मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९५

3
काशीखण्डः · 95

व्यासभुजस्तंभः

व्यास उवाच [ ॥

शृणु सूत महाबुद्धे यथा स्कंदेन भाषितम् ॥

भविष्यं मम तस्याग्रे कुंभयोने महामते

॥१॥

स्कंद उवाच

निशामय महाभाग त्वं मैत्रावरुणे मुने ॥

पाराशर्यो मुनिवरो यथा मोहमुपैष्यति

॥२॥

व्यस्य वेदान्महाबुद्धिर्नाना शाखा प्रभेदतः ॥

अष्टादशपुराणानि सूतादीन्परिपाठ्य च

॥३॥

श्रुतिस्मृतिपुराणानां रहस्यं यस्त्वचीकरत् ॥

महाभारतसंज्ञं च सर्वलोकमनोहरम्

॥४॥

सर्वपापप्रशमनं सर्वशांतिकरं परम् ॥

यस्य श्रवणमात्रेण ब्रह्महत्या विनश्यति

॥५॥

एकदा स मुनिः श्रीमान्पर्यटन्पृथिवीतले ॥

संप्राप्तो नैमिषारण्यं यत्र संति मुनीश्वराः

॥६॥

अष्टाशीतिसहस्राणि शौनकाद्यास्तपोधनाः ॥

. त्रिपुंड्रितमहाभाला लसद्रुद्राक्षमालिनः

॥७॥

विभूतिधारिणो भक्त्या रुद्रसूक्तजपप्रियान् ॥

लिंगाराधनसंसक्ताञ्छिवनामकृतादरान्

॥८॥

एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥

इति ब्रुवाणान्सततं परिनिश्चितमानसान्

॥९॥

विलोक्य स मुनिर्व्यासस्तासर्वान्गिरिशात्मनः ॥

उत्क्षिप्य तर्जनीमुच्चैः प्रोवाचेदं वचः पुनः

॥१०॥

परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥

इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः

॥११॥

वेदे रामायणे चैव पुराणेषु च भारते ॥

आदिमध्यावसानेषु हरिरेकोऽत्र नापरः

॥१२॥

सत्यं सत्यं त्रिसत्यं पुनः सत्यं न मृषा पुनः ॥

न वेदादपरं शास्त्रं न देवोच्युततः परः

॥१३॥

लक्ष्मीशः सर्वदो नान्यो लक्ष्मीशोप्यपवर्गदः ॥

एक एव हि लक्ष्मीशस्ततो ध्येयो न चापरः

॥१४॥

भुक्तेर्मुक्तेरिहान्यत्र नान्यो दाता जनार्दनात् ॥

तस्माच्चतुर्भुजो नित्यं सेवनीयः सुखेप्सुभिः

॥१५॥

विहाय केशवादन्यं ये सेवंतेल्पमेधसः ॥

संसारचक्रे गहने ते विशंति पुनःपुनः

॥१६॥

एक एव हि सर्वेशो हृषीकेशः परात्परः ॥

तं सेवमानः सततं सेव्यस्त्रिजगतां भवेत्

॥१७॥

एको धर्मप्रदो विष्णुस्त्वेको बह्वर्थदो हरिः ॥

एकः कामप्रदश्चक्री त्वेको मोक्षप्रदोच्युतः

॥१८॥

शार्ङ्गिणं ये परित्यज्य देवमन्यमुपासते ॥

ते सद्भिश्च बहिष्कार्या वेदहीना यथा द्विजाः

॥१९॥

श्रुत्वेति वाक्यं व्यासस्य नैमिषारण्यवासिनः ॥

प्रवेपमानहृदयाः परिप्रोचुरिदं वचः

॥२०॥

ऋषय ऊचुः

पाराशर्य मुने मान्यस्त्वमस्माकं महामते ॥

यतो वेदास्त्वया व्यस्ताः पुराणान्यपि वेत्ति यत्

॥२१॥

यतश्च कर्ता त्वमसि महतो भारतस्य वै ॥

धर्मार्थकाममोक्षाणां विनिश्चयकृतो ध्रुवम्

॥२२॥

तत्त्वज्ञः कोपरश्चात्र त्वत्तः सत्यवतीसुत ॥

भवता यत्प्रतिज्ञातं निश्चित्योक्षिप्यतर्जनीम्

॥२३॥

अस्मिन्माणवकास्तत्र परिश्रद्दधते नहि ॥

प्रतिज्ञा तस्य वचसस्तव श्रद्धा भवेत्तदा

॥२४॥

यदाऽऽनंदवने शंभोः प्रतिजानासि वै वचः

॥२५॥

गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः स्वयम् ॥

न तत्र युगधर्मोस्ति न च लग्ना वसुंधरा

॥२६॥

इति श्रुत्वा मुनिर्व्यासः किंचित्कुपितवद्धृदि ॥

जगाम तूर्णं सहितः स्वशिष्यैरयुतोन्मितैः

॥२७॥

प्राप्य वाराणसीं व्यासः स्नात्वा पंचनदे ह्रदे ॥

श्रीमन्माधवमभ्यर्च्य ययौ पादोदकं ततः

॥२८॥

तत्र स्नानादिकं कृत्वा दृष्ट्वा चैवादिकेशवम् ॥

पंचरात्रं ततः कृत्वा वैष्णवैरभिनंदितः

॥२९॥

अग्रतः पृष्ठतः शंखैर्वाद्यमानैः प्रमोदितः ॥

जयविष्णो हृषीकेश गोविंद मधुसूदन

॥३०॥

अच्युतानंतवैकुंठ माधवोपेंद्रकेशव ॥

त्रिविक्रम गदापाणे शार्ङ्गपाणे जनार्दन

॥३१॥

श्रीवत्सवक्षः श्रीकांत पीतांबर मुरांतक ॥

कैटभारे बलिध्वंसिन्कंसारे केशिसूदन

॥३२॥

नारायणासुररिपो कृष्ण शौरे चतुर्भुज ॥

देवकीहृदयानंद यशोदानंदवर्धन

॥३३॥

पुंडरीकाक्ष दैत्यारे दामोदर बलप्रिय ॥

बलारातिस्तुत हरे वासुदेव वसुप्रद

॥३४॥

विष्वक्चमूस्तार्क्ष्य रथवनमालिन्नरोत्तम ॥

अधोक्षज क्षमाधार पद्मनाभ जलेशय

॥३५॥

नृसिंह यज्ञवाराह गोपगोपालवल्लभ ॥

गोपीपते गुणातीत गरुडध्वज गोत्रभृत्

॥३६॥

जय चाणूरमथन जय त्रैलोक्यरक्षण ॥

जयानाद्य जयानंद जय नीलोत्पलद्युते

॥३७॥

कौस्तुभोद्भूषितोरस्क पूतनाधातुशोषण ॥

रक्षरक्ष जगद्रक्षामणे नरकहारक

॥३८॥

सहस्रशीर्षपुरुष पुरुहूत सुखप्रद ॥

यद्भूतं यच्च भाव्यं वै तत्रैकः पुरुषो भवान्

॥३९॥

इत्यादि नाममालाभिः संस्तुवन्वनमालिनम् ॥

स्वच्छंदलीलया गायन्नृत्यंश्च परया मुदा

॥४०॥

व्यासो विश्वेशभवनं समायातः सुहृष्टवत् ॥

ज्ञानवापी पुरोभागे महाभागवतैः सह

॥४१॥

विराजमानसत्कंठस्तुलसीवरदामभिः ॥

स्वयं तालधरो जातः स्वयं जातः सुनर्तकः

॥४२॥

वेणुवादनतत्त्वज्ञः स्वयं श्रुतिधरोभवत् ॥

नृत्यं परिसमाप्येत्थं व्यासः सत्यवतीसुतः

॥४३॥

पुनरूर्ध्वभुजं कृत्वा दक्षिणं शिष्यमध्यगः ॥

पुनः पपाठ तानेव श्लोकान्गायन्निवोच्चकैः

॥४४॥

परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥

इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः

॥४५॥

इत्यादि श्लोकसंघातं स्वप्रतिज्ञा प्रबोधकम् ॥

यावत्पठति स व्यासः सव्यमुत्क्षिप्य वै भुजम्

॥४६॥

तस्तंभ तावत्तद्बाहुं स शैलादिः स्वलीलया ॥

वाक्स्तंभश्चापि तस्यासीन्मुनेर्व्यासस्य सन्मुनेः

॥४७॥

ततो गुप्तं समागम्य विष्णुर्व्यासमभाषत ॥

अपराद्धं महच्चात्र भवता व्यास निश्चितम्

॥४८॥

तवैतदपराधेन भीतिर्मेपि महत्तरा ॥

एक एव हि विश्वेशो द्वितीयो नास्ति कश्चन

॥४९॥

तत्प्रसादादहं चक्री लक्ष्मीशस्तत्प्रभावतः ॥

त्रैलोक्यरक्षासामर्थ्यं दत्तं तेनैव शंभुना

॥५०॥

तद्भक्त्या परमैश्वर्यं मया लब्धं वरात्ततः ॥

इदानीं स्तुहि तं शंभुं यदि मे शुभमिच्छसि

॥५१॥

अन्यदापि न वै कार्या भवता शेमुषीदृशी ॥

पाराशर्य इति श्रुत्वा संज्ञया व्याजहार ह

॥५२॥

भुजस्तंभः कृतस्तेन नंदिना दृष्टिमात्रतः ॥

वाक्स्तंभस्तद्भयाज्जातः स्पृश मे कंठकंदलीम्

॥५३॥

यथा स्तोतुं भवानीश प्रभवाभि भवांतकम ॥

संस्पृश्य विष्णुस्तत्कंठं गुप्तमेव जगाम ह

॥५४॥

ततः सत्यवतीसूनुस्तथा स्तंभितदोर्लतः ॥

प्रारब्धवान्महेशानं परितुष्टोतुमुदारधीः

॥५५॥

व्यास उवाच

एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किंचित् ॥

यद्यप्यन्यः कोपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे

॥२६॥

यः क्षीराब्धेर्मंदराघातजातो ज्वालामाली कालकूटोति भीमः ॥

तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः

॥५७॥

यद्वाणोभूच्छ्रीपतिर्यस्य यंता लोकेशो यत्स्यंदनं भूः समस्ता ॥

वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः

॥५८॥

यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि ॥

पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोन्यः

॥५९॥

यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी ॥

तं देवेशं मादृशः कोल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम्

॥६०॥

यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ॥

नो यस्यादिर्यः समस्तादिरेको नो यस्यांतो योंतकृत्तं नतोस्मि

॥६१॥

यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेंद्रलक्ष्मीः ॥

यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा

॥६२॥

नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शंभोर्ऋतेऽहम् ॥

नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न

॥६३॥

इत्थं यावत्स्तौति शंभुं महर्षिस्तावन्नंदी शांभवाद्दृक्प्रसादात् ॥

तद्दोः स्तंभं त्यक्तवांश्चाबभाषे स्मायंस्मायं ब्राह्मणेभ्यो नमो वः

॥६४॥

नंदिकेश्वर उवाच

इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् ॥

यः पठिष्यति मेधावी तस्य तुष्यति शंकरः

॥६५॥

व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः ॥

दुःस्वप्नपापशमनं शिवसान्निध्यकारकम्

॥६६॥

मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा ॥

सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात्

॥६७॥

स्कंद उवाच

पाराशर्यस्तदारभ्य शंभुभक्तिपरोभवत् ॥

लिंगं व्यासेश्वरं स्थाप्य घंटाकर्ण ह्रदाग्रतः

॥६८॥

विभूतिभूषणो नित्यं नित्यरुद्राक्षभूषणः ॥

रुद्रसूक्तपरो नित्यं नित्यं लिंगार्चकोभवत्

॥६९॥

स कृत्वा क्षेत्रसंन्यासं त्यजेन्नाद्यापि काशिकाम् ॥

तत्त्वं क्षेत्रस्य विज्ञाय निर्वाणपददायिनः

॥७०॥

घंटाकर्णह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं नरः ॥

यत्रकुत्र मृतो वापि वाराणस्यां मृतो भवेत्

॥७१॥

काश्यां व्यासेश्वरं लिंगं पूजयित्वा नरोत्तमः ॥

न ज्ञानाद्भ्रश्यते क्वापि पातकैर्नाभिभूयते

॥७२॥

व्यासेश्वरस्य ये भक्ता न तेषां कलिकालतः ॥

न पापतो भयं क्वापि न च क्षेत्रोपसर्गतः

॥७३॥

व्यासेश्वरः प्रयत्नेन द्रष्टव्यः काशिवासिभिः ॥

घंटाकर्णकृतस्नानैः क्षेत्रपातकभीरुभिः

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासभुजस्तंभोनाम पंचनवतितमोऽध्यायः ॥ ९५ ॥