मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३६

3
काशीखण्डः · 36

पुनर्विशेषं वक्ष्यामि सदाचारस्य कुंभज

स्कंद उवाच

पुनर्विशेषं वक्ष्यामि सदाचारस्य कुंभज ॥

यं श्रुत्वापि नरो धीमान्नाज्ञानतिमिरं विशेत्

॥१॥

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः ॥

प्रथमं मातृतो जाता द्वितीयं चोपनायनात्

॥२॥

एषां क्रियानिषेकादि श्मशानांता च वैदिकी ॥

आदधीत सुधीर्गर्भमृतौमूलं मघां त्यजेत्

॥३॥

स्पंदनात्प्राक्पुंसवनं सीमंतोन्नयनं ततः ॥

मासि षष्ठेऽष्टमे वापि जातेथो जातकर्म च

॥४॥

नामाह्न्येकादशे गेहाच्चतुर्थेमासि निष्क्रमः ॥

मासेन्नप्राशनं षष्ठे चूडाब्दे वा यथाकुलम्

॥५॥

शममेनो व्रजेदेवं बैजं गर्भजमवे च ॥

स्त्रीणामेताः क्रियास्तूष्णीं पाणिग्राहस्तु मंत्रवान्

॥६॥

सप्तमेथाष्टमेवाब्दे सावित्रीं ब्राह्मणोर्हति ॥

नृपस्त्वेकादशे वैश्यो द्वादशे वा यथाकुलम्

॥७॥

ब्रह्मतेजोभिवृद्ध्यर्थं विप्रोब्देपंचमेर्हति ॥

षष्ठे बलार्थी नृपतिर्मौजीं वैश्योष्टमे ध्रियेत्

॥८॥

महाव्याहृतिपूर्वं च वेदमध्यापयेद्गुरुः ॥

उपनीय च तं शिष्यं शौचाचारे च योजयेत्

॥९॥

पूर्वोक्तविधिना शौचं कुर्यादाचमनं तथा ॥

दंताञ्जिह्वां विशोध्याथ कृत्वा मलविशोधनम्

॥१०॥

स्नात्वांबुदैवतैर्मंत्रैः प्राणानायम्य यत्नतः ॥

उपस्थानं रवेः कृत्वा संध्ययोरुभयोरपि

॥११॥

अग्निकार्यं ततः कृत्वा ब्राह्मणानभिवादयेत् ॥

ब्रुवन्नमुक गोत्रोहमभिवादय इत्यपि

॥१२॥

अभिवादनशीलस्य वृद्धसेवारतस्य च ॥

आयुर्यशोबलं बुद्धिर्वर्धतेऽहरहोधिकम्

॥१३॥

अधीते गुरुणा हूतः प्राप्तं तस्मै निवेदयेत् ॥

कर्मणा मनसा वाचा हितं तस्याचरेत्सदा

॥१४॥

अध्याप्याधर्मतोनार्थात्साध्वाप्तज्ञानवित्तदाः ॥

शक्ताः कृतज्ञाः शुचयोऽद्रोहकाश्चानसूयकाः

॥१५॥

धारयेन्मेखलादंडोपवीताजिनमेव च ॥

अनिंद्येषु चरेद्भैक्ष्यं ब्राह्मणेष्वात्मवृत्तये

॥१६॥

ब्राह्मणक्षत्रियविशामादिमध्यावसानतः ॥

भैक्ष्यचर्या क्रमेण स्याद्भवच्छब्दोपलक्षिता

॥१७॥

वाग्यतो गुर्वनुज्ञातो भुंजीतान्नमकुत्सयन् ॥

एकान्नं न समश्नीयाच्छ्राद्धेऽश्नीयात्तथापदि

॥१८॥

अनारोग्यमनायुष्यमस्वर्ग्यंचातिभोजनम् ॥

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत्

॥१९॥

न द्विर्भुंजीत चैकस्मिन्दिवा क्वापि द्विजोत्तमः ॥

सायंप्रातर्द्विजोऽश्नीयादग्निहोत्रविधानवित्

॥२०॥

मधुमांसं प्राणिहिंसां भास्करालोकनांजने ॥

स्त्रियं पर्युषितोच्छिष्टंपरिवादं विवजर्येत्

॥२१॥

औपनायनिकः कालो ब्रह्मक्षत्र विशां परः ॥

आ षोडशादाद्वाविंशादा चतुर्विंशदब्दतः

॥२२॥

इतोप्यूर्ध्वं न संस्कार्याः पतिता धर्मवर्जिताः ॥

व्रात्यस्तोमेन यज्ञेन तत्पातित्यं परिव्रजेत्

॥२३॥

सावित्रीपतितैः सार्धं संबंधं न समाचरेत् ॥

ऐणं च रौरवं वास्तं क्रमाच्चर्म द्विजन्मनाम्

॥२४॥

वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च ॥

द्विजस्य मेखला मौंजी मौर्वी च भुजजन्मनः ॥

भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी

॥२५॥

मुंजाभावे विधातव्या कुशाश्मंतकबल्वजैः ॥

ग्रंथिनैकेन संयुक्ता त्रिभिः पंचभिरेव वा

॥२६॥

उपवीतक्रमेण स्यात्कार्पासं शाणमाविकम् ॥

त्रिवृदूर्ध्ववृतं तच्च भवेदायुर्विवृद्धये

॥२७॥

बिल्वपालाशयोर्दंडो ब्राह्मणस्य नृपस्य तु ॥

न्यग्रोधबालदलयोः पीलूदुंबरयोर्विशः

॥२८॥

आमौलिं वाऽऽललाटंवाऽऽनासमूर्ध्वप्रमाणतः ॥

ब्रह्मक्षत्रविशां दंडस्त्वगाढ्योनाग्निदूषितः

॥२९॥

प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् ॥

दंडाजिनोपवीताढ्यश्चरेद्भैक्ष्यं यथोदितम्

॥३०॥

मातृमातृष्वसृस्वसृपितृस्वसृपुरःसराः ॥

प्रथमं भिक्षणीयाः स्युरेतायाचन नो वदेत्

॥३१॥

यावद्वेदमधीते च चरन्वेदव्रतानि च ॥

ब्रह्मचारी भवेत्तावदूर्ध्वं स्नातो गृही भवेत्

॥३२॥

प्रोक्तोसावुपकुर्वाणो द्वितीयस्तत्र नैष्ठिकः ॥

तिष्ठेत्तावद्गुरुकुले यावत्स्यादायुषः क्षयः

॥३३॥

गृहाश्रमं समाश्रित्य यः पुनर्ब्रह्मचर्यभाक् ॥

नासौ यतिर्वनस्थो वा स्यात्सर्वाश्रमवर्जितः

॥३४॥

अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ॥

आश्रमं तु विना तिष्ठन्प्रायश्चित्ती यतो हि सः

॥३५॥

जपं होमं व्रतं दानं स्वाध्यायं पितृतर्पणम् ॥

कुर्वाणोथाश्रमभ्रष्टो नासौ तत्फलमाप्नुयात्

॥३६॥

मेखलाजिनदंडाश्च लिंगं स्याद्ब्रह्मचारिणः ॥

गृहिणो वेदयज्ञादि नखलोमवनस्थितेः

॥३७॥

त्रिदंडादि यतेरुक्तमुपलक्षणमत्र वै ॥

एतल्लक्षणहीनस्तु प्रायश्चित्ती दिने दिने

॥३८॥

जीर्णं कमंडलुं दंडमुपवीताजिने अपि ॥

अप्स्वेव तानि निक्षिप्य गृह्णीतान्यच्च मंत्रवत्

॥३९॥

विदध्यात्षोडशे वर्षे केशांतकर्म च क्रमात् ॥

द्वाविंशे च चतुर्विंशे गार्हस्थ्य प्रतिपत्तये

॥४०॥

तपो यज्ञ व्रतेभ्यश्च सर्वस्माच्छुभकर्मणः ॥

द्विजातीनां श्रुतिर्ह्येका हेतुर्निश्रेयस श्रियः

॥४१॥

वेदारंभे विसर्गे च विदध्यात्प्रणवं सदा ॥

अफलोऽनोंकृतो यस्मात्पठितोपि न सिद्धये

॥४२॥

वेदस्य वदनं प्रोक्तं गायत्री त्रिपदा परा ॥

तिसृभिः प्रणवाद्याभिर्महाव्याहृतिभिः सह

॥४३॥

सहस्रं साधिकं किंचित्त्रिकमैतज्जपन्यमी ॥

मासं बहिः प्रतिदिनं महाघादपि मुच्यते

॥४४॥

अत्यब्दमिति योभ्यस्येत्प्रतिघस्रमनन्यधीः ॥

स व्योममूर्तिः शुद्धात्मा परं ब्रह्माधिगच्छति

॥४५॥

त्रिवर्णमयमोंकारं भूर्भुवःस्वरिति त्रयम् ॥

पादत्रयं च सावित्र्यास्त्रयोवेदा अदूदुहन्

॥४६॥

एतदक्षरमेनां च जपेद्व्याहृतिपूर्विकाम् ॥

संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते

॥४७॥

विधिक्रतोर्दशगुणं जपस्यफलमश्नुते ॥

विधिक्रतोर्दशगुणो जपक्रतुरुदीरितः

॥४८॥

उपांशुस्तच्छतगुणः सहस्रो मानसस्ततः

॥४९॥

अधीत्यवेदान्वेदौ वा वेदं वा शक्तितो द्विजः ॥

सुवर्णपूर्ण धरणी दानस्य फलमश्नुते

॥५०॥

श्रुतिमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः ॥

श्रुत्यभ्यासो हि विप्रस्य परमं तप उच्यते

॥५१॥

हित्वा श्रुतेरध्ययनं योन्यत्पठितुमिच्छति ॥

स दोग्ध्रीं धेनुमुत्सृज्य ग्रामक्रोडीं दुधुक्षति

॥५२॥

उपनीय च वै शिष्यं वेदमध्यापयेद्द्विजः ॥

सकल्पं सरहस्यं च तमाचार्यं विदु्र्बुधाः

॥५३॥

योध्यापयेदेकदेशं श्रुतेरंगान्यथापि वा ॥

वृत्त्यर्थं स उपाध्यायो विद्वद्भिः परिगीयते

॥५४॥

यथाविधि निषेकादि यः कर्म कुरुते द्विजः ॥

संभावयेत्तथान्नेन गुरुः स इह कीर्त्यते

॥५९॥

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ॥

यः करोति वृतो यस्य स तस्यर्त्त्विगिहोच्यते

॥५६॥

उपाध्यायाद्दशाचार्य आचार्यात्तु शतं पिता ॥

सहस्रं तु पितुर्माता गौरवेणातिरिच्यते

॥५७॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं बाहुजानां तु वीर्यतः ॥

वैश्यानां धान्यधनतः पज्जातानां तु जन्मतः

॥५८॥

यथा दारुमयो हस्ती यथा कृत्तिमयो मृगः ॥

तथा विप्रोऽनधीयानस्त्रयोऽमी नामधारिणः

॥५९॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ॥

स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत्

॥६०॥

स्वधर्मनिरतानां च वेदयज्ञक्रियावताम् ॥

ब्रह्मचारी चरेद्भैक्ष्यं वेश्मसुप्रयतोऽन्वहम्

॥६१॥

अकृत्वा भैक्ष्यचरणमसमिध्य हुताशनम् ॥

अनातुरः सप्तरात्रमवकीर्णि व्रतं चरेत्

॥६२॥

यथेष्टचेष्टो नभवेद्गुरोर्नयनगोचरे ॥

न नामपरिगृह्णीयात्परोक्षेप्यविशेषणम्

॥६३॥

गुरुनिंदाभवेद्यत्र परिवादस्तु यत्र च ॥

श्रुती पिधाय वास्थेयं यातव्यं वा ततोन्यतः

॥६४॥

खरो गुरोः परीवादाच्छ्वा भवेद्गुरुनिंदकः ॥

मत्सरी क्षुद्रकीटःस्यात्परिभोक्ता भवेत्कृमिः

॥६५॥

नाभिवाद्या गुरोः पत्नी स्पृष्ट्वांघ्री युवती सती ॥

क्वापि विंशतिवर्षेण ज्ञातृणा गुणदोषयोः

॥६६॥

स्वभावश्चंचलः स्त्रीणां दोषः पुंसामतः स्मृतः ॥

प्रमदासु प्रमाद्यंति क्वचिन्नैव विपश्चितः

॥६७॥

विद्वांसमप्यविद्वांसं यतस्ताधर्षयंत्यलम् ॥

स्ववशं वापि कुर्वंति सूत्रबद्धशकुंतवत्

॥६८॥

न मात्रा न दुहित्रा वा न स्वस्रैकांतशीलता ॥

बलवंतीद्रियाण्यत्र मोहयंत्यपि कोविदान्

॥६९॥

प्रयत्नेन खनन्यद्वद्भूमेर्वार्यधिगच्छति ॥

शुश्रूषया गुरोस्तद्वद्विद्या शिष्योधिगच्छति

॥७०॥

शयानमभ्युदयते ब्रध्नश्चेद्ब्रह्मचारिणम् ॥

प्रमादादथ निम्लोचेज्जपन्नपवसेद्दिनम्

॥७१॥

सुतस्य संभवे क्लेशं सहेते पितरौ च यत् ॥

शक्या वर्षशतेनापि नो कर्तुं तस्य निष्कृतिः

॥७२॥

अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ॥

त्रिषु तेषु सुतुष्टेषु तपः सर्वं समाप्यते

॥७३॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ॥

तानतिक्रम्य यः कुर्यात्तन्नसिद्ध्येत्कदाचन

॥७४॥

त्रीनेवामून्समाराध्य त्रीँल्लोकान्स जयेत्सुधीः ॥

देववद्दिवि दीव्येत तेषां तोषं विवर्धयन्

॥७५॥

भूर्लोकं जननी भक्त्या भुवर्लोकं तथा पितुः ॥

गुरोः शुश्रूषणात्तद्वत्स्वर्लोकं च जयेत्कृती

॥७६॥

एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ॥

यदेतेषां हि संतोष उपधर्मोन्य उच्यते

॥७७॥

अधीत्य वेदान्वेदौ वा वेदं वापि क्रमाद्द्विजः ॥

अप्रस्खलद्ब्रह्मचर्यो गृहाश्रममथाश्रयेत्

॥७८॥

अविप्लुत ब्रह्मचर्यो विश्वेशानुग्रहाद्भवेत् ॥

अनुग्रहश्च वैश्वेशः काशीप्राप्तिकरः परः

॥७९॥

काशीप्राप्त्या भवेज्ज्ञानं ज्ञानान्निर्वाणमृच्छति ॥

निर्वाणार्थं प्रयत्नो हि सदाचारस्य धीमताम्

॥८०॥

सदाचारो गृहे यद्वन्न तथास्त्याश्रमांतरे ॥

विद्याजातं पठित्वांते गृहस्थाश्रममाश्रयेत्

॥८१॥

गृहाश्रमात्परं नास्ति यदि पत्नीवशंवदा ॥

आनुकूल्यं हि दंपत्योस्त्रिवर्गोदय हेतवे

॥८२॥

आनुकूल्यं कलत्रं चेत्त्रिदिवेनापि किं ततः ॥

प्रातिकूल्यं कलत्रं चेन्नरकेणापि किं ततः

॥८३॥

गृहाश्रमः सुखार्थाय भार्यामूलं च तत्सुखम् ॥

सा च भार्या विनीताया त्रिवर्गो विनयो धुवम्

॥८४॥

जलौकयोपमीयंते प्रमदा मंदबुद्धिभिः ॥

मृगीदृशां जलौकानां विचारान्महदतंरम्

॥८५॥

जलौका केवलं रक्तमाददाना तपस्विनी ॥

प्रमदा सर्वदा दत्ते चित्तं वित्तं बलं सुखम्

॥८६॥

दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा ॥

गुणैरमीभिः संयुक्ता सा श्रीः स्त्रीरूपधारिणी

॥८७॥

गुरोरनुज्ञया स्नात्वा व्रतं वेदं समाप्य च ॥

उद्वहेत ततो भार्यां सवर्णां साधुलक्षणाम्

॥८८॥

जने तु रसगोत्राया मातुर्याप्यसपिंडका ॥

दारकर्मणि योग्या सा द्विजानां धर्मवृद्धये

॥८९॥

स्त्रीसंबंधेप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् ॥

अभिशस्तिसमायुक्तं तथा कन्याप्रसूं त्यजेत्

॥९०॥

रोगहीनां भ्रातृमतीं स्वस्मात्किंचिल्लघीयसीम् ॥

उद्वहेत द्विजो भार्यां सौम्यास्यां मृदुभाषिणीम्

॥९१॥

न पर्वतर्क्षवृक्षाह्वां न नदीसर्पनामिकाम् ॥

न पक्ष्यहिप्रेष्यनाम्नीं सौम्याख्यामुद्वहेत्सुधीः

॥९२॥

न चातिरिक्तहीनांगीं नातिदीर्घां न वा कृशाम् ॥

नालोमिकां नातिलोमां नास्निग्धस्थूलमौलिजाम्

॥९३॥

मोहात्समुपयच्छेत कुलहीनां न कन्यकाम् ॥

हीनोपयमनाद्याति संतानमपि हीनताम्

॥९४॥

लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत् ॥

सुलक्षणा सदाचारा पत्युरायुर्विवर्धयेत्

॥९५॥

ब्रह्मचारि समाचार इति ते समुदी रितः ॥

घटोद्भव प्रसंगेन स्त्रीलक्षणमथ ब्रुवे

॥९६॥

इति श्री स्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥