मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८२

3
काशीखण्डः · 82

वीरेशस्य महेशान श्रूयते महिमा महान्

पार्वत्युवाच

वीरेशस्य महेशान श्रूयते महिमा महान् ॥

परां सिद्धिं परोपतुस्तत्र सिद्धाः परः शताः

॥१॥

कथमाविर्भवस्तस्य काश्यां लिंगवरस्य तु ॥

आशुसिद्धिप्रदस्येह तन्मे ब्रूहि जगत्पते

॥२॥

महेश्वर उवाच

निशामय महादेवि वीरेशाविर्भवं परम् ॥

यं श्रुत्वापि नरः पुण्यं प्राप्नोति विपुलं शिवे

॥३॥

आसीदमित्रजिन्नाम राजा परपुरंजयः ॥

धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः

॥४॥

यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥

सदैवावभृथस्नानपरिक्लिन्न शिरोरुहः

॥५॥

विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ॥

विद्याब्धिपारदृश्वा च गुणवान्गुणिवत्सलः

॥६॥

कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥

सत्यवाक्छौचनिलयः स्वल्पवाग्विजितेंद्रियः

॥७॥

रणांगणे कृतांताभः संख्यावांश्च सदोजिरे ॥

कामिनीकामकेलिज्ञो युवापि स्थविरप्रियः

॥८॥

धर्मार्थैधितकोशश्च समृद्धबलवाहनः ॥

सुभगश्च सुरूपश्च सुमेधाः सुप्रजाश्रयः

॥९॥

स्थैर्य धैर्य समापन्नो देशकालविचक्षणः ॥

मन्यमानप्रदो नित्यं सर्वदूषणवर्जितः

॥१०॥

वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय सः ॥

चकार राज्यं निर्द्वंद्वं विष्वगीति विवर्जितम्

॥११॥

अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥

अभुनक्प्रचुरान्भोगान्समंताद्विष्णुसात्कृतान्

॥१२॥

हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे ॥

तस्य राज्ये समभवन्महाभाग्यनिधेः शिवे

॥१३॥

गोविंदगोपगोपाल गोपीजनमनोहर ॥

गदापाणे गुणातीत गुणाढ्य गरुडध्वज

॥१४॥

केशिहृत्कैटभाराते कंसारे कमलापते ॥

कृष्णकेशव कंजाक्ष कीनाश भयनाशन

॥१५॥

पुरुषोत्तम पापारे पुंडरीकविलोचन ॥

पीतकौशेयवसन पद्मनाभ परात्पर

॥१६॥

जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः ॥

जन्मिनां जन्महरण जंजपूकाघनाशन

॥१७॥

श्रीवत्सवक्षः श्रीकांत श्रीकर श्रेयसां निधे ॥

श्रीरंगशार्ङ्गकोदंड शौरे शीतांशुलोचन

॥१८॥

दैत्यारे दानवाराते दामोदर दुरंतक ॥

देवकीहृदयानंद दंदशूकेश्वरेशय

॥१९॥

विष्णो वैकुंठनिलय बाणारे विष्टरश्रवः ॥

विष्वक्सेन विराधारे वनमालिन्वनप्रिय

॥२०॥

त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज ॥

इत्यादीनि पवित्राणि नामानि प्रतिमंदिरम्

॥२१॥

स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु ॥

श्रूयते यत्रकुत्रापि रम्याणि मधुविद्विषः

॥२२॥

सुरसाकाननान्येव विलोक्यंते गृहेगृहे ॥

चरित्राणि विचित्राणि पवित्राण्यब्धिजापतेः

॥२३॥

सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु ॥

ऋते हरिकथायास्तु नान्या वार्ता निशम्यते

॥२४॥

हरिणा नैव विध्यंते हरिनामांशधारिणः ॥

तस्य राज्ञो भयाद्व्याधैररण्यसुखचारिणः

॥२५॥

न मत्स्या नैव कमठा न वराहाश्च केनचित् ॥

हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनापि वै

॥२६॥

अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित् ॥

स्तनपानं न कुर्वंति संप्राप्य हरिवासरम्

॥२७॥

पशवोपि तृणाहारं परित्यज्य हरेर्दिने ॥

उपोषणपरा जाता अन्येषां का कथा नृणाम्

॥२८॥

महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥

तस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे

॥२९॥

स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ ॥

यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि

॥३०॥

अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ॥

संप्राप्य वैष्णवीं दीक्षां दीक्षिता इव संबभुः

॥३१॥

शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ॥

वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः

॥३२॥

विना मुकुंदं गोविदं परमानंदमच्युतम् ॥

नान्यो जप्येतमन्येत न भज्येत जनैः क्वचित्

॥३३॥

कृष्ण एव परो देव कृष्णएव परागतिः ॥

कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः

॥३४॥

एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति ॥

एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ

॥३५॥

राज्ञा समर्चितः सोथ मधुपर्क विधानतः ॥

नारदो वर्णयामास तममित्रजितं नृपम्

॥३६॥

नारद उवाच

धन्योसि कृतकृत्योसि मान्योप्यसि दिवौकसाम् ॥

सर्वभूतेषु गोविंदं परिपश्यन्विशांपते

॥३७॥

यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥

योंतरात्मास्य जगतः कर्ता हर्ताविता विभुः

॥३८॥

तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥

दर्शनं प्राप्य शुभदं शुचित्वमगमं परम्

॥३९॥

एक एव हि सारोत्र संसारे क्षणभंगुरे ॥

कमलाकांत पादाब्ज भक्तिभावोऽखिलप्रदः

॥४०॥

परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत् ॥

सुमेधसं भजंते तं पदार्थाः सर्व एव हि

॥४१॥

हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥

स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले

॥४२॥

यौवनं धनमायुष्यं पद्मिनीजलबिंदुवत् ॥

अतीव चपलं ज्ञात्वाऽच्युतमेकं समाश्रयेत्

॥४३॥

वाचि चेतसि सर्वत्र यस्य देवो जनार्दनः ॥

स एव सर्वदा वंद्यो नररूपी जनार्दनः

॥४४॥

निर्व्याज प्रणिधानेन शीलयित्वा श्रियःपतिम् ॥

पुरुषोत्तमतां को न प्राप्तवानिह भूतले

॥४५॥

अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ॥

उपकर्तुमना ब्रूयां तन्निशामय भूपते

॥४६॥

बाला विद्याधरसुता नाम्ना मलयगंधिनी ॥

क्रीडंती पितुराक्रोडे हृता कंकालकेतुना

॥४७॥

कपालकेतुपुत्रेण दानवेन बलीयसा ॥

आगामिन्यां तृतीयायां तस्याः पाणिग्रहृं किल

॥४८॥

पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ॥

हाटकेशात्समागच्छंस्तया हंसाश्रुनेत्रया

॥४९॥

दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निथामय ॥

ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः

॥५०॥

बालक्रीडनकासक्तां मोहयित्वा निनाय सः ॥

कंकालकेतुर्दुर्वृत्तो दुर्जयोन्यास्त्रघाततः

॥५१॥

स्वस्य त्रिशूलघातेन म्रियते नान्यथा रणे ॥

जगत्पर्याकुलीकृत्य निद्रात्यत्रविनिर्भयः

॥५२॥

यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥

मद्दत्तेन त्रिशूलेन नयेद्भद्रं भवेन्नरः

॥५३॥

यदत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्टदानवात् ॥

ममापि हि वरो दत्तो भगवत्या महामुने

॥५४॥

विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ॥

आ तृतीया तिथि यथा तद्वाक्यं तथ्यतां व्रजेत्

॥५५॥

तथा निमित्तमात्रं त्वं भव यत्नं समाचर ॥

इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥

युवानं चापि धीमंतं त्वामनु प्राप्तवानहम्

॥५६॥

तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम् ॥

आनयाशु महाबाहो शुभां मलयगंधिनीम्

॥५७॥

सा तु विद्याधरी जीवेद्विलोक्य त्वां नरेश्वर ॥

पार्वतीवचनाद्दुष्टं घातयिष्यत्ययत्नतः

॥५८॥

इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥

अनल्पोत्कलिको जातो विद्याधरसुतां प्रति

॥५९॥

उपायं चापि पप्रच्छ गंतुं तां चंपकावतीम् ॥

नारदेन पुनः प्रोक्तः स राजा गिरिराजजे

॥६०॥

तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ॥

भवान्द्रक्ष्यति पोतस्थः कल्पवृंदारथस्थितम्

॥६१॥

तत्र दिव्यांगना काचिद्दिव्यपर्यंक संस्थिता ॥

वीणामादाय गायंती गाथां गास्यति सुस्वरम्

॥६२॥

यत्कर्मविहितं येन शुभं वाथ शुभेतरम् ॥

स एव भुंक्ते तत्तथ्यं विधिसूत्रनियंत्रितः

॥६३॥

गाथामिमां सा संगीय सरथा स महीरुहा ॥

सपर्यंका क्षणादेव मध्ये सिंधुं प्रवेक्ष्यति

॥६४॥

भवानप्यविशंकं च ततः पोतान्महार्णवे ॥

तामनु व्रजतु क्षिप्रं यज्ञवाराहमास्तुवन्

॥६५॥

ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ॥

महामनोहरा राजन्सहितां बालयानया

॥६६॥

इत्युक्त्वांतर्हितो देवि स चतुर्मुखनंदनः ॥

राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च

॥६७॥

विवेशांतःसमुद्रं च नगरीमाससाद ताम् ॥

साथ विद्याधरी बाला नेत्रप्राघुणकी कृता

॥६८॥

तेन राज्ञा त्रिजगती सौंदर्यश्रीरिवैकिका ॥

पातालदेवतेयं वा ममनेत्रोत्सवाय किम्

॥६९॥

निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा ॥

कुहूराहुभयादेषा कांतिश्चांद्रमसी किमु

॥७०॥

योषिद्रूपं समाश्रित्य तिष्ठतेऽत्राकुतोऽभया ॥

इत्थं क्षणं तां निर्वर्ण्य स राजागात्तदंतिकम्

॥७१॥

सा विलोक्याथ तं बाला नितरां मधुराकृतिम् ॥

विशालोरस्थलतलं प्रलंबतुलसीस्रजम्

॥७२॥

शंखचक्रांकसुभग भुजद्वयविराजितम् ॥

हरिनामाक्षरसुधा सुधौत रदनावलिम्

॥७३॥

भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम् ॥

मनोरथफलैः पूर्णमासीद्धृष्टतनूरुहा

॥७४॥

दोलापर्यंकमुत्सृज्य ह्रीभरा नम्रकंधरा ॥

वेपथुं च परिष्टभ्य बाला प्रोवाच भूपतिम्

॥७५॥

कस्त्वमत्र कृतांतस्य भवनं मधुराकृते ॥

प्राप्तो मे मंदभाग्यायाश्चेतोवृत्तिं निरुंधयन्

॥७६॥

यावन्नायाति सुभग स कठोरतराकृतिः ॥

अतिपर्याकुलीकृत्य त्रिलोकीं दानवो मुहुः

॥७७॥

कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ॥

तावद्गुप्तं समातिष्ठ शस्त्रागारेति गह्वरे

॥७८॥

न मे कन्याव्रतं भंक्तुं स समर्थ उमा वरात् ॥

आगामिन्यां तृतीयायां परश्वः पाणिपीडनम्

॥७९॥

संचिकीर्षति दुष्टात्मा गतायुर्मम शापतः ॥

मा तद्भीतिं कुरु युवंस्तत्कार्यं भविताचिरम्

॥८०॥

विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ॥

स्थितो वीरो महाबाहुर्दानवागमने क्षणः

॥८१॥

अथ सायं समायातो दानवो भीषणाकृतिः ॥

त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम्

॥८२॥

आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ॥

विद्याधरीं जगादेति मदाघूर्णितलोचनः

॥८३॥

गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥

कन्यात्वं च परश्वस्ते पाणिग्राहादपैष्यति

॥८४॥

दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ॥

आसुरीणां सुरीणां च दानवीनां मनोहरम्

॥८५॥

गंधर्वीणां नरीणां च किन्नरीणां शतंशतम् ॥

विद्याधरीणां नागीनां यक्षिणीनां शतानि षट्

॥८६॥

राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥

एतास्ते परिचारिण्यो भविष्यंत्यमलाशये

॥८७॥

यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ॥

मत्परिग्रहतां प्राप्य तावतस्त्वमिहेश्वरी

॥८८॥

दिव्यान्भोगान्मया सार्धं भोक्ष्यसे मत्परिग्रहात् ॥

कदा परश्वो भविता यस्मिन्वैवाहिको विधिः

॥८९॥

त्वदंगसंगसंस्पर्श सुखसंदोह मेदुरः ॥

परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि

॥९०॥

मनोरथाश्चिरं यावद्यं मे हृदि समेधिताः ॥

तान्कृतार्थी करिष्यामि परश्वस्तव संगमात्

॥९१॥

जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलोचने ॥

त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम्

॥९२॥

आधायांके त्रिशूलं स्वे सुष्वापेति प्रलप्य सः ॥

नरमांसवसास्वाद प्रमत्तो वीतसाध्वसः

॥९३॥

वरं स्मरंती सा गौर्या विद्याधरकुमारिका ॥

विज्ञाय तं प्रमत्तं च सुसुप्तं चातिनिर्भयम्

॥९४॥

आहूय तं नरवरं वरं सर्वांगसुंदरम् ॥

विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च

॥९५॥

शूलं तदंकादादाय गृहाणेमं जहि द्रुतम् ॥

इति त्रिशूलं बालातो बालार्कसदृशद्युति

॥९६॥

समादाय महाबाहुः स तदा मित्रजिन्नृपः ॥

जहर्ष च जगादोच्चैर्बालायाश्चाभयं दिशन्

॥९७॥

वामपादप्रहारेण तमाताड्य स निर्भयः ॥

संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम्

॥९८॥

जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस ॥

युध्यस्वात्र मया सार्धं न सुप्तं हन्म्यहं रिपुम्

॥९९॥

इति संश्रुत्य संभ्रांत उत्थाय स दनोः सुतः ॥

त्रिशूलं देहि मे कांते प्रोवाचेति मुहुर्मुहुः

॥१००॥

कोयं मृत्युगृहं प्राप्तः कस्य रुष्टोऽद्य चांतकः ॥

क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम्

॥१॥

मम प्रचंड दोर्दंड कंडू कंडूयन क्षमः ॥

नाल्पो नरोयं भविता किं त्रिशूलेन सुंदरि

॥२॥

माभैर्मे कौतुकं पश्य भक्ष्योऽयं मम सांप्रतम् ॥

कालेन मत्तो भीतेन स्वयमेवोपढौकितः ।

इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दनुसूनुना ॥

हृदये निहतो राजा शिलातिकठिने द्रुतम्

॥४॥

स चक्रिणा कृतत्राणः पीडामल्पीयसीमपि ॥

नो वेद कठिनोरस्कस्तत्करं प्रत्युतानुदत्

॥५॥

अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥

आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः

॥६॥

उवाच च वचो धैर्यमवष्टभ्य महाबली

॥७॥

दानव उवाच

ज्ञातं न त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥

आयातश्छिद्रमासाद्य हंतुं मां दानवांतकः

॥८॥

एकं विधेहि मधुभिद्यदि त्वं बलवानसि ॥

विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया

॥९॥

त्वया कपटरूपेण बलिनः कैटभादयः ॥

न बलेन हताः संख्ये हता एवच्छलेन हि ॥

बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥

नृमृगत्वेन भवता हिरण्यकशिपुर्हतः

॥११॥

त्वया जटिलरूपेण लंकेशो विनिपातितः ॥

गोपालवेषमासाद्य कंसाद्या घातितास्त्वया

॥१२॥

स्त्रीरूपेणाहरस्त्वं तु विप्रलाप्या सुरान्सुधाम् ॥

यादो रूपेण भवता शंखाद्यानि हता बहु

॥१३॥

मायाविनामग्रगण्य सर्वमर्मज्ञसाधक ॥

न त्वत्तोहं बिभेम्यद्य यदि शूलं विहास्यसि

॥१४॥

अथवा दैन्यवचनः किमेभिः कातरोचितैः ॥

न त्यक्ष्यसि त्रिशूलं त्वं न त्वां जेष्याम्यहं रणे

॥१५॥

अवश्यमेव मर्तव्यमद्य प्रातः शरीरिणा ॥

त्वत्करेण वरं मृत्युर्बलेनापिच्छलेन वा

॥१६॥

इयं विद्याधरी कन्या न मया दूषिता सती ॥

साक्षाच्छ्रीरेव मंतव्या तवार्थं रक्षिता मया

॥१७॥

इत्युक्त्वा वामदोर्दंडप्रहारेणातिनिष्ठुरम् ॥

निजघान दनोः सूनुस्तं शिलोच्चयकंपिना

॥१८॥

नृपो वक्षः प्रहारं तं विषह्य रण मूर्द्धनि ॥

लक्षीचकार तद्वक्षस्त्रिशूलं तोलयन्करे

॥१९॥

निजघान महाबाहुः स च प्राणाञ्जहौ क्षणात् ॥

इत्थं कंकालकेतुं स निहत्य सुरकंपनम्

॥१२०॥

विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहाम् ॥

नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम्

॥२१॥

कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥

श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसः

॥२२॥

मलयगंधिन्युवाच

अथोदारमते वीर निज प्राणैः पणीकृताम् ॥

किं मां पृच्छसि जीवातो कुलकन्या प्रदूषिताम्

॥२३॥

इति ब्रुवत्यां कन्यायां पुनः स्वैरचरो मुनिः ॥

अतर्कितागमः प्राप्तो नारदो देवलोकतः

॥२४॥

ततस्तुतुषतुस्तौ तु दृष्ट्वा तं मुनिसत्तमम् ॥

कृतप्रणामौ मुनिना परिविश्राणिताशिषौ

॥२५॥

पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥

जग्मतुर्नारदादिष्ट वर्त्मना कृतमंगलौ

॥२६॥

तया मलयगंधिन्या युतः सोऽमित्रजिन्नृपः ॥

पुरीं वाराणसीं प्राप्य पौरैर्विहितमंगलाम्

॥२७॥

यद्वीक्षणादपि नरो नारकी नैव जातुचित् ॥

गतिमाप्नोति मेधावी तां पुरीमविशन्नृपः

॥२८॥

यस्यां पुर्यां प्रवेशं न लभंते वासवादयः ॥

कैवल्यजनयित्र्यां हि तां पुरीमविशन्नृपः

॥२९॥

अपि स्मृत्वा पुरीं यां वै काशीं त्रैलोक्यकांक्षिताम् ॥

न नरो लिप्यते पापैस्तां विवेश स भूपतिः

॥१३०॥

यस्यां पुर्यां प्रविष्टो ना महद्भिरपि पातकैः ॥

नाभिभूयेत तां काशीं प्राविशत्स विशांपतिः

॥३१॥

सापि विद्याधरी काशी समृद्धिं वीक्ष्य दूरतः ॥

निनिंद स्वर्गलोकं च पातालनगरीमपि

॥३२॥

प्राप्या मित्रजितं कांतं तथा हृष्टा न सा वधूः ॥

यथा दृष्ट्वाप्यहो काशीं परमानंदकेतनम्

॥३३॥

सा कृतार्थमिवात्मानं मन्यमाना मनस्विनी ॥

तेन पत्या च काश्या च परां निर्वृतिमाययौ

॥३४॥

सोप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ॥

धर्मप्रधानं संसेव्य कामं प्राप्तोत्तमं सुखम्

॥३५॥

सैकदा तं पतिं राज्ञी विष्णुभक्तिपरायणम् ॥

रहो विज्ञापयांचक्रे पतिभक्ता सुतार्थिनी

॥३६॥

राज्ञ्युवाच

भूपाभीष्टतृतीयायाश्चरिष्यामि महाव्रतम् ॥

यद्यनुज्ञा भवेद्भर्तुः पुत्रकामार्थितप्रदम्

॥३७॥

राजोवाच

देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ॥

का देवता तत्र पूज्या विधानं चापि किं फलम्

॥३८॥

नारी पत्यननुज्ञाता या व्रतादि समाचरेत् ॥

जीवंती दुःखिनी सा स्यान्मृता निरयमृच्छति

॥३९॥

इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥

इति कर्तव्यतां तस्य व्रतस्य सरहस्यकाम्

॥१४०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्ध वीरेश्वराविर्भावेऽमित्रजित्पराक्रमो नाम द्व्यशीतितमोध्यायः ॥ ८२ ॥