मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६३

3
काशीखण्डः · 63

ज्येष्ठेशाख्यानम्

अगस्त्य उवाच

दृष्ट्वा काशीं दृगानंदां तारकारे पुरारिणा ॥

किमकारि समाचक्ष्व प्राप्तां बहुमनोरथैः

॥१॥

स्कंद उवाच

पतिव्रतापते ऽगस्त्य शृणु वक्ष्याम्यशेषतः ॥

मृगांकलक्ष्मणोत्कंठं काशी नेत्रातिथीकृता

॥२॥

अथ सर्वज्ञनाथेन भक्तवत्सलचेतसा ॥

जैगीषव्यो मुनिश्रेष्ठो गुहां तस्थो निरीक्षितः

॥३॥

यमनेहसमारभ्य मदंराद्रिं विनिर्ययौ ॥

अद्रींद्र सुतया सार्धं रुद्रेणोक्षेंद्रगामिना

॥४॥

तं वासरं पुरस्कृत्य जग्राह नियमं दृढम् ॥

जैगीषव्यो महामेधाः कुंभयोने महाकृती

॥५॥

विषमेक्षण पादाब्जं समीक्षिष्ये यदा पुनः ॥

तदांबुविप्रुषमपि भक्षयिष्यामि चेत्यहो

॥६॥

कुतश्चिद्धारणायोगादथवा शंभ्वनुग्रहात ॥

अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने

॥७॥

तं शंभुरेव जानाति नान्यो जानाति कश्चन ॥

अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः

॥८॥

ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः ॥

तत्पर्वणि महायात्रा कर्तव्या तत्र मानवैः

॥९॥

ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् ॥

तत्र लिंगं समभवत्स्वयं ज्येष्ठेश्वराभिधम्

॥१०॥

तल्लिंगदर्शनात्पुंसां पापं जन्मशतार्जितम् ॥

तमोर्कोदयमाप्येव तत्क्षणादेव नश्यति

॥११॥

ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान् ॥

ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि

॥१२॥

आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः ॥

सर्वसिद्धिप्रदा गौरी ज्येष्ठाश्रेष्ठा समंततः

॥१३॥

ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः ॥

रात्रौ जागरणं कार्यं सर्वसंपत्समृद्धये

॥१४॥

ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता ॥

सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि

॥१५॥

निवासं कृतवाञ्शंभुस्तस्मिन्स्थाने यतः स्वयम् ॥

निवासेश इति ख्यातं लिंगं तत्र परं ततः

॥१६॥

निवासेश्वरलिंगस्य सेवनात्सर्वसंपदः ॥

निवसंति गृहे नित्यं नित्यं प्रतिपदं पुनः

॥१७॥

कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः ॥

ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा

॥१८॥

ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः ॥

ज्येष्ठान्स्वर्गानवाप्नोति नरो मोक्षं च गच्छति

॥१९॥

ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः ॥

ज्येष्ठागौरी ततोभ्यर्च्या सर्वज्येष्ठमभीप्सुभिः

॥२०॥

अथ नंदिनमाहूय धूर्जटिः स कृपानिधिः ॥

शृण्वतां सर्वदेवानामिदं वचनमब्रवीत्

॥२१॥

ईश्वर उवाच

शैलादे प्रविशाशु त्वं गुहास्त्यत्र मनोहरा ॥

तदंतरेस्ति मे भक्तो जैगीषव्यस्तपोधनः

॥२२॥

महानियमवान्नंदिस्त्वगस्थिस्नायु शेषितः ॥

तमिहानय मद्भक्तं मद्दर्शन दृढव्रतम्

॥२३॥

यदाप्रभृत्यगां काश्या मंदरं सर्वसुंदरम् ॥

महानियमवानेष तदारभ्योज्झिताशनः

॥२४॥

गृहाण लीलाकमलमिदं पीयूषपोषणम् ॥

अनेन तस्य गात्राणि स्पृश सद्यः सुबृंहिणा

॥२५॥

ततो नंदी समादाय तल्लीलाकमलं विभोः ॥

प्रणम्य देवदेवेशमाविशद्गह्वरां गुहाम्

॥२६॥

नंदी दृष्ट्वाथ तं तत्र धारणादृढमानसम् ॥

तपोग्नि परिशुष्कांगं कमलेन समस्पृशत्

॥२७॥

तपांते वृष्टिसंयोगाच्छालूर इव कोटरे ॥

उल्ललास स योगींद्रः स्पर्शमात्रात्तदब्जजात्

॥२८॥

अथ नंदी समादाय सत्वरं मुनिपुंगवम् ॥

देवदेवस्य पादाग्रे नमस्कृत्य न्यपातयत्

॥२९॥

जैगीषव्योथ संभ्रांतः पुरतो वीक्ष्य शंकरम् ॥

वामांगसन्निविष्टाद्रितनयं प्रणनाम ह

॥३०॥

प्रणम्य दंडवद्भूमौ परिलुठ्य समंततः ॥

तुष्टाव परया भक्त्या स मुनिश्चंद्रशेखरम्

॥३१॥

जैगीषव्य उवाच

नमः शिवाय शांताय सर्वज्ञाय शुभात्मने ॥

जगदानंदकंदाय परमानंदहेतवे

॥३२॥

अरूपाय सरूपाय नानारूपधराय च ॥

विरूपाक्षाय विधये विधिविष्णुस्तुताय च

॥३३॥

स्थावराय नमस्तुभ्यं जंगमाय नमोस्तुते ॥

सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने

॥३४॥

नमस्त्रैलोक्यकाम्याय कामांगदहनाय च ॥

नमो शेषविशेषाय नमः शेषांगदाय ते

॥३५॥

श्रीकंठाय नमस्तुभ्यं विषकंठाय ते नमः ॥

वैकुंठवंद्यपादाय नमोऽकुंठितशक्तये

॥३६॥

नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने ॥

सकृत्प्रणाममात्रेण देहिदेहनिवारिणे

॥३७॥

कालाय कालकालाय कालकूट विषादिने ॥

व्यालयज्ञोपवीताय व्यालभूषणधारिणे

॥३८॥

नमस्ते खंडपरशो नमः खंडें दुधारिणे ॥

खंडिताशेष दुःखाय खड्गखेटकधारिणे

॥३९॥

गीर्वाणगीतनाथाय गंगाकल्लोलमालिने ॥

गौरीशाय गिरीशाय गिरिशाय गुहारणे

॥४०॥

चंद्रार्धशुद्धभूषाय चंद्रसूर्याग्निचक्षुषे ॥

नमस्ते चर्मवसन नमो दिग्वसनायते

॥४१॥

जगदीशाय जीर्णाय जराजन्महराय ते ॥

जीवायते नमस्तुभ्यं जंजपूकादिहारिणे

॥४२॥

नमो डमरुहस्ताय धनुर्हस्ताय ते नमः ॥

त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः

॥४३॥

त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर ॥

त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च

॥४४॥

त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च ॥

दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः

॥४५॥

दारिताशेषपापाय नमस्ते दीर्घदर्शिने ॥

दूराय दुरवाप्याय दोषनिर्दलनाय च

॥४६॥

दोषाकर कलाधार त्यक्तदोषागमाय च ॥

नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय

॥४७॥

नमो धीराय धर्माय धर्मपालाय ते नमः ॥

नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित

॥४८॥

नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक ॥

नमः प्रमथनाथाय पिनाकोद्यतपाणये

॥४९॥

पशुपाशविमोक्षाय पशूनां पतये नमः ॥

नामोच्चारणमात्रेण महापातकहारिणे

॥५०॥

परात्पराय पाराय परापरपराय च ॥

नमोऽपारचरित्राय सुपवित्रकथाय च

॥५१॥

वामदेवाय वामार्धधारिणे वृषगामिने ॥

नमो भर्गाय भीमाय नतभीतिहराय च

॥५२॥

भवाय भवनाशाय भूतानांपतये नमः ॥

महादेव नमस्तुभ्यं महेश महसांपते

॥५३॥

नमो मृडानीपतये नमो मृत्युंजयाय ते ॥

यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च

॥५४॥

यायजूकाय यज्ञाय यज्ञानां फलदायिने ॥

रुद्राय रुद्रपतये कद्रुद्राय रमाय च

॥५५॥

शूलिने शाश्वतेशाय श्मशानावनिचारिणे ॥

शिवाप्रियाय शर्वाय सर्वज्ञाय नमोस्तु ते

॥५६॥

हराय क्षांतिरूपाय क्षेत्रज्ञाय क्षमाकर ॥

क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः

॥५७॥

अंधकारे नमस्तुभ्यमाद्यंतरहिताय च ॥

इडाधाराय ईशाय उपेद्रेंद्रस्तुताय च

॥५८॥

उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे ॥

एकरूपाय चैकाय महदैश्वर्यरूपिणे

॥५९॥

अनंतकारिणे तुभ्यमंबिकापतये नमः ॥

त्वमोंकारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि

॥६०॥

दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव ॥

स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि

॥६१॥

वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते ॥

नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर

॥६२॥

नान्यं नमामि गौरीश नान्याख्यामाददे शिव ॥

मूकोन्यनामग्रहणे बधिरोन्यकथाश्रुतौ

॥६३॥

पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे ॥

एक एव भवानीश एककर्ता त्वमेव हि

॥६४॥

पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना ॥

अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः

॥६५॥

संसारसागरे मग्नं मामुद्धर महेश्वर ॥

इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः

॥६६॥

वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः ॥

इति स्तुतिं समाकर्ण्य मुनेश्चंद्रविभूषणः ॥

उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम्

॥६७॥

जैगीषव्य उवाच

यदि प्रसन्नो देवेश ततस्तव पदांबुजात् ॥

मा भवानि भवानीश दूरं दूरपदप्रद

॥६८॥

अपरश्च वरो नाथ देयोयमविचारतः ॥

यन्मया स्थापितं लिंगं तत्र सान्निध्यमस्तु ते

॥६९॥

ईश्वर उवाच

जैगीषव्य महाभाग यदुक्तं भवतानघ ॥

तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च

॥७०॥

योगशास्त्रं मया दत्तं तव निर्वाणसाधकम् ॥

सर्वेषां योगिनां मध्ये योगाचार्योऽस्तु वै भवान्

॥७१॥

रहस्यं योगविद्याया यथावत्त्वं तपोधन ॥

संवेत्स्यसे प्रसादान्मे येन निर्वाणमाप्स्यसि

॥७२॥

यथा नदी यथा भृंगी सोमनंदी यथा तथा ॥

त्वं भविष्यसि भक्तो मे जरामरणवर्जितः

॥७३॥

संति व्रतानि भूयांसि नियमाः संत्यनेकधा ॥

तपांसि नाना संत्यत्र संति दानान्यनेकशः

॥७४॥

श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा ॥

परं हि परमश्चैष नियमो यस्त्वया कृतः

॥७५॥

परो हि नियमश्चैष मां विलोक्य यदश्यते ॥

मामनालोक्य यद्भुक्तं तद्भुक्तं केवलत्वघम्

॥७६॥

असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि ॥

रेतोभक्षी भवेन्मूढः स जन्मान्येकविंशतिम्

॥७७॥

महतो नियमस्यास्य भवतानुष्ठितस्य वै ॥

नार्हंति षोडशी मात्रामप्यन्ये नियमा यमाः

॥७८॥

अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा ॥

अतो नैःश्रेयसीं लक्ष्मीं तत्रैव प्राप्स्यसि ध्रुवम्

॥७९॥

जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् ॥

त्रीणि वर्षाणि संसेव्य लभेद्योगं न संशयः

॥८०॥

जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः ॥

षण्मासेन लभेत्सिद्धिं वाञ्छितां मदनुग्रहात्

॥८१॥

तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः ॥

विलोक्या च गुहा रम्या परासिद्धिमभीप्सुभिः

॥८२॥

अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम् ॥

नाशयेदघसंघानि दृष्टं स्पृष्टं समर्चितम्

॥८३॥

अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः ॥

कोटिभोज्यफलं सम्यगेकैकपरिसंख्यया

॥८४॥

जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः ॥

कलौ कलुषबुद्धीनां पुरतश्च विशेषतः

॥८५॥

करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन ॥

योगसिद्धिप्रदानाय साधकेभ्यः सदैव हि

॥८६॥

ददे शृणु महाभाग जैगीषव्यापरं वरम् ॥

त्वयेदं यत्कृतं स्तोत्रं योगसिद्धिकरं परम्

॥८७॥

महापापौघशमनं महापुण्यप्रवर्धनम् ॥

महाभीतिप्रशमनं महाभक्तिविवर्धनम्

॥८८॥

एतत्स्तोत्रजपात्पुंसामसाध्यं नैव किंचन ॥

तस्मात्सर्वप्रयत्नेन जपनीयं सुसाधकैः ४

॥८९॥

इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः ॥

ददर्श ब्राह्मणां स्तत्र समेतान्क्षेत्रवासिनः

॥९०॥

स्कंद उवाच

निशम्याख्यानमतुलमेतत्प्राज्ञः प्रयत्नतः ॥

निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते

॥९१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे ज्येष्ठेशाख्यानं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥