मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४८

3
काशीखण्डः · 48

शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः

स्कंद उवाच

शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः ॥

दानवानां वधार्थाय भुवोभारापनुत्तये

॥१॥

आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान् ॥

वासुदेवो जगद्धाम देवक्या वसुदेवतः

॥२॥

साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः ॥

स्वर्गे पितादृशा बालाः सुशीला न हि कुंभज

॥३॥

अतीवरूपसंपन्ना अतीव सुमहाबलाः ॥

अतीव शस्त्रशास्त्रज्ञा अतीव शुभलक्षणाः

॥४॥

तांद्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसांनिधिः ॥

कृतवल्कलकौपीनो धृत कृष्णाजिनांबरः ॥

गृहीतब्रह्मदंडश्च त्रिवृन्मौंजी सुमेखलः ॥

उरस्थलस्थ तुलसी मालया समलंकृतः

॥६॥

गोपीचंदननिर्यास लसदंगविलेपनः ॥

तपसा कृशसर्वांगो मूर्तो ज्वलनवज्ज्वलन्

॥७॥

आजगामांबरचरो नारदो द्वारकापुरीम् ॥

विश्वकर्मविनिर्माणां जितस्वर्गपुरीश्रियम्

॥८॥

तंदृष्ट्वा नारदं सर्वे विनम्रतरकंधराः ॥

प्रबद्ध मूर्धांजलयः प्रणेमुर्वृष्णिनंदनाः

॥९॥

सांबः स्वरूपसौंदर्य गर्वसर्वस्वमोहितः ॥

न ननाम मुनिं तत्र हसंस्तद्रूपसंपदम्

॥१०॥

सांबस्य तमभिप्रायं विज्ञाय स महामुनिः ॥

विवेश सुमहारम्यं नारदः कृष्णमंदिरम्

॥११॥

कृष्णोथ दृष्ट्वाऽऽगच्छंतं प्रत्युद्गम्य च नारदम् ॥

मधुपर्केण संपूज्य स्वासने चोपवेशयत्

॥१२॥

कृत्वा कथा विचित्रार्थास्तत एकांतवर्तिनः ॥

कृष्णस्य कर्णेऽकथयन्नारदः सांबचेष्टितम्

॥१३॥

अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन ॥

प्रायशस्तन्न घटतेऽसंभाव्यं नाथ वास्त्रियाम्

॥१४॥

यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान् ॥

स्वभावचंचलाक्षीणां चेतोवृत्तिः सुचंचला

॥१५॥

अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम् ॥

रूपमेव समीक्षंते विषमेषु विमोहिताः

॥१६॥

अथवा विदितं नो ते वल्लवीनां विचेष्टितम् ॥

विनाष्टौनायिकाः कृष्ण कामयंतेऽबलाह्यमुम्

॥४३॥

वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः ॥

विज्ञाताऽऽखिलवृत्तांतस्तथ्यं कृष्णोप्यमन्यत

॥१८॥

तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता ॥

यावन्नार्थी विविक्तस्थो विविक्तेर्थिनि नान्यथा

॥१९॥

इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् ॥

विवेकसेतुनाऽऽस्तभ्य नारदं प्राहिणोत्सुधीः

॥२०॥

सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्षत ॥

गते देवमुनौ तस्मिन्वीक्षमाणोप्यहर्निशम्

॥२१॥

कियत्यपि गते काले पुनरप्याययौ मुनिः ॥

मध्ये लीलावतीनां च ज्ञात्वा कृष्णमवस्थितम्

॥२२॥

बहिः क्रीडंतमाहूय सांबमित्याह नारदः ॥

याहि कृष्णांतिकं तूर्णं कथयागमनं मम

॥२३॥

सांबोपि यामि नोयामि क्षणमित्थमचिंतयत् ॥

कथं रहःस्थ पितरं यामि स्त्रैणसखंप्रति

॥२४॥

न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः ॥

ज्वलदंगारसंकाश स्फुरत्सर्वांगतेजसः

॥२५॥

प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा ॥

इदानीमपि नो यायामस्य वाक्यान्महामुनेः

॥२६॥

अत्याहितं तदस्तीह तदागोद्वयदर्शनात् ॥

पितुः कोपोपि सुश्लाघ्यो मयि नो ब्राह्मणस्य तु

॥२७॥

ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित् ॥

अपराग्निविनिर्दग्धारो हंते दावदग्धवत्

॥२८॥

इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः ॥

मध्ये स्त्रैणसभंकृष्णं यावज्जांबवतीसुतः

॥२९॥

दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः ॥

तावत्तमन्वगच्छच्च नारदः कार्यसिद्धये

॥३०॥

ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम् ॥

समुत्तस्थौ परिदधत्पीतकौशेयमंबरम्

॥३१॥

उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः ॥

विलज्जिताः समुत्तस्धुर्गृह्णंत्यः स्वंस्वमंबरम्

॥३२॥

महार्हशयनीये तं हस्ते धृत्वा महामुनिम् ॥

समुपावेशयत्कृष्णः सांबश्च क्रीडितुं ययौ

॥३३॥

तासां स्खलितमालोक्य तिष्ठंतीनां पुरो मुनिः ॥

कृष्णलीलाद्रवीभूतवरांगानां जगौ हरिम्

॥३४॥

पश्यपश्य महाबुद्धे दृष्ट्वा जांबवतीसुतम् ॥

इमाः स्खलितमापन्नास्तद्रूपक्षुब्धचेतसः

॥३५॥

कृष्णोपि सांबमाहूय सहसैवाशपत्सुतम् ॥

सर्वा जांबवतीतुल्याः पश्यंतमपि दुर्विधेः

॥३६॥

यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः ॥

तस्मात्कुष्ठी भव क्षिप्रमकांडागमनेन च

॥३७॥

वेपमानो महाव्याधिभयात्सांबोपि दारुणात् ॥

कृष्णं प्रसादयामास बहुशः पापशांतये

॥३८॥

कृष्णोप्यनेन संजानन्सांबं स्वसुतमौरसम् ॥

अब्रवीत्कुष्ठमोक्षाय व्रज वैश्वेश्वरीं पुरीम्

॥३९॥

तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि ॥

महैनसां क्षयो यत्र नास्ति वाराणसीं विना

॥४०॥

यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा ॥

येषां महैनसां दृष्टा मुनिभिर्नैव निष्कृतिः ॥

तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम्

॥४१॥

न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते ॥

प्राकृतेभ्योपि पापेभ्यो मुच्यते शंकराज्ञया

॥४२॥

पुरा पुरारिणा सृष्टमविमुक्तं विमुक्तये ॥

सर्वेषामेव जंतूनां कृपयांते तनुत्यजाम्

॥४३॥

तत्रानंदवने शंभोस्तवशाप निराकृतिः ॥

सांब तत्त्वेरितं याहि नान्यथा शापनिर्वृतिः

॥४४॥

ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः ॥

नारदः कृतकृत्यः सन्ययावाकाशवर्त्मना

॥४५॥

सांबो वाराणसीं प्राप्य समाराध्यांशुमालिनम् ॥

कुंडं तत्पृष्ठतः कृत्वा निजां प्रकृतिमाप्तवान्

॥४६॥

सांबादित्यस्तदारभ्य सर्वव्याधिहरो रविः ॥

ददाति सर्वभक्तेभ्योऽनामयाः सर्वसंपदः

॥४७॥

सांबकुंडे नरः स्नात्वा रविवारेऽरुणोदये ॥

सांबादित्यं च संपूज्य व्याधिभिर्नाभिभूयते

॥४८॥

न स्त्री वैधव्यमाप्नोति सांबादित्यस्य सेवनात् ॥

वंध्या पुत्रं प्रसूयेत शुद्धरूपसमन्वितम्

॥४९॥

शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने ॥

महापर्व समाख्यातं रविपर्व समं शुभम्

॥५०॥

महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये ॥

सांबादित्यं प्रपूज्यापि धर्ममक्षयमाप्नुयात्

॥५१॥

सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने ॥

तत्पुण्यं रविसप्तम्यां माघे काश्यां न संशयः

॥५२॥

मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत् ॥

अशोकैस्तत्र संपूज्य कुंडे स्नात्वा विधानतः

॥५३॥

सांबादित्यं नरो जातु न शोकैरभिभूयते ॥

संवत्सरकृतात्पापाद्बहिर्भवति तत्क्षणात्

॥५४॥

विश्वेशात्पश्चिमाशायां सांबेनात्र महात्मना ॥

सम्यगाराधिता मूर्तिरादित्यस्य शुभप्रदा

॥५५॥

इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि ॥

तामभ्यर्च्य नमस्कृत्य कृत्वाष्टौ च प्रदक्षिणाः ॥

नरो भवति निष्पापः काशीवास फलं लभेत्

॥५६॥

सांबादित्यस्य माहात्म्यं कथितं ते महामते ॥

यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति

॥५७॥

इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ ॥

तथा द्रौपदआदित्यः संसेव्यो भक्तसिद्धिदः

॥५८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सांबादित्यमाहात्म्यकथनं नामाष्टचत्वारिंशोध्यायः ॥ ४८ ॥