मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९२

3
काशीखण्डः · 92

नर्मदेश्वराख्यानम्

स्कंद उवाच

नर्मदेशस्य माहात्म्यं कथयामि मुने तव ॥

यस्य स्मरणमात्रेण महापातकसंक्षयः

॥१॥

अस्य वाराहकल्पस्य प्रवेशे मुनिपुंगवैः ॥

आपृच्छि का सरिच्छ्रेष्ठा वद तां त्वं मृकंडज

॥२॥

मार्कंडेय उवाच

शृणुध्वं मुनयः सर्वे संति नद्यः परःशतम् ॥

सर्वा अप्यघहारिण्यः सर्वा अपि वृषप्रदाः

॥३॥

सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः ॥

ततोपि हि महाश्रेष्ठाः सरित्सु सरिदुत्तमाः

॥४॥

गंगा च यमुनाचाथ नर्मदा च सरस्वती ॥

चतुष्टयमिदं पुण्यं धुनीषु मुनिपुंगवाः

॥५॥

ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम् ॥

नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती

॥६॥

गंगा सर्वसरिद्योनिः समुद्रस्यापि पूरणी ॥

गंगाया न लभेत्साम्यं काचिदत्र सरिद्वरा

॥७॥

किंतु पूर्वं तपस्तप्त्वा रेवया बह्वनेहसम् ॥

वरदानोन्मुखो धाता प्रार्थितश्चेति सत्तम

॥८॥

गंगा साम्यं विधे देहि प्रसन्नोसि यदि प्रभो ॥

ब्रह्मणाथ ततः प्रोक्ता नर्मदा स्मितपूर्वकम्

॥९॥

यदि त्र्यक्षसमत्वं तु लभ्यतेऽन्येन केनचित् ॥

तदा गंगासमत्वं च लभ्यते सरितान्यया

॥१०॥

पुरुषोत्तम तुल्यः स्यात्पुरुषोन्यो यदि क्वचित ॥

स्रोतस्विनी तदा साम्यं लभते गंगया परा

॥११॥

यदि गौरी समा नारी क्वचिदन्या भवेदिह ॥

अन्या धुनीह स्वर्धुन्यास्तदा साम्यमुपैष्यति

॥१२॥

यदि काशीपुरी तुल्या भवेदस्या क्वचित्पुरी ॥

तदा स्वर्गतरंगिण्याः साम्यमन्या नदी लभेत्

॥१३॥

निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा ॥

धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम्

॥१४॥

सर्वेभ्योपि हि पुण्येभ्यः काश्यां लिंगप्रतिष्ठितेः ॥

अपरा न समुद्दिष्टा कैश्चिच्छ्रेयस्करी क्रिया

॥१५॥

अथ सा नर्मदा पुण्या विधिपूर्वां प्रतिष्ठितिम् ॥

व्यधात्पिलिपिलातीर्थे त्रिविषिष्टपसमीपतः

॥१६॥

ततः शंभुः प्रसन्नोभूऽत्तस्यै नद्यै शुभात्मने ॥

वरं वृणीष्व सुभगे यत्तुभ्यं रोचतेऽनघे

॥१७॥

सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् ॥

किं वरेणेह देवेश भृशं तुच्छेन धूर्जटे

॥१८॥

निर्द्वंद्वा त्वत्पदद्वंद्वे भक्तिरस्तु महेश्वर ॥

श्रुत्वेति नितरां तुष्टो रेवागिरमनुत्तमाम्

॥१९॥

प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् ॥

गृहाण पुण्यनिलये वितरामि वरांतरम्

॥२०॥

यावंत्यो दृषदः संति तव रोधसि नर्मदे ॥

तावंत्यो लिंगरूपिण्यो भविष्यंति वरान्मम

॥२१॥

अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम् ॥

दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः

॥२२॥

सद्यः पापहरा गंगा सप्ताहेन कलिंदजा ॥

त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः

॥२३॥

अपरं च वरं दद्यां नर्मदे दर्शनाघहे ॥

भवत्या स्थापितं लिंगं नर्मदेश्वरसंजकम्

॥२४॥

यत्तल्लिंगं महापुण्यं मुक्तिं दास्यति शाश्वतीम ॥

अस्य लिंगस्य ये भक्तास्तान्दृष्ट्वा सूर्यनंदनः

॥२५॥

प्रणमिष्यंति यत्नेन महाश्रेयोभिवृद्धये ॥

संति लिंगान्यनेकानि काश्यां देवि पदेपदे

॥२६॥

परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः ॥

इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ

॥२७॥

नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम् ॥

स्वदेशं च परिप्राप्ता दृष्टमात्राघहारिणी

॥२८॥

वाक्यं मृकंडजमुनेस्तेपि श्रुत्वा मुनीश्वराः ॥

प्रहृष्टचेतसो जाताश्चक्रुः स्वं स्वं ततो हितम्

॥२९॥

स्कंद उवाच

नर्मदेशस्य माहात्म्यं श्रुत्वा भक्तियुतो नरः ॥

पापकंचुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम्

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे नर्मदेश्वराख्यानं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥