पतिव्रताख्यानम्
सूत उवाच
मुनिपृष्टास्तदा देवा भगवंस्ते किमब्रुवन् ॥
सर्वलोकहितार्थाय तदाख्याहि महामुने
॥१॥श्रीव्यास उवाच
अगस्तिवचनं श्रुत्वा बहुमानपुरस्सरम् ॥
धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे
॥२॥वाक्पतिरुवाच
शृण्वगस्ते महाभाग देवागमनकारणम् ॥
धन्योसि कृतकृत्योसि मान्योसि महता मपि
॥३॥प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः ॥
किं न संति मुनिश्रेष्ठ काचिदन्यैव ते स्थितिः
॥४॥तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम् ॥
पुण्यलक्ष्मीस्त्वयि परा त्वय्यौदार्यं मनस्त्वयि
॥५॥पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी ॥
तवांगच्छायया तुल्या यत्कथापुण्यकारिणी
॥६॥पतिव्रतास्वरुंधत्या सावित्र्याप्यनसूयया ॥
शांडिल्यया च सत्या च लक्ष्म्या च शतरूपया
॥७॥मेनया च सुनीत्या च संज्ञया स्वाहया तथा ॥
यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम
॥८॥भुंक्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति ॥
विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते
॥९॥अनलंकृतमात्मानं तव नो दर्शयेत्क्वचित् ॥
कार्यार्थं प्रोषिते क्वापि सर्वमंडनवर्जिता
॥१०॥न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये ॥
पुरुषांतरनामापि न गृह्णाति कदाचन
॥११॥आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च
॥१२॥आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ॥
किमर्थं व्याहृता नाथ सप्रसादो विधीयताम्
॥१३॥न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ॥
अदापितं त्वया किंचित्कस्मैचिन्न ददात्यपि
॥१४॥पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ॥
नियमोदकबर्हींषि पत्रपुप्पाक्षतादिकम्
॥१५॥प्रतीक्षमाणावसरं यथाकालोचितं हि यत् ॥
तदुपस्थापयेत्सर्वमनुद्विग्नातिहृष्टवत्
॥१६॥सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ॥
महाप्रसाद इत्युक्त्वा परिदत्तं प्रतीच्छति
॥१७॥अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ॥
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च
॥१८॥संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी ॥
कुर्यात्त्वयाननुज्ञाता नोपवासव्रतादिकम्
॥१९॥दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् ॥
न गच्छेत्तीर्थयात्रादि विवाहप्रेक्षणादिषु
॥२०॥सुखसुप्तं सुखासीनं रममाणं यदृच्छया ॥
आंतरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्
॥२१॥स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत् ॥
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्धितः
॥२२॥सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित् ॥
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्
॥२३॥हरिद्रां कुंकुमं चैव सिंदूर कज्जलं तथा ॥
कूर्पासकं च तांबूलं मांगल्याभरणं शुभम्
॥२४॥केशसंस्कारकबरी करकर्णादिभूषणम् ॥
भर्त्तुरायुष्यमिच्छंती दूरये न्न पतिव्रता
॥२५॥न रजक्या न हैतुक्या तथा श्रमणया न च ॥
न च दुर्भगया क्वापि सखित्वं कुरुते सती
॥२६॥भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ॥
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित्
॥२७॥नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ॥
न यंत्रकेन देहल्यां सती चोपविशेत्क्वचित्
॥२८॥विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत् ॥
यत्रयत्ररुचिर्भर्त्तुस्तत्र प्रेमवती सदा
॥२९॥इदमेव व्रतं स्त्रीणामयमेवपरो वृषः ॥
इयमेको देवपूजा भर्त्तुर्वाक्यं न लंघयेत
॥३०॥क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा ॥
सुस्थितं दुःस्थितं वापि पतिमेकं न लंघयेत
॥३१॥हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा ॥
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च
॥३२॥सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता ॥
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्
॥३३॥तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ॥
शंकरादपि विष्णोर्वा पतिरेकोधिकः स्त्रियाः
॥३४॥व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत् ॥
आयुष्यं हरते भर्त्तुर्मृता निरयमृच्छति
॥३५॥उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ॥
सरमा जायते ग्रामे सृगाली निर्जने वने
॥३६॥स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ॥
ऽ अभ्यर्च्य चरणौ भर्त्तुर्भोक्तव्यं कृतनिश्चयम्
॥३७॥उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ॥
न त्रपाकर वाक्यानि वक्तव्यानि कदाचन
॥३८॥अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत् ॥
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत्
॥३९॥या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ॥
उलूकी जायते क्रूरा वृक्षकोटरशायिनी
॥४०॥ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ॥
कटाक्षयतियाऽन्यं वै केकराक्षी तु सा भवेत
॥४१॥या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम् ॥
ग्रामे वासकरी भूयाद्वल्गुर्वापि श्वविट्भुजा
॥४२॥या त्वं(हुं) कृत्याऽप्रियं ब्रूते मूका सा जायते खलु ॥
या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुन्ः
॥४३॥दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते ॥
काणा च विमुखी चापि कुरूपा चापि जायते
॥४४॥बाह्यादायांतमालोक्य त्वरिता च जलाशनैः ॥
तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः
॥४५॥तथैव चाटुवचनैः खेदसंनोदनैः परैः ॥
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया
॥४६॥मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥
अमितस्य हि दातारं भर्त्तारं पूजये त्सदा
॥४७॥भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च ॥
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत
॥४८॥जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ॥
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा
॥४९॥अमंगलेभ्यः सर्वेभ्यो विधवा त्यक्तमंगला ॥
विधवा दर्शनात्सिद्धिः क्वापि जातु न जायते
॥५०॥विहाय मातरं चैकां सर्वमंगलवर्जिताम ॥
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम
॥५१॥कन्याविवाहसमये वाचयेयुरिति द्विजाः ॥
भर्तुः सहचरी भूयाज्जीवतोऽजीवतोपिवा
॥५२॥भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया ॥
चंद्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा
॥५३॥अनुव्रजति भर्तारं गृहात्पितृवनं मुदा ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम
॥५४॥व्यालग्राही यथा व्यालं बलादुद्धरते बिलात ॥
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत्सती
॥५५॥यमदूताः पलायंते सतीमालोक्य दूरतः ॥
अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम्
॥५६॥न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा ॥
आपतंतीं समालोक्य वयं दूताः पतिव्रताम्
॥५७॥तपनस्तप्यतेत्यंतं दहनोपि च दह्यते ॥
कंपंते सर्व तेजांसि दृष्ट्वा पातिव्रतं महः
॥५८॥यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च ॥
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता
॥५९॥धन्या सा जननी लोके धन्योसौ जनकः पुनः ॥
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता
॥६०॥पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते
॥६१॥शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ॥
पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिताः
॥६२॥पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ॥
तत्रेति भूमिर्मन्येत नात्र भारोस्तिपावनी
॥६३॥बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ॥
सोमो गंधवहश्चापि स्वपावित्र्याय नान्यथा
॥६४॥आपः पतिव्रता स्पर्शमभिलष्यंति सर्वदा ॥
अद्य जाड्यविनाशो नो जातास्त्वद्याऽन्यपावनाः
॥६५॥गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः ॥
परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता
॥६६॥भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ॥
भार्या धर्मफला भार्या सं तानवृद्धये
॥६७॥परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति
॥६८॥गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ॥
ग्रसतेऽन्या प्रतिपदं राक्षस्या जरयाथवा
॥६९॥यथा गंगाऽवगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रता दृष्ट्या शुभया पावनं भवेत्
॥७०॥अनुयाति न भर्तारं यदि दैवात्कथंचन ॥
तत्रापि शीलं संरक्ष्यं शीलभंगात्पतत्यधः
॥७१॥तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा ॥
तस्याः पिता च माता च भ्रातृवर्गस्तथैव च
॥७२॥पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित् ॥
सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते
॥७३॥विधवा कबरीबंधो भर्तृबंधाय जायते ॥
शिरसो वपनं तस्मात्कार्यं विधवया सदा
॥७४॥एकाहारः सदा कार्यो न द्वितीयं कदाचन ॥
त्रिरात्रं पंचरात्रं वा पक्षव्रतमथापि वा
॥७५॥मासोपवासं वा कुर्याच्चांद्रायणमथापि वा ॥
कृच्छ्रं वराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा
॥७६॥यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः ॥
प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत्
॥७७॥पर्यंकशायिनी नारी वि धवा पातयेत्पतिम् ॥
तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया
॥७८॥न चांगोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ॥
गंधद्रव्यस्य संयोगो नैव कार्यस्तया पुनः
॥७९॥तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ॥
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम
॥८०॥विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा ॥
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम्
॥८१॥यद्यदिष्टतमं लोके यच्च पत्युः समीहितम् ॥
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया
॥८२॥वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् ॥
स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः
॥८३॥वैशाखे जलकुंभांश्च कार्तिके घृतदीपकाः ॥
माघे धान्य तिलोत्सर्गः स्वर्गलोके विशिष्यते
॥८४॥प्रपा कार्या च वैशाखे देवे देया गलंतिका ॥
उपानद्व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम्
॥८५॥सकर्पूरं च तांबूलं पुष्पदानं तथैव च ॥
जलपात्राण्यनेकानि तथा पुष्प गृहाणि च
॥८६॥पानानि च विचित्राणि द्राक्षा रंभा फलानि च ॥
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति
॥८७॥ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः ॥
वृंताकं सूरणं चैव शूकशिंबिं च वर्जयेत्
॥८८॥कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु ॥
कार्तिके वर्जयेत्कांस्यं कार्तिके चापिसंधितम्
॥८९॥कार्तिके मौननियमे घंटां चारु प्रदापयेत ॥
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति
॥९०॥भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ॥
फलत्यागे फलं देयं रसत्यागे च तद्रसम्
॥९१॥धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ॥
धेनूर्दद्यात्प्रयत्नेन सालंकाराः सकांचनाः
॥९२॥एकतः सर्वदानानि दीपदानं तथैकतः ॥
कार्तिके दीपदानस्य कलां नार्हंति षोडशीम्
॥९३॥किंचिदभ्युदिते सूर्ये माघस्नानं समाचरेत् ॥
यथाशक्त्या च नियमान्माघस्नायी समाचरेत्
॥९४॥पक्वान्नैर्भो जयेद्विप्रान्यतिनोपि तपस्विनः ॥
लड्डुकैः फेणिकाभिश्च वटकेंडरिकादिभिः
॥९५॥घृतपक्वैः समीरचैः शुचिकर्पूरवासितैः ॥
गर्भे शर्करया पूर्णैर्नेत्रानं दैः सुगंधिभिः
॥९६॥शुष्केंधनानां भारांश्च दद्याच्छीतापनुत्तये ॥
कंचुकं तूलगर्भं च तूलिकां सूपवीतिकाम्
॥९७॥मंजिष्ठा रक्तवासांसि तथा तूलवतीं पटीम् ॥
जातीफल लवंगैश्च तांबूलानि बहून्यपि
॥९८॥कंबलानि विचित्राणि निर्वातानि गृहाणि च ॥
मृदुलाः पादरक्षाश्च सुगंध्युद्वर्त्तनानि च
॥९९॥घृतकंबलपूजाभिर्महास्नानपुरःसरम् ॥
कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः
॥१००॥स्थूलवर्तिप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ॥
भर्तृस्वरूपो भगवान्प्रीयतामिति चोच्चरेत्
॥१॥एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः ॥
वैशाखान्कार्तिकान्माघानेवमेवातिवाहयेत्
॥२॥नाधिरोहेदनड्वाहं प्राणैः कंठगतैरपि ॥
कंचुकं न परीदध्याद्वासो न विकृतं न्यसेत्
॥३॥अपृष्ट्वा तु सुतान्किंचिन्न कुर्याद्भर्तृतत्परा ॥
एवं चर्यापरा नित्यं विधवापि शुभा मता
॥४॥एवं धर्मसमायुक्ता विधवापि पतिव्रता ॥
पतिलोकानवाप्नोति नभवेत्क्वापि दुःखभाक्
॥५॥न गंगया तया भेदो या नारी पतिदेवता ॥
उमाशिवसमा साक्षात्त स्मात्तां पूजयेद्बुधः
॥६॥बृहस्पतिरुवाच
गंगास्नानफलं त्वेतद्यज्जातं तव दर्शनम् ॥
लोपामुद्रे महामातर्भर्तृपादांबुजेक्षणे
॥७॥इति स्तुत्वा महाभागां राजपुत्रीं पतिव्रताम् ॥
प्रणम्य च गुरुः प्राह मुनिं सर्वार्थकोविदः ॥
प्रणवस्त्वं श्रुतिरियं क्षमैषा त्वं स्वयं तपः ॥
सत्क्रियेयं फलं त्वं हि धन्योसीति महामुने
॥९॥इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् ॥
तत्राप्येतत्तपस्तेजः किमसाध्यतमं तव
॥११०॥तव नाविदितं किंचित्तथापि च वदाम्यहम् ॥
यदर्थमागता देवास्तन्मुनेत्र निशामय
॥११॥अयं शतमखः श्रीमान्वृत्रहा कुलिशायुधः ॥
सिद्ध्यष्टकं हि यद्द्वारि दृक्प्रसादं समीक्षते
॥१२॥यस्यपुर्याः परिसरे कामधेनु व्रजश्चरेत् ॥
यत्पौराः कल्पवृक्षाणां नित्यं छायासु शेरते
॥१३॥यद्रथ्यासु च तिष्ठंति ते चिंतामणिकर्कराः ॥
अयमग्निर्जगद्योनिर्धर्मराजस्त्वयं पुनः
॥१४॥निर्ऋतिर्वरुणोवायुःश्रीदरुद्रादयस्त्वमी ॥
आराध्यंते च चारित्रैः सर्वकामार्थ मीश्वराः
॥१५॥ममभ्यर्थयितारोमी त्वं याच्यस्तु जगत्कृते ॥
वाङ्मात्रोद्यमसाध्यं तत्तवविश्वोपकारकम् ।
कश्चिच्छैलो विंध्यनामा भानुमार्गावरोधकः ॥
वर्धितः स्पर्धया मेरोस्तद्वृद्धिं त्वं निवारय
॥१७॥ये च स्वभावकठिना ये च मार्गावरोधकाः ॥
ये स्पर्द्धया वृद्धिमंतस्तद्वृद्धिर्वर्धिताऽशुभा
॥१८॥इति श्रुत्वा गुरोर्वाक्यमविचार्य महामुनिः ॥
क्षणं मुनिःसमाधाय तथेति प्रत्युवाच ह
॥१९॥साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः ॥
पुनश्चिंतापरो भूत्वाऽगस्तिर्ध्यानपरोभवत्
॥१२०॥वेदव्यास उवाच
इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा ॥
पापकंचुकमुत्सृज्य शक्रलोकं प्रयास्यति
॥१२१॥इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थै काशीखंडे पूर्वार्द्धे पतिव्रताख्यानंनाम चतुर्थोऽध्यायः ॥ ४ ॥