किं चकार हरः स्कंद मंदराद्रिगतस्तदा
अगस्त्य उवाच
किं चकार हरः स्कंद मंदराद्रिगतस्तदा ॥
विलंबमालंबयति तस्मिन्नपि गजानने
॥१॥स्कंद उवाच
शृण्वगस्त्य कथां पुण्यां कथ्यमानां मयाधुना ॥
वाराणस्येकविषयामशेषाघौघनाशिनीम्
॥२॥करींद्रवदने तत्र क्षेत्रवर्येऽविमुक्तके ॥
विलंबभाजित्र्यक्षेण प्रैक्षिक्षिप्रमधोक्षजः
॥३॥प्रोक्तोथ बहुशश्चेति बहुमानपुरःसरम् ॥
तथा त्वमपि माकार्षीर्यथा प्राक्प्रस्थितैः कृतम्
॥४॥श्रीविष्णुरुवाच
उद्यमः प्राणिभिः कार्यो यथाबुद्धि बलाबलम् ॥
परं फलंति कर्माणि त्वदधीनानि शंकर
॥५॥अचेतनानि कर्माणि स्वतंत्राः प्राणिनोपि न ॥
त्वं च तत्कर्मणां साक्षी त्वं च प्राणिप्रवर्तकः
॥६॥किंतु त्वत्पादभक्तानां तादृशी जायते मतिः ॥
यया त्वमेव कथयेः साध्वनेनत्वनुष्ठितम्
॥७॥यत्किंचिदिह वै कर्मस्तोकं वाऽस्तोकमेव वा ॥
तत्सिद्ध्यत्येव गिरिश त्वत्पादस्मृत्यनुष्ठितम्
॥८॥सुसिद्धमपि वै कार्यं सुबुद्ध्यापि स्वनुष्ठितम् ॥
अत्वत्पदस्मृतिकृतं विनश्यत्येव तत्क्षणात्
॥९॥शंभुना प्रेषितेनाद्य सूद्यमः क्रियते मया ॥
त्वद्भक्तिसंपत्तिमतां संपन्नप्राय एव नः
॥१०॥अतीव यदसाध्यं स्यात्स्वबुद्धिबलपौरुषैः ॥
तत्कार्यं हि सुसिद्धं स्यात्त्वदनुध्यानतः शिव
॥११॥यांति प्रदक्षिणीकृत्य ये भवंतं भवं विभो ॥
भवंति तेषां कार्याणि पुरोभूतानि ते भयात्
॥१२॥जातं विद्धि महादेव कार्यमेतत्सुनिश्चितम् ॥
काशीप्रावेशिकश्चिंत्य शुभलग्नोदयः परम्
॥१३॥अथवा काशिसंप्राप्तौ न चिंत्यं हि शुभाशुभम् ॥
तदैव हि शुभः कालो यदैवाप्येत काशिका
॥१४॥शंभुं प्रदक्षिणीकृत्य प्रणम्य च पुनःपुनः ॥
प्रतस्थेऽथ सलक्ष्मीको मंदराद्गरुडध्वजः
॥१५॥दृशोरतिथितां नीत्वा विष्णुर्वाराणसीं ततः ॥
पुंडरीकाक्ष इत्याख्यां सफलीकृतवान्मुदा
॥१६॥गंगावरणयोर्विष्णुः संभेदे स्वच्छमानसः ॥
प्रक्षाल्य पाणिचरणं सचैलः स्नातवानथ
॥१७॥तदाप्रभृति तत्तीर्थं पादोदकमितीरितम् ॥
पादौ यदादौ शुभदौ क्षालितौ पीतवाससा
॥१८॥तत्र पादोदके तीर्थे ये स्नास्यंतीह मानवाः ॥
तेषां विनश्यति क्षिप्रं पापं सप्तभवार्जितम्
॥१९॥तत्र श्राद्धं नरः कृत्वा दत्त्वा चैव तिलोदकम् ॥
सप्तसप्त तथा सप्त स्ववंश्यांस्तारयिष्यति
॥२०॥गयायां यादृशी तृप्तिर्लभ्यते प्रपितामहैः ॥
तीर्थे पादोदके काश्यां तादृशी लभ्यते ध्रुवम्
॥२१॥कृतपादोदक स्नानं पीतपादोदकोदकम् ॥
दत्तपादोदपानीयं नरं न निरयः स्पृशेत्
॥२२॥विष्णुपादोदके तीर्थे प्राश्य पादोदकं सकृत् ॥
जातुचिज्जननीस्तन्यं न पिबेदिति निश्चितम्
॥२३॥सचक्र शालग्रामस्य शंखेन स्नापितस्य च ॥
अद्भिः पादोदकस्यांबु पिबन्नमृततां व्रजेत्
॥२४॥विष्णुपादोदके तीर्थे विष्णुपादोदकं पिबेत् ॥
यदि तत्सुधया किं नु बहुकालीनयातया
॥२५॥काश्यां पादोदके तीर्थे यैः कृता नोदकक्रियाः ॥
जन्मैव विफलं तेषां जलबुद्बुद सश्रियाम्
॥२६॥कृतनित्यक्रियो विष्णुः सलक्ष्मीकः सकाश्यपिः ॥
उपसंहृत्य तां मूर्तिं त्रैलोक्यव्यापिनीं तथा
॥२७॥विधाय दार्षदीं मूर्तिं स्वहस्तेनादिकेशवः ॥
स्वयं संपूजयामास सर्वसिद्धिसमृद्धिदाम्
॥२८॥आदिकेशवनाम्नीं तां श्रीमूर्तिं पारमेश्वरीम् ॥
संपूज्य मर्त्यो वैकुंठं मन्यते स्वगृहांगणम्
॥२९॥श्वेतद्वीप इति ख्यातं तत्स्थानं काशिसीमनि ॥
श्वेतद्वीपे वसंत्येव नरास्तन्मूर्तिसेवकाः
॥३०॥क्षीराब्धिसंज्ञं तत्रान्यत्तीर्थं केशवतोग्रतः ॥
कृतोदकक्रियस्तत्र वसेत्क्षीराब्धिरोधसि
॥३१॥तत्र श्राद्धं नरः कृत्वा गां दत्त्वा च पयस्विनीम् ॥
यथोक्तसर्वाभरणां क्षीरोदे वासयेत्पितॄन्
॥३२॥एकोत्तरशतं वंश्यान्नवेत्पायस कर्दमम् ॥
क्षीरोदरोधः पुण्यात्मा भक्त्या तत्रैकधेनुदः
॥३३॥बह्वीश्च नैचिकीर्दत्त्वा श्रद्धयात्र सदक्षिणाः ॥
शय्योत्तरांश्च प्रत्येकं पितॄंस्तत्र सुवासयेत्
॥३४॥क्षीरोदाद्दक्षिणे तत्र शंखतीर्थमनुत्तमम् ॥
तत्रापि संतर्प्यपितॄन्विष्णुलोकेमहीयते
॥३५॥तद्याम्यां चक्रतीर्थं च पितॄणामपि दुर्लभम् ॥
तत्रापि विहितश्राद्धो मुच्यते पैतृकादृणात्
॥३६॥तत्संन्निधौ गदातीर्थं विष्वगाधिनिबर्हणम् ॥
तारणं च पितॄणां वै कारणं चैनसां क्षये
॥३७॥पद्मतीर्थं तदग्रे तु तत्र स्नात्वा नरोत्तमः ॥
पितॄन्संतर्प्य विधिना पद्मयानेव हीयते
॥३८॥तत्रैव च महालक्ष्म्यास्तीर्थं त्रैलोक्यविश्रुतम् ॥
स्वयं यत्र महालक्ष्मीः स्नाता त्रैलोक्यहर्षदा
॥३९॥तत्र तीर्थे कृतस्नानो दत्त्वा रत्नानि कांचनम् ॥
पट्टांबराणि विप्रेभ्यो न लक्ष्म्या परिहीयते
॥४०॥यत्रयत्र हि जायेत तत्रतत्र समृद्धिमान् ॥
पितरोपि हि सुश्रीकास्तस्य स्युस्तीर्थगौरवात्
॥४१॥तत्रास्ति हि महालक्ष्म्या मूर्तिस्त्रैलोक्यवंदिता ॥
तां प्रणम्य नरो भक्त्या न रोगी जायते क्वचित्
॥४२॥नभस्य बहुलाष्टम्यां कृत्वा जागरणं निशि ॥
समभ्यर्च्य महालक्ष्मीं व्रती व्रतफलं लभेत्
॥४३॥तार्क्ष्य तीर्थं हि तत्रास्ति तार्क्ष्यकेशवसन्निधौ ॥
तत्र स्नात्वा नरो भक्त्या संसाराहिं न पश्यति
॥४४॥तदग्रे नारदं तीर्थं महापातकनाशनम् ॥
ब्रह्मविद्योपदेशं च प्राप्तवान्यत्र नारदः
॥४५॥तत्र स्नातो नरः सम्यग्ब्रह्मविद्यामवाप्नुयात् ॥
केशवात्तेन तत्रोक्तः काश्यां नारदकेशवः
॥४६॥अर्चयित्वा नरो भक्त्या देवं नारदकेशवम् ॥
जनन्या जठरं पीठमध्यास्ते न कदाचन
॥४७॥प्रह्लादतीर्थं तस्याग्रे यत्र प्रह्लादकेशवः ॥
तत्र श्राद्धादिकं कृत्वा विप्णुलोके महीयते
॥४८॥आंबरीषमहातीर्थमघघ्नं तस्य सन्निधौ ॥
तत्रौदकीं क्रियां कुर्वन्निष्कालुष्यं लभेन्नरः
॥४९॥आदित्यकेशवः पूज्य आदिकेशव पूर्वतः ॥
तस्य संदर्शनादेव मुच्यते चोच्चपातकैः
॥५०॥दत्तात्रेयेश्वरं तीर्थं तत्रैवादिगदाधरः ॥
पितॄन्संतर्प्य तत्रैव ज्ञानयोगमवाप्नुयात्
॥५१॥भृगुकेशवपूर्वेण तीर्थं वै भार्गवं परम् ॥
तत्र स्नातो नरः प्राज्ञो भवेद्भार्गववत्सुधीः
॥५२॥तत्र वामनतीर्थं च प्राच्यां वामनकेशवात् ॥
पूजयित्वा च तं विष्णुं वसेद्वामनसन्निधौ
॥५३॥नरनारायणं तीर्थं नरनारायणात्पुरः ॥
तत्र तीर्थे कृतस्नानो नरो नारायणो भवेत्
॥५४॥यज्ञवाराह तीर्थं च तदग्रे पापनाशनम् ॥
प्रतिमज्जनतस्तत्र राजसूय क्रतोः फलम्
॥५५॥विदारनारसिंहाख्यं तत्र तीर्थं सुनिर्मलम् ॥
स्नातो विदारयेत्तत्र पापं जन्मशतार्जितम्
॥५६॥गोपिगोविंद तीर्थं च गोपिगोविंदपूर्वतः ॥
स्नात्वा तत्र समभ्यर्च्य विष्णुं विष्णुप्रियो भवेत्
॥५७॥तीर्थं लक्ष्मीनृसिंहाख्यं गोपिगोविंद दक्षिणे ॥
न लक्ष्म्या त्यज्यते क्वापि तत्तीर्थं परिमज्जनात्
॥५८॥तदग्रे शेषतीर्थं च शेषमाधवसन्निधौ ॥
तर्पितानां पितॄणां च यत्र तृप्तिर्न शिष्यते
॥५९॥शंखमाधवतीर्थं च तदवाच्यां सुनिर्मलम् ॥
कृतोदको नरस्तत्र भवेत्पापोपि निर्मलः
॥६०॥तदग्रे च हयग्रीवं तीर्थं परमपावनम् ॥
तत्र स्नात्वा हयग्रीवं केशवं परिपूज्य च
॥६१॥पिंडं च तत्र निर्वाप्य हयग्रीवस्य सन्निधौ ॥
हायग्रीवीं श्रियं प्राप्य समुच्येत सपूर्वजः
॥६२॥स्कंद उवाच
प्रसंगतो मयैतानि तीर्थानि कथितानि ते ॥
भूमौ तिलांतरायां यत्तत्र तीर्थान्यनेशः
॥६३॥उद्दिष्टानां तु तीर्थानामेतेषां कलशोद्भव ॥
नाममात्रमपि श्रुत्वा निष्पापो जायते नरः ॥
इदानीं प्रस्तुतं विप्र शृणु वक्ष्यामि तेग्रतः ॥
वैकुंठनाथो यच्चक्रे शंखचक्रगदाधरः
॥६५॥तस्यां मूर्तौ समावेश्य कैशव्यामथ केशवः ॥
शंभोः कार्ये कृतमना अंशांशांशेन निर्गतः
॥६६॥अगस्त्य उवाच
अंशांशांशेन निश्चक्रे कुतो भोश्चक्रपाणिना ॥
क्व निर्गतं च हरिणा प्राप्य काशीं षडानन
॥६७॥स्कंद उवाच
सामस्त्येन यदर्थं न निर्गतं विष्णुना मुने ॥
ब्रुवे तत्कारणमिति क्षणमात्रं निशामय
॥६८॥संप्राप्य पुण्यसंभारैः प्राज्ञो वाराणसीं पुरीम् ॥
न त्यजेत्सर्वभावेन महालाभैरपीरितः
॥६९॥अतः प्रतिकृतिः स्वीया तत्र काश्यां मुरारिणा ॥
प्रतितस्थे कलशजस्तोकांशेन च निर्गतम्
॥७०॥किंचित्काश्या उदीच्यां च गत्वा देवेन चक्रिणा ॥
स्वस्थित्यै कल्पितं स्थानं धर्मक्षेत्रमितीरितम्
॥७१॥ततस्तु सौगतं रूपं शिश्राय श्रीपतिः स्वयम् ॥
अतीव सुंदरतरं त्रैलोक्यस्यापिमोहनम्
॥७२॥श्रीः परिव्राजिका जाता नितरां सुभगाकृतिः ॥
यामालोक्य जगत्सर्वं चित्रन्यस्तमिवास्थितम्
॥७३॥विश्वयोनिं जगद्धात्रीं न्यस्तहस्ताग्रपुस्तकाम् ॥
गरुत्मानपि तच्छिष्यो जातो लोकोत्तराकृतिः
॥७४॥अत्यद्भुत महाप्राज्ञो निःस्पृहः सर्ववस्तुषु ॥
गुरुशुश्रूषणपरो न्यस्तहस्ताग्रपुस्तकः
॥७५॥अपृच्छत्परमं धर्मं संसारविनिमोचकम् ॥
आचार्यवर्यं सौम्यास्यं प्रसन्नात्मानमुत्तमम्
॥७६॥धर्मार्थशास्त्रकुशलं ज्ञानविज्ञानशालिनम् ॥
सुस्वरं सुपदव्यक्ति सुस्निग्धमृदुभाषिणम्
॥७७॥स्तंभनोच्चाटनाकृष्टि वशीकर्मादिकोविदम् ॥
व्याख्यानसमयाकृष्ट पक्षिरोमांचकारिणम्
॥७८॥पीततद्गीतपीयूष मृगपूगैरुपासितम् ॥
महामोदभराक्रांत वातचांचल्यहारिणम्
॥७९॥वृक्षैरपि पतत्पुष्पच्छलैःकृतसमर्चनम् ॥
ततःप्रोवाच पुण्यात्मा पुण्यकीर्तिः स सौगतः
॥८०॥शिष्यं विनयकीर्तिं तं महाविनयभूषणम्
॥८१॥पुण्यकीर्तिरुवाच
त्वया विनयकीर्ते यो धर्मः पृष्टः सनातनः ॥
वक्ष्याम्यहमशेषेण शृणुष्व त्वं महामते
॥५२॥अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः ॥
स्वयं प्रादुर्भवेदेष स्वयमेव विलीयते
॥८३॥ब्रह्मादिस्तंबपर्यंतं यावद्देहनिबंधनम् ॥
आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता
॥८४॥यद्ब्रह्मविष्णुरुद्राद्यास्तथाख्या देहिनामिमाः ॥
आख्या यथास्मदादीनां पुण्यकीर्त्यादिरुच्यते
॥८५॥देहो यथा स्मदादीनां स्वकालेन विलीयते ॥
ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा
॥८६॥विचार्यमाणे देहेस्मिन्नकिंचिदधिकं क्वचित् ॥
आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम्
॥८७॥निजाहारपरीमाणं प्राप्य सर्वोपि देहभृत् ॥
सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम्
॥८८॥यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ॥
तृषितास्तु तथान्येपि न विशेषोल्पकोधिकः
॥८९॥संतु नार्यः सहस्राणि रूपलावण्यभूमयः ॥
परं निधुवने काले ह्येकैवेहोपयुज्यते
॥९०॥अश्वाः परः शताः संतु संत्वनेकेप्यनेकषाः ॥
अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः
॥९१॥पर्यंकशायिनां स्वापे सुखं यदुपपद्यते ॥
तदेव सौख्यं निद्रायामिह भूशायिनामपि
॥९२॥यथैव मरणाद्भीतिरस्मदादि वपुष्मताम् ॥
ब्रह्मादिकीटकांतानां तथा मरणतो भयम्
॥९३॥सर्वेतनुभृतस्तुल्या यदि बुद्ध्या विचार्यते ॥
इदं निश्चित्य केनापि नो हिंस्यः कोपि कुत्रचित्
॥९४॥धर्मो जीवदया तुल्यो न क्वापि जगतीतले ॥
तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः
॥९५॥एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ॥
घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत्
॥९६॥अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः ॥
तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः
॥९७॥न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे ॥
हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः
॥९८॥संति दानान्यनेकानि किं तैस्तुच्छ फलप्रदैः ॥
अभीति दानसदृशं परमेकमपीह न
॥९९॥इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ॥
विचार्य नानाशास्त्राणि शर्मणेत्र परत्र च
॥१००॥भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ॥
देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे
॥१॥अविचिंत्य प्रभावं हि मणिमंत्रौषधीबलम् ॥
तदभ्यस्यं प्रयत्नेन नानार्थोपार्जनाय वै
॥२॥अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ॥
परितः परिपूज्यानि किमन्यैरिह पूजितैः
॥३॥पंचकर्मेंद्रियाण्येव पंचबुद्धींद्रियाणि च ॥
मनोबुद्धिरिह प्रोक्तं द्वादशायतनं शुभम्
॥४॥इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ॥
सुखं स्वर्गः समाख्यातो दुःखं नरक एव हि
॥५॥सुखेषु भुज्यमानेषु यत्स्याद्देह विसजर्नम् ॥
अयमेव परो मोक्षो न मोक्षोऽन्यः क्वचित्पुनः
॥६॥वासनासहितक्लेश समुच्छेदे सति ध्रुवम् ॥
विज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः
॥७॥प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ॥
न हिंस्यात्सर्वभूतानि नान्या हिंसाप्रवर्तिका
॥८॥अग्नीषोमीयमिति या भ्रामिका साऽसतामिह ॥
न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका
॥९॥वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम ॥
दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलप्यते
॥११०॥इत्येवं धर्मजिज्ञासां पुण्यकीर्तौ प्रकुर्वति ॥
पारंपर्येण तच्छ्रुत्वा पौरा यात्रां प्रचक्रिरे
॥११॥परिव्राजिक याप्येवं समाकृष्टाः पुरांगनाः ॥
तया विजानकौमुद्या सर्वविद्याविदग्धया
॥१२॥ततस्तासां पुरस्तात्सा बौद्धधर्मानवीवदत् ॥
दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधनान
॥१३॥विज्ञानकौमुद्युवाच
आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ॥
तत्तथैवेह मंतव्यं मिथ्या नानात्वकल्पना
॥१४॥यावत्स्वस्थमिदं वर्ष्म यावन्नेंद्रियविक्लवः ॥
यावज्जरा च दूरेस्ति तावत्सौख्यं प्रसाधयेत्
॥१५॥अस्वास्थ्येंद्रियवैकल्ये वार्धके तु कुतः सुखम् ॥
शरीरमपि दातव्यमर्थिभ्योतः सुखेप्सुभिः
॥१६॥याचमानमनोवृत्ति प्रीणनेयस्य नो जनिः ॥
तेन भूर्भारवत्येषा समुद्रागद्रुमैर्नहि
॥१७॥सत्वरो गत्वरो देहः संचयाः सपरिक्षयाः ॥
इति विज्ञाय विज्ञाता देहे सौख्यं प्रसाधयेत्
॥१८॥श्व वायस कृमीणां च प्रतिभोज्यमिदं वपुः ॥
भस्मांतं तच्छरीरं च वेदे सत्यं प्रपद्यते
॥१९॥मुधा जातिविकल्पोयं लोकेषु परिकल्प्यते ॥
मानुष्ये सति सामान्ये कोधमः कोथ चोत्तमः
॥१२०॥ब्रह्मादि सृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ॥
तस्य स्रष्टुः सुतौ दक्ष मरीची चेति विश्रुतौ
॥२१॥मारीचिना कश्यपेन दक्षकन्याः सुलोचनाः ॥
धर्म्येण किल मार्गेण परिणीतास्त्रयोदश
॥२२॥अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः ॥
अयं गम्यस्त्वगम्योयं विचारः क्रियते मुधा
॥२३॥मुखबाहूरुपज्जातं चातुर्वर्ण्यमिहोदितम् ॥
कल्पनेयं कृता पूर्वैर्न घटेत विचारतः
॥२४॥एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ॥
चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः
॥२५॥वर्णावर्णविवेकोयं तस्मान्न प्रतिभासते ॥
अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित्
॥२६॥विज्ञानकौमुदीवाणीमित्याकर्ण्य पुरांगनाः ॥
भर्त्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम्
॥२७॥अभ्यस्याकर्षणीं विद्यां वशीकृतिमतीमपि ॥
पुरुषाः सफलीचक्रुः परदारेषु मोहिताः
॥२८॥अंतःपुरचरा नार्यस्तथा राजकुमारकाः ॥
पौराः पुरांगनाश्चापि सर्वे ताभ्यां विमोहिताः
॥२९॥वंध्यानां चापि वंध्यात्वं सा परिव्राजिकाहरत् ॥
तैस्तैश्च कार्मणोपायैरसौ भाग्यवतीः स्त्रियः
॥१३०॥सौभाग्यभाग्यसंपन्ना व्यधाद्विज्ञानकौमुदी ॥
कस्यैचिदंजनं दत्तं कस्यैचित्तिलकौषधम्
॥३१॥वशीकरणमंत्रैश्च तथा बह्व्योपि दीक्षिताः ॥
मंत्राञ्जपेयुः काश्चिच्च यंत्राण्यन्या लिखंति च
॥३२॥काश्चिज्जुह्वति कुंडाग्नौ नानाद्रव्याणि निश्चलाः ॥
एवं सर्वेषु पौरेषु निजधर्मेषु सर्वथा ॥
पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः
॥३३॥सिद्धयोकृष्टपच्याद्या नष्टा एनः प्रवेशनात् ॥
आसीत्कुंठितसामर्थ्यो नृपोपि स मनाङ्मनाक्
॥३४॥दूरस्थितोपि विघ्नेशो नृपं निर्विण्णमानसम् ॥
चकार राज्यकरणे ढुंढिराजो रिपुंजयम्
॥३५॥अजीगणद्दिवोदासोप्यष्टादश दिनावधिम् ॥
कदा गंता स वै विप्रो यो मां समुपदेक्ष्यति
॥३६॥इत्थमष्टादशे प्राप्ते दिवसे दिवसेश्वरे ॥
प्राप्ते मध्यं नभोभागं द्वारं प्राप्तो द्विजोत्तमः
॥३७॥स एव पुण्यकीर्त्याख्यो धर्मक्षेत्रादधोक्षजः ॥
द्विजवेषं समालंब्य समायातो नृपांतिकम्
॥३८॥द्वित्रैः पवित्रैर्बहुधा जयजीवेति वादिभिः ॥
समेतः स इतो विप्रो मूर्तिमानिव पावकः
॥३९॥विलोक्य तं समायातं दूरादुत्कंठितो नृपः ॥
मेने भवेद्गुरुरयं युक्तो मदुपदेशने
॥१४०॥अभिगम्य च तं राजा प्रणम्य च पुनःपुनः ॥
गृहीत स्वस्तिवचनो निनायांतःपुरं द्विजम्
॥४१॥मधुपर्केण विधिना तं संपूज्य जनाधिपः ॥
व्यपेताध्वश्रमं स्वस्थं प्रोल्लसन्मुखपंकजम्
॥४२॥निवेद्य खाद्यवस्तूनि कृतकृत्य क्रियाविधिम् ॥
परितृप्तं सुखासीनं पप्रच्छ ब्राह्मणं नृपः
॥४३॥राजोवाच
खिन्नोस्मि विप्रवर्याहं राज्यभारं समुद्वहन् ॥
खेदो नास्त्येव हि परं वैराग्यमिव जायते
॥४४॥किं करोमि क्व गच्छामि कथं मे निर्वृतिर्भवेत् ॥
पक्षद्वय्येव यातेति मम चिंतयतो द्विज
॥४५॥असीमं सुखसंतानं भुक्तं राज्यं मया द्विज ॥
परिक्षीणविपक्षं च त्र्यक्षैश्वर्यमिव स्फुटम्
॥४६॥स्वसामर्थ्यादहं जातः पर्जन्याग्न्यनिलात्मकः ॥
प्रजाश्च पालिताः सम्यक्पुत्रा इव निजौरसाः
॥४७॥तर्पिताश्चापि भूदेवा वसुभिश्च दिनेदिने ॥
एकमेवापराद्धं च मया राज्यं प्रशासता
॥४८॥देवास्तृणीकृताः सर्वे स्वतपोबलदर्पतः ॥
तच्च प्रजोपकारार्थं न स्वार्थं भवता शपे
॥४९॥अधुना गुरुरेधित्वं मम भाग्योदयागतः ॥
राज्यं तु प्रकरोम्येवं न्यक्कृतांतकसाध्वसम्
॥१५०॥अकालकालकलनं मम राज्ये न कुत्रचित् ॥
जराव्याधिदरिद्रेभ्यो ममराज्येपि नो भयम्
॥५१॥कोपि धर्मेतरां वृत्तिं न श्रयेन्मयि शासति ॥
धर्मोदयाजनाः सर्वे सर्वे संति सुखोदयाः
॥५२॥सद्विद्याव्यसनाः सर्वे सर्वेसन्मार्ग चंचुराः ॥
अथवा यदि कल्पांतं तिष्ठेदायुस्ततोपि किम्
॥५३॥सर्वे भोग्यास्तथा भांति यथा चर्वित चर्वणम् ॥
किं पिष्टपेषणेनात्र राज्येन द्विजपुंगव
॥५४॥किमप्युपदिश प्राज्ञ गर्भवासोपशांतये ॥
अथवा त्वां प्रपन्नस्य मम किं चिंतनैरिमः
॥५५॥यदेव कथयस्यद्य तत्करिष्याम्यसंशयम् ॥
त्वद्विलोकनमात्रेण सर्व एव मनोरथाः
॥५६॥अन्येषामपि जायंते जातप्राया ममैव तु ॥
जाने देवविरोधेन के के न प्रलयं गताः
॥५७॥अवंतोपि प्रजाः स्वीया निजधर्ममनुव्रताः ॥
पुरा ते त्रिपुराः शूराः शिवभक्तिपरा अपि
॥५८॥धरामयं रथं कृत्वा धनुः कृत्वा हिमाचलम् ॥
वेदांश्च वाजिनः कृत्वा गुणं कृत्वा च वासुकिम्
॥५९॥विरिंचिं सारथिं कृत्वा कृत्वा विष्णुं च पत्त्रिणम् ॥
रथचक्रे पुष्पवंतौ प्रतोदं प्रणवात्मकम्
॥१६०॥ताराग्रहमयान्कीलान्वरूथं गगनात्मकम् ॥
ध्वजदंडसुमेरुं च प्रांशुकल्पतरुं ध्वजम्
॥६१॥योक्त्राणि चक्षुःश्रवसश्छंदास्यंगानि रक्षकान् ॥
भल्लं कालाग्निरुद्राख्यं पुंखीकृत्य प्रभंजनम्
॥६२॥हरेणैकेषुपातेन लीलया भस्मसात्कृताः ॥
बलिर्यज्ञकृतां श्रेष्ठः कृत्वा कपटखर्वताम्
॥६३॥पातालं गमितः पूर्वं हरिणा विक्रमैस्त्रिभिः ॥
वृत्तवानपि वै वृत्रः सुत्राम्णा विनिसूदितः
॥६४॥दधीचिरपि विप्रेंद्रो देवैरस्थिकृते हतः ॥
पूर्ववैरमनुस्मृत्य जयार्थं युध्यतो हरेः ॥
कुशास्त्रैर्विजितस्याजौ तेनैव च दधीचिना
॥६५॥शिवभक्तस्य बाणस्य दोःसहस्रं पुरा हरिः ॥
चिच्छेद संख्ये किं तेनापराद्धं साधुवर्तिना
॥६६॥तस्माद्विरोधो भद्राय न भवेद्देवतैः सह ॥
देवेभ्यो मद्भयं नास्ति सत्पथीनस्य वै मनाक्
॥६७॥यज्ञैर्देवत्वमापन्ना गीर्वाणा वासवादयः ॥
यज्ञैर्दानैस्तपोभिश्च तेभ्योप्याधिक्यमस्ति मे
॥६८॥अस्तु न्यूनत्वमाधिक्यं किमनेनाधुना मम ॥
इंद्रियोपरमः प्राप्तः सुखदस्तवदर्शनात्
॥६९॥इदानीं दिश मे तात कर्मनिर्मूलनक्षमम् ॥
उपायं त्वमुपायज्ञ येन निर्वृतिमाप्नुयाम्
॥१७०॥स्कंद उवाच
गणेशावेशवशतो राज्ञेति यदुदीरितम् ॥
तदाकर्ण्य हृषीकेशः प्राह ब्राह्मणवेषभृत्
॥७१॥श्रीविष्णुरुवाच
साधुसाधु महाप्राज्ञ नृपचूडामणेऽनघ ॥
मया यदुपदेष्टव्यं तत्त्वयैव निरूपितम्
॥७२॥त्वमादावेव निर्वृत्तः परं मे मानदो ह्यसि ॥
क्षालितेंद्रियपंकश्च सुतपः स्वच्छवारिभिः
॥७३॥यदुक्तं भवता भूप तत्सर्वं तथ्यमेव हि ॥
तव शक्तिं च जानामि विरक्तिं च महामते
॥७४॥न भवत्सदृशो राजा भुवि भूतो भविष्यति ॥
राज्यं भोक्तुं त्वयाज्ञायि युक्तं यत्तु मुमुक्षसि
॥७५॥विरोधेपि हि देवानां त्वया नापकृतं क्वचित् ॥
धर्मेतरप्रवेशश्च तव राष्ट्रेपि नोभवत्
॥७६॥प्रवर्तिताभिर्भवता प्रजाभिर्यदनुष्ठितम् ॥
धर्मे धर्मं स्वधर्मज्ञ तेन तृप्ता दिवौकसः
॥७७॥एक एव हि ते दोषो हृदि मे प्रतिभासते ॥
काश्या विश्वेश्वरो दूरं यत्कृतो भवता किल
॥७८॥महांतमपराधं ते जाने भूजानि सत्तम ॥
इमं तत्पापशांत्यै च वच्म्युपायं महत्तरम्
॥७९॥संख्यास्ति यावती देहे देहिनो रोमसंभवा ॥
तावतोप्यपराधा वै यांति लिंग प्रतिष्ठया
॥१८०॥एकं प्रतिष्ठितं येन लिंगमत्रेशभक्तितः ॥
तेनात्मना समं विश्वं जगदेतत्प्रतिष्ठितम्
॥८१॥रत्नाकरे रत्नसंख्या संख्याविद्भिरपीष्यते ॥
लिंगप्रतिष्ठा पुण्यस्य न तु संख्येति लिख्यते
॥८२॥तस्मात्सर्वप्रयत्नेन कुरु लिंगं प्रतिष्ठितम् ॥
तया लिंग प्रतिष्ठित्या कृतकृत्यो भविष्यसि
॥८३॥इत्युक्त्वा ब्राह्मणो दध्यौ क्षणं निश्चलमानसः ॥
उवाच च प्रहृष्टास्यो राजानं पाणिना स्पृशन्
॥८४॥श्रीविष्णुरुवाच
अन्यच्च किंचित्पश्यामि भूपाल ज्ञानचक्षुषा ॥
शृणुष्वावहितो भूत्वा तदपि प्राज्ञसत्तम
॥८५॥धन्योसि कृतकृत्योसि मान्योसि महतामपि ॥
जप्यं च तव नामेह प्रातः शुभफलेप्सुना
॥८६॥दिवोदास त्वदभ्याशादपि धन्यतरा वयम् ॥
तेपि धन्यतरा मर्त्ये ये त्वदाख्यां प्रचक्षते
॥८७॥स्मायं स्मायं जगौ विप्रो मौलिमांदोलयन्मुहुः ॥
हृद्येव बहुशो हृष्टः संप्रहृष्टतनूरुहः
॥८८॥अहो भाग्योदयश्चास्य अहो नैर्मल्यमस्य वै ॥
यदेनमनिशं ध्यायेद्ध्येयो विश्वेश्वरोऽखिलैः
॥८९॥अहो उदर्क एतस्य न कैश्चित्प्रतिपद्यते ॥
अस्माकमपि यद्दूरमदवीयस्तदस्य यत्
॥१९०॥हृद्यालोच्येति विप्रोथ वर्णयित्वा क्षितीश्वरम् ॥
आविश्चकार तत्सर्वं यत्समाधावलोकयत्
॥९१॥ब्राह्मण उवाच
राजंस्तवाद्य फलितो मनोरथ महाद्रुमः ॥
अनेनैव शरीरेण त्वं गतासि परं पदम्
॥९२॥यथा विश्वेश्वरो नित्यं त्वामेव हृदि शीलयेत् ॥
तथास्मदादीनपि न द्विजांस्तत्पादलोचनान्
॥९३॥कृतलिंगप्रतिष्ठं त्वां सप्तमे ह्यद्य वासरात् ॥
दिव्यविमानमागत्य नेतुमेष्यति शांभवम्
॥९४॥राजंस्त्वं वेत्सि कस्यायं विपाकः सुकृतस्य ते ॥
वाराणस्याः पुरः सम्यक्सेवनादित्यवैम्यहम्
॥९५॥एकमप्यत्र यः पायाद्वाराणस्यां स्थितं जनम् ॥
तस्याप्येवं विपाकोस्ति देहांते राजसत्तम
॥९६॥इति श्रुत्वा स राजर्षिर्दिवोदासः प्रतापवान् ॥
ब्राह्मणाय सशिष्याय प्रादात्प्रीतोभिवांछितम्
॥९७॥अथ संप्रीणितं विप्रं प्रणम्य च मुहर्मुहुः ॥
प्रोवाच राजा संहृष्टस्तारितोस्मि भवार्णवात्
॥९८॥ब्राह्मणोपि प्रहृष्टात्मा परिपूर्णमनोरथः ॥
समापृच्छ्य महीनाथं स्वेष्टं देशं जगाम ह
॥९९॥विलोक्य काशीं परितो मायाद्विजवपुर्हरिः ॥
भूयोभूयो विचार्यापि किमत्रातीव पावनम्
॥२००॥स्थानं यच्चाहमध्यास्य निजभक्तानशेषतः ॥
नेष्यामि परमं धाम विश्वेशानुग्रहात्परात्
॥१॥संप्रधार्येति भगवान्दृष्ट्वा पांचनदं ह्रदम् ॥
तत्र कृत्वा विधिस्नानं ततस्तत्रैव संस्थितः
॥२॥प्रतीक्षमाणो लक्ष्मीशो मंक्षुत्र्यक्षसमागमम् ॥
तार्क्ष्यं प्रस्थापयांचक्रे राजवृत्तांतवेदिनम्
॥३॥दिवोदासोपि राजेंद्रो विप्रेंद्रं परिवर्णयन् ॥
आहूय प्रकृतीः सर्वाः सामात्यान्मंडलेश्वरान्
॥४॥अध्यक्षानपि सर्वांश्च कोशाश्वेभादिदेशितान् ॥
पुत्रान्पंचशतं प्राग्र्यं सुतं च समरंजयम्
॥५॥पुरोहितं प्रतीहारमृत्विजोगणकान्द्विजान् ॥
सामंतान्राजपुत्रांश्च सूपकारांश्चिकित्सकान्
॥६॥वैदेशिकानपि बहून्नानाकार्यसमागतान् ॥
सांतपुरां च महिषीं वृद्धगोपालबालकान्
॥७॥सर्वान्प्रोवाच हृष्टात्मा प्रबद्धकरसंपुटः ॥
यथा स ब्राह्मणः प्राह दिनसप्तावधि स्थितिम्
॥८॥आश्चर्यं तेषु शृण्वत्सु विषण्णवदनेषु च ॥
स्वयं राजगृहं नीत्वा कुमारं समरंजयम्
॥९॥अभिषिच्य महाबुद्धिः पौराञ्जानपदानपि ॥
प्रसादीकृत्य पुण्यात्मा पुनः काशीमगान्नृपः
॥२१०॥आगत्य काशीं मेधावी स भूपालो रिपुंजयः ॥
प्रासादं कारयामास स्वर्धुन्याः पश्चिमे तटे
॥११॥रिपून्प्रमथ्य समरे यावती श्रीरुपार्जिता ॥
तावत्या स हि भूपालः शिवालयमचीक्लृपत्
॥१२॥भूपाललक्ष्मीरखिला यत्तत्र विनियोजिता ॥
भूपालश्रीरिति ख्याता ततः साभूरभूच्छुभा
॥१३॥दिवोदासेश्वरं लिंगं प्रतिष्ठाप्य रिपुंजयः ॥
कृतकृत्यमिवात्मानममन्यत नरेश्वरः
॥१४॥अथैकस्मिन्दिने राजा तल्लिंगं विधिपूर्वकम् ॥
समभ्यर्च्य नमस्कृत्य यावत्तुष्टाव तुष्टिदम्
॥१५॥तावन्नभोंगणादाशु दिव्यं यानमवातरत् ॥
पार्षदैः परितः कीर्णं शूलखट्वांगपाणिभिः
॥१६॥अत्यादित्याग्नितेजोभिर्भालनेत्रैः कपर्दिभिः ॥
शुद्धस्फटिकसंकाशैरंगैर्दीप्तनभोंगणैः
॥१७॥विभूषाहि फणारत्न ज्योतिः पूजित विग्रहैः ॥
नित्यप्रकाशसंत्रस्त तमःश्रित शिरोधरैः
॥१८॥चामरव्यग्रहस्ताग्र रुद्रकन्याशतावृतम् ॥
अथ पारिषदै राजा दिव्यस्रगनुलेपनैः
॥१९॥दिव्यैर्दुकूलनेपथ्यैरलंचक्रे मुदान्वितैः ॥
त्रिनेत्रीकृतसद्भाल श्यामीकृतशिरोधरम्
॥२२०॥सुगौरीकृतसर्वांगं कपर्दीकृत मौलिजम् ॥
चतुर्भुजीकृततनुं भूषणीकृतपन्नगम्
॥२१॥चंद्रार्धीकृतमूर्धानं निन्युस्तं पार्षदा दिवम्
॥२२॥तदा प्रभृति तत्तीर्थं भूपालश्रीरिति श्रुतम् ॥
तत्र श्राद्धादिकं कृत्वा दानं दत्त्वा स्वशक्तितः
॥२३॥दिवोदासेश्वरं दृष्ट्वा समभ्यर्च्य च भक्तितः ॥
राज्ञश्चाख्यायिकां श्रुत्वा न नरो गर्भमाविशेत्
॥२४॥आख्यानमेतन्नृपतेर्दिवोदासस्य पावनम् ॥
पठित्वा पाठयित्वापि नरः पापैः प्रमुच्यते
॥२५॥दिवोदासशुभाख्यानं श्रुत्वा यः समरं विशेत् ॥
न जातु जायते तस्य भयं वैरिकृतं क्वचित्
॥२६॥दिवोदास कथा पुण्या महोत्पात निकृंतनी ॥
पठनीया प्रयत्नेन सर्वविघ्नोपशांतये
॥२७॥नावृष्टिर्जायते तत्र नाकालमरणाद्भयम् ॥
दैवोदासी कथा यत्र सर्वपातकनाशिनी
॥२८॥अस्याख्यानस्य पठनाद्विष्णोरिव मनोरथाः ॥
संपूर्णतां गमिष्यंति शंभोश्चिंतितकारिणः
॥२२९॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे दिवोदासनिर्वाणप्राप्तिर्नामाष्टपंचाशत्तमोऽध्यायः ॥ ५८ ॥