मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५९

3
काशीखण्डः · 59

सर्वज्ञ हृदयानंद गौरीचुंबितमूर्धज

अगस्त्य उवाच

सर्वज्ञ हृदयानंद गौरीचुंबितमूर्धज ॥

तारकांतक षड्वक्त्र तारिणे भद्रकारिणे

॥१॥

सर्वज्ञाननिधे तुभ्यं नमः सर्वज्ञसूनवे ॥

सर्वथा जितमाराय कुमाराय महात्मने

॥२॥

कामारिमर्धनारीशं वीक्ष्य कामकृतं किल ॥

यो जिगाय कुमारोपि मारं तस्मै नमोस्तु ते

॥३॥

यदुक्तं भवता स्कंद मायाद्विजवपुर्हरिः ॥

काश्यां पंचनदं तीर्थमध्यासातीव पावनम्

॥४॥

भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम् ॥

तत्रापि हरिणाज्ञायि तीर्थं पंचनदं परम्

॥५॥

कुतः पंचनदं नाम तस्य तीर्थस्य षण्मुख ॥

कुतश्च सर्वतीर्थेभ्यस्तदासीत्पावनं परम्

॥६॥

कथं च भगवान्विष्णुरंतरात्मा जगत्पतिः ॥

सर्वेषां जगतां पाता कर्ता हर्ता च लीलया

॥७॥

अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः ॥

निराकारोपि साकारो निष्प्रपंचः प्रपंचभाक्

॥८॥

अजन्मानेकजन्मा च त्वनामास्फुटनामभृत् ॥

निरालंबोऽखिलालंबो निर्गुणोपि गुणास्पदम्

॥९॥

अहृषीकोहृषीकेशो प्यनंघ्रिरपिसर्वगः ॥

उपसंहृत्य रूपं स्वं सर्वव्यापी जनार्दनः

॥१०॥

स्थितः सर्वात्मभावेन तीर्थे पंचनदे परे ॥

एतदाख्याहि षड्वक्त्र पंचवक्त्राद्यथा श्रुतम् ॥

स्कंद उवाच ॥

कथयामि कथामेतां नमस्कृत्य महेश्वरम् ॥

सर्वाघौघ प्रशमनीं सर्वश्रेयोविधायिनीम्

॥३२॥

यथा पंचनदं तीर्थं काश्यां प्रथितिमागतम् ॥

यन्नामग्रहणादेव पापं याति सहस्रधा

॥१३॥

प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः ॥

पापिनां पापसंघातं प्रसह्य निजतेजसा

॥१४॥

हरंति सर्वतीर्थानि प्रयागस्य बलेन हि ॥

तानि सर्वाणि तीर्थानि माघे मकरगे रवौ

॥१५॥

प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात् ॥

प्रयागश्चापि तीर्थेंद्रः सर्वतीर्थार्पितं मलम्

॥१६॥

महाघिनां महाघं च हरेत्पांचनदाद्बलात् ॥

यं संचयति पापौघमावर्षं तीर्थनायकः ॥

तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम्

॥१७॥

यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम् ॥

निशामय महाभाग मित्रावरुणनंदन

॥१८॥

पुरा वेदशिरा नाम मुनिरासीन्महातपाः ॥

भृगुवंश समुत्पन्नो मूर्तो वेद इवापरः

॥१९॥

तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता ॥

शुचिरप्सरसां श्रेष्ठा रूपलावण्यशालिनी

॥२०॥

तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः ॥

चस्कंद स मुनिस्तूर्णं साथ भीता वराप्सराः

॥२१॥

दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत ॥

अतीव वेपमानांगी शुचिस्तच्छापभीतितः

॥२२॥

नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे ॥

क्षंतव्यं मे क्षमाधार क्षमारूपास्तपस्विनः

॥२३॥

मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु ॥

स्त्रियः कठोरहृदयाः स्वरूपेणैव सत्तम

॥२४॥

इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः ॥

विवेकसेतुना स्तंभीन्महारोषनदीरयम्

॥२५॥

उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम् ॥

न मेऽल्पोपि हि दोषोत्र न ते दोषोस्ति सुंदरि

॥२६॥

वह्निस्वरूपा ललना नवनीत समः पुमान् ॥

अनभिज्ञा वदंतीति विचारान्महदंतरम्

॥२७॥

स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै ॥

चित्रं स्त्र्याख्या समादानात्पुमान्स्निह्यति दूरतः

॥२८॥

अतः शुचे न भेतव्यं त्वया शुचि मनोगते ॥

अतर्कितोपस्थितया त्वया च स्खलितं मया

॥२९॥

स्खलनान्न तथा हानिरकामात्तपसो मुनेः ॥

यथा क्षणांधीकरणाद्धानिः कोपरयादरेः

॥३०॥

कोपात्तपः क्षयं याति संचितं यत्सुकृच्छ्रतः ॥

यथाभ्रपटलं प्राप्य प्रकाशः पुष्पवंतयोः

॥३१॥

अनर्थकारिणः क्रोधात्क्वार्थानांपरिजृभणम् ॥

क्व वा खलजनोत्सेधात्साधूनां परिवर्धनम्

॥३२॥

अमर्षे कर्षति मनो मनोभू संभवः कुतः ॥

विधुंतुदे तुदत्युच्चैर्विधुं कुत्रास्ति कौमुदी

॥३३॥

ज्वलतो रोषदावाग्नेः क्व वा शांतितरोः स्थितिः ॥

दृष्टा केनापि किं क्वापि सिंहात्कलभसुस्थता

॥३४॥

तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः ॥

चतुर्वर्गस्य देहस्य परिहेयो विपश्चिता

॥३५॥

इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे ॥

अमोघबीजा हि वयं तद्बीजमुररी कुरु

॥३६॥

एतस्मिन्रक्षिते वीर्ये परिस्कन्ने त्वदीक्षणात् ॥

त्वया तव भवित्रेकं कन्यारत्नं महाशुचि

॥३७॥

इत्युक्ता तेन मुनिना पुनर्जातेव साप्सराः ॥

महाप्रसाद इत्युक्त्वा मुनेः शुक्रमजीगिलत्

॥३८॥

अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत् ॥

अतीव नयनानंदि निधानं रूपसंपदाम्

॥३९॥

तस्यैव वेदशिरस आश्रमे तां निधाय सा ॥

शुचिरप्सरसां श्रेष्ठा जगाम च यथेप्सितम्

॥४०॥

तां च वेदशिराः कन्यां स्नेहेन समवर्धयत् ॥

क्षीरेण स्वाश्रमस्थाया हरिण्या हरिणीक्षणाम्

॥४१॥

मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत् ॥

यन्नामोच्चारणेनापि कंपते पातकावली

॥४२॥

सर्वलक्षणशोभाढ्यां सर्वावयव सुंदरीम् ॥

मुनिस्तत्याज नोत्संगात्क्षणमात्रमपि क्वचित्

॥४३॥

दिनेदिने वर्धमानां तां पश्यन्मुमुदे भृशम् ॥

क्षीरनीरधिवद्रम्यां निशि चांद्रमसीं कलाम्

॥४४॥

अथाष्टवार्षिकीं दृष्ट्वा तां कन्यां स मुनीश्वरः ॥

कस्मै देयेति संचित्य तामेव समपृच्छत

॥४५॥

वेदशिरा उवाच

अयि पुत्रि महाभागे धूतपापे शुभेक्षणे ॥

कस्मै दद्यावराय त्वां त्वमेवाख्याहि तं वरम्

॥४६॥

अतिस्नेहार्द्रचित्तस्य जनेतुश्चेति भाषितम् ॥

निशम्य धूतपापा सा प्रोवाच विनतानना

॥४७॥

धूतपापोवाच

जनेतर्यद्यहं देया सुंदराय वराय ते ॥

तदा तस्मै प्रयच्छ त्वं यमहं कथयामि ते

॥४८॥

तुभ्यं च रोचते तात शृणोत्ववहितो भवान् ॥

सर्वेभ्योतिपवित्रो यो यः सर्वेषां नमस्कृतः ॥

सर्वे यमभिलष्यंति यस्मात्सर्वसुखोदयः ॥

कदाचिद्यो न नश्येत यः सदैवानुवर्तते

॥५०॥

इहामुत्रापि यो रक्षेन्महापदुदयाद्ध्रुवम् ॥

सर्वे मनोरथा यस्मात्परिपूर्णा भवंति हि

॥५१॥

दिनेदिने च सौभाग्यं वर्धते यस्य सन्निधौ ॥

नैरंतर्येण यत्सेवां कुर्वतो न भयं क्वचित्

॥५२॥

यन्नामग्रहणादेव केपि वाधां न कुर्वते ॥

यदाधारेण तिष्ठंति भुवनानि चतुर्दश

॥५३॥

एवमाद्या गुणा यस्य वरस्य वरचेष्टितम् ॥

तस्मै प्रयच्छ मां तात मम तेपीहशर्मणे

॥५४॥

एतच्छ्रुत्वापि ता तस्या भृशं मुदमवाप ह ॥

धन्योस्मि धन्या मे पूर्वे येषामैषा सुतान्वये

॥५५॥

ध्रुवा हि धूतपापासौ यस्या ईदृग्विधा मतिः ॥

ईदृग्विधैर्गुणगणैर्गरिम्णा कोत्र वै भवेत्

॥५६॥

अथवा स कथं लभ्यो विना पुण्यभरोदयम् ॥

इति क्षणं समाधाय मनः स मुनिपुंगवः

॥५७॥

ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम् ॥

धन्यां कन्यां बभाषेथ शृणु वत्से शुभैषिणि

॥५८॥

पितोवाच

वरस्य ये त्वया प्रोक्ता गुणा एते विचक्षणे ॥

एषां गुणानामाधारो वरोस्तीति विनिश्चितम्

॥५९॥

परं स सुखलभ्यो न नितरां सुभगाकृतिः ॥

तपः पणेन स क्रय्यः सुतीर्थविपणौ क्वचित्

॥६०॥

तीर्थभारैः स सुलभो न कौलीन्येन कन्यके ॥

न वेदशास्त्राभ्यसनैर्न चैश्वर्यबलेन वै

॥६१॥

न सौंदर्येण वपुषा न बुद्ध्या न पराक्रमैः ॥

एकयैव मनः शुद्ध्या करणानां जयेन च

॥६२॥

महातपः सहायेन दमदानदयायुजा ॥

लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः

॥६३॥

इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च ॥

अनुज्ञां प्रार्थयामास तपसे कृतनिश्चया

॥६४॥

स्कंद उवाच

कृतानुज्ञा जनेत्रा सा क्षेत्रे परमपावने ॥

तपस्तताप परमं यदसाध्यं तपस्विभिः

॥६५॥

क्व सा बालातिमृद्वंगी क्व च तत्तादृशं तपः ॥

कठोरवर्ष्मसंसाध्यमहो सच्चेतसो धृतिः

॥६६॥

धारासारा सुवर्षासु महावातवतीष्वलम् ॥

शिलासु सावकाशासु सा बह्वीरनयन्निशाः

॥६७॥

श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः ॥

आसारसीकरैः क्लिन्ना न चकंपे मनाक्च सा

॥६८॥

तडित्स्फुरंतीत्वसकृत्तमिस्रासु तपोवने ॥

यातायातं करोतीव द्रष्टुं तत्तपसः स्थितिम्

॥६९॥

तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल ॥

पंचाग्नीन्परिधायात्र तपस्यति तपोवने

॥७०॥

जलाभिलाषिणी बाला न मनागपि सा पिबत् ॥

कुशाग्रतोयपृषतं पंचाग्निपरितापिता

॥७१॥

रोमांच कंचुकवती वेपमानतनुच्छदा ॥

पर्यक्षिपत्क्षपाः क्षामा तपसा हैमनीश्च सा

॥७२॥

निशीथिनीषु शिशिरे श्रयंती सारसं रसम् ॥

मेने सा सारसैः केयमुद्यताद्येति पद्मिनी

॥७३॥

मनस्विनामपि मनोरागतां सृजते मधौ ॥

तदोष्ठपल्लवाद्रागो जह्रे माकंदपल्लवैः

॥७४॥

वसंते निवसंती सा वने बालाचलंमनः ॥

चक्रे तपस्यपि श्रुत्वा कोकिला काकलीरवम्

॥७५॥

बंधुजीवेऽधररुचिं कलहंसे कलागतीः ॥

निक्षेपमिव सा क्षिप्त्वा शरद्यासीत्तपोरता

॥७६॥

अपास्तभोगसंपर्का भोगिनां वृत्तिमाश्रिता ॥

क्षुदुद्बोधनिरोधाय धूतपापा तपस्विनी

॥७७॥

शाणेन मणिवल्लीढा कृशाप्यायादनर्घताम् ॥

तथापि तपसा क्षामा दिदीपे तत्तनुस्तराम्

॥७८॥

निरीक्ष्य तां तपस्यंतीं विधिः संशुद्धमानसाम् ॥

उपेत्योवाच सुप्रज्ञे प्रसन्नोस्मि वरं वृणु

॥७९॥

सा चतुर्वक्त्रमालोक्य हंसयानोपरिस्थितम् ॥

प्रणम्य प्रांजलिः प्रीता प्रोवाचाथ प्रजापतिम्

॥८०॥

धूतपापोवाच

पितामह वरो मह्यं यदि देयो वरप्रद ॥

सर्वेभ्यः पावनेभ्योपि कुरु मामतिपावनीम्

॥८१॥

स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः ॥

प्रत्युवाचाथ तां बालां विमलां विमलेषिणीम्

॥८२॥

ब्रह्मोवाच

धूतपापे पवित्राणि यानि संत्यत्र सर्वतः ॥

तेभ्यः पवित्रमतुलं त्वमेधि वरतो मम

॥८३॥

तिस्रः कोट्योऽर्धकोटी च संति तीर्थानि कन्यके ॥

दिवि भुव्यंतरिक्षे च पावनान्युत्तरोत्तरम्

॥८४॥

तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ॥

वसंतु मम वाक्येन भव सर्वातिपावनी

॥८५॥

इत्युक्त्वांतर्दधे वेधाः सापि निर्धूतकल्मषा ॥

धूतपापोटजं प्राप्ताथो वेदशिरसः पितुः

॥८६॥

कदाचित्तां समालोक्य खेलंतीमुटजाजिरे ॥

धर्मस्तत्तपसाकृष्टः प्रार्थयामास कन्यकाम्

॥८७॥

धर्म उवाच

पृथुश्रोणि विशालाक्षि क्षामोदरि शुभानने ॥

क्रीतः स्वरूपसंपत्त्या त्वयाहं देहि मे रहः

॥८८॥

नितरां बाधते कामस्त्वत्कृते मां सुलोचने ॥

अज्ञातनाम्ना सा तेन प्रार्थितेत्यसकृद्ग्रहः

॥८९॥

उवाच सा पिता दाता तं प्रार्थय सुदुर्मते ॥

पितृप्रदेया यत्कन्या श्रुतिरेषा सनातनी

॥९०॥

निशम्येति वचो धर्मो भाविनोर्थस्य गौरवात् ॥

पुनर्निबंधयांचक्रे ऽपधृतिर्धृतिशालिनीम्

॥९१॥

धर्म उवाच

न प्रार्थयेहं सुभगे पितरं तव सुंदरि ॥

गांधर्वेण विवाहेन कुरु मे त्वं समीहितम्

॥९२॥

इति निर्बंधवद्वाक्यं सा निशम्य कुमारिका ॥

पितुः कन्याफलंदित्सुः पुनराहेति तं द्विजम्

॥९३॥

अरे जडमते मा त्वं पुनर्ब्रूहीति याह्यतः ॥

इत्युक्तोपि कुमार्या स नातिष्ठन्मदनातुरः

॥९४॥

ततः शशाप तं बाला प्रबला तपसो बलात् ॥

जडोसि नितरां यस्माज्जलाधारो नदो भव

॥९५॥

इति शप्तस्तया सोथ तां शशाप क्रुधान्वितः ॥

कठोरहृदये त्वं तु शिला भव सुदुर्मते

॥९६॥

स्कंद उवाच

इत्यन्योन्यस्य शापेन मुने धर्मो नदोऽभवत् ॥

अविमुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान्

॥९७॥

साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम् ॥

ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत्

॥९८॥

मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम् ॥

तच्छापो नान्यथा भूयाच्चंद्रकांतशिला भव

॥९९॥

चंद्रोदयमनुप्राप्य द्रवीभूततनुस्ततः ॥

धुनी भव सुते साध्वि धूतपापेति विश्रुता

॥१००॥

स च धर्मनदः कन्ये तव भर्ता सुशोभनः ॥

तैर्गुणैः परिपूर्णांगो ये गुणाः प्रार्थितास्त्वया

॥१॥

अन्यच्च शृणु सद्बुद्धे ममापि तपसो बलात् ॥

द्वैरूप्यं भवतोर्भावि प्राकृतं च द्रवं च वै

॥२॥

इत्याश्वास्य पिता कन्यां धूतपापां परंतप ॥

चंद्रकांतशिलाभूतामनुजग्राह बुद्धिमान्

॥३॥

तदारभ्य मुने काश्यां ख्यातो धर्मनदो ह्रदः ॥

धर्मो द्रवस्वरूपेण महापातकनाशनः

॥४॥

धुनी च धूतपापा सा सर्वतीर्थमयी शुभा ॥

हरेन्महाघसंघातान्कूलजानिव पादपान्

॥५॥

तत्र धर्मनदे तीर्थे धूतपापा समन्विते ॥

यदा न स्वर्धुनी तत्र तदा ब्रध्नस्तपो व्यधात्

॥६॥

गभस्तिमाली भगवान्गभस्तीश्वर सन्निधौ ॥

शीलयन्मंगलां गौरीं तप उग्रं चचार ह

॥७॥

नाम्ना मयूखादित्यस्य तीर्थे तत्र तपस्यतः ॥

किरणेभ्यः प्रववृते महास्वेदोतिखेदतः

॥८॥

किरणेभ्यः प्रवृत्ताया महास्वेदस्य संततिः ॥

ततः सा किरणानाम जाता पुण्या तरंगिणी

॥९॥

महापापांधतमसं किरणाख्या तरंगिणी ॥

ध्वंसयेत्स्नानमात्रेण मिलिता धूतपापया

॥११०॥

आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया ॥

यया धूतानि पापानि सर्वतीर्थीकृतात्मना

॥११॥

ततोपि मिलितागत्य किरणा रविणैधिता ॥

यन्नामस्मरणादेव महामोहोंधतां व्रजेत्

॥१२॥

किरणा धूतपापे च तस्मिन्धर्मनदे शुभे ॥

स्रवंत्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे

॥१३॥

ततो भागीरथी प्राप्ता तेन दैलीपिना सह ॥

भागीरथी समायाता यमुना च सरस्वती

॥१४॥

किरणा धूतपापा च पुण्यतोया सरस्वती ॥

गंगा च यमुना चैव पंचनद्योत्र कीर्तिताः

॥१५॥

अतः पंचनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥

तत्राप्लुतो न गृह्णीयाद्देहं ना पांचभौतिकम्

॥१६॥

अस्मिन्पंचनदीनां च संभेदेघौघभेदिनि ॥

स्नानमात्रात्प्रयात्येव भित्त्वा ब्रह्मांडमंडपम्

॥१७॥

तीर्थानि संति भूयांसि काश्यामत्र पदेपदे ॥

न पंचनदतीर्थस्य कोट्यंशेन समान्यपि

॥१८॥

प्रयागे माघमासे तु सम्यक्स्नातस्य यत्फलम् ॥

तत्फलं स्याद्दिनैकेन काश्यां पंचनदे ध्रुवम्

॥१९॥

स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् ॥

बिंदुमाधवमभ्यर्च्य न भूयो जन्मभाग्भवेत्

॥१२०॥

यावत्संख्यास्तिलादत्ताः पितृभ्यो जलतर्पणे ॥

पुण्ये पंचनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी

॥२१॥

श्रद्धया यैः कृतं श्राद्धं तीथें पंचनदे शुभे ॥

तेषां पितामहा मुक्ता नानायोनि गता अपि

॥२२॥

यमलोके पितृगणैर्गाथेयं परिगीयते ॥

महिमानं पांचनदं दृष्ट्वा श्राद्धविधानतः

॥२३॥

अस्माकमपि वंश्योत्र कश्चिच्छ्राद्धं करिष्यति ॥

काश्यां पंचनदं प्राप्य येन मुच्यामहे वयम्

॥२४॥

इयं गाथा प्रतिदिनं श्राद्धदेवस्य सन्निधौ ॥

पितृभिः परिगीयेत काश्यां पंचनदं प्रति

॥२५॥

तत्र पंचनदे तीर्थे यत्किंचिद्दीयते वसु ॥

कल्पक्षयेपि न भवेत्तस्य पुण्यस्य संक्षयः

॥२६॥

वंध्यापि वर्षपर्यंतं स्नात्वा पंचनदे ह्रदे ॥

समर्च्य मंगलां गौंरीं पुत्रं जनयति ध्रुवम्

॥२७॥

जलैः पांचनदैः पुण्यैर्वाससा पारिशोधितैः ॥

महाफलमवाप्नोति स्नपयित्वेष्टदेवताम्

॥२८॥

पंचामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥

तुलितोधिकतां यातो बिंदुः पंचनदांभसः

॥२९॥

पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥

सा शुद्धिः श्रद्धया प्राश्य बिंदुं पांचनदांभसः

॥१३०॥

भवेदवभृथस्नानाद्राजसूयाश्वमेधयोः ॥

यत्फलं तच्छतगुणं स्नानात्पांचनदांभसा

॥३१॥

राजसूयाश्वमेधौ च भवेतां स्वर्गसाधनम् ॥

आब्रह्मघटिकाद्वंद्वं मुक्त्यै पांचनदाप्लुतिः

॥३२॥

स्वर्गराज्याभिषेकोपि न तथा संमतः सताम् ॥

अभिषेकः पांचनदो यथानल्पसुखप्रदः

॥३३॥

वरं वाराणसीं प्राप्य भृत्यः पंचनदोक्षिणाम् ॥

नान्यत्र सेवकीभूत भूपकोटिर्नरेश्वरः

॥३४॥

यैर्न पंचनदे स्नातं कार्तिके पापहारिणि ॥

तेऽद्यापि गर्भे तिष्ठंति पुनस्ते गर्भवासिनः

॥३५॥

कृते धर्मनदं नाम त्रेतायां धूतपापकम् ॥

द्वापरे बिंदुतीर्थं च कलौ पंचनदं स्मृतम्

॥३६॥

शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥

तत्कार्तिके पंचनदे सकृत्स्नानेन लभ्यते

॥३७॥

इष्टापूर्तेषु धर्मेषु यावजन्मकृतेषु यत् ॥

अन्यत्र स्यात्फलं तत्स्यादूर्जे धर्मनदाप्लवात्

॥३८॥

न धूतपाप सदृशं तीर्थं क्वापि महीतले ॥

यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम्

॥३९॥

बिंदुतीर्थे नरो दत्त्वा कांचनं कृष्णलोन्मितम् ॥

न दरिद्रो भवेत्क्वापि न स्वर्णेन वियुज्यते

॥१४०॥

गोभूतिलहिरण्याश्व वासोन्नस्रग्विभूषणम् ॥

यत्किंचिद्बिंदुतीर्थेत्र दत्त्वाक्षयमवाप्नुयात्

॥४१॥

एकामप्याहुतिं दत्त्वा समिद्धेग्नौ विधानतः ॥

पुण्ये धर्मनदे तीर्थे कोटिहोमफलं लभेत्

॥४२॥

न पंचनदतीर्थस्य महिमानमनंतकम् ॥

कोपि वर्णयितुं शक्तश्चतुर्वर्ग शुभौकसः

॥४३॥

श्रुत्वाख्यानमिदं पुण्यं श्रावयित्वापि भक्तितः ॥

सर्वपापविशुद्धात्मा विष्णुलोके महीयते

॥४४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थें काशीखंड उत्तरार्धे पंचनदाविर्भावो नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥