अथोत्तरस्यामाशायां कुंडमर्काख्यमुत्तमम्
स्कंद उवाच
अथोत्तरस्यामाशायां कुंडमर्काख्यमुत्तमम् ॥
तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः
॥१॥तापयन्दुःखसंघातं साधूनाप्याययन्रविः ॥
उत्तरार्को महातेजाः काशीं रक्षति सर्वदा
॥२॥तत्रेतिहासो यो वृत्तस्तं निशामय सुव्रत ॥
विप्रः प्रियव्रतो नाम कश्चिदात्रेय वंशजः
॥३॥आसीत्काश्यां शुभाचारः सदातिथिजनप्रियः ॥
भार्या शुभव्रता तस्य बभूवातिमनोहरा
॥४॥भर्तृशुश्रूषणरता गृहकर्मसुपेशला ॥
तस्यां स जनयामास कन्यामेकां सुलक्षणाम्
॥५॥मूलर्क्षप्रथमेपादे तथा केंद्रे बृहस्पतौ ॥
ववृधे सा गृहे पित्रोः शुक्ले पक्षे यथा शशी
॥६॥सुरूपा विनयाचारा पित्रोश्च प्रियकारिणी ॥
अतीव निपुणा जाता गृहोपस्करमार्जने
॥७॥यथायथा समैधिष्ट सा कन्या पितृमंदिरे ॥
तथातथा पितुस्तस्याश्चिंता संववृधेतराम्
॥८॥कस्मै देया वरा कन्या सुरम्येयं सुलक्षणा ॥
अस्या अनुगुणो लभ्यः क्व मया वर उत्तमः
॥९॥कुलेन वयसा चापि शीलेनापि श्रुतेन च ॥
रूपेणार्थेनसंयुक्तः कस्मै दत्ता सुखं लभेत्
॥१०॥इति चिंतयतस्तस्य ज्वरोभूदतिदारुणः ॥
यश्चिंताख्यो ज्वरः पुंसामौषधैर्नापि शाम्यति
॥११॥तन्मूलर्क्षविपाकेन चिंताख्येन ज्वरेण च ॥
स विप्रः पंचतां प्राप्तस्त्यक्त्वा सर्वं गृहादिकम्
॥१२॥पितर्युपरते तस्याः कन्यायाः सा जनन्यपि ॥
शुभव्रता परित्यज्य तां कन्यां पतिमन्वगात्
॥१३॥धर्मोयं सहचारिण्या जीवताजीवतापि वा ॥
पत्या सहैव स्थातव्यं पतिव्रतयुजा सदा
॥१४॥नापत्यं पाति नो माता न पिता नैव बांधवाः ॥
पत्युश्चरणशुश्रूषा पायाद्वै केवलं स्त्रियम्
॥१५॥सुलक्षणापि दुःखार्ता पित्रोः पंचत्वमाप्तयोः ॥
और्ध्वदैहिकमापाद्य दशाहं विनिवर्त्य च
॥१६॥चिंतामवाप महतीमनाथा दैन्यमागता ॥
कथमेकाकिनी पित्रा मात्राहीना भवांबुधेः
॥१७॥दुस्तरं पारमाप्स्यामि स्त्रीत्वं सर्वाभिभावि यत् ॥
न कस्मैचिद्वरायाहं पितृभ्यां प्रतिपादिता
॥१८॥तददत्ता कथं स्वैरमहमन्यं वरं वृणे ॥
वृतोपि न कुलीनश्चेद्गुणवान्न च शीलवान्
॥१९॥स्वाधीनोपि न तत्तेन वृतेनापि हि किं भवेत् ॥
इति संचिंतयंती सा रूपौदार्यगुणान्विता
॥२०॥युवभिर्बहुभिर्नित्यं प्रार्थितापि मुहुर्मुहुः ॥
न कस्यापि ददौ बाला प्रवेशं निज मानसे
॥२१॥पित्रोरुपरतिं दृष्ट्वा वात्सल्यं च तथाविधम् ॥
निनिंद बहुधात्मानं संसारं च निनिंद ह
॥२२॥याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता ॥
पितरौ कुत्र तौ यातौ देहिनो धिगनित्यताम्
॥२३॥अहो देहोप्यहोंगत्वं यथा पित्रोः पुरो मम ॥
इति निश्चित्य सा बाला विजितेंद्रिय मानसा
॥२४॥ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह ॥
उत्तरार्कस्य देवस्य समीपे स्थिरमानसा
॥२५॥तस्यां तपस्यमानायामेकाच्छागी लघीयसी ॥
तत्र प्रत्यहमागत्य तिष्ठेत्तत्पुरतोऽचला
॥२६॥तृणपर्णादिकं किंचित्सायमभ्यवहृत्य सा ॥
तत्कुंडपीतपानीया स्वस्वामिसदनं व्रजेत्
॥२७॥तत इत्थं व्यतीतासु पंचषा सुसमासु च ॥
लीलया विचरन्देवस्तत्र देव्या सहागतः
॥२८॥सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम् ॥
स्थाणुवन्निश्चलां स्थाणुरद्राक्षीत्तपसा कृशाम्
॥२९॥ततो गिरिजया शंभुर्विज्ञप्तः करुणात्मना ॥
वरेणानुगृहाणेमां बंधुहीनां सुमध्यमाम्
॥३०॥शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः ॥
समाधिमीलिताक्षीं तामुवाच वरदो हरः
॥३१॥सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते ॥
चिरं खिन्नासि तपसा कस्तेऽस्तीह मनोरथः
॥३२॥सापि शंभोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम् ॥
महासंतापशमनीं लोचने उदमीलयत्
॥३३॥त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः ॥
देवीं च वामभागस्थां प्रणनाम कृतांजलिः
॥३४॥किं वृणे यावदित्थं सा चिंतयेच्चारुमध्यमा ॥
तावत्तयानिरैक्षिष्ट वराकी बर्करी पुरः
॥३५॥आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः ॥
परं परोपकारार्थं यो जीवति स जीवति
॥३६॥अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम् ॥
असेव्यहं तदेतस्यै वरयामि जगत्पतिम्
॥३७॥परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा ॥
कृपानिधे महादेव यदि देयो वरो मम
॥३८॥अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम् ॥
वक्तुं पशुत्वान्नोवेत्ति किंचिन्मद्भक्तिपेशला
॥३९॥इति वाचं निशम्येशः परोपकृतिशालिनीम् ॥
सुलक्षणाया नितरां तुतोष प्रणतार्तिहा
॥४०॥देवदवस्ततः प्राह देवि पश्य गिरींद्रजे ॥
साधूनामीदृशी बुद्धिः परोपकरणोर्जिता
॥४१॥ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते ॥
यतंते सर्वभावेन परोपकरणाय ये
॥४२॥संचयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित् ॥
सुचिरं तिष्ठते चैकं परोपकरणं प्रिये
॥४३॥धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि ॥
ब्रूहि देवि वरो देयः कोऽस्यैच्छाग्यै च कः प्रिये
॥४४॥श्रीदेव्युवाच
सर्वसृष्टिकृतां कर्तः सर्वज्ञप्रणतार्तिहन् ॥
सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा
॥४५॥यथा जया च विजया यथा चैव जयंतिका ॥
शुभानंदा सुनंदा च कौमुदी च यथोर्मिला
॥४६॥यथा चंपकमाला च यथा मलयवासिनी ॥
कर्पूरलतिका यद्वद्गंधधारा यथा शुभा
॥४७॥अशोका च विशोका च यथा मलयगंधिनी ॥
यथा चंदननिःश्वासा यथा मृगमदोत्तमा
॥४८॥यथा च कोकिलालापा यथा मधुरभाषिणी ॥
गद्यपद्यनिधिर्यद्वदनुक्तज्ञा यथा च सा
॥४९॥दृगंचलेंगितज्ञा च यथा कृतमनोरथा ॥
गानचित्तहरा यद्वत्तथास्त्वेषा सुलक्षणा
॥५०॥अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी ॥
अनेनैव शरीरेण दिव्यावयवभूषणा
॥५१॥दिव्यांबरा दिव्यगंधा दिव्यज्ञानसमन्विता ॥
समया मां सदैवास्तां चंचच्चामरधारिणी
॥५२॥एषापि काशिराजस्य कुमार्यस्त्विह बर्करी ॥
अत्रैव भोगान्संप्राप्य मुक्तिं प्राप्स्यत्यनुत्तमाम्
॥५३॥अनया त्वर्ककुंडेस्मिन्पुष्ये मासि रवेर्दिने ॥
स्नातं त्वनुदिते सूर्ये शीतादक्षुब्धचित्तया
॥५४॥राजपुत्री ततः पुण्यादस्त्वेषा शुभलोचना ॥
वरदानप्रभावेण तव विश्वेश्वर प्रभो
॥५५॥बर्करीकुंडमित्याख्या त्वर्ककुंडस्य जायताम् ॥
एतस्याः प्रतिमा पूज्या भविष्यत्यत्र मानवैः
॥९६॥उत्तरार्कस्य देवस्य पुष्ये मासि रवेर्दिने ॥
कार्या सा वत्सरीयात्रा न तैः काशीफलेप्सुभिः
॥५७॥मृडान्याभिहि तं सर्वं कृत्वैतद्विश्वगो विभुः ॥
विश्वनाथो विवेशाथ प्रासादं स्वमतर्कितः
॥५८॥स्कंद उवाच
लोलार्कस्य च माहात्म्यमुत्तरार्कस्य च द्विज ॥
कथितं ते महाभाग सांबादित्यं निशामय
॥५९॥श्रुत्वैतत्पुण्यमाख्यानं शुभं लोलोत्तरार्कयोः ॥
व्याधिभिर्नाभिभूयेत न दारिद्र्येण बाध्यते
॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे उत्तरार्कवर्णनं नाम सप्तचत्वारिंशोध्यायः ॥ ४७ ॥