेया पुण्यापुण्यर्द्धिनाशयोः
॥१००॥न सुतैर्न च वा वित्तैर्नान्येनापि सुकर्मणा ॥
तत्फलं प्राप्यते मर्त्ये गंगामाप्य यदाप्यते
॥१॥जात्यंधाः पंगवस्ते वै जीवंतोप्यथ ते मृताः ॥
समर्था अपि ये गंगां न स्नायुर्मोक्षगर्भिणीम्
॥२॥श्रुतिं निशामय हरे गंगामाहात्म्यभाषिणीम् ॥
विनिश्चितार्थां यां श्रुत्वा श्रयेद्गंगां नरोत्तमः
॥३॥इरावतीं मधुमतीं पयस्विनीममृतरूपामूर्जस्वतीम् ॥
त्रिदिवप्रसूतां गंगां श्रितासस्त्रिदिवं व्रजंति
॥४॥ऋषिजुष्टां विष्णुपदीं पुराणां सुपुण्यधारां मनसा हि लोके ॥
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयांति
॥५॥लोकानिमान्नयति या जननीव पुत्रान्स्वर्गं सदा सर्वगुणोपपन्ना ॥
स्थानमिष्टं ब्राह्ममभीप्समानैर्गंगा सदैवात्मवशैरुपास्या
॥६॥उस्रैर्जुष्टामिषतीं विश्वरूपामिरावतीं जनयित्रीं गुहस्य ॥
शिष्टैः सेव्याममृतां ब्रह्मकांतां गंगां श्रयेदात्मविशुद्धिकामः
॥७॥गंगायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥
विधूतपापो भवति वाजपेयं च विंदति
॥८॥अशुभैः कर्मभिर्ग्रस्तान्मज्जमानान्महार्णवे ॥
पततो निरये गंगा संश्रितानुद्धरेत्सदा
॥९॥ब्रह्मलोकस्तु लोकानां सर्वेषामुत्तमो यथा ॥
सरितां सरसां वापि वरिष्ठा जाह्नवी तथा
॥११०॥अन्यत्र सम्यक्संकल्प्य तपः कृत्वा समा त्रयम् ॥
यत्फलं तद्भवेद्भक्त्या गंगायां घटिकाऽर्धतः
॥११॥स्वर्गस्थस्य न सा प्रीतिर्भुंजतः सुखमक्षयम् ॥
या स्याद्गंगातटे पुंसां रात्रौ चंद्रोदये सति
॥१२॥जरारोगाभिपन्नं तु कुणपं जाह्नवी जले ॥
धैर्येण तृणवत्त्यक्त्वा प्रविशेदमरावतीम्
॥१३॥वार्योघैः सततं यस्याः प्लाव्यते शशिमंडलम् ॥
भूयोधिकतरां शोभां बिभर्ति तदहः क्षये
॥१४॥आहुतस्य जले यस्याः सद्यो नश्यंति पातकम् ॥
महतः श्रेयसः प्राप्तिस्तत्क्षणादेव जायते
॥१५॥पितृभ्यः श्रद्धया यत्र दत्तास्त्वापः स्ववंशजैः ॥
प्रयच्छंति परां तृप्तिं शरदां त्रयमच्युत
॥१६॥तारयेत्क्षितियान्मर्त्यानधःस्थांश्च सरीसृपान् ॥
स्वर्गे स्वर्गसदो विष्णोर्गं(?)गा त्रिपथगा ततः
॥१७॥तीर्थानामुत्तमं तीर्थं सरितामुत्तमा सरित् ॥
स्वर्गदा सर्वजंतूनां महापातकिनामपि
॥१८॥अध्युष्टाः कोटयो विष्णो संति तीर्थानि सर्वतः ॥
दिवि भुव्यंतरिक्षे च जाह्नव्यां तानि कृत्स्नशः
॥१९॥ज्ञात्वाज्ञात्वा च गंगायां यः पंचत्वमवाप्नुयात् ॥
अनात्मघाती स्वर्गी स्यान्नरकान्स न पश्यति
॥१२०॥गंगैव सर्वतीर्थानि गंगैव च तपोवनम् ॥
गंगैव सिद्धिक्षेत्रं हि नात्र कार्या विचारणा
॥२१॥यत्र कामफला वृक्षा मही यत्र हिरण्मयी ॥
जाह्नवी स्नायिनस्तत्र निवसंति घटोद्भव
॥२२॥धेनुं भागीरथी तीरे सुशीलां च पयस्विनीम् ॥
वासोरत्नैरलंकृत्वा ब्राह्मणाय ददाति यः
॥२३॥यावंति तस्या लोमानि मुने तत्संततेरपि ॥
तावद्वर्षसहस्राणि स स्वर्गसुखभुग्भवेत्
॥१२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमानामाष्टाविंशतितमोऽध्याय ॥ २८ ॥