मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३

3
काशीखण्डः · 3

अगस्त्याश्रमवर्णनम्

सूत उवाच

भगवन्भूतभव्येश सर्वज्ञानमहानिधे ॥

अवाप्य काशीं गीर्वाणैः किमकारि वदाच्युत

॥१॥

अधीत्येमां कथां दिव्यां न तृप्तिमधियाम्यहम् ॥

शेवधिस्तपसां देवैरगस्तिः प्रार्थितः कथम्

॥२॥

कथं विंध्योप्यवाप स्वां प्रकृतिं तादृगुन्नतः ॥

तववागमृतांभोधौ मनो मे स्नातुमुत्सुकम्

॥३॥

इति कृत्स्नं समाकर्ण्य व्यासः पाराशरो मुनिः ॥

श्रद्धावते स्वशिष्याय वक्तुं समुपचक्रमे

॥४॥

पाराशर उवाच

शृणु सूत महाबुद्धे भक्तिश्रद्धासमन्वितः ॥

शुकवैशंपायनाद्याः शृण्वंत्वेते च बालकाः

॥५॥

ततो वाराणसीं प्राप्य गीर्वाणाः समहर्षयः ॥

अविलंबं प्रथमतो म णिकर्ण्यां विधानतः

॥६॥

सचैलमभिमज्ज्याथ कृतसंध्यादिसत्क्रियाः ॥

संतर्प्य तर्प्यादिपितॄन्कुशगंधतिलोदकैः

॥७॥

तीर्थवासार्थिनः सर्वान्संतर्प्य च पृथक्पृथक् ॥

रत्नैर्हिरण्यवासोभिरश्वाभरणधेनुभिः

॥८॥

विचित्रैश्च तथा पात्रैः स्वर्णरौप्यादि निर्मितैः ॥

अमृतस्वादुपक्वान्नैः पायसै श्च सशर्करैः

॥९॥

सगोरसैरन्नदानैर्धान्यदानैरनेकधा ॥

गंधचंदनकर्पूरैस्तांबूलैश्चारुचामरैः

॥१०॥

सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः ॥

शिबिकादासदासीभिर्विमानैःपशुभिर्गृहैः

॥११॥

चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः ॥

वर्षाशनप्रदानैश्च गृहोपस्करसंयुतैः

॥१२॥

उपानत्पादुकाभिश्च यतिनश्च तपस्विनः ॥

योग्यैः पट्टदुकूलैश्च विविधैश्चित्ररल्लकैः

॥१३॥

दंडैः कमंडलुयुतैरजिनैर्मृगसंभवैः ॥

कौपीनैरुच्चमंचैश्च परिचारककांचनैः

॥१४॥

मठैर्विद्यार्थिनामन्नैरतिथ्यर्थं महाधनैः ॥

महापुस्तकसंभारैर्लेखकानां च जीवनैः

॥१५॥

बहुधौषधदानैश्च सत्रदानैरनेकशः ॥

ग्रीष्मे प्रपार्थद्रविणैर्हेमंतेग्निष्टिकेंधनैः

॥१६॥

छत्राच्छादनिकाद्यर्थे वर्षाकालोचितैर्बहु ॥

रात्रौ पाठप्रदीपैश्च पादाभ्यंजनकादिभिः

॥१७॥

पुराणपाठकांश्चापि प्रतिदेवालयं धनैः ॥

देवालये नृत्यगीतकरणार्थैरनेकशः

॥१८॥

देवालय सुधाकार्यैर्जीर्णोद्धारैरनेकधा ॥

चित्रलेखनमूल्यैश्च रंगमालादिमंडनैः

॥१९॥

नीराजनैर्गुग्गुलुभिर्दशां गादि सुधूपकैः ॥

कर्पूरवर्तिकाद्यैश्च देवार्चार्थैरनेकशः

॥२०॥

पंचामृतानां स्नपनैः सुगंध स्नपनैरपि ॥

देवार्थं मुखवासैश्च देवोद्यानैरनेकशः

॥२१॥

महापूजार्थमाल्यादि गुंफनार्थैस्त्रिकालतः ॥

शंखभेरीमृदंगादिवाद्यनादैः शिवालये

॥२२॥

घंटागुडुककुंभादि स्नानोपस्करभाजनैः ॥

श्वेतैर्मार्जनवस्त्रैश्च सुगंधैर्यक्षकर्दमैः

॥२३॥

जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः ॥

रासक्रीडादिसंयुक्तैश्चलनैः सप्रदक्षिणैः

॥२४॥

एवमादिभिरुद्दंडैः क्रियाकांडैरनेकशः ॥

पंचरात्रमुषित्वा तु कृत्वा तीर्थान्यनेकशः

॥२५॥

दीनानाथांश्च संतर्प्य नत्वा विश्वेश्वरं विभुम् ॥

ब्रह्मचर्यादिनियमैस्तीर्थमेवं प्रसाध्य च

॥२६॥

पुनः पुनर्विश्वनाथं दृष्ट्वा स्तुत्वा प्रणम्य च ॥

जग्मुः परोपकारार्थमगस्तिर्यत्र तिष्ठति

॥२७॥

स्वनाम्ना लिंगमास्थाप्य कुंडं कृत्वा तदग्रतः ॥

शतरुद्रियसूक्तेन जपन्निश्चलमानसः

॥२८॥

तं दृष्ट्वा दूरतो देवा द्वितीयमिव भास्करम् ॥

ज्वलज्ज्वलनसंकाशैरंगैः सर्वत्रसोज्ज्वलम्

॥२९॥

साक्षात्किंवाडवाग्निर्वा मूर्त्या वै तप्यते तपः ॥

स्थाणुवन्निश्चलतरं निर्मलं सन्मनो यथा

॥३०॥

अथवा सर्व तेजांसि श्रित्वेमां ब्राह्मणीं तनुम् ॥

शीलयंति परं धाम शातंशांत पदाप्तये

॥३१॥

तपनस्तप्यतेऽत्यर्थं दहनोपि हि दह्यते ॥

यत्तीव्रतपसाद्यापि चपलाऽचपलाभवत्

॥३२॥

यस्याश्रमे ऽत्र दृश्यंते हिंस्रा अपि समंततः ॥

सत्त्वरूपा अमी सत्त्वास्त्यक्त्वा वैरं स्वभावजम्

॥३३॥

शुंडादंडेन करटिः सिंहं कंडूयतेऽभयः ॥

अष्टापदांके स्वपिति केसरी केसरोद्भटः

॥३४॥

सूकरः स्तब्धरोमापि विहाय निजयूथकम् ॥

चरेद्वनशुनां मध्ये मुस्तान्यस्तेक्षणोबली

॥३५॥

भूदारोपि न भूदारं तथाकुर्याद्यथाऽन्यतः ॥

सर्वा लिंगमयी काशी यतस्तद्भीतियंत्रितः

॥३६॥

क्रोडीकृत्य क्रोडपोतं तरक्षुः क्रीडयत्यहो ॥

शार्दूलबालानुत्सार्य शार्दूलीमेणपोतकः

॥३७॥

चलत्पुच्छोथ पिबति फेनिलेनाननेन वै ॥

स्वपंतं लोमशं भल्लं वानरश्चलदंगुलिः

॥३८॥

यूका संवीक्ष्यवीक्ष्यैव भक्षयेद्दंतकोटिभिः ॥

गोलांगूलारक्तमुखानीलां गा यूथथनायकाः

॥३९॥

जातिस्वभावमात्सर्यं त्यक्त्वैकत्र रमंति च ॥

शशाः क्रीडंति च वृकैस्तैः पृष्ठलुंठनैर्मुहुः

॥४०॥

आखुश्चाखुभुजः कर्णं कंडूयेत चलाननः ॥

मयूरपुच्छपुटगो निद्रात्योतुः सुखाधिकम्

॥४१॥

स्वकंठं घर्षयत्येव केकिकंठे भुजंगमः ॥

भुजंगमफणापृष्ठे नकुलः स्वकुलोचितम्

॥४२॥

वैरं परित्यज्य लुठेदुत्प्लुत्योत्प्लुत्य लीलया ॥

आलोक्य मूषकं सर्पश्चरंतं वदनाग्रतः

॥४३॥

क्षुधांधोपि न गृह्णाति सोपि तस्माद्बिभेति नो ॥

प्रसूयमानां हरिणीं दृष्ट्वा कारुण्यपूर्णदृक्

॥४४॥

तद्दृष्टिपातं मुंचन्वै व्याघ्रो दूरं व्रजत्यहो ॥

व्याघ्री व्याघ्रस्य चरितं मृगी मृगविचेष्टितम् ॥

उभे कथयतो ऽन्योन्यं सख्याविवमुदान्विते

॥४५॥

दृष्ट्वाप्युद्दंडकोदंडं शबरं शंबरोमृगः ॥

धृष्टो न वर्त्म त्यजति सोपि कंडूयतेपि तम्

॥४६॥

रोहितोऽरण्यमहिषमुद्धर्षति निराकुलः ॥

चमरीशबरीकेशैः संमिमीते स्ववालधिम्

॥४७॥

गवयः शल्यकश्चाऽयमुभावेकत्रतिष्ठतः ॥

तीव्रमात्सर्यमुत्सृज्य मुनितेजोनियंत्रितौ

॥४५॥

हुंडौ च मुंड युद्धाय न सज्जेते जयैषिणौ ॥

एणशावं सृगालोपि मृदुस्पृशति पाणिना

॥४९॥

तृण्वंति तृणगुल्मादीन्श्वापदास्त्वापदास्पदम् ॥

लोकद्वये दुःखहंहि धिक्तन्मांसस्य भक्षणम्

॥५०॥

यः स्वार्थं मांसपचनं कुरुते पापमोहितः ॥

यावंत्यस्य तु रोमाणि तावत्स नरके वसेत्

॥५१॥

परप्राणैस्तु ये प्राणान्स्वान्पुष्णं ति हि दुर्धियः ॥

आकल्पं नरकान्भुक्त्वा ते भुज्यंतेत्र तैः पुनः

॥५२॥

जातुमांसं न भोक्तव्यं प्राणैः कंठगतैरपि ॥

भोक्तव्यं तर्हि भोक्तव्यं स्वमांसं नेतरस्य च

॥५३॥

वरमेतेश्वापदा वै मैत्रावरुणि सेवया ॥

येषां न हिंसने बुद्धिर्नतु हिंसापरा नराः

॥५४॥

बकोपि पल्वले मत्स्यान्नाश्नात्यग्रेचरानपि ॥

न महांतोप्यमहतो मत्स्या मत्स्यानदंति वै

॥५५॥

एकतः सर्वमांसानि मत्स्यमांसं तथकैतः ॥

स्मृतिः स्मृतेति किंत्वेभिरतोमत्स्याञ्जहत्यमी

॥५६॥

श्येनोपि वर्तिकां दृष्ट्वा भवत्येष पराङ्मुखः ॥

चित्रमत्रापि मधुपा भ्रमंति मलिनाशयाः

॥५७॥

सुचिरं नरकान्भुक्त्वा मदिरापानलंपटाः ॥

मधुपा एव गायंते भ्रांतिभाजः पुनः पुनः

॥५८॥

अतएव पुराणेषु गाथेति परिगीयते ॥

स्फुटार्थात्र पुराणज्ञैर्ज्ञात्वा तत्त्वं पिनाकिनः

॥५९॥

क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् ॥

मद्यमांसरतानां च दूरे तिष्ठति शंकरः

॥६०॥

विना शिवप्रसादं हि भ्रांतिः क्वापि न नश्यति ॥

अतएव भ्रमंत्येते भ्रमराः शिववर्जिताः

॥६१॥

इत्याश्रमचरान्दृष्ट्वा तिर्यञ्चोपि मुनीनिव ॥

अबोधिविबुधैरित्थं प्रभावः क्षेत्रजस्त्वयम्

॥६२॥

यतो विश्वेश्वरेणैते तिर्यञ्चोप्यत्रवासिनः ॥

निधनावसरे मोच्यास्तारक स्योपदेशतः

॥६३॥

ज्ञात्वा क्षेत्रस्य माहात्म्यं यो वसेत्कृतनिश्चयः ॥

तं तारयति विश्वेशो जीवंतमथवा मृतम्

॥६४॥

अविमुक्तरहस्यज्ञा मुच्यंते ज्ञानि नो नराः ॥

अज्ञानिनोपि तिर्यञ्चो मुच्यंते गतकिल्बिषाः

॥६५॥

इत्याश्चर्यपरा देवा यावद्यांत्याश्रमं मुनेः ॥

तावत्पक्षिकुलं दृष्ट्वा भृशं मुमुदिरे पुनः

॥६६॥

सारसो लक्ष्मणाकंठे कंठमाधाय निश्चलः ॥

मन्यामहे न निद्रातिध्यायेद्विश्वेश्वरं किल ॥

६७ कंडूयमाना वरटा स्वचंचुपुटकोटिभिः ॥

हंसं कामयमानं तु वारयेत्पक्षधूननैः

॥६८॥

निरुद्ध्यमान चक्रेण चक्रीक्रेंकितभाषणैः ॥

वदतीति किमत्रापि कामिता कामिनां वर

॥६९॥

कलकंठः किलोत्कंठं मंजुगुंजति कुंजगः ॥

ध्यानस्थः श्रोष्यति मुनिः पारावत्येति वार्यते

॥७०॥

केकीकेकां परित्यज्य मौनं तिष्ठति तद्भयात् ॥

चकोरश्चंद्रिका भोक्ता नक्तव्रतमिवास्थितः

॥७१॥

पठंती सारिकासारं शुकंसंबोधयत्यहो ॥

अपारावारसंसारसिंधुपारप्रदः शिवः

॥७२॥

कोकिलः कोमलालापैः कलयन्किलकाकलीम् ॥

कलिकालौ कलयतः काशीस्थान्नेतिभाषते

॥७३॥

मृगाणां पक्षिणामित्थं दृष्ट्वा चेष्टां त्रिविष्टपम् ॥

अकांडपातसंकष्टं निनिंदुस्त्रिदशा बहु

॥७४॥

वरमेतेपक्षिमृगाः पशवः काशिवासिनः ॥

येषां न पुनरावृत्तिर्नदेवानपुनर्भवाः

॥७५॥

काशीस्थैः पतितैस्तुल्या न वयं स्वर्गिणः क्वचित् ॥

काश्यां पाताद्भयं नास्ति स्वर्गेपाताद्भयं महत्

॥७६॥

वरं काशीपुरी वासो मासोपवसनादिभिः ॥

विचित्रच्छत्रसंछायं राज्यं नान्यत्र नीरिपु

॥७७॥

शशकैर्मशकैः काश्यां यत्पदं हेलयाप्यते ॥

तत्पदं नाप्यतेऽन्यत्र योगयुक्त्यापि योगिभिः

॥७८॥

वरं वाराणसीरंको निःशंकोयो यमादपि ॥

न वयं त्रिदशायेषां गिरितोपीदृशी दशा

॥७९॥

ब्रह्मणो दिवसाष्टांशेषपदमैंद्रं विनश्यति ॥

सलोकपाल सार्कं च सचंद्रग्रहतारकम्

॥८०॥

परार्धद्वयनाशेपि काशीस्थो यो न नश्यति ॥

तस्मात्सर्वप्रयत्नेन काश्यां श्रेयः समाचरेत्

॥८१॥

यत्सुखं काशिवासेत्र न तद्ब्रह्मांडमंडपे ॥

अस्ति चेत्तत्कथं सर्वे काशीवासाभिलाषुकाः

॥८२॥

जन्मांतरसहस्रेषु यत्पुण्यं समुपार्जितम् ॥

तत्पुण्यपरिवर्तेन काश्यां वासोऽत्र लभ्यते

॥८३॥

लब्धोपि सिद्धिं नो यायाद्यदि कुद्ध्येत्त्रिलोचनः ॥

तस्माद्विश्वेश्वरं नित्यं शरण्यं शरणं व्रजेत्

॥८४॥

धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ॥

अखंडं हि यथा काश्यां न तथा न्यत्र कुत्रचित्

॥८५॥

आलस्येनापि यो यायाद्गृहाद्विश्वेश्वरालयम् ॥

अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे

॥८६॥

यः स्नात्वोत्तरवाहिन्यां याति विश्वे शदर्शने ॥

श्रद्धया परया तस्य श्रेयसोंतो न विद्यते

॥८७॥

स्वर्धुनी दर्शनात्स्पर्शात्स्नानादाचमनादपि ॥

संध्योपासनतो जप्यात्तर्पणाद्देवपूजनात्

॥८८॥

पंचतीर्थावलोकाच्च ततो विश्वेश्वरेक्षणात् ॥

श्रद्धास्पर्शनपूजाभ्यां धूपदीपादिदानतः

॥८९॥

प्रदक्षिणैः स्तोत्रजपैर्नमस्कारैस्तु नर्त्तनैः ॥

देवदेवमहादेव शंभो शिवशिवेति च

॥९०॥

धूर्जटे नीलकंठेश पिनाकिञ्शशिशेखर ॥

त्रिशूलपाणे विश्वेश रक्षरक्षेतिभाषणैः

॥९१॥

मुक्तिमंडपिकायां च निमेषार्धो पवेशनात् ॥

तत्र धर्मकथालापात्पुराणश्रवणादपि

॥९२॥

नित्यादिकर्मकरणात्तथातिथिसमर्चनैः ॥

परोपकरणाद्यैश्च धर्मस्स्यादुत्तरोत्तरः

॥९३॥

शुक्लपक्षे यथा चंद्रः कलया कलयैधते ॥

एवं काश्यां निवसतां धर्मराशिः पदेपदे

॥९४॥

श्रद्धाबीजो विप्रपादांबुसिक्तः शाखाविद्यास्ताश्चतस्रो दशापि ॥

पुष्पाण्यर्था द्वे फले स्थूलसूक्ष्मे मोक्षःकामो धर्मवृक्षोयमीड्यः

॥९५॥

सर्वार्थानामत्रदात्री भवानी सर्वान्कामान्पूरयेदत्र ढुंढिः ॥

सर्वाञ्जंतून्मोचयेदंतकाले विश्वेशोत्रश्रोत्रमंत्रोपदेशात्

॥९६॥

काश्यां धर्मस्तच्चतुष्पादरूपः काश्यामर्थः सोप्यने कप्रकारः ॥

काश्यां कामः सर्वसौख्यैकभूमिः काश्यां श्रेयस्तत्तु किंनात्र यच्च

॥९७॥

विश्वेश्वरो यत्र न तत्र चित्रं धर्मार्थकामामृतरूपरूपः ॥

स्वरूपरूपः स हि विश्वरूपस्तस्मान्न काशी सदृशी त्रिलोकी

॥९८॥

इति ब्रुवाणा गीर्वाणा ददृशुस्तूटजं मुनेः ॥

होमधूमसुगंधाढ्यं बटुभिर्बहुभिर्वृतम्

॥९९॥

श्यामाकांजलियाञ्चार्थमृषिकन्यानुयायिभिः ॥

धृतोपग्रहदर्भास्यैर्मृगशावैरलंकृतम्

॥१००॥

सार्द्रवल्कलकौपीनैर्वृक्षशाखावलंबिभिः ॥

बद्धुं विघ्नमृगान्दिक्षु वागुराभिरिवावृतम्

॥१॥

पतिव्रता शिरोरत्नलोपामुद्रांघ्रिमुद्रया ॥

मुद्रितं वीक्ष्य सन्नेमुः पर्णशालांऽगणं सुराः

॥२॥

विसर्जितसमाधिं च धृतकर्णाक्षमालिकम् ॥

अधिष्ठितं बृसीपृष्ठं परमेष्ठिवदुत्कटम्

॥३॥

पुरोगस्त्यं समालोक्य सर्वे देवाः सवासवाः ॥

प्रहृष्टवदनाः प्रोचुः प्रोच्चैर्जयजयेति च

॥४॥

मुनिरुत्थाय तान्सर्वानुपावेश्य यथोचितम् ॥

आशीर्भिरभिनंद्याथ पप्रच्छागमकारणम्

॥५॥

व्यास उवाच

इदं पुण्यतमाख्यानं श्रुत्वा भक्तिसमन्वितः ॥

पठित्वा पाठयित्वा च व्रतश्रद्धावतां पुरः

॥६॥

विधूय सर्व पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि ॥

हंसवर्णेन यानेन गच्छेच्छिवपुरं ध्रुवम्

॥१०७॥

इति श्रीस्कान्दे महापुराण एकाशीति साहरुयां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे अगस्त्याश्रमवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥